भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.21

1.21.1

विरूक्षयेद् अतिस्निग्धं कृमिकोष्ठिनम् एव च ।
रूक्षस्तम्भ्यान् प्रमेहांश् च कफरोगांश् च सर्वशः ॥

1.21.2

वामयेच्छलेष्मकासे च प्रतिश्याये च मानवान् ।
हृद्रोगे चैव कुष्ठे च सर्वश्लेष्मामयेषु च ॥

1.21.3

वोरेचयेद् धि कुष्ठानि ज्वरान्विस्फोटकानि च ।
दाहं विचर्चिकां चैव वातव्याधींश् च सर्वशः ॥

1.21.4

अन्वासयेत्कटीपृष्ठपार्श्वरोगान् विचक्षणः ।
उद्वेष्टनं च गुल्मं च वातव्याधींश् च सर्वशः ॥

1.21.5

आस्थापयेद् धि गुल्मांश् च मूत्राघातोदराणि च ।
अपस्मारांश् च कुष्ठं च वातव्याधींश् च सर्वशः ॥

1.21.6

स्वेदयेत हनुस्तम्भमायामम् अपि चार्दितम् ।
पार्श्वरोगं च गुल्मं च वातव्याधींश् च सर्वशः ॥

1.21.7

स्तम्भयेद् रक्तपित्तं च विसर्पं च विचक्षणः ।
दाहं विस्फोटकांश् चैव पित्तव्याधींश् च सर्वशः ॥

1.21.8

इति पित्तकफोत्थान्वै विद्याद् आमाशयात्मकान् ।
पक्वाशयसमुत्थांश् च वातरोगान्विनिर्दिशेत् ॥

1.21.9

वामयेद् वमनीयांस् तु समीक्ष्यामाशयान्नरान् ।
विरेचयेद् विरेच्यांस् तु तथा पक्वाशयाश्रयान् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले एकविंशो ऽ ध्यायः ॥ ॥ द्वाविंशो ऽ ध्यायः ॥ अथातः स्वेदाध्यायं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc