भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.9

1.9.1

भेषजं हि चतुष्पादमातुरं कुरुते ऽ गदम् ।
युनक्ति यशसा वैद्यमर्थमप्यस्य यच्छति ॥

1.9.2

तस्माद् औषधयोगस्य वैद्यस्याप्य् आतुरस्य च ।
उपस्थातुश् च वक्ष्यामि सम्पदं सिद्धिकारिकाम् ॥

1.9.3

प्रतिवातं यथाक्षिप्तः पांसुमुष्टिर्विनश्यति ।
तथा हि नाशमागच्छेदृते कर्म भिषक्कृतात् ॥

1.9.4

नद्यां प्रस्यन्दमानायां श्वभ्रस्थाने स्थलेषु च ।
प्रणश्यति यथा वृष्टं तथा दुर्योजिताः क्रियाः ॥

1.9.5

इष्वासस् तु यथा युक्तो धर्मात्मा खड्गपाणिधृत् ।
परेभ्यः क्षोभम् आधत्ते पात्यात्मीयांश् च हन्त्यरीन् ॥

1.9.6

एवं चिकित्सकः पादैर् भेषजैश् चोपबृंहितः ।
रक्षत्यकीर्तेरात्मानं व्याधिं चापि नियच्छति ॥

1.9.7

सिध्यति प्रतिकुर्वाण इत्य् आत्रेयस्य शासनम् ।
अपि चाप्रतिकुर्वाण इत्य् आख्यद्भद्रशौनकः ॥

1.9.8

गुणयुक्तातुरद्रव्यभिषक्परिचरान्विता ।
दृश्यते विफला यस्मान्नाफला तु विपर्यये ॥

1.9.9

तस्मान्नैकान्तिकी सिद्धिश् चतुष्पादे चिकित्सिते ।
न त्वेतां बुद्धिमात्रेयश्शौनकस्यानुमन्यते ॥

1.9.10

प्रतिकुर्वति सिद्धिर्हि वर्णोत्साहबलान्विता ।
न च स्याद्व्याधिबहुता न त्वेवाप्रतिकुर्वति ॥

1.9.11

दुर्वर्णो दुर्बलश् च स्याद् व्याधिभिश् चाप्य् उपद्रुतः ।
विकलो वा भवत्यज्ञैर् उपक्रान्त इवातुरः ॥

1.9.12

न सा सिद्धिरसिद्धिः स्याद्यां दृष्ट्वा नाभिपद्यते ।
तस्मात् ज्ञानवतां सिद्धिं विन्देत मतिमान् भिषक् ॥

1.9.13

तत्र प्रथमतः पादमौषधं तु निबोध मे ।
खं वायुरनलस्तोयं भूमिश् चैवेह पञ्चमी ॥

1.9.14

गुणोत्तराणि सर्वाणि यथासंख्यं विभावयेत् ।
तेषान्तु ये भूतगुणाः पृथग्भावनिदर्शकाः ॥

1.9.15

परस्परसमायोगाद्द्रव्येष्वेव भवन्ति ते ।
लक्षणं खस्य सौषिर्यं रौक्ष्यं चाप्य् अनिलात्मकम् ॥

1.9.16

औष्ण्यमग्नेरपां शैत्य् अं खरत्वं पार्थिवो गुणः ।
यस्मिन्यस्मिन् भवेल्लिङ्गमेतद्द्रव्ये विशेषतः ॥

1.9.17

यस्य भूतस्य तद्द्रव्यं तत्तदात्मकमिष्यते ।
सौषिर्यं लाघवं यत्र भैषज्यं चापि खात्मकम् ॥

1.9.18

खरत्वं च विवेकश् च रौक्ष्यं चाप्य् अनिलात्मकम् ।
स्नेहः क्लेदश् च शैत्य् अं च मृदुत्वं चापि वारिजम् ॥

1.9.19

पैच्छिल्यं गौरवं मूर्तिस्थैर्यं गन्धश् च पार्थिवम् ।
एतैर्भूतगुणैर्युक्तं यद्द्रव्यं तत्तदात्मकम् ॥

1.9.20

पञ्चभूतात्मकैस्सर्वैर्गुणैस् तत्र समन्वितम् ।
(प्रतिवासं रसो गन्धस्तदा प्रदुवनानि च ॥

1.9.21

शितमुष्णोदकं चैव रैद्य चेदिप्रियं रथाः ।
सज्जोपकरणत्वं च मूलत्वक्फलसञ्चयः) ॥

1.9.22

मूलादीनां सुगन्धित्वं कल्याणस्पर्शवत्तथा ।
अन्यूनानतिरिक्तत्वरूपवच् च प्रशस्यते ॥

1.9.23

स्थलात्मताकनिम्नेषु सैकतेषूपलेषु च ।
सुषिरं नातिविष्टं च तिर्यग्यातं च गर्हितम् ॥

1.9.24

येनौषधार्थस्सद्यस्स्यात्तेन चाप्रतिबध्नता ।
भेषजं प्रथमः पादः इति ज्ञेयं चिकित्सिते ॥

1.9.25

प्रतिश्रावी द्वितीयः स्यात्तस्य प्रत्येकशो गुणाः ।
बलवान् दक्षिणो दक्षः प्रियवागजुगुप्सकः ॥

1.9.26

वीरश् चाप्रतिकूलश् च रक्तश्चित्रकथस् तथा ।
प्रज्ञावांश् चाप्य् उपस्थायी तथा शास्त्रानुसारतः ॥

1.9.27

न चातिप्रतिबध्नीयात्सर्वेष्व् औषधकर्मसु ।
प्रशस्यते क्लेशसहः प्रतिश्रावी यथागुणः ॥

1.9.28

तृतीयश् चातुरः पादः सत्याशंसी प्रशस्यते ।
लक्षणश् चात्मवांश् चैव कृतज्ञस्सुमनाश् च यः ॥

1.9.29

औषधस्य प्रतिग्राही न च रोगान्निगूहयेत् ।
दृढभक्तो ऽ नसूयश् च यश् चापि न विषीदति ॥

1.9.30

सर्वत्राप्रतिकूलश् च न क्रियामतिवर्तते ।
एभिर् गुणैस्समायुक्तं जानीयात्साध्यमातुरम् ॥

1.9.31

भिषक् चतुर्थः पादस् तु ससूत्रार्थविशारदः ।
अरोगो दृष्टकर्मा च कृतकृत्येषु कोविदः ॥

1.9.32

प्रयोक्ता च प्रगल्भश् च क्षमावान्प्रतिभानवान् ।
बुद्धिमांस्तर्ककुशलो वीर्यौदार्यबलान्वितः ॥

1.9.33

अस्तब्धश् चाप्रमत्तश् च सततं संयतेन्द्रियः ।
ओजस्वी चौषधज्ञश् च देशकालप्रयोगवित् ॥

1.9.34

भिषक् चतुर्थपादः स्यादेवंगुणसमन्वितः ।
भेषजं च प्रतिश्रावी भिषगातुर एव च ॥

1.9.35

अन्योन्यगुणसंयोगाद् एते स्युस् सिद्धिकारकाः ।
एत एव च वौगुण्यात्तस्य व्याधिविवर्धनाः ॥

1.9.36

तस्माच् चतुर्षु पादेषु चिकित्सासिद्धिरिष्यते ।
पक्तये कारणं पक्तुर्यथा पात्रेन्धनानलाः ॥

1.9.37

विजेतुर्विजये भूमिश् चमूः प्रहरणानि च ।
आतुराद्यास् तथा पादाः सिद्धौ कारणसंज्ञिताः ॥

1.9.38

मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा ।
नावहन्ति गुणान् वैद्यादृते पादत्रयं तथा ।
विद्यात् तस्माच् चिकित्सायां प्रधानं कारणं भिषक् ॥ इत्य् आह भगवान् आत्रेयः इति भेले नवमो ऽ ध्यायः ॥ ॥ दशमो ऽ ध्यायः ॥ अथात आमप्रदोषीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc