भेलसंहिता · अध्याय 2.4
वातात्पित्तात्कफाच्चैव क्षताद्वाथ क्षयाद् अपि ।
पञ्च कासा भवन्तीह तेषां वक्ष्यामि लक्षणम् ॥
यस्सदा वातलो जन्तुरसात्म्यं वै निषेवते ।
रूक्षमश्नाति पिबति रूक्षं हि बहु खादति ॥
तस्य वातः प्रकुपितो गृहीत्वा हृदयं ततः ।
ऊर्ध्वं सम्प्राप्य धमनीरथ कासाय कल्पते ॥
उरःशूलं पार्श्वशूलं पृष्ठस्तम्भश्च जायते ।
आटोप्यते ऽ स्योदरं च शिरश् चास्यातिमन्थ्यते ॥
उरो ऽ भिघातात्पार्श्वे च गृह्येते इव देहिनः ।
कफः प्रकासमानस्य ससंरम्भः प्रवर्तते ।
प्रततं कासमानस्य मूत्रं वातो रुणद्धि हि ।
इत्य् एभिर् लक्षणैर्विद्याद्वातकासं शरीरिणाम् ॥
यस्सदा पित्तलो जन्तुरसात्म्यं वै निषेवते ।
अम्लमश्नाति पिबति खादत्यास्वादयत्य् अपि ॥
तस्य पित्तं प्रकुपितं गृहीत्वा हृदयं ततः ।
ऊर्ध्वं सम्प्राप्य धमनीस्ततः कासाय कल्पते ॥
उरो विदह्यते चास्य तथैवाप्यभितप्यते ।
सोष्मनासश् च भवति दह्येते चाक्षिणी ततः ॥
निष्ठीवति सपित्तं च रक्तं वा ना कदाचन ।
मुखं भवति वा पीतं पित्तकासेन देहिनः ॥
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजते ऽ शनम् ।
पिबत्यश्नाति मधुरं मधुरं वापि खादति ॥
अव्यायाम रतश् चापि दिवास्वप्नं च सेवते ।
तस्य श्लेष्मा प्रकुपितो गृहीत्वा हृदयं ततः ॥
ऊर्ध्वं सम्प्राप्य धमनीस्ततः कासाय कल्पते ।
ग्रथितं श्लेष्मणा कासं निष्ठीवति सपूतिकम् ॥
दुष्टश्लेष्मप्रतिश्यायः श्लेष्मकासेन जायते ।
साहसं कर्म यः कृत्वा विक्षतं खेदयत्युरः ॥
निष्ठीवति सरक्तं च कासे क्षतसमुद्भवे ।
स्त्रीषु सक्तश् च यो जन्तुस् तस्य शुक्लपरिक्षयात् ॥
लिङ्गं वाताभिभूतत्वात् सूचीभिर् इव तुद्यते ।
सरक्तं कुरुते मूत्रं तथा शुक्लं च लोहितम् ॥
सर्व एते समुद्दिष्टाः कासा लक्षणतो मया ।
तानवेक्ष्य भिषग् बुद्ध्या ततः कुर्याच् चिकित्सितम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले निदाने चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथातः कुष्ठनिदानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0