भेलसंहिता · अध्याय 1.19
विधिना शोणितं जातं सेवमानस्य वारुणीम् ।
प्रदुष्यति विदाहेन ततो रोगाय कल्पते ॥
सर्वं मद्यमचक्षुष्यमपौरुष्यं तथैव च ।
उपहन्ति बलं न्ẏणामनायुष्यं च कीर्त्यते ॥
यस् तु तद्भजते युक्त्या न तं व्याधिः प्रसज्जते ।
अतिपीतं च तद्विद्धि तत्राहृद्यं बलाय न ॥
न नक्तं तु, पिबेद्युक्त्या पानं तस्माद् विचक्षणः ।
बलवर्णकरं ह्येतदारोग्यकरणं परम् ॥
स्नेहपाने तथा मात्रावस्तिकर्मणि चाप्य् अथ ।
क्षारे च लवणे चैव न सुरा प्रातिषिध्यते ॥
बृंहणं नेदृशं किज्चिद्यथान्नसहिता सुरा ।
तां तु रूक्षां विशेषेण नातिमात्रं समाचरेत् ॥
वातेन श्लेष्मणा चैव सम्प्रदुष्टां सुशीतला ।
विशोष्य दीपयत्येषा ग्रहणीं वै शरीरिणाम् ॥
यस्य कोष्ठगतो वायुर्दुःखमुत्पादयेद् भृशम् ।
उदावर्तं सहृद्रोगं वातगुल्ममथापि च ॥
अथवा सर्वगात्रेषु मारुतः प्रत्यवस्थितः ।
युक्तां प्रसन्नां पिबतः स क्षिप्रम् उपशाम्यति ॥
हन्त्यासवः कफं पित्तं पुरीषं च भिनत्त्यथ ।
मधु पित्तमरिष्टस् तु वातार्तिं शमयत्यथ ॥
वस्तिः शुद्ध्यति पानेन शर्करा चापि भिद्यते ।
तेजो बलं च हर्षश् च युक्त्या पानेन वर्धते ॥
कामं दीपयते स्वादुर्बृंहणो न विपद्यते ।
तस्मात् पानगुणान् बुद्ध्वा यथायोगं समाचरेत् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले एकोनविंशो ऽ ध्यायः ॥ ॥ विंशो ऽ ध्यायः ॥ अथातो ऽ र्थेदशमूलीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0