भेलसंहिता · अध्याय 3.1
शरीरं धारयन्तीह षड्रसाः सममाहृताः ।
अतो ऽ न्यथा विकारांस् तु जनयन्ति शरीरिणाम् ॥
रूक्षो लघुः स्थिरश्शीतः कषायस्तिक्त एव च ।
तीक्ष्णोष्णावम्ललवणौ कटुर्वापि विकाश्यथ ॥
शीतः स्निग्धो गुरुर्बल्यः पिच्छिलो मधुरो रसः ।
कषायतिक्तकटुकः शीतो रूक्षो ऽ निलः स्मृतः ॥
रूक्षोष्णमम्लं पित्तन्तु कटुकं च प्रचक्षते ।
श्लेष्मा तु मधुरः स्निग्धः शीतो मन्दः स्थिरो गुरुः ॥
इत्य् एतान् रसदोषाणां सहोत्पन्नान् गुणान्विदुः ।
तत्र वायुगुणैस्तुल्यान् कषायकटुतिक्तकान् ॥
कट्वम्ललवणैस्तुल्यांस् तथा पित्तगुणान्विदुः ।
मधुरं लवणाम्लौ च विद्यात् कफसमान् रसान् ॥
तस्माद् अभ्यस्यमानैस् तैः श्लेष्मा देहे प्रवर्धते ।
अत्रैकत्र कृतो राशिर्द्विर्महत्वमिहर्च्छति ॥
गुणसाम्याद्विवर्धन्ते यथास्वं धातवो नृणाम् ।
रसैस् तद्विपरीतैश् च यान्त्येते क्षयमाहृतैः ॥
यथोदकं समासाद्य शान्तिं गच्छति पावकः ।
कषायतिक्तकटुकै रूक्षो रूक्षैर्विवर्धते ॥
मारुतः स्निग्धभावैश् च ततो ऽ न्यैर् उपशाम्यति ।
कट्वम्ललवणैः पित्तमुष्णमुष्णैर्विवर्धते ॥
शीतैश्शाम्यति शेषैस् तु गुणानां हि विशेषतः ।
स्निग्धः स्निग्धैः कफश् चापि वर्धते मधुरादिभिः ॥
रसैः शाम्यति रूक्षैश् च कषायकटुतिक्तकैः ।
एकैकमेकसामान्याद्वर्धयन्ति त्रयस्त्रयः ॥
घ्नन्ति चान्यगुणत्वेन रसा दोषं शरीरिणाम् ।
न वायुस्सह तैलेन स्नेहौष्ण्याद्व्यपलीयते ॥
शीतत्वान्मधुरत्वाच् च न पित्तं सह सर्पिषा ।
रौक्ष्यात् कषायभावाच् च स्निग्धो मधुर एव च ॥
न श्लेष्मा मधुना सार्धं देहे पर्यवतिष्ठते ।
आनूपमांसजा वापि वसा मज्जान एव च ॥
तैलवन्मारुतं घ्नन्ति स्नेहौष्ण्यगुरुभावतः ।
शाकादविष्किराणां च रसा मज्जान एव च ॥
घृतवद् घ्नन्ति ते पित्तं शीतमाधुर्यभावतः ।
कषायतिक्तकटुकं यच् च किञ्चिदिहौषधम् ॥
मधुरं तत्कफं हन्ति गुणान्यत्वेन देहिनाम् ।
अथ नात्युपयुञ्जीत पिप्पलीं क्षारम् एव च ॥
लवणं चैव, बह्वेतद् भुक्तं दोषाय कल्पते ।
श्लेष्माणं च्यावयित्वा तु नोत्सहेतापकर्षितुम् ॥
पिप्पली पाकमधुरा तस्मात् तां नातिभक्षयेत् ।
अत्याहृता पचेद्देहं तीक्ष्णोष्णकटुभावतः ॥
क्षारं च लवणं चैव भोक्तुं नेहेत केवलम् ।
मात्रावदुष्णं स्निग्धं च सात्म्यं स्वादु च भोजनम् ॥
अविदाहि च यत् पाके जीर्णे तदुपयोजयेत् ।
बलवर्णकरं स्निग्धमुष्णं श्लेष्मानिलापहम् ॥
विदह्यते न मात्रा च सात्म्यतां च करोत्यथ ।
स्वादु पुष्टिकरं जन्तोरविदाहि प्रसादनम् ॥
नृणामायुष्करं चैव जीर्णे भोजनमिष्यते ।
न जल्पन्न हसंश् चापि न द्रुतं न विलम्बितम् ॥
भुञ्जीताभ्यादृतः स्निग्धं देहे निर्वर्तते रसः ।
यथेह वोद्यतो वह्निः प्रवर्तेत सुदारुणि ॥
पच्यमाने तथा भुक्ते रसादिरुपचीयते ।
जीवयन्ति परं वर्षा हेमन्तः पाययत्य् अपि ॥
ग्रीष्मः पचति चाप्य् एनं परिणाम इवापरः ।
भृशमौष्ण्यात् कटुर्ग्रीष्मः सर्वधातुविशोषणः ॥
धैर्यस्थैर्यकरं शीतं, वर्षामद्यब.... ।
।....... ॥ इत्य् आह भगवान् आत्रेयः ॥ ।तृतीयो ऽ ध्यायः ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0