भेलसंहिता · अध्याय 1.27
अथोदकं क्लेदयति लवणं स्यन्दयत्य् अपि ।
अथ पाचयति क्षारः क्षीरं वै जीवयत्य् अपि ॥
स्नेहयत्यथ सर्पिश् च पिशितं बृंहयत्य् अपि ।
माषा बहुमलाश् चापि श्लीपदं जनयेद् दधि ॥
त्वचं प्रसादयेत् तैलं स्नेहनाय च कल्पते ।
पिण्याकः कुरुते ग्लानिं तक्रं च क्षपयत्य् अपि ॥
मधु चाप्य् अथ सन्धत्ते जर्जरीकुरुते सुरा ।
हरेणुभिर् मसूरैश् च भृशं वायुः प्रकुप्यति ॥
कफकृन्मूलकं विद्यात् सर्षपं वातकोपनम् ।
लशुनं वातशमनं पित्तश्लेष्मकरं च तत् ॥
नातिश्लेष्मकरं हिङ्गु षण्ड्यं क्षारः करोति च ।
सर्वं तिक्तमवृष्यं तु विद्यादन्यत्र कूलकात् ॥
अवृष्यं पैष्टिकं सर्वं यवगोधूमवर्जितम् ।
दाडिमामलकादन्यत्सर्वमम्लं तु पित्तलम् ॥
यवकान् दारुणान् विद्यात् पृथुकान्शालिषष्टिकान् ।
निर्दिशेन्मृगतुल्यांस् तु तथानूपान्मृगद्विजान् ॥
तथैकान्तहितांश् चापि जांगलान्मृगपक्षिणः ।
इत्य् एतत्संग्रहेणोक्तं भोज्यं विस्तरतः शृणु ॥
पिप्पली शृङ्गिबेरं च पलाण्डुलशुनानि च ।
मूलकं कृश्णगन्धा च पर्णासं कालमानकम् ॥
सुरसं सुमुखं चैव चटकं च फणिज्जकम् ।
रसेन कटुकं विद्यात् विपाके मधुरं तथा ॥
किराततिक्तो निम्बश् च केतुकाशकठिल्लकाः ।
कूलकं च सवेत्राग्रं तिक्तं मधुविपाकि च ॥
प्लक्षकाश्मर्यमधुकं स्वादु पाके परूषकम् ।
खर्जूरं नालिकेरं च प्रियालं तद्विधानि च ॥
मधुकं च बिसं चैव जीवनीयानि यानि च ।
रसे पाके च मधुरं तद्विद्याद् विविधं च यत् ॥
बसानि कटुका बिम्बी सर्वं चैवेक्षुवैकृतम् ।
रसे पाके च मधुरं तद् विद्यात् त्रिविधं च यत् ॥
न्यङ्कुं चरसमुद्रांश् च सृमरान्खड्गसूकरान् ।
अन्यांश् चानूपजान् विद्यान्मधुरान् रसपाकतः ॥
कादम्बान्सैन्धवान्हंसान्सारसाञ्श्चेतवारणम् ।
काचाक्षान्मल्लिकाक्षांश् च तथा पुष्करसायकान् ॥
दिपवेप्नि शरारींश् च विक्रमान् सुमनामुखान् ।
नन्दिमौद्गल्यकांश् चापि कालकान् कृष्णपुच्छकान् ॥
आज्ञातान् डुण्डुभांश् चैव मण्डूकान् छुटुमल्लिकान् ।
हर्ष्यात् तु सप्तवारादि तथा गर्भभतासकान् ॥
सर्वांश् च वारिजान्विद्यान्मधुरान् रसपाकतः ।
प्रियङ्गुश् च प्लाङ्गश् च बलाकाश् च खगास् तथा ॥
ये चान्ये ऽ प्यौदका भौम्याः खेचराश् च खगाः स्मृताः ।
नक्रांश् च शिशुमारांश् च वल्लकीमत्स्यकच्छपान् ॥
अन्यांश् च वारिजान्विद्यान्मधुरान्रसपाकतः ।
प्रियङ्गुश् च विनक्ताश् च नीलिकाशालिषष्टिकाः ॥
परूषकाश् च नीवाराः कोद्रवा ब्रह्मभूतिकाः ।
इत्य् एतद्धान्यजातं वै यच्चान्यदपि तद्विधम् ॥
रसेन मधुरं तद्वै विपाके कटुकं विदुः ।
मुद्गान् मसूरांश् चणकान् कुलुत्थांश् च कलायकान् ॥
रसेन मधुरांस्तान्वै विपाके कटुकान्विदुः ।
रोहीं श्वदंष्ट्रानुष्ट्रांश् च शरभान्मृगमातृकान् ॥
अथान्यान्मधुरास्वादान्विपाके कटुकान्विदुः ।
खराश् चाश्चतरामेषा ये चान्ये तादृशा मृगाः ॥
रसेन मधुरांस्तान्वै विपाके कटुकान्विदुः ।
हरीतान् स्तोककांश् चैव कपोतान् शुकशारिकाः ॥
चटकान् भृङ्गराजांश् च तथा पिप्पलकानपि ।
गोधापुत्रांस्तैलपाकान्ये चान्ये प्रतुदाः खगाः ॥
ये चान्ये मधुरास्तान्वै विपाके कटुकान्विदुः ।
अनुपानानि वक्ष्यामि येषु यानि हितानि वै ॥
आजे कषायशीतस् तु हायने चोदकं तथा ।
अनुपानं विधातव्यं वाराहे खदिरोदरम् ॥
दधि चुक्रं च धान्यानाम् अनुपानं प्रदापयेत् ।
शीरोदकं बिसग्रन्थिसेवनानां तथासवान् ॥
तद्वारिजानां सत्वानाम् अनुपानं प्रदापयेत् ।
त्रिफलां शीधुमार्द्वीकं कदम्बपनसोदकम् ॥
सुरद्रुजम्बूप्लक्षाणां फलस्कन्धासवान्पृथक् ।
मुद्गादिसूपधान्यानाम् अनुपानं प्रदापयेत् ॥
बिल्वपिण्डककल्कानां कपित्थस्याथवासवान् ।
गुहाशयानां सत्वानाम् अनुपानं प्रदापयेत् ॥
न्यग्रोधादिगणस्याथ स्कन्धशाखाफलासवान् ।
विष्किराणां विहङ्गानाम् अनुपानं प्रदापयेत् ॥
ककुभस्यानुपानं तु स्निग्धानां चापि वारुणीम् ।
चतुर्विधस्य स्नेहस्य तोयमुष्णं प्रदापयेत् ॥
द्राक्षाकाश्मर्यखर्जूरयववाट्यांस्तथासवान् ।
अश्वगन्धकषायं तु वारुणीमण्डम् एव च ॥
सुखेन पाचयत्य् अन्नं रोचयत्य् अपकर्षति ।
अनुपानं मनुष्याणां सात्म्यतां च प्रयच्छति ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सप्तविंशो ऽ ध्यायः ॥ ॥ अष्टाविंशो ऽ ध्यायः ॥ अथातो भोजनविधीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0