भेलसंहिता · अध्याय 2.6
प्रकृतिप्रभवश् चैव नरस्य स्वकृतस् तथा ।
ज्ञेयः प्रमेहो द्विविधस् तस्य वक्ष्यामि लक्षणम् ॥
श्लक्ष्णाङ्गा मृदवः स्निग्धा भृशं श्लेष्मलमेदुराः ।
जातप्रमेहा नर्दन्ति मत्स्यमांसोचिता नराः ॥
मातापितृभ्यामीदृग्भ्यां जनितो यस् तु मानवः ।
मेदःशिथिलनात्तस्य प्रकृत्या स तु मेहति ॥
अनूपजानां सुस्निग्धैर्विविधैश् चापि वारिजैः ।
गव्याजौरभ्रमांसैश् च सद्यो दध्ना घृतेन वा ॥
गुडप्रकारैः पयसा पललेनौदकैः खगैः ।
अव्यायामाद्दिवास्वप्नात्सुखशय्यासनात्तथा ॥
इत्य् एभिर् ईदृशैश् चान्यैर्मेदः स्निग्धैः प्रवर्धते ।
मेदः प्रवृद्धं देहं च वस्तिं च क्लेदयत्य् अपि ॥
यस्सदा मेदसा क्लिन्नः श्लेष्मलं भजते ऽ शनम् ।
तस्य प्रकुपितः श्लेष्मा प्रमेहान् कुरुते दश ॥
तद् यथोदकमेहं च पिष्टमेहं तथैव च ।
एवमादींस्तथान्यांश् च तेषां वक्ष्यामि लक्षणम् ॥
स्फटिकाम्बुनिभं मूत्रमुदमेही प्रमेहति ।
शुक्लपिष्टनिभं चापि पिष्टमेही प्रमेहति ॥
काण्डेक्षुरसमेही च मेहतीक्षुरसोपमम् ।
मूत्रं शुक्लोपमं चापि शुक्लमेही तु मेहति ॥
इत्य् एतांश्चतुरो मेहाञ् जानीयात् केवलात्कफात् ।
श्लेष्मण्यनुबले पित्ते ये मेहन्ति तु ताञ्छृणु ॥
लवणाम्बुनिभं मूत्रं विद्याल्लवणमेहिनः ।
प्रमेहति तथा जन्तुस्सुरामेही सुराकृति ॥ मूत्रं सान्द्रं प्रसन्नं तु दृश्यते सान्द्रमेहिनः ।
इति भेले निदाने षष्ठो ऽ ध्यायः ॥ ॥ सप्तमो ऽ ध्यायः ॥ .. .. गीतानि भजते नित्यं पित्तोन्मादनिपीडितः ॥
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0