भेलसंहिता · अध्याय 1.26
अथाष्टावुदराणीह मूत्राघातांश् च निर्दिशेत् ।
षट् काचांल्लिङ्गनाशांश् च जानीयात् तिमिराणि च ॥
हिक्काश्वासांश् च कासांश् च खालित्य् अं पलितानि च ।
शिरोरोगार्बुदान् गुल्मान् छर्दीनथ भगन्दरान् ॥
उन्मादान्मुखरोगांश् च स्थानान्यनशनस्य च ।
ग्रन्थींश् च पञ्च पञ्चैव कुष्ठान्यष्टौ विनिर्दिशेत् ॥
हृद्रोगान् पाण्डुरोगांश् च सास्रावान् श्वयथूंस् तथा ।
अभिष्यन्दानधीमन्थान्क्लीबस्थानानि चाप्य् अथ ॥
अक्षिरोगानपस्मारान् रक्तरोहिणिकां तथा ।
पिपासाश्चोपदंशांश् च चतुष्काणि विनिर्दिशेत् ॥
पृष्ठरोगज्वरार्शांसि रक्तपित्तव्रणौ तथा ।
द्वौ द्वौ तिस्रस् तु विद्रध्यस् त्व् अलज्यः शोणितानि च ॥
रेतसां श्लीपदं चार्म सप्त सप्त विनिर्दिशेत् ।
प्रमेहान् कृमिजातीश् च योनिदोषांश् च विंशतिम् ॥
तत्रोदराण्यथाष्टौ तु व्याख्यातानि चिकित्सिते ।
निदानेनैव रोगास् तु ये नोक्तास्तान्निबोध मे ॥
अरुणा नीलपीताश् च हरितश्वेतलोहिताः ।
काचं च लिङ्गनाशं च तिमिराणि च निर्दिशेत् ॥
वातः पित्तं कफो वापि यस्य शीर्षं विधावति ।
विदहन्नेष मूलानि स्रोतांसि समभिद्रुतः ॥
अध्वना वातिभाराद्वा देहिनां वार्धकेन वा ।
खालित्य् अं पलितं वापि पञ्चधैव भवत्यथ ॥
वातजं पित्तजं चैव श्लेष्मजं मांसजं तथा ।
अर्बुदं मेदसा चैव पञ्चमं निर्दिशेत्पृथक् ॥
वातजं पित्तजं चैव श्लेष्मजं सन्निपातजम् ।
आगन्तुकं पञ्चमं च मुखरोगं प्रचक्षते ॥
उष्ट्रग्रीवं परिस्रावि शम्बूकावर्तम् एव च ।
उन्मार्गं शतयोनिं च तद्वद्विद्याद्भगन्दरम् ॥
छर्दयत्यथ वातेन पित्तेन च कफेन च ।
आहारादमनोज्ञाच्च सन्निपाताच् च पञ्चमम् ॥
प्रतिच्छन्ने तु हृदये वातपित्तकफैर्नरः ।
अरसादमनोज्ञाच् च भोज्यमन्नं न सेवते ॥
वातजं पित्तजं चैव श्लेष्मजं सन्निपातजम् ।
सिराग्रन्थिं विजानीयात् पञ्चमं स्नायुतो भिषक् ॥
वातजं पित्तजं चैव् कफजं सन्निपातजम् ।
अभिष्यन्दं विजानीयादधिमन्थं च बुद्धिमान् ॥
शुक्लोपरोधाद्दौर्बल्याद् ध्वजभङ्गात्तथैव च ।
शुक्रक्षयाच् च चत्वारि क्लैब्यस्थानानि निर्दिशेत् ॥
वातजं पित्त्जं चैव श्लेष्मजं सन्निपातजम् ।
अक्षिरोगं विजानीयान्मानवानां चतुर्विधम् ॥
पूयान्मूत्राच् च शुक्लाच् च सन्धानाच् चापि देहिनाम् ।
उपदंशं विजानीयाद्भिषगेवं चतुर्विधम् ॥
रक्तास्रावं कफस्रावं पूयास्रावं तथैव च ।
तोयास्रावं च जानीयाद्भिषगेवं चतुर्विधम् ॥
वातजां पित्तजां चैव श्लेष्मजां सन्निपातजाम् ।
पिपासाम् अपि जानीयाद्भिषगेवं चतुर्विधाम् ॥
वातजां पित्तजां चैव श्लेष्मजां सन्न्पातजाम् ।
विद्याद्रोहिणिकां चैव भिषगेवं चतुर्विधाम् ॥
मांसार्म त्वथ मेदो ऽ र्म प्रस्तार्यर्म तथैव च ।
स्नायवर्म प्रविजानीयाद् भिषगेवं चतुर्विधम् ॥
द्वौ ज्वरौ दाहशीतौ तु शारीरागन्तुजव्रणौ ।
शुष्कार्शः शोणितार्शश् च तथा द्वे चार्शसी विदुः ॥
पृष्ठरोगावुपक्षारिक्षारिणौ च विनिर्दिशेत् ।
बाह्यायामान्तरायामौ विद्यादाक्षेपकौ तथा ॥
मेदसः स्नायुतो मांसादलज्यस्तिस्र एव च ।
वातात्पित्तात्कफाच्चैव तिस्रो विद्रधयः स्मृताः ॥
वराहाकारणं चैव रक्तं कांस्यवकं तथा ।
वातात्पित्तात्कफान्मांसान्मेदसः स्नायुतो अपि च ॥
सिराजमर्म जानीयात् सप्तमं देहिनां भिषक् ।
सप्त सात्म्यानि जानीयात् तत्र षट् स्युर्यथा रसैः ॥
सर्वसात्म्यं यदेव स्याद्वरं सात्म्यं तदुच्यते ।
मृज्जा जरायुजा लेवा रूपका बहुरूपकाः ॥
परिसर्पा विसर्पाश् च गात्रजा नेत्रजास् तथा ।
रोमदा रोहिताश् चैव कष्टा दारुणकास् तथा ॥
शिरोजा दन्तजाश् चैव श्लेष्मजाः शकृदाश्रयाः ।
लोहिताः कालकाश् चैव तथैव शतमातृकाः ॥
विद्याद्विंशतिरित्य् एताः कृमिजातीश् च देहिनाम् ।
यथा पतत्रिः शीघ्रो ऽ पि स्वां छायां नातिवर्तते ।
वातादेर्नातिवर्तन्ते बहवो ऽ पि तथाआमयाः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले षड्विंशो ऽ ध्यायः ॥ ।
।सप्तविंशो ऽ ध्यायः ॥ अथातो ऽ न्नपानविधीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0