भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.28

1.28.1

यद् भक्षयति भुङ्क्ते वा विधिवच् चापि मानवः ।
अन्यच् च किञ्चित् पिबति तत् सर्वं षड्रसान्वितम् ॥

1.28.2

पथ्यापथ्यम् अबोधार्यं, तस्माद् भोज्यं शरीरिणाम् ।
रसतो वीर्यतश् चैव प्रवक्ष्याम्य् अत उत्तरम् ॥

1.28.3

शालयो मधुराः सर्वे विपाके कटुकाः स्मृताः ।
रक्तशालिर्वरस् तेषामरौक्ष्याल् लेखनो न च ॥

1.28.4

दीर्घशूको महा शालिः सुगन्धिः शालिकामुखः ।
कृष्णव्रीहिः काञ्चनकः लोपार्क्षः शीतभीरुकः ॥

1.28.5

हायनो लोध्रशालिश् च रक्तशालिगुणान्वितः ।
पूर्वपूर्वो लघुतरः पथ्यः किंच भवत्यतः ॥

1.28.6

सुगन्धका गन्धवन्तो गन्धेन मदयन्त्यथ ।
रौक्ष्याच् च कलमं विद्यादधिकं वै विशेषतः ॥

1.28.7

कषायस् त्व् अधिकः किंचित् षष्टिकाः शालिभिः समाः ।
महादोषाः सुगुरवः पाटलाव्रीहयस् तथा ॥

1.28.8

यवका नित्यम् अहिताः कृष्णव्रीहिप्रमोदकाः ।
वीर्योष्णा मधुरास्ते वै सकषायाश् च कीर्तिताः ॥

1.28.9

बहूरूक्षाः कषायाश् च कोरदूषाः सवारुणाः ।
प्रसाधिकाः कं गवश् च श्यामाकाश् च समा रसैः ॥

1.28.10

उद्दालकास् तु संख्या ताः कषाया मधुरा रसे ।
ग्रीष्मे तु सेवितास्ते वै कोपयन्त्य् आशु मारुतान् ॥

1.28.11

यवास् त्व् अतियवाश् चैव गोधूमाश् च समा रसे ।
मधुराः सकषायाश् च श्लेष्मला लोहिता नृणाम् ॥

1.28.12

अथ वेणुयवा नातिकषाया मधुरा रसे ।
कफं पित्तं च मेदश् च कोपयन्त्यतिसेविताः ॥

1.28.13

कृष्णा मुद्गा महामुद्गाः हरिताश्चिरजीविनः ।
मकुष्ठकाश् च ते ऽ प्युक्ताः कषाया मधुरा रसे ॥

1.28.14

हरेणवो मसूराश् च सतीनाश् च तथाढकी ।
कुलुत्थाश् च विसेषेण कषायमधुरा रसे ॥

1.28.15

सर्वे तु लवणक्षारा दीपनीयाः प्रकीर्तिताः ।
अवृष्याश् च विशेषेण दुर्बलानां हिता न च ॥

1.28.16

श्वदंष्ट्रा यावनालश् च द्वौ क्षारौ शीतलौ स्मृतौ ।
शुक्लं विनिहतस्तौ तु दृष्टिं चापि शरीरिणाम् ॥

1.28.17

नवनीतं तथाम्लं तु घृतं वै मधुरं स्मृतम् ।
सर्वं दुग्धमभिष्यन्दि गव्यं तेभ्यो विशिष्यते ॥

1.28.18

वाजी भवति दुग्धेन बलं चात्युपजायते ।
सञ्जीवनं सम्भवति सर्वं क्षीरमुदाहृतम् ॥

1.28.19

रसे पाके च मधुरं तैलं सर्वं प्रकीर्तीतम् ।
यस्मिन्यस्मिन्विशेषस् तु यो यस्तस्मिन्निबोध तम् ॥

1.28.20

तैलमेरण्डबिल्वानामुष्णं वातहरं स्मृतम् ।
इत्य् उक्तान्युष्णवीर्याणि य दन्यच्छीतम् एव तत् ॥

1.28.21

विभीतकानां तैलं तु कषायमधुरं रसे ।
कफपित्तहरं प्रोक्तं केश्यं चैव शरीरिणाम् ॥

1.28.22

अतः करञ्जबीजानां विज्ञेयानि तथैव च ।
तैलानि रसतो विद्यात् तिक्तानि मधुराणि च ॥

1.28.23

पित्तश्लेष्मकरं तिक्तमिङ्गुदीतैलमुच्यते ।
सकषायं मधूकानां कफपित्तानिलापहम् ॥

1.28.24

कौलकं मधुरस्पर्शं रसतो ऽ थ विपाकतः ।
यस्मिन्यस्मिन्विशेषस् तु यो यस्तं मे निबोधत ॥

1.28.25

पलालजातं छ्वाकमतीव गुरु सम्मतम् ।
महादोषमभिष्यन्दि सुखं बाह्योपघातकम् ॥

1.28.26

छत्राकं गोमयोद्भूतं कषायमधुरं रसे ।
कषायं वेणुच्छत्राकं मारुतं कोपयेन्नृणाम् ॥

1.28.27

सर्वं तु शाकं मधुरं रसतो ऽ थ विपाकतः ।
यस्मिन्यस्मिन्विशेषस् तु यो यस्तस्मिन्निबोध तम् ॥

1.28.28

मारुतं कोपयेन्नॄणां विष्टम्भित्वाद् अलावुकम् ।
श्लेष्माणं वर्धयेच् चापि विपाकेन बलीयसा ॥

1.28.29

कूष्माण्डं श्लेष्मलं विद्यान्नवं शरदि भक्षितम् ।
तदल्पदोषं भवति परिसंवत्सरोषितम् ॥

1.28.30

कषायमधुरं विद्यात् खादिरं चातिसारि च ।
तिक्तं दीपनसंसृष्टं निर्दोषं तच्छरीरिणाम् ॥

1.28.31

कोशातकी करीराणां शतावर्याश् च तिक्तकम् ।
कषायं नालिकायाश् च तिक्तः पुष्करवर्तकः ॥

1.28.32

वेत्राग्रं तिक्तकं निम्बं तिलशाकं च शीतिका ।
कुरूटिका कुनटिका तथा गन्धर्वहस्तकः ॥

1.28.33

तथा नाडीकलायश् च पञ्चाङ्गुल्यस् तथैव च ।
एतानि विद्याच्छाकानि तिक्तानि रसपाकतः ॥

1.28.34

स तीनशाकं मधुरमीषतिक्तोपसंहितम् ।
कोविदारस्य शाकं तु पूर्वेणैव समं मतम् ॥

1.28.35

वार्ताकीनां फलं तिक्तं कटुकेनोपसंहितम् ।
ग्रहणीं दीपयत्येतच्छलेष्माणं विनिहन्ति च ॥

1.28.36

कठिल्लबकुलौ चैव मधुरौ शुक्रशो धनौ ।
हतस्तन्द्रां च वातं च नित्यम् एव विषूचिकाम् ॥

1.28.37

अलम्बुसः सकटुकस्तिक्तको वातकोपनः ।
भिनत्ति कफसङ्घातं विष्टभ्याथ विपच्यते ॥

1.28.38

लाङ्गशाकं तु मधुरं लवणेनोपसंहितम् ।
कटुकं बहुदोषं च तथा पक्षनिकाचनम् ॥

1.28.39

कटुको दीपनीयश् च विषहा स्वस्तिको रसे ।
कषायमधुरा चिल्ली चुञ्चुर्मधुरशीतलः ॥

1.28.40

भार्ङ्गी माषश् च मधुरौ रसतः परिकीर्तितौ ।
मुद्गशाकं सतिक्तं तु सक्षारश् चैव वास्तुकः ॥

1.28.41

निष्पावशाकं मधुरं माषशाकं तथा स्मृतम् ।
चन्द्राकशाकमम्लं तु कषायस् तु गवेधुकः ॥

1.28.42

तुन्नकं प्रपुनाटश् च जीवन्ती सुनिषण्णकम् ।
मधुराण्यल्पदोषाणि तथैव तु कुटिञ्जकः ॥

1.28.43

पिण्डालुशाकं च नवं तुण्डिकेरफलानि च ।
मधुराण्यल्पदोषाणि संसृष्टकटुकानि च ॥

1.28.44

उपोदका तु मधुरा लवणेनोपसंहिता ।
इत्य् एतन्निर्दिशेच्छाकं यदन्यदपि तद्विधम् ॥

1.28.45

आजं गव्यमथौरभ्रं वाराहं चैव यत्स्मृतम् ।
हस्तिमांसं च मधुरमुष्ट्रं गुरु च निर्दिशेत् ॥

1.28.46

विद्यादेवंगुणं चैव सकषायं च माहिषम् ।
खड्गमांसमभिष्यन्दि सस्वादुलवणं रसे ॥

1.28.47

कुतमायुर्मयूरश्च गोकर्णो गवयो गुरुः ।
सृमरश्चमरो न्यङ्कुर्मधुरा गुरवश् च ते ॥

1.28.48

ऋश्यश् च मृगमाता च तुङ्गश् च हरिणी मृगः ।
पारावत ॥ इति भेले अष्टाविंशो ऽ ध्यायः ॥ इति भेलसंहितायां सूत्रस्थानं समाप्तम् ॥ निदानस्थानम् ॥ द्वितीयो ऽ ध्यायः ॥

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc