भेलसंहिता · अध्याय 1.25
सुश्रोता नाम मेधावी चान्द्रभागमुवाच ह ।
न पातव्यमरोगेण सुखकामेन रेचनम् ॥
अनीरितानां दोषाणां हरणं न प्रशस्यते ।
अवस्थितानां च्यवनं प्राणापायाय मे मतम् ॥
यथा व्यालाग्निशस्त्राणां स्पर्शः स्वस्थे तथौषधम् ।
तस्मान्न पाययेत्स्वस्थं प्रकृत्यर्थं हि धीयते ॥
अचाक्षुषत्वात् कोष्ठस्य पीतं स्वस्थेन चौषधम् ।
याति नैकान्ततः सिद्धिं तस्मात् स्वस्थं न पययेत् ॥
इत्य् एतद्वचनं श्रुत्वा प्रत्युवाच पुनर्वसुः ।
इह दोषविशेषेण नरो भैषज्यमाचरेत् ॥
वाते तु बृंहणं कुर्यात् पित्ते तु परिशोधनम् ।
कफे प्रर्च्छदनं साधु सन्निपाते विरेचनम् ॥
वातातपविशुष्काश् च ये च कर्मपरा नराः ।
अध्वयानविशुष्काश् च तान्न संशोधयेद् भिषक् ॥
तैलमाषांस्तिलघृतं फाणितं पिष्टमोदकान् ।
आजं गव्यमथौरम्रं मत्स्यान्मांआसवं दधि ॥
अत्यश्ननो ऽ तिपिबतः सदा च स्वपतो दिवा ।
दोषा घोराः प्रकुप्यन्ति तेषां साधु विरेचनम् ॥
किञ्चान्यद्विधिवत्काले स्निग्धस्विन्नेन भेषजम् ।
मात्रावल्लघु पीतं हि न कदाचिद्विपद्यते ॥
नाचरेदतिमात्रं हि बहुशो ऽ पि पिबेन्मृदु ।
कषायेण तु दातव्यं कषायैः साधु सिध्यति ॥
यथा ह्य् अन्नमकाले स्याद्विषं काले ऽ मृतं भवेत् ।
तथौषधमकाले स्यात् विषं काले ऽ मृतं भवेत् ॥
तस्माद् यदा वै वसुधा तृप्ता पुष्पवती भवेत् ।
तदा प्रावृषि संप्राप्तवमनादीनि कारयेत् ॥
मध्यचारी यदा सूर्यो धातूनुत्क्लेशयेन्मृणाम् ।
तदा वसन्ते संप्राप्ते वमनादीनि कारयेत् ॥
तदा वर्षासु दातव्यं यदा ह्येष ऋतुः सुखः ।
ऋतवो युक्तशीतोष्णाः प्रशस्यन्ते हि कर्मसु ॥
हैमन्तेप्यन्यथा कार्यो ग्रीष्मे भवति चान्यथा ।
वर्षासु चाप्य् अन्यथा च दुर्दिने चाप्य् अतो ऽ न्यथा ॥
तस्मिंस्तस्मिंश् च काले वै भवेत्कार्यो ऽ न्यथान्यथा ।
सात्म्यासात्म्यं मनुष्याणामन्यथा परिवर्तते ॥
त्र्यहं तु दापयेत् स्नेहं देये स्नेहविरेचने ।
नातिशीते न चात्युष्णे पेयं स्नेहविरेचनम् ॥
तृष्णाबाधा भवत्युष्णे शीते तु व्यपलीयते ।
अथ ग्रीष्मे तु सन्तप्तैर्धातुभिर् देहिनो भवेत् ॥
अतियोगः पिपासा च तदा तस्मान्न दापयेत् ।
हेमन्ते चापि तद्वीर्याद्दोषा दारुणतां गताः ॥
भवन्त्यकाले स्नेहस्य तदाप्यथ न दापयेत् ।
इह भैषज्यमुष्णं हि विक्रियामेति कालतः ॥
मन्दी भवति वैतत् तु ग्रीष्मे तैक्ष्ण्यं नियच्छति ।
यन्मैथुनाच्छुक्लवाहा वस्तिसक्थित्रिकादि च ॥
हृदयं दुर्बलं चास्य समुदीर्णश् च मारुतः ।
ब्रह्मचारी भवेत्तस्मात् पैत्तिकान् भजते ऽ न्यथा ॥
मुखपाकं मदं मूर्छां प्रलापं पाकविभ्रमौ ।
दाहं पिपासां सन्तापं वक्त्रस्याक्ष्णोश् च पीतताम् ॥
धूमाभिदूषिते पित्तविकारा ये प्रकीर्तिताः ।
भ्रमः क्लमः प्रमोहश् च मदो मूर्च्छा विकम्पनम् ॥
सन्तापो ऽ भ्यन्तरे चैव रसस्थानगते स्मृताः ।
अरुषां विवृतानां वा स्फोटानां वा प्रपाचनम् ॥
रक्तस्थानगते विद्यात् पित्ते वैवर्ण्यम् एव च ।
मांसस्थानगते स्वेदः सदनं चोपजायते ॥
मेदोधातुगते विद्यात् प्लावनं पीतमूत्रता ।
अस्थिमज्जगते शोषो नखदन्तविवर्णते ॥
मेढ्रेमुष्कपरीतापः क्लैब्यं वाप्य् अथ शुक्लगे ।
बलवद्विग्रहाद् भारात् पीडनाल्लङ्घनाद् अपि ॥
मैथुनस्यातियोगाच् च जायते मनसः क्लमः ।
त्रासोद्वेगात्प्रतीघाताद्रूक्षपानान्नसेवनात् ॥
इत्य् एभिर् ईदृशैश् चान्यैर्हेतुभिः कुपितो ऽ निलः ।
विकाराञ्जनयेच्छवासकासविष्टम्भसंज्ञकान् ॥
शूलवेपनमाध्मानं निस्तोदं सुप्ततां तथा ।
स्फोटनं चालनं रौक्ष्यं वेष्टनोत्क्षेपणानि च ॥
शोषणं कार्ष्ण्यविष्यन्दौ विश्लेषस् तु परः स्मृतः ।
द्विविधा व्याधयः प्रोक्ताः शरीरे वातसंभवाः ॥
कोष्ठानुसारिणस् तत्र ज्ञेयाः सर्वाङ्गरोगिणः ।
पक्षाङ्गरोगिणश् चैव ज्ञेयाः सर्वाङ्गसारिणः ॥
शूलवेपनसंकोचगात्रस्तम्भैश् च पीडिताः ।
अस्थिग्रहगृहीताश् च सर्वे सर्वाङ्गरोगिणः ॥
तत्र पादतलाङ्गुष्ठजङ्घाजानूरुवंक्षणैः ।
गुदमेढ्रकटीपृष्ठयोनिगर्भाशयैर् अपि ॥
यकृत्प्लीहांसहृदयपार्श्ववक्षोभुजान्तरैः ।
ग्रीवागण्डहरूशङ्खनासाक्षिदशनच्छदैः ॥
ललाटकर्णसीमन्तैः प्रत्येकमनिलार्दितैः ।
दूयद्भिर् विकलैश् चापि ज्ञेयास् त्व् एकाङ्गरोगिणः ॥
इत्य् एतन्मूलमुद्दिष्टं रोगाणां च यथाविधि ।
भूयस् त्व् इदम् अधिष्ठानं प्रतिरोगं प्रतीक्षत ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले पञ्चविंशो ऽ ध्यायः ॥ ॥ षड्विंशो ऽ ध्यायः ॥ अथातः अष्टोदरीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0