भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.20

1.20.1

अर्थ इत्य् आह हृदयं तस्मिन् धमनयो दश ।
ऊर्ध्वं चतस्रो द्वे तिर्यक् चतस्रश् चाप्य् अधः क्रमात् ॥

1.20.2

ताभ्यो मूलसिरास्तिर्यग्भिद्यन्ते नैकधा सिराः ।
तस्मात् तदर्थविज्ञानं स्मृतियोगं च मानसम् ॥

1.20.3

हृदो रसो निःसरति तस्माद् एति च सर्वशः ।
सिराभिर् हृदयं वैति तस्मात् तत्प्रभवाः सिराः ॥

1.20.4

हृदि प्राणाश् च चक्रस्थाः विमाने कर्णिका यथा ।
मर्माभिघातं तेनात्र सहते हृदये न तु ॥

1.20.5

पुण्डरीकस्य संस्थानं कुम्भिकायाः फलस्य च ।
एतयोर् एव वर्णं च विभर्ति हृदयं नृणाम् ॥

1.20.6

यथा हि संवृतं पद्मं रात्रावहनि पुष्यति ।
हृत्तथा संवृतं स्वप्ने विवृतं जाग्रतः स्मृतम् ॥

1.20.7

आपो महारसा विद्यादन्नं चैव महौषधम् ।
महाप्रलेपनं तत्र तेजश् चैव महत्परम् ॥

1.20.8

रसानामुदकं योनिरन्नं वृत्तिः परा स्मृता ।
विक्लिन्नम् उपसन्धत्ते पुनः कायं शरीरिणाम् ॥

1.20.9

सूर्यांशं धूमम् इत्य् आहुर्यतो ऽ भ्रप्रभवः स्मृतः ।
अभ्राद्वर्षं ततो ऽ न्नानि, तस्मात् तेजो महत्परम् ॥

1.20.10

स्वेदश् चास्रं च मूत्रं च फेनं चाम्यन्तरं मलम् ।
अवश्यायहिमाम्बूनि बाह्मानि परिचक्षते ॥ हृदयो ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।
।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. इति भेले विंशो ऽ ध्यायः ॥ ।
।एकविंशो ऽ ध्यायः ॥ ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. ।.. विरेच्यांश् चैव मानवान् ।
आस्थाप्याननुवास्यांश् च वातव्याधींश् च सर्वशः ॥

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc