भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.7

1.7.1

इन्द्रियाणि हि सर्वाणि परिजीर्यन्ति जीर्यतः ।
तस्मात् सर्वत्र वयसि यथाकालं स्त्रियं व्रजेत् ॥

1.7.2

न त्वनाप्यायितबलः समागच्छेत् तु योषितः ।
नायोनिषु प्रयुञ्जीत तिर्यग्योनीश् च वर्जयेत् ॥

1.7.3

न प्राप्तं धारयेद् वेगं गत्वा शीतोदकं स्पृशेत् ।
न तु श्रान्तो न वा भुक्तो न क्लिष्टो ऽ प्याविलो न च ॥

1.7.4

कृशो नात्यशितो वापि दीनो वा मैथुनं व्रजेत् ।
मितवाक् सततं यः स्यात् स्निग्धान्नाशी युवाआचरेत् ॥

1.7.5

सुबहुस्निग्धरेताश् च यथर्तुशयनाशनः ।
जीर्णामासन्नसत्वां च व्याधितां मलिनां कृशाम् ॥

1.7.6

व्यङ्गिनीं परकामां च पूतिकोष्ठां च वर्जयेत् ।
बलमारोग्यमायुश् च वपुस्तेजश् च देहिनाम् ॥

1.7.7

हीयते हीदृशीं गत्वा प्राप्याकालजरामिव ।
ऋतावृतौ यथाकालं मैथुनं ना समाचरेत् ॥

1.7.8

वर्षासु नवरात्रात् तु दशरात्राच्छरद्य् अपि ।
पञ्चाहाद्धेमसमये सप्ताहाच्छिशिरे तथा ॥

1.7.9

पक्षाद्वसन्ते ग्रीष्मे तु मासि मासि समाचरेत् ।
निदाघे पश्चिमे मासे मैथुनं चैव वर्जयेत् ॥

1.7.10

अथवा यौवनोत्साहबलस्नेहसमन्वितः ।
शिशिराम्बुकृतस्नानो हृद्यस्रगनुलेपनः ॥

1.7.11

नातिव्यायामनिरतः क्षीरमांसघृताशनः ।
हृद्यमाल्याम्बरधरा हृद्याभरणभूषिताः ॥

1.7.12

हृद्ययौवनसंपन्नाः प्रियाः प्रियकथानुगाः ।
हृष्टाः सर्वत्र काले अ शक्त्यर्धेन व्रजेत्स्त्रियः ॥

1.7.13

चतुर्दशीं पञ्चदशीमष्टमीं च विवर्जयेत् ।
पिबेत्क्षीरं घृतं नित्यम् आयुष्यकरणं हितम् ॥

1.7.14

बलवर्णकरं ह्येतदारोग्यकरणं तथा ।
संहारयेद् रोमनखं त्रिर्मासस्य च मानवः ॥

1.7.15

ओषधीश् च मणींश् चैव मङ्गल्यान् धारयेत्सदा ।
मन्त्रानावर्तयेच् चापि ब्रह्मप्रोक्तं सनातनम् ॥

1.7.16

स मे माद्यापगाद्देहाद्वायुः प्राणाश् च ये सदा ।
इन्द्रो मे बलमादद्याद् शिवं चापो दिशन्तु नः ॥

1.7.17

इत्य् एवं मन्त्रमार्षं वै भुक्त्वा गत्वात् हवा स्त्रियः ।
संजपन्वै स्पृशन् वारि तथा ऽ स्यायुर्न हीयते ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सप्तमो ऽ ध्यायः ॥ ॥ अष्टमो ऽ ध्यायः ॥ अथातो मात्राशितीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc