भेलसंहिता · अध्याय 1.10
अथाह तैलात्पिष्टान्नात् कृसरात् पायसाद् अपि ।
विरुद्धाध्यशनादामाच्छालूकाच्छुष्कशाकतः ॥
ह्रीशोकक्रोधकामेर्ष्या लोभोद्वेगाद्भयाद् अपि ।
अन्यस्मादीदृशाद्वापि रात्रौ जागरणेन वा ॥
जन्तोश्शाम्यति कायाग्निरथवा दुष्टशय्यया ।
उद्वेष्ट्यन्ते ऽ स्य गात्राणि कटिपृष्ठं च दूयते ॥
जङ्घे शूलायतश् चास्य ज्वरश् चास्योपजायते ।
शिरो गुरु भवत्यस्य तथा नेत्रे शरीरिणः ॥
सोद्गारं सविदाहं च कफपित्तं प्रसिच्यते ।
स्तिमितं चास्य हृदयमाध्मातमिव चोदरम् ॥
दृतिः पूर्णं इवानद्धः क्षुभ्यते दोषसंचयात् ।
संछर्दयति चाभीक्ष्णं मूर्छां चापि नियच्छति ॥
अपि तृष्यत्ययं गाढमास्यं ह्यस्योपशुष्यति ।
स्वरभेदो ऽ स्य भवति कण्ठश्शुष्क इवोद्गतः ॥
मन्ये च परिदह्येते श्रद्धा चास्य न जायते ।
यदास्य वायुः पित्तं च श्लेष्मा चापि समुद्गतः ॥
आमेन संयुतश् चैव सावशेषः प्रवर्तते ।
स उभाभ्यां तथाभीक्ष्णं स्रोतोभ्यामतिरेचितः ॥
कफपित्ते क्षयं प्राप्ते वाते हि किल मूर्च्छिते ।
शुद्धकोष्ठे हृते दोषे शून्यकाये च मारुतः ॥
एकस्थाने त्वनासक्तो विधावति ततस्ततः ।
वङ्क्षणं हृदयं नाभिवस्तिमर्माणि चाविशन् ॥
संज्ञां हृत्वैव कुरुते मुहुर्मुहुरचेतनम् ।
इत्य् एतद्रूपमामस्य यथावदुपलक्षयेत् ॥
अत ऊर्ध्वं प्रवक्ष्यामि जीर्णस्यान्नस्य लक्षणम् ।
मधुरः पूर्वमुद्गारो मध्ये चाम्लो यदा भवेत् ॥
पश्चात्सकटुकश् चापि निर्विदाहो भवत्यथ ।
लाघवं वीक्ष्यते काये विशुद्धं विशदं मुखम् ॥
प्रगुणं कुरुते वातमूर्ध्वं वा यदि वाप्य् अधः ।
भोक्तुं श्राद्धा भवत्यस्य रुजा चान्योपशाम्यति ॥
इत्य् एभिर् लक्षणैर्जीर्णं विद्यादन्नं शरीरिणाम् ।
अजीर्णं लङ्घयेद् आमे पाचनीयस्ततो भवेत् ॥
यवाग्वादिभिर् आहारैस्संसृजेद्वा तमुत्तरम् ।
शुण्ठीप्रतिविषामुस्ताक्वाथः स्यादामपाचनः ॥
शुण्ठीनीरकधान्याकैस्तुल्यैः क्वाथो रुचिप्रदः ।
मुस्तं हिङ्गु त्रिकटुकं पाठा वत्सा हरीतकी ॥
चूर्णः प्रतिविषा चेति चित्रकश् चामनाशनः ।
पिप्पलीनागरक्षारस्सुखोदकसमायुतः ॥
स्वेदनं कफवर्तिश् च शूलेषु स्तिमितेषु च ।
अगारधूमः पिप्पल्यो मदनं राजसर्षपाः ।
गोमूत्रपिष्टास्सगुडाः फलवर्तिः प्रशस्यते ॥ इत्य् आह भगवान् आत्रेयः इति भेले दशमो ऽ ध्यायः ॥ ॥ एकादशो ऽ ध्यायः ॥ अथातस्समशयनपरिघनीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0