भेलसंहिता · अध्याय 1.23
गाढं पुरीषं ग्रथितं शुस्कं वातसमीरितम् ।
तेनास्यापिहितं स्रोतः श्वयथुं कुरुते गुदे ॥
तस्यैव कुपितो वायुरूर्ध्वं जन्तोः प्रपद्यते ।
पार्श्वे श्रोण्यां च पृष्ठे च हृदये चावतिष्ठते ॥
शिरश् चाप्य् अवसंगृह्य विकारान् कुरुते बहून् ।
बाधिर्यं तिमिरं चापि प्रतिश्यायमथापि च ॥
अथ पित्तं कफं वा स्वात्स्थानाच्च्यावयते ऽ निलः ।
ततो ऽ स्य धावतो दोषैर्दुष्यन्ति च रसादयः ॥
ततो ज्वरो ऽ स्य बलवान् पाण्डुत्वं चापि जायते ।
श्वयथुश् च भवेद् अस्य ग्रहणी च प्रदुष्यति ॥
तस्माद् दारुणकोष्ठस् तु गाढवर्चाश् च यो भवेत् ।
रूक्षमन्नं परिहरेन्न चैनमवस्रंसयेत् ॥
स्निग्धान्यन्नानि हृद्यानि मांसानि विविधानि च ।
कुलुत्थरसयुक्तानि प्रदद्याद्देहिने सदा ॥
आस्थापनं वातहरं तैलं चाप्य् अनुवासनम् ।
न भवन्ति विकारा हि नरस्य प्रतिकारिणः ॥
अथ यः कलिलश् च स्यात् प्रजाकामश् च मानवः ।
उत्कृष्टतारदारिश् च कर्महिनस् तथैव च ॥
अथ स्थूलकृशश् चैव वैद्यमानि च यो भवेत् ।
तथैकलोकोयतिकां मोत्रियान्न च तद्विजान् ॥
सभंगान् सुकुमारांश् च गर्भिणीं तरुणि तदा ।
दुर्दिलांश् च यदु प्राप्तान् कासिनः साति नारिणः ॥
पाण्डुराजैव कर्णं च सततं यश् च कासति ।
पाययेच् च भिषक्तापैर्वमनं सविरेचनम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले त्रयोविंशो ऽ ध्यायः ॥ ॥ पञ्चविंशो ऽ ध्यायः ॥ अथातः ऋतुविभागीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0