भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 2.3

2.3.1

वातात्पित्तात्कफाच्चैव निचयादथ लोहितात् ।
पञ्च गुल्मा भवन्तीह तेषां वक्ष्यामि लक्षणम् ॥

2.3.2

स यदा वातलो जन्तुर्वातलं भजते ऽ शनम् ।
धावति प्लवते वापि रात्रौ जागर्ति वा पुनः ॥

2.3.3

अतिब्रूते ऽ तिहसति स्त्रियो वातिनिषेवते ।
उदावर्तयते वापि कर्म चातिनिषेवते ॥

2.3.4

वृक्षप्रपतनाद्वापि छर्दयत्यथवा बलात् ।
तस्यैवं कुपितो वायुर् आमाशयमुपागतः ॥

2.3.5

पार्श्वयोर् हृदि कुक्षौ वा गुल्मं संजनयत्यथ ।
स सकृद्भवति स्थूलः पुनर् भवति वाप्य् अणुः ॥

2.3.6

तोदस्फुरणसंयुक्तो विध्यते च विधावति ।
वेदनां जनयत्येष ज्वरं सञ्जनयत्य् अपि ॥

2.3.7

वस्तिशीर्षं च संगृह्य दारयन्निव तिष्ठति ।
विषं भवति चाहारो मूर्धानं प्रतिपद्यते ॥

2.3.8

पुनश् च दृश्यते व्यक्तं पुनर्नश्यति चाप्य् अथ ।
करोति गाढं दुःखेन पुरीषं वा सशोणितम् ॥

2.3.9

कृष्णाभासश् च पुरुषो वातगुल्मी स दृश्यते ।
यस्सदा पित्तलो जन्तुः पित्तलं भजते ऽ शनम् ॥

2.3.10

अप्रमाणेन दुर्मेधाः सेवते पानमीदृशम् ।
तस्यैवं कुपितं पित्तमामाशयमुपागतम् ॥

2.3.11

पार्श्वयोर् हृदि कुक्षौ वा गुल्मं सञ्जनयत्यथ ।
उष्यते दूयते चापि दह्यते धूप्यते तथा ॥

2.3.12

नित्यं तप्तश् च रक्तं च स्वेदं मुञ्चत्यभीक्ष्णशः ।
अयोगोलो यथा तप्तस् तथा स्थानगते दहेत् ॥

2.3.13

तृष्णां मूर्च्छां च जनयेत्स्थानाद् अपि विसर्पति ।
वेदना परमा चैव तस्मिन् स्थाने प्रजायते ॥

2.3.14

पुरा जातानि लोमानि तस्माद् गुल्मपरिग्रहात् ।
च्यवन्ते न च जायन्ते यावद्व्याधिर्न शाम्यति ॥

2.3.15

पित्तगुल्मेन पुरुषः पीताभासश् च लक्ष्यते ।
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजते ऽ शनम् ॥

2.3.16

अप्रमाणेन दुर्मेधा दिवास्वप्नरतस् तथा ।
तस्यैवं कुपितः श्लेष्मा ह्यामाशयमुपागतः ॥

2.3.17

पार्श्वयोर् हृदि कुक्षौ वा गुल्मं सञ्जनयत्यथ ।
न चास्य स्वदते भोज्यं भुक्तं न च विपच्यते ॥

2.3.18

श्लेष्मणा सह भुक्तं च मुहुरूर्ध्वं प्रपद्यते ।
शुक्लमूत्रपुरीषश् च शुक्लाभासस् तथैव च ॥

2.3.19

शुक्लनेत्रश् च भवति गुल्मे श्लेष्मसमुद्भवे ।
यस्सदा कर्शितो जन्तुर्व्याधिना भेषजेन वा ॥

2.3.20

असञ्जातबलाग्निश् च दोषलान्युपसेवते ।
तस्य सन्निचिता दोषा गुल्मं कुर्वन्ति दारुणम् ॥

2.3.21

तत्र सर्वाणि रूपाणि दृश्यन्ते सान्निपातिके ।
अथ लोहितगुल्मस् तु स्त्रीणाम् एव प्रजायते ॥

2.3.22

नासौ भवति नॄणां तु तस्य वक्ष्यामि लक्षणम् ।
अचिरप्रच्युते गर्भे सूतिकायास् तथा ऽ चिरात् ॥

2.3.23

अतिप्रजननाद्वापि तथा ऽ प्रजननेन वा ।
सन्धारणाद्वा भारस्य रक्तमाध्मापयेत् ततः ॥

2.3.24

सा शोणिते स्थिते नारी गर्भिणी स्त्रीति मन्यते ।
समयादथ शूलानि तस्याः कुक्षौ भवत्यथ ॥

2.3.25

कोष्ठे गुल्मोदरं तच् च गर्भो ऽ यम् इति मन्यते ।
गर्भो ऽ यम् इति च व्याधिर्वर्षमेकं बहून्य् अपि ॥

2.3.26

धारयत्यथ निर्भेदं कथञ्चित्सन्नियच्छति ।
अथास्याः कालपर्यायात् सक्षीरौ भवतः स्तनौ ॥

2.3.27

कृशा भवति सा पाण्डुर्दोहदं चाभिनन्दति ।
छर्दिर्निष्ठीविका चैव तन्द्रा चैवं प्रबाधते ॥

2.3.28

पादयोः श्वयथुश् च स्याद्रक्तगुल्मे प्रदुष्यति ।
एषां तु खलु पञ्चानां गुल्मानां समुदाहृतम् ।
विद्यादसाध्यं निचयं यत्नसाध्यांस्तथेतरान् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले निदाने तृतीयो ऽ ध्यायः ॥ ॥ चतुर्थो ऽ ध्यायः ॥ अथातः कासनिदानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc