भेलसंहिता · अध्याय 1.5
अथाशितेन पीतेन खादितेन च युक्तितः ।
बलमाप्यायते जन्तोः सद्यो वह्निरिवेन्धनैः ॥
तेनैवात्यादृतेनेह भोजनेन शरीरजाः ।
व्याधयस्संप्रवर्धन्ते कायाग्नावपि दूषिते ॥
द्विविधं तु भिषग्विद्यादाहारस्यैव लाघवम् ।
द्विविधं गौरवं भुक्ते प्रोच्यमानं निबोधत ॥
मात्रालघुस्स्यादाहारः कश्चिद्द्रव्यलघुः स्मृतः ।
मात्रागुरुस् तथैव स्याद् द्रव्यतश् च तथा गुरुः ॥
पुराणशालयो मुद्गाः शशतित्तिरिलावुकाः ।
एवंप्रकारं यच्चान्यत् तद्द्रव्यं लघु संस्मृतम् ॥
ग्राम्यानूपौदकं मांसं दधि पिष्टं तिलाह्वयम् ।
एवंप्रकारं यच्चान्यत्तद्द्रव्यं गुर्विति स्मृतम् ॥
तत्र यो मात्रया भुङ्क्ते द्रव्यं गुर्वपि मानवः ।
आहारं तस्य पश्यन्ति लघुम् एव चिकित्सकाः ॥
शाल्यादीन्य् अपि यो ऽ त्यर्थमश्नाति सुलघून्य् अपि ।
आहारस्स तथारूपो व्यक्तं सम्पद्यते गुरुः ॥
द्रव्यस्य लघुनो युक्त्या सौहित्य् अं यो ऽ धिगच्छति ।
एकान्तपथ्यं तं विद्यादाहारं कुशलो लघुम् ॥
यदि युक्त्यापि सौहित्यं द्रव्यस्यालघुनो व्रजेत् ।
तथाविधमिहाहारं गुरुम् एव ब्रवीम्यहम् ॥
तस्मात् त्रिभागससौहित्यम् अर्धसौहित्यम् एव वा ।
आहारं लघुमन्विच्छेत् गुरूणां सेवितं सदा ॥
लघु वापि समासाद्य द्रव्यं यो ह्य् अतिसेवते ।
तल्लघ्वप्यतिसंयुक्तं कोष्ठे सम्पद्यते गुरु ॥
गुरुलाघवविद्वैद्यो नराणां वर्धयत्य् असून् ।
तस्माद् एवं विजानीयाद्द्रव्याणां गुरुलाघवम् ॥
एवम् एव च भोज्येन पथ्येनाप्यायते नरः ।
हीयते चाप्य् अपथ्येन प्रदुष्टैर्मारुतादिभिः ॥
स्वस्थस्यान्नेन वर्धन्ते धातवः शोणितादयः ।
व्याधितस्यापि दोषाय भोज्यं परिणमत्य् अथ ॥
यथा ह्य् अकालवृष्ट्या च भूमौ बीजं विपद्यते ।
वर्धते कालवृष्ट्या च देहिनो ऽ पि तथा रसैः ॥
यश् च नित्यम् उदारः स्यात् सुखनिश्चलमानसः ।
लघुपानरतः सात्म्ये ऽ पि यथागसि दूरगः ॥
स्नातो ऽ नुलिप्तः स्रग्वी स्याद्धौतदन्तस्स्वलंकृतः ।
धर्मस्सत्यमहिंसा च प्रायो ह्यन्नं समाश्रितम् ॥
वमयेच्छलेष्मरोगांश् च पैत्तिकांश् च विरेचयेत् ।
निरूहयेद् वातरोगान् रक्तजांश् चावसेचयेत् ॥
रक्तशालीन् समुद्गान् वा षष्टिकानथवा पुनः ।
सुस्विन्नान्मात्रयाश्नीयात् घृतसैन्धवसंयुतान् ॥
ईषत्पिप्पलिकं यूषमीषच् च मधुनान्वितम् ।
ईषत्सलवणं चापि पयश् चार्धकृतं पिबेत् ॥
विष्किरान्प्रतुदांश् चाजान् जाङ्गलांश् च मृगद्विजान् ।
यच् चान्यत्कटुकं पाके भोज्यं तन् नित्यम् आचरेत् ॥
पादाभ्यां न चरेत्कृष्टे विषमे कण्टकेषु च ।
गहनं परदारांश् च नदीः पूर्णाश् च न व्रजेत् ॥
कलहं चापि कोपं च रात्रिचर्यां विवर्जयेत् ।
गजस्य न स्यादासन्नः तोयार्द्रस्य च वाजिनः ॥
जनवादांश् च शौण्डांश् च द्विषतश् चापि मानवान् ।
म्लेच्छान्निकृतिबुद्धींश् च न सेवेत कदाचन ॥
सर्वान् सरीसृपांश् चैव क्षुद्रपादांश् च न स्पृशेत् ।
महिषान् गवयान् खड्गान् व्याघ्रान् सिंहांश् च वर्जयेत् ॥
नारोहेत्पादपान् वेश्म न धावेद्वर्षदुर्जले ।
न गवां प्रतिलोमं च न मध्ये नाग्रतो व्रजेत् ॥
सद्यः प्रवृष्टौ नारोहेद्धिमवन्तं च पर्वतम् ।
घृतमुष्णाम्बु च भजेदेतदारोग्यम् उत्तमम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले पञ्चमो ऽ ध्यायः ॥ ॥ षष्ठो ऽ ध्यायः ॥ अथ न वेगान्धारणीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0