भेलसंहिता · अध्याय 1.8
मात्राशी स्याद्विपक्वाशी दण्डपाणिर्मिताध्वगः ।
यथर्तुभोजनं कृत्वा जन्तुर्धूममिमं पिबेत् ॥
कैडर्यश्शतपुष्पा च तालीसागुरुगुग्गुलु ।
प्रियङ्गवश् च क्षौमं च सर्पिषा स्नेहितं पिबेत् ॥
भोजनेनेरितो वायुः कोष्ठाच्छिरसि तिष्ठति ।
प्रसिध्यति स धूमेन कफश् चापैति चक्षुषः ॥
तण्डुलान् पृथुकांश् चापि सर्वान् पिष्टमयांस्तिलान् ।
न खादेद् भुक्तवान् जन्तुर्मात्रां खादेद्बुभुक्षितः ॥
अध्वना न श्रमं गच्छेत्सर्वान्वेगान्न धारयेत् ।
हित्वापि सर्वकार्याणि तथास्यायुर्न हीयते ॥
वर्जयेद् विषमं दुःखमासनं पादलम्बनम् ।
रक्षेच्छरीरं वातेभ्यो नित्यम् एव दुरासनात् ॥
अत्यासनमतिस्थानमतिचङ्क्रमणानि च ।
अतिस्वप्नमशय्यां च तथा चाप्य् अतिभाषणम् ॥
यच् च किंचिद्विचेष्टाभिर् अत्यर्थं कुरुते नरः ।
सर्वमेतदनायुष्यं भिषजः परिचक्षते ॥
समस्थानासनगतिस्समशय्याशनस्तथा ।
समजल्पविचेष्टश् च चिरं जीवति मानवः ॥
निवातम् उपसेवेत सुखवातं कदाचन ।
निवातमायुषः पथ्यमारोग्याय च सर्वदा ॥
आतपे नाचरेत्कर्म शिरस्त्राणमृते तथा ।
निदाघवर्जं च सदा नावश्या ये समाचरेत् ॥
शरद्वसन्तप्रावृट्सु कारयेच् चानुवासनम् ।
रोगाश् च वस्तिदाप्याः स्युर्यस्य नित्यं च दापयेत् ॥
स्वप्नान्तसन्ध्ययोश् चापि न खादेन्न च संविशेत् ।
न रात्रौ विचरेदेको नागारं शून्यमाविशेत् ॥
चतुष्पथं परिहरेत्पर्वते न चिरं वसेत् ।
रात्रौ च वृक्षमूलानि परदारांतथैव च ॥
राजानिष्टं प्रजाभङ्गं दावाग्निं कलहं नृणाम् ।
मत्तोन्मत्तांश् च संलक्ष्य दूराद् एव विवर्जयेत् ॥
वैरिणो नोपसेवेत बाहुभ्यां न नदीं तरेत् ।
हस्त्यश्वगाश् च सर्पं च दूरतः परिवर्जयेत् ॥
मधुमेहश् च शोषश् च तृष्णा वाताद्युपद्रुतिः ।
मद्यपानात् तु न भवेत्तस्मात् तद्विधिवत्पिबेत् ॥
आक्वाथितजलं मासांश् चतुरो मात्रया पिबेत् ।
श्रावणप्रभृतीनेव शेषानष्ट यथासुखम् ॥
अभुक्त्वामलकं खादेद् भुक्त्वा चापि हरीतकीम् ।
परिणामे च भक्तस्य खादेच् चापि विभीतकम् ॥
कषायभावाच्छलेष्माणमम्लभावाच् च मारुतम् ।
पित्तं मधुरभावाच् च सम्यगामलकं जयेत् ॥
उष्णभावात्क्षणादेति पित्तं चाशयमूर्च्छितम् ।
सम्यङ्नयत्यतः खादेदभयां भुक्तवान् नरः ॥
आहारपरिणामस् तु पित्तश्लेष्मविवर्धकः ।
तस्मात् साम्यं तयोर् इच्छन्नाददीत विभीतकम् ॥
काल्यं विधिं वै कृत्वा च स्नायादृतुसुखैर्जलैः ।
सुस्थश्शुचिसमाचारः सदाचारपदे स्थितः ॥
मूत्रमप्सु न कुर्वीत पुरीषं च कदाचन ।
न निष्ठीवेत्तथा प्राज्ञो रक्षञ्जीवितमात्मनः ॥
न हरेद्विषमं ग्रीवां न वापि विषमं क्षुयात् ।
ऋज्वासीनो नरः खाद्यमाददीत विचक्षणः ॥
मातरं पितरं भार्यामाचार्यं वानुपालयेत् ।
अभिवादनयोगाच् च वर्धयेद् आयुरात्मनः ॥
राजापथ्यचरा ये वै ये च तद्द्रोहिणो नराः ।
विधर्मिणश् चानृताश् च न तैरेकीभवेत्क्वचित् ॥
एतदप्याहुरारोग्यं धन्यं पूज्यं यशस्करम् ।
सद्भिर् आचरितं पूर्वं वृत्तमात्रेयसम्मतम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले अष्टमो ऽ ध्यायः ॥ ॥ नवमो ऽ ध्यायः ॥ अथातश् चतुष्पादभिषग्जितीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0