भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 3.3

3.3.1

।.. ।.. यस्य भुक्तं विपच्यते ।
भुञ्जानस्यापि चान्नानि बलं वर्णश् च हीयते ॥

3.3.2

अल्पं लघ्वपि यच्चान्नं भुक्तं दुःखेन जीर्यति ।
नाप्नोति बलवर्णौ च दुर्बलाग्निः स उच्यते ॥

3.3.3

कदाचित्पच्यते भुक्तं कदाचिन्न विपच्यते ।
गुरु वा लघु वा यस्य विषमाग्निः स उच्यते ॥

3.3.4

मितं पच्येत यस्यान्नमतिभुक्तं न पच्यते ।
समाग्निं तं नरं विद्यात् समपित्तकफानिलम् ॥

3.3.5

नरो भवति तीक्ष्णाग्निः प्रकृत्या वातपैत्तिकः ।
वातिको विषमाग्निश्च, मन्दाग्निश् च कफान् नरः ॥

3.3.6

यस्य हीनाधिकस् त्व् अग्निः क्षिप्रं देहं स मुञ्चति ।
समाग्निश् च समात्मा यः स दीर्घायुष्ट्वमृच्छति ॥

3.3.7

गव्यमाहिषवाराहैः कुलीरैर्मत्स्यकर्कटैः ।
मांसैस्सपललैः स्निग्धैरत्यग्निं प्रतिभोजयेत् ॥

3.3.8

गोधानिष्क्वथिते क्षीरे सिद्धं भुञ्जीत पायसम् ।
पिबेद्दधि ससर्पिष्कं माषसूपेन मिश्रितम् ॥

3.3.9

तथा पललसम्मिश्रं कच्छपाण्डरसं पिबेत् ।
गुडं च तैलसम्मिश्रं कुर्याद् अन्यच् च तद्धितम् ॥

3.3.10

स्निग्धस्य विषमाग्नेस् तु वमनादीनि कारयेत् ।
ग्रहणीदूषणीयोक्तं मन्दाग्नेस् तु चिकित्सितम् ॥

3.3.11

अन्तरौषधपानानि बहिर्लेपे च या क्रिया ।
शस्त्रकर्मविधानं च भेषजं त्रिविधं स्मृतम् ॥

3.3.12

मधुरो ऽ म्लः कटुश् चैव पक्तिमार्गास्त्रयः स्मृताः ।
कटुर् भवति पक्वस्य पच्यमानस्य चेतरौ ॥

3.3.13

इहान्नपानं भोज्यं च मधुराम्लं प्रचक्षते ।
वातजेषु विकारेषु यदा वा तैर्न शाम्यति ॥

3.3.14

दद्यादथास्मै स्निग्धाय भिषक् स्नेहविरेचनम् ।
वस्तिभिर् वा चिकित्सेत ह्यधोभागे च मारुतः ॥

3.3.15

तथा च तिक्तमधुरं पानमन्नं प्रदापयेत् ।
पैत्तिकेषु विकारेषु यदि वातन्न शाम्यति ॥

3.3.16

तस्य स्निग्धस्य वमनं शिरसश् च विरेचनम् ।
कुर्याद् यथाबलं श्लेष्मा ह्यूर्ध्वभागप्रकीर्तितः ॥

3.3.17

शकृन्मूत्रानिलाश् चैव रक्तमांसादयश् च षट् ।
विद्यान्निबन्धनानीति तानि देहेषु देहिनाम् ॥

3.3.18

बलं वयः शरीरं च प्रत्येकं त्रिविधं स्मृतम् ।
उत्तमाधममध्यं तु भेदेनाथ निशामयेत् ॥

3.3.19

आहारश् च विहारश् च सेव्यमानौ क्रमेण तु ।
कालेन प्रकृतिं यातस् तद् आहुः सात्म्यलक्षणम् ॥
इत्य् आह भगवान् आत्रेयः । इति भेले विमाने तृतीयो ऽ ध्यायः ॥ ॥ चतुर्थो ऽ ध्यायः ॥ अथातो रोगप्रकृतिविनिश्चयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc