भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.6

1.6.1

न वेगान्धारयेद् धीरः प्राप्तान्मूत्रपुरीषयोः ।
न वातस्य न पित्तस्य न शुक्लस्य कफस्य च ॥

1.6.2

उद्गारच्छर्दिजृम्भाणां तथा च क्षवथोरपि ।
न बाष्पस्य न निद्रादेः प्राप्तं वेगं विधारयेत् ॥

1.6.3

रोगसञ्जनका ह्येते हिंस्युरायुर्विधारिताः ।
एतानेव प्रकुर्युश् च तथा ऽ प्राप्तास्समीरिताः ॥

1.6.4

वातमूत्रपुरीषाणां धारणादनिलादयः ।
कुप्यन्ति रेतसश् चापि शर्करा साश्मरी तथा ॥

1.6.5

त्वग्दोषो वा ज्वरो वा स्यात् गात्रे शोफादि वा पुनः ।
छर्दिपित्तकफानां तु धारणेन समीरणात् ॥

1.6.6

जृम्भादिधारणादान्ध्यं तिमिरं बाष्पधारणात् ।
क्षवथूद्गारनिद्रादेः धारणात्स्याच्छिरोरुजा ॥

1.6.7

तस्मान्मूत्रपुरीषं वै विसृजेत्काल्यमुत्थितः ।
उक्ता ह्य् अधारणीयास् तु धारणीयान्निबोधत ॥

1.6.8

लोभमोहभियां तृष्णाचिन्तयोर् मदमानयोः ।
शौर्यस्य च तथा विद्वान् प्राप्तं वेगं विधारयेत् ॥

1.6.9

एतद्धारयतो ह्य् अस्य बलमायुश् च वर्धते ।
उदङ्मुखश्शुचौ देशे प्राङ्मुखश् चा ऽ वकुण्ठितः ॥

1.6.10

आवश्यकमुपासीत कृते चाद्भिर् उपस्पृशेत् ।
कृतशौचस्ततो जन्तुर्भक्षयेद् दन्तधावनम् ॥

1.6.11

धवं पलाशw न्यग्रोधw नक्तमालमथापि वा ॥ शिरीषं करवीरं च जातिवृक्षमथार्जुनम् ॥

1.6.12

एतेषां दन्तधवनं श्रेष्ठमाह पुनर्वसुः ।
आपाट्य विदलीकृत्य दन्तमांसमबाधयन् ॥

1.6.13

तदस्य शोधयेद् वक्त्रं पित्तस्य च कफस्य च ।
शमनं वातरक्तादेः कुरुते दन्तधावनम् ॥

1.6.14

मुस्तकल्कं सत्रिफलं मधु तैलं सुखोदकम् ।
प्रत्येकं कबलग्राहं धारयेद् अनुपूर्वशः ॥

1.6.15

वातपित्तकफा दुष्टाः शाम्यन्ति कबलग्रहात् ।
माधूकं चोपदेहघ्नं स्वररक्तप्रसादनम् ॥

1.6.16

तैलं दन्त्यं सुरभिकृत्तदभिष्यन्दनाशनम् ।
क्षतं संरोहयेद् वक्त्रं शीर्यमाणं नियच्छति ॥

1.6.17

इन्द्रियाणां मतो ऽ भ्यङ्गो गुरुदोषविमोक्षणः ।
त्वग्दोषशमनो बल्यो वातरक्तप्रसादनः ॥

1.6.18

ग्राम्यधर्मातिगत्या च रथाश्वगजपातनात् ।
दण्डमुष्टिहतानां च रुजाश्रमविनाशनः ॥

1.6.19

त्वचः प्रसादनो अभ्यङ्गः शाम्यत्युत्सादनात्क्लमः ।
प्रहर्षं कुरुते स्थैर्यं मलघ्नं चावसेचनम् ॥

1.6.20

विलेपनं ह्लादयति कण्डूं हन्ति प्रसादनम् ।
शिशिरं ह्यञ्जनं दृष्टेः तिमिरं च प्रणश्यति ॥

1.6.21

तनूरुहेन्द्रियबलं नस्यतैलादुपागतात् ।
स्वररक्तप्रसादश् च नश्यन्ति पलितानि च ॥

1.6.22

स्वक्तः सूत्सादितश् चैव प्रघृष्टश् च यथाबलम् ।
यथर्तुवारिणा स्नातस् त्व् अनुलिप्तस्ततः परम् ॥

1.6.23

प्रसाधितोत्तमाङ्गश् च ततो नस्यं प्रदापयेत् ।
ततस्संशुद्धदोषस्य धूममस्य प्रकल्पयेत् ॥

1.6.24

कुटन्नटैलाह्रीबेरं ध्यामकागरुचन्दनम् ।
कालानुसार्यां नलदं पृथ्वीकाम् अथ गुग्गुलम् ॥

1.6.25

तालीसं पद्मकं मुस्तं प्रियंगुं सहरेणुकाम् ।
हरिद्रां च सुगन्धां च सरलां देवदारु च ॥

1.6.26

श्रीवेष्टकं सर्जरसं चोरकं चेति संहरेत् ।
वक्त्रं च सर्पिषाक्तं स्याद् धूममेतं ततः पिबेत् ॥

1.6.27

अष्टांगुलप्रमाणा वाप्य् अथवा द्वादशांगुला ।
षडंगुलप्रमाणा वा धूमवर्तिः प्रशस्यते ॥

1.6.28

सौवर्णं राजतं ताम्रं गजदन्तस्य वा पुनः ।
वृक्षसारमयं वापि धूमनेत्रं प्रशस्यते ॥

1.6.29

चतुर्वा पञ्चकृत्वो वा धूमं स्रोतस्यवाचरेत् ।
वातानुलोमनं कुर्याच् छ्लेष्माणं चापकर्षति ।
बलं ददाति दृष्टेश् च सम्यग्धूमो निषेवितः ॥

1.6.30

अष्टौ धूमस्य कालाः स्युर् येषाम् अन्ते प्रशस्यते ।
उत्थितस्यैव शयनाद् दन्तप्रक्षालने कृते ॥

1.6.31

जलक्रीडानिवृत्तस्य तथा भुक्तवतो ऽ शनम् ।
क्षुतोच्चारव्यवायान्ते भुक्तवान्तवतस् तथा ॥

1.6.32

गुणांश् चैकैकशस् तेषां धूमपानकृतान् शृणु ।
तत्र शय्योत्थितस्यैव वक्ष्याम्यथ यथाक्रमम् ॥

1.6.33

हन्त्युत्सन्नं कफं जन्तोष्षडिन्द्रियविबोधनः ।
प्रतिबुद्धस्य चेद्धूमो मारुतस्यानुलोमनः ॥

1.6.34

दन्तप्रक्षालनादूर्ध्वं रोगान्सम्यग्व्यपोहति ।
च्युतश्लेष्मापनयनः सुगन्धिविशदास्यकृत् ॥

1.6.35

दन्तमांसक्षयकृतव्याधयो वदनेषु ये ।
दोषाः कासप्रभृतयस्तांश् च धूमो व्यपोहति ॥

1.6.36

शिरोगता याश् च रुजाः सलिलक्रीडनोद्भवाः ।
कर्णशूलं प्रतिश्यायं चाशु धूमो व्यपोहति ॥

1.6.37

वातपित्तकफान् धूमः शमयेद् भोजनोद्गतान् ।
शिरोविशुद्धिं कुरुते भुक्तं च स्थापयत्य् अपि ॥

1.6.38

धमनिप्रतिपन्नस् तु वायुः क्षवथुनेरितः ।
व्याप्नोति सर्वस्रोतांसि स धूमेनानुलोम्यते ॥

1.6.39

वर्चःकर्मोद्धतो वायुर्गलमूर्धशिरोगतः ।
प्राणानाध्मापयति वा स धूमेनानुलोम्यते ॥

1.6.40

शुक्लस्रोतोगतो वायुरूर्ध्वम् एव प्रपद्यते ।
स घोरान् हि सृजेद्रोगांस्तं धूमेनानुलोमयेत् ॥

1.6.41

रोगाधिपतये छर्द्या स्थानेभ्यो ऽ भिस् अमीरिताः ।
अनारोग्याय कल्पन्ते तेषां धूमः प्रशस्यते ॥

1.6.42

हृतेषु दोषेष्व् अनिलः शून्यस्थानानि संचरन् ।
सम्मूर्च्छति शिरो गत्वा तं धूमेनानुलोमयेत् ॥

1.6.43

पूर्वं पीतोदको भुक्त्वा लभते कृशतां नरः ।
मध्ये भक्तस्य पिबतो भोजनं नापकृष्यते ॥

1.6.44

भुक्तवानथ पानीयं पश्चाद् अनुपिबेच् च यः ।
तदाप्यानुगतं भुक्तं समत्वायोपपद्यते ॥

1.6.45

अग्नौ प्रतापयेत् पाणी स्यातां यावत् तु निर्जलौ ।
ततः पदशतं गच्छेद्भक्तं ह्येवं प्रयात्यधः ॥

1.6.46

न रात्रौ दधि भुञ्जीत नाघृतं नाप्य् अमाक्षिकम् ।
कुष्ठौ पतेपि वांछं किं कण्ठरोगाच् च बुद्धिमान् ॥

1.6.47

तोयक्षिप्तं स्पृशेन्नान्नं न च पर्युषिताशनः ।
न चाजीर्णाशनो जन्तुर्जिघांसुर्व्याधिसंभवम् ॥

1.6.48

सोपानत्कस् तथा दण्डी छत्रेण व्यजनेन च ।
आबाधान् वर्जयेत्सर्वान्विचरेदापरिश्रमात् ॥

1.6.49

तपस्विनः पितॄन्देवान्ब्राह्मणांश् च समाहितः ।
अर्चयन्विधिवन्नित्यं जीवेद्वर्षशतं नरः ॥

1.6.50

वातो हि शूलं विहतः करोति मूत्रप्रदोषं जनयेच् च मूत्रम् ।
कासः प्रतिश्यायमथो क्षयं च श्वासं च कुर्याद् विहते तु वेगे ॥

1.6.51

पुरीषमानाहमतीव कुर्याद् रेतो ऽ वरोधः कुरुते ऽ थ षाण्ड्यम् ।
तस्माद् धि वेगं न विधारयेत नरो य इच्छेदिह दीर्घमायुः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले षष्ठो ऽ ध्यायः ॥ ॥ सप्तमो ऽ ध्यायः ॥ अथात इन्द्रियोपक्रमणीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc