भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.4

1.4.1

पिप्पल्यो दीप्यकश् चैव तथा मूषिककर्णिकाः ।
बिल्वस्य पल्लवाः श्वेता हरिद्रा मधुकं तथा ॥

1.4.2

एते कुष्ठं प्रतिघ्नन्ति युक्ताः पानप्रलेपनैः ।
गवां पित्तं शुनः पित्तमलावूं कटुकां तथा ॥

1.4.3

निम्बं नतं शर्करां च दद्यात् तद्वत् प्रलेपनम् ।
यातुण्डमण्डलीद्वीपात् मूलान्येडगजस्य च ॥

1.4.4

सुरादनीं सुगन्धां च दद्यात् तद्वत् प्रलेपनम् ।
सुवर्णपुष्पीं कटुकां श्यामां तेजोवतीं तथा ॥

1.4.5

त्रिवृत्सञ्जातकं चैव कुष्ठे संशोधनं विदुः ।
आरग्वधं च भार्गीं च साश्वगन्धां गवादनीम् ॥

1.4.6

श्वेतां ज्योतिष्मतीं चैव सूक्ष्मचूर्णानि कारयेत् ।
गवां पित्तेन तच्चूर्णं सप्तकृत्वः सुभावितम् ॥

1.4.7

योज्यं सर्षपतैलेन सैन्धवेन च युक्तितः ।
एतद्वै हृतदोषस्य मितदध्यन्नभोजिनः ॥

1.4.8

तनुलेपनमुद्दिष्टं कृमिकुष्ठविनाशनम् ।
गवेधुकमकुष्ठौ च खदिरक्वाथपाचितौ ॥

1.4.9

तावप्युभौ प्रयुञ्जीत कुष्ठिनां कुष्ठशान्तये ।
अथ कण्डूघ्नवृक्षाणां रसाः स्युः कुष्ठिनां हिताः ॥

1.4.10

प्रलेपपरिषेकेषु खदिरस् तु प्रशस्यते ।
खदिरोदक पायी स्यात् खदिरोदकभोजनः ॥

1.4.11

भूयिष्ठमुदकार्थे च कुर्वीत खदिरोदरम् ।
सारवन्तौ महावृक्षौ धवरोहित कावुभौ ॥

1.4.12

शिंशुपा चाश्वकर्णश् च खदिरो बिल्वमाश्रितः ।
कदलीमुष्ककौ हिंस्रा भद्रोदुम्बरिकाफलम् ॥

1.4.13

एतैरप्युषितं कुष्ठे गोमूत्रं परिषेचनम् ।
सालाश्वकर्णनिर्यासो निर्यासः कुलिशस्य च ॥

1.4.14

एते कुष्ठनिमित्तानां व्रणानां स्युः प्रपीडकाः ।
पुण्डरीकस्य वक्ष्यामि क्रियां रोगविनाशिनीम् ॥

1.4.15

आवर्तां शाल्मलीमूलं मलयूकां सुधां वरीम् ।
भद्रोदुम्बरिकामूलं फलान्यावल्गुजानि च ॥

1.4.16

रात्रौ यन्त्रेण निष्पीड्य दन्तिचित्रकम् एव च ।
पाठां हरिद्रे च तथा गवां मूत्रेण योजयेत् ॥

1.4.17

अष्टभागावशिष्टं तत्साधितं सुपरिष्कृतम् ।
पिबेत्काल्यं समुत्थाय श्वित्री शीतोदकं पिबेत् ॥

1.4.18

सर्वतः परिरक्षेत् तु स्थापयेच्चैनमातपे ।
भैषज्यपीडिता दोषास् त्व् अचमस्यानुसंश्रिताः ॥

1.4.19

मण्डलेषु तपस्फोटं जनयन्त्यर्करश्मिभिः ।
स्फोटेष्व् अथ तु जातेषु छायायाम् उपवेशयेत् ॥

1.4.20

शीताभिर् अद्भिः प्रक्षाल्य भोजयेद् रसभोजनम् ।
संक्षुभ्यन्ते ऽ थ वै तोयपरिपूर्णा इवाम्बुदाः ॥

1.4.21

सूच्यग्रेणाथ तीक्ष्णेन व्यथयेत्कण्टकेन वा ।
चन्दनस्य च यत्सारं बदरात् खदिरस्य च ॥

1.4.22

एतैः पानीयपिष्टैस् तु सर्पिःक्षौद्रसमन्वितैः ।
पत्रेषु पुष्करिण्यास् तु संविष्टस्याथ देहिनः ॥

1.4.23

ततस् त्व् आलेपयेत्स्फोटान् शीतोदकपरिप्लुतान् ।
क्षीरिणां चापि वृक्षाणां त्वचस्संक्षोदयेद् भिषक् ॥

1.4.24

तैः कषायेइश् च कल्कैश् च सिञ्चयेल् लेपयेच् च तम् ।
खर्जूरस्य च बीजानि शङ्खनाभिः च दापयेत् ॥

1.4.25

अञ्जनं तगरं पत्रं गैरिकं नीलमुत्पलम् ।
एषां सूक्ष्मेण चूर्णेन स्रवन्तमवचूर्णयेत् ॥

1.4.26

शकृद्द्राक्षाक्षौद्रयुक्तो दातव्यः परिपोटने ।
आहारोत्सादनाभ्यङ्गं पूर्वेण विधिना भिषक् ॥

1.4.27

कारयेत्कुष्ठिनामेवं ततः सम्पद्यते सुखी ।
न च व्याधिमुपेक्षेत शरीरं पतितं बुधः ।
त्वरेत शमने तस्य प्रदीप्तस्येव वेश्मनः ॥

1.4.28

यथा ह्येकान्ततो वृक्षो वर्धते सुखतश्शनैः ।
तथा शरीरमासाद्य रोगो वर्धत एव तु ॥

1.4.29

तस्माद् रक्षन्महावेगादक्षीणस्यैव देहिनः ।
प्रागेवोपचयाद्रोगान्हन्याद्वैद्यो विचक्षणः ॥

1.4.30

त्र्यहात्त्र्यहाच्चावपीडः पक्षान्मासाद्वमेत्तथा ।
रेचयेद् अयने पूर्णे सिरामोक्षो विधीयते ॥

1.4.31

श्यामाकाश् च मकुष्ठानि चणकाः कुष्ठिनां हिताः ।
एवं हि वर्तमानानां कुष्ठं प्रशममेति वै ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले चतुर्थो ऽ ध्यायः ॥ ॥ पञ्चमो ऽ ध्यायः ॥ अथात्याशितीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc