भेलसंहिता · अध्याय 2.5
पिप्पलीं काकमाचीं च लिकुचं दधिसर्पिषा ।
वातायुं पयसा सार्धं गुडेन सह मूलकम् ॥
अन्यदेवंविधं यच् च विरुद्धं तत्समश्नतः ।
छर्दिं प्रतिघ्नतश् चापि मिथ्यासंसर्गसेवनात् ॥
अनुल्लिख्य विदग्धं च विदाहि च समश्नतः ।
पथि चाराद्विरिक्तस्य श्रान्तस्योदकसेवनात् ॥
मत्स्यान् पयश् च निम्बूंश् च तथैकध्यं समश्नतः ।
जन्तोस्सञ्जायते कुष्ठं तद्विधानां च सेवनात् ॥
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजते ऽ शनम् ।
सेवते च दिवास्वप्नं तस्य श्लेष्मा प्रवर्धते ॥
स वृद्धो दूषयत्यस्य मांसं त्वग्रुधिरं तथा ।
उत्साद्यते त्वग्दोषेण स्विद्यते तेन चाप्य् अथ ॥
तत्र कुष्ठानि जायन्ते दद्रु सिध्मानि वै पुनः ।
मण्डलानि च चित्राणि तेषां वक्ष्यामि लक्षणम् ॥
मण्डलानि घनानीह पिटकाभानि सर्वशः ।
सकण्डूनि विसर्पीणि दद्रुकुष्ठानि निर्दिशेत् ॥
प्रस्रवन्ति यदा तानि दोषोत्सन्नानि देहिनः ।
तदास्य कीलं कोषं च पिच्छिलं संस्रवन्ति च ॥
संहतानि विपाण्डूनि पङ्किलोष्ठचितानि च ।
त्वगुत्थानि तु रूक्साणि मण्डलानि तनून्य् अपि ॥
सिध्मकुष्ठानि जानीयात् तथा तानि भवन्ति वै ।
पिच्छिलं मधुवर्णं च यदा दोषाः स्रवन्ति च ॥
मण्डलानि च शुक्लानि घनोत्सन्नानि सर्वशः ।
विद्यान्मण्डलकुष्ठानि चिरभेदीनि देहिनाम् ॥
यदा तु तानि भिद्यन्ते तदा श्वेतं स्रवन्ति हि ।
इति श्लेष्मसमुत्थानि त्रीणि कुष्ठानि निर्दिशेत् ॥
यस्सदा वातलो जन्तुर्वातलं भजते ऽ शनम् ।
वातातपौ सेवते च तस्य वातः प्रवर्धते ॥
स वृद्धो दूषयत्यस्य त्वङ्मांसरुधिरं तथा ।
उत्साद्यते त्वग्दोषेण स्विद्यते तेन चाप्य् अथ ॥
कपालकुष्ठं तेनास्य प्रदुष्टे मांसशोणिते ।
जन्तोर्विवृद्धवातस्य तस्य वक्ष्यामि लक्षणम् ॥
परुषाण्यरुणाभानि मण्डलानि समानि च ।
विद्यात् कपालकुष्ठानि चिरभेदीनि देहिनाम् ॥
यस्सदा पित्तलो जन्तुः पित्तलं भजते ऽ शनम् ।
वातातपौ सेवते च तस्य पित्तं प्रकुप्यति ॥
तद् वृद्धं दूषयत्यस्य त्वङ्मांसरुधिरं तदा ।
उत्साद्यते त्वग्दोषेण स्विद्यते तेन चाप्य् अथ ॥
ततः कुष्ठानि जायन्ते प्रदुष्टे मांसशोणिते ।
पित्तस्य परिकोपे वा तेषां वक्ष्यामि लक्षणम् ॥
पक्वोदुम्बरवर्णानि मण्डलानीह यानि तु ।
विद्यादौदुम्बराण्यत्र तान्यसाध्यानि देहिनाम् ॥
प्राप्नुवन्ति यदा भेदं कुष्ठान्य् औदुम्बराणि च ।
मण्डलीकानि कुष्ठानि तदा तानि भवन्ति वै ॥
मण्डलानि च यानीह पुण्डरीकनिभानि वै ।
पुण्डरीकाणि साध्यानि तानि विद्याद्विचक्षणः ॥
प्राप्नुवन्ति यदा भेदं पुण्डरीकाणि यानि वै ।
ऋश्यजिह्वानि कुष्ठानि तदा तानि विनिर्दिशेत् ॥
नीलोत्पलसवर्णानि मण्डलानीह रूपतः ।
ऋश्यजिह्वानि कुष्ठानि तान्यसाध्यानि निर्दिशेत् ॥
प्राप्नुवन्ति यदा भेदमृश्यजिह्वान्यशेषतः ।
काकणानीति मतिमांस्तदा तानि विनिर्दिशेत् ॥
काकणन्तिकवर्णानि मण्डलानीह यानि तु ।
काकणानीति तान्याहुः प्रत्याख्येयानि देहिनाम् ॥
इति कुष्ठनिदानं वै व्याख्यातम् अनुपूर्वशः ।
तन्निशम्येह मतिमान् हितजीर्णाशनो भवेत् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले निदाने पञ्चमो ऽ ध्यायः ॥ ॥ षष्ठो ऽ ध्यायः ॥ अथातः प्रमेहनिदानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0