भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.22

1.22.1

संकरं प्रस्तरं सेकं नाडीं द्रोणिं जलानि च ।
उदकोष्ठं कुटिं चैव स्वेदमष्टविधं विदुः ॥

1.22.2

पाषाणभस्मसिकतातुषपांसुबुसानि च ।
अजाविगोपुरीषाणि प्रावाराणि प्रवातिकाः ॥

1.22.3

पयांस्यम्लानि धान्यानि गिरिसाधारणानिच ।
सर्वाणि मद्यमांसानि लवणानि तथैव च ॥

1.22.4

विधिवद्योजयेत्स्वेदे कालेयागरुरूषितान् ।
भिषग् बलाबलं दृष्ट्वा बलिनो दुर्बलानपि ॥

1.22.5

कुथकम्बलकौशेयैः प्रवेण्यजिनकादिभिः ।
किटिजैराविजैर्वस्त्रैः प्रच्छाद्य स्वेदयेन्नरान् ॥

1.22.6

स्पर्शसौख्यमवैवर्ण्यं स्वेदो ऽ ङ्गेषु च मार्दवम् ।
शीताभिनिर्गमश् चैव सम्यक् स्विन्नस्य लक्षणम् ॥

1.22.7

पित्तप्रकोपो दाहश् च तृष्णा मूर्छा विलायनम् ।
स्वेदद्वेषो ऽ ङ्गरागश्चेत्यतिस्विन्नस्य लक्षणम् ॥

1.22.8

उद्वेष्टनं दारुणता गुरुत्वं स्तब्धगात्रता ।
मरुतश् चाप्रसिद्धिश् च न तत्स्विन्नस्य लक्षणम् ॥

1.22.9

अस्विन्ने स्नेहनं कृत्वा ततः स्वेदैर् उपाचरेत् ।
स्नेहपूर्वप्रयुक्तो हि स्वेदो जयति मारुतम् ॥

1.22.10

शुष्काण्य् अपि हि काष्ठानि स्नेहस्वेदोपपादनैः ।
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान् ॥

1.22.11

अतिस्विन्ने विशेषेण कारयेच्छीतलां क्रियाम् ।
अथवा शीतलैर् वाथ क्षीरैः सिंचेद् घृतेन वा ॥

1.22.12

पिपासुं वा न शक्तं च गर्भिणीं कुक्षिरोगिणीम् ।
सर्वांश् च पित्तजान् व्याधीन् कः स्वेदैः समुपाचरेत् ॥

1.22.13

ये स्वेदाः पूर्वमुद्दिष्टास्तानप्येकैकशः शृणु ।
बिल्वाग्निमन्थश्योनाकं काश्मरीं पाटलां तथा ॥

1.22.14

यवान् कुलुत्थान् कोलानि स्थाल्यामासिच्य साधयेत् ।
यवपाकानि विज्ञाय सुखोष्माण्यवतारयेत् ॥

1.22.15

ततो ऽ भ्यक्तस्य विधिवत्स्वेदनीयस्य देहिनः ।
गात्रं गात्रैकदेशं वा सुखोष्णैश्छादयेच्छनैः ॥

1.22.16

ततः प्रच्छादयेद् भूयः कौशेयाजिनकाम्बलैः ।
सङ्करस् त्व् एष विज्ञेयः स्वेदानामग्र्य उच्यते ॥

1.22.17

एतान्यन्यानि च भिषक् स्वेदद्रव्याणि संहरेत् ॥

1.22.18

प्रकीर्य तानि शयने कल्बलेनावगुण्ठितम् ।
स्वभ्यक्तं शाययेज्जन्तुं स्वेदं प्रस्तरमादिशेत् ॥

1.22.19

वसातैलघृतक्षीरमूत्रमस्त्वम्लकाञ्जिकैः ।
सुखौष्णैः सेचयेत्स्वेद्यं सेकः स परिकीर्तितः ॥

1.22.20

नाडीं गजकराकारां त्रिहस्तां तादृशीं तथा ।
धान्याम्लद्रवपूर्णायां धान्यां सन्धाय लेपयेत् ॥

1.22.21

तां त्रिहस्तां समाहृत्य स्वभ्यक्ताङ्गस्य देहिनः ।
प्रच्छन्नगात्रस्य तु तां नाडीमुद्घाटयेद् भिषक् ॥

1.22.22

नाडीस्वेदः समाख्यातः यावत्प्रस्वेदनादिति ।
कण्ठावगाहामच्छिद्रां तावदेवायतां समाम् ॥

1.22.23

द्रोणिं पायसनिष्क्वाथकृसरक्षीरपूरिताम् ।
कृत्वा तस्यां सुखोष्णायां स्वभ्यक्तं वातरोगिणम् ॥

1.22.24

ज्ञात्वावगाहयेत् तावद् यावत् स्वेदोद्गमो भवेत् ।
तप्तैः पात्रयुतैर् वापि शुद्धैर् वा सलिलैर्भिषक् ॥

1.22.25

स्वम्यक्तगात्रस्य ततः सलिलस्वेदमाचरेत् ।
ईदृशैर् एव सलिलैः कटाहे चार्धपूरिते ॥

1.22.26

प्रवेश्य स्वेदयेत्स्वेद्यमुदकोष्ठः प्रकीर्तितः ।
सुलिप्तां संवृतद्वारां यन्त्रितां कारयेत्कुटिम् ॥

1.22.27

ह्रस्वागारमितां हृद्यां शिलास्तीर्णतलां दृढाम् ।
तास्याश्चुल्ल्यौ च कर्तव्ये अधस्तात्पार्श्वसंवृते ॥

1.22.28

तत्र स्थाल्यौ प्रतिष्ठाप्य सर्वतः परिबृंहयेत् ।
स्थाल्यौ तप्ते कुटिश् चापि यदा तेनोष्मणा तदा ॥

1.22.29

सर्वाङ्गरोगिपुरुषः प्रविशेत्स कुटिं ततः ।
स्वभ्यक्तगात्रः सुस्विन्नः क्षौमप्रावृतलोचनः ॥

1.22.30

ततः प्रवेशयेत् तत्र शीताम्बुमणिकां शुभाम् ।
क्लान्तः शीताम्वुना तत्र स्पर्शसौख्यम् अवाप्नुयात् ॥

1.22.31

कुटिस्वेद इति ज्ञेयः सद्यो रोगनिवर्तकः ।
स्वेदो ऽ ग्निहीनः क्षुत्तृष्णाभयं क्रोधस्तथाहवः ॥

1.22.32

निवातमध्वसन्तापौ गुरुप्रावरणं तथा ।
स्वेद्यास् तु वातकफजा वातजाः कफजास् तथा ॥

1.22.33

रोगास्तत्रोष्णलवणस्निग्धाम्लैर् एव वातजाः ।
करीषबुसपाषाणबाष्पाङ्गारैः कफात्मकाः ।
स्वेद्यास् तु स्निग्धरूक्षाभ्यां ज्ञात्वा व्याधिबलाबलम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले द्वाविंशो ऽ ध्यायः ॥ ॥ त्रयोविंशो ऽ ध्यायः ॥ अथातो गाढपुरीषीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc