भेलसंहिता · अध्याय 2.7
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजते ऽ शनम् ।
सेवते च दिवास्वप्नं तस्य श्लेष्मा प्रवर्धते ॥
स वृद्ध ऊर्ध्वं हृदयाद् गृहीत्वा धमनीर्दश ।
रुद्ध्वा चेतोवहं मार्गं संज्ञां भ्रंशयते ततः ॥
स भ्रष्टसंज्ञः पुरुषस्तानि तानि विचेष्टते ।
गायन्नृत्यति चैकत्र हसत्यथ च रोदिति ॥
एकत्रास्ते विना लोकं शेते चापि जडो यथा ।
जनं भीषयते चापि श्लेष्मोन्मादी पुमानिह ॥
यस् त्व् एतत् सर्वमश्नाति यथोक्तं दोषकोपनम् ।
सन्निपातात्तथोन्मादं सर्वलिङ्गं स ऋच्छति ॥
स यदा धननाशेन मरणेन प्रियस्य वा ।
अथ चिन्तयते, तस्य संज्ञा भ्रश्यति चिन्तया ॥
स चिन्तयति यान् भावांस्तानेव प्रलपत्यथ ।
आगन्तुं पञ्चमं विद्यादित्य् उन्मादं शरीरिणाम् ॥
सर्वान् एतान् विजानीयादुन्मादान्वै चिकित्सितात् ।
दुःखेन संज्ञाभ्रष्टो हि प्रकृतिं पुनर् ऋच्छति ॥
एवं शरीरजा दोषाः शरीरे पर्यवस्थिताः ।
शरीरम् एव हिंसन्ति पावकः स्वमिवाश्रयम् ॥
न हि सत्वानि हिंसन्ति न पिशाचा न राक्षसाः ।
देवास् तथा धर्मशीलाः मध्यस्था मनुजान्प्रति ॥
वमने रेचने युक्तो निरूहे चानुवासने ।
न जातु दारुणान् रोगानुन्मादान् प्राप्नुयान् नरः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले निदाने सप्तमो ऽ ध्यायः ॥ ॥ अष्टमो ऽ ध्यायः ॥ अथातो ऽ पस्मारनिदानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0