भेलसंहिता · अध्याय 2.8
वातात्पित्तात्कफाच्चैव सन्निपातात्तथैव च ।
अपस्मारा भवन्तीह तेषां वक्ष्यामि लक्षणम् ॥
यस्सदा वातलो जन्तुर्वातलं भजते ऽ शनम् ।
व्यायामं सेवते चापि तस्य वातः प्रकुप्यति ॥
स वृद्ध ऊर्ध्वं हृदयाद् गृहीत्वा धमनीर्दश ।
रुद्ध्वा चेतोवहं मार्गं संज्ञां भ्रंशयते ततः ॥
स भ्रष्टसंज्ञः पतति दन्तान्कटकटायते ।
उत्फालयति नेत्रे च भ्रुवौ प्रक्षिपते तथा ॥
स चेत्प्रत्यागतो ब्रूयात् तमसः परतो गतः ।
प्रतिभाति च मे कृष्णा जगती खण्डशस् तथा ॥
तदोर्ध्वमेवं हृदयं वायुर्वर्चोपधावति ।
इत्य् एतैर्लक्षणैर्विद्यादपस्मारं तु वातजम् ॥
यस्सदा पित्तलो जन्तुः पित्तलं भजते ऽ शनम् ।
अग्न्यातपौ सेवते च तस्य पित्तं प्रवर्धते ॥
तद् वृद्धमूर्ध्वं हृदयाद् गृहीत्वा धमनीर्दश ।
रुद्ध्वा चेतोवहं मार्गं संज्ञां भ्रंशयते ततः ॥
स भ्रष्टसंज्ञः पतति दन्तान्कटकटायते ।
उत्फालयति नेत्रे च भ्रुवावुत्क्षिपते तथा ॥
स चेत्प्रत्यागतो ब्रूयात् तमसः परतो गतः ।
प्रतिभाति च मे शुक्ला जगती खण्डशस् तथा ॥
तदोर्ध्वमेवं हृदयं कफो वर्चोपधावति ।
इत्य् एतैर्लक्षणैर्विद्यादपस्मारं कफात्मकम् ॥
यस् त्व् एतत् सर्वमश्नाति यथोक्तं दोषकोपनम् ।
सन्निपातादपस्मारं सर्वलिङ्गं स ऋच्छति ॥
एवं रसैरिहापथ्यैर्विवृद्धेष्व् अनिलादिषु ।
ना ऽ पस्मारयते प्राणी न सत्वैर् उपहन्यते ॥
यदा यदाभिवर्धन्ते दोषाः पर्वस्विवोदधिः ।
तदा तदापस्मरति नैष क्लिश्यति सन्ततम् ॥
ज्वरस्य शोषगुल्मानां कासिनामथ कुष्ठिनाम् ।
प्रमेहोन्मादिनां चैव तथापस्मारिणाम् अपि ॥
इत्य् अष्टौ वै प्रदिष्टानि निदानानि शरीरिणाम् ।
विमानानि प्रवक्ष्यामि यथावदनुपूर्वशः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले अष्टमो ऽ ध्यायः ॥ इति भेलसंहितायां निदानस्थानं समाप्तम् ॥ ॥ विमानस्थानम् ॥ ।
।प्रथमो ऽ ध्यायः ॥ अथातो रसविमानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0