भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 2.2

2.2.1

उरोविघातात्तस्याथ ज्वरः कासश् च जायते ।
स्वरः सीदति चाप्य् अस्य निष्ठीवति सशोणितम् ॥

2.2.2

अथवाप्यवशो जन्तुः शश्वत्स परिहीयते ।
इत्य् एतैर्लक्षणैर्विद्यात् साहसप्रभवं क्षयम् ॥

2.2.3

यावत्स बलवानेव बृंहयेत् तावदेव तम् ।
यस्माद् बलसमावेशं पुरुषस्येह जीवितम् ॥

2.2.4

स यदा गुरुमध्ये वाप्य् अथवा राजसंसदि ।
गोष्ठे स्त्रीद्यूतमध्ये वा हस्तिपृष्ठे ऽ थवा रथे ॥

2.2.5

भयात् प्रसङ्गाच् च ह्रिया घृणित्वाद् वापि मानवः ।
प्राप्तपातं पुरीषं वा मूत्रं वापि रुणद्धि यः ॥

2.2.6

तस्य सन्धारणाद्वायुरूर्ध्वभागे समीरितः ।
उरःशूलं पार्श्वशूलं गुल्मं च जनयत्यथ ॥

2.2.7

गुल्मजन्मनिमित्तश् च ज्वरः कासश् च जायते ।
स्वरः प्रभिद्यते चास्य निष्ठीवति सपूतिकम् ॥

2.2.8

अथवाप्यवशो जन्तुः शश्वत्स परिहीयते ।
इत्य् एभिर् लक्षणैर् विद्यात् सन्धारणकृतं क्षयम् ॥

2.2.9

आत्मार्थं लज्जते जन्तुर्गुरोर्वा स्त्रीजनस्य च ।
तस्माद् आत्मार्थमेवेह प्राप्तं वेगं न धारयेत् ॥

2.2.10

स यदा दुर्बलो जन्तुः स्वल्पाहारः कृशो ऽ पि वा ।
रूक्षभोजी विशेषेण स्त्रियो यश् चातिसेवते ॥

2.2.11

सरक्तं कुरुते मूत्रं जन्तुः शुक्लपरिक्षयात् ।
रेतःस्थानं च सुषिरं वायुरस्य प्रधावति ॥

2.2.12

तस्य वाताभिभूतस्य ज्वरः कासश् च जायते ।
स्वरः सीदति चाप्य् अस्य निष्ठीवति सशोणितम् ॥

2.2.13

अथवाप्यवशो जन्तुः शश्वत्स परिहीयते ।
इत्य् एभिर् लक्षशैर्विद्यादतिमैथुनजं क्षयम् ॥

2.2.14

रतिमूलं शरीरं हि शरीरस्य रतिः फलम् ।
तस्मात् फलार्थी मूलार्थं स्त्रियः सेवेत युक्तितः ॥

2.2.15

स यदा दुर्बलो जन्तुः सेवते विषमाशनम् ।
भुञ्जानस्यास्य विषमं वैषम्यं यान्ति धातवः ॥

2.2.16

ततः पुरीषमेवेह वर्धयत्यस्य भोजनम् ।
नावाप्नोति रसं देहे विकृतस्येव देहिनः ॥

2.2.17

रसे निवृत्ते तस्याथ ज्वरः कासश् च जायते ।
स्वरः सीदति चाप्य् अस्य निष्ठीवति सशोणितम् ॥

2.2.18

अथवाप्यवशो जन्तुः शश्वत्स परिहीयते ।
इत्य् एभिर् लक्षणैर्विद्याद्विषमाशनजं क्षयम् ॥

2.2.19

यस्मादर्थी शरीरार्थं रसभोजनमिच्छति ।
शरीरापेक्षया तस्माद् आहारं सुसमाचरेत् ॥

2.2.20

इति चत्वारि शोषाणामुक्तान्यायतनानि मे ।
यानि बुद्ध्वा परिहरेदारोग्यार्थी पुमानिह ।
बुद्धौ चारोग्यमायत्तमिदमुक्तं महर्षिणा ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले निदाने द्वितीयो ऽ ध्यायः ॥ ॥ तृतीयो ऽ ध्यायः ॥ अथातो गुल्मनिदानं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc