भेलसंहिता · अध्याय 1.18
गान्धारभूमौ राजर्षिर्नग्नजित्स्वर्गमार्गदः ।
संगृह्य पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम् ॥
न च स्त्रीभ्यो न चास्त्रेभ्यो न भृत्येभ्यो ऽ स्ति मे भयम् ।
अन्यत्र विषयोगेभ्यः सो ऽ त्र मे शरणं भवान् ॥
एवमुक्तस् तथा तस्मै महर्षिः पार्थिवर्षये ।
विषयोगेषु विज्ञानं प्रोवाच वदतां वरः ॥
विषेण सह संसृष्टमन्नपानं चतुर्विधम् ।
यानि दुष्टानि रूपाणि तानि मे गदतः शृणु ॥
प्रतिकूलमिवाभाति फेनिलं विप्लुताकृति ।
शुक्लं भवति यत्क्षिप्रं नैनं श्लिष्यन्ति मक्षिकाः ॥
धूमश् चास्य गतः श्यामो रक्तः कृष्णो ऽ थ पीतकः ।
प्रादुर् भवति तद्विद्याद् दुष्टमन्नं प्रचक्षणः ॥
नीलपीतासिता राज्यो भन्तीन्द्रायुधोपमाः ।
मध्ये मद्येषु सर्वेषु ये चान्ये पानसंश्रयाः ॥
अनुलेपनदोषे तु त्वगस्य बहुलीभवेत् ।
सर्वव्यापत्तिमाप्नोति क्लिद्यते मांसम् एव च ॥
माल्यं तु श्यावपुष्पं स्यान्म्लानं कालं च दृश्यते ।
चूर्णयोगावकीर्णं तु रेणुनेवावृतं भवेत् ॥
रोमाणि परिशीर्यन्ते केशभूमिश् च धूप्यते ।
कूर्चस्पर्शश् च दुःखः स्याज्जटिलाचास्य मूर्धजाः ॥
वेदनां चैव कण्डूं च कुरुते दुष्टमञ्जनम् ।
अश्रु स्रवति नात्यर्थमन्धकारं च पश्यति ॥
धूमदोषे विरेकः स्यादत्यर्थं शिरसश् च रुक् ।
परिदाहश् च भेदश् च गन्धज्ञानमसाधु च ॥
न सम्यग्वेत्ति च रसानरणीव च मथ्यते ।
इति धूमस्य रूपाणि सर्वाण्य् एतानि लक्षयेत् ॥
दुष्टे वाससि लिङ्गानि सूचीभिर् इव तुद्यते ।
दह्यते मुञ्चति स्वेदं मूर्छत्यप्यवलीयते ॥
दुष्टे त्वाभरणे दाहः स्वेदः कण्डूश् च जायते ।
कुरुते गात्रवैवर्ण्यं स्वयं चाभाति निष्प्रभः ॥
दुष्टमासनमास्थायी विमूढो विपतेन् नरः ।
सीदत्युच्छूनवृषणो न चोत्थातुं सही भवेत् ॥
ऊरू चास्य प्रवेपेते सदोषासनसेवया ।
दुष्टे तु शयने रूपं सुप्तिः कण्डूयते भृशम् ॥
स्वेदश् च विषमत्येति रोमकूपैः समन्ततः ।
तुद्यमानः पुनः शय्यां मन्यते जन्तुभिर् वृताम् ॥
सुदिने दुर्दिने चापि दुर्दिने सुदिनं तथा ।
स्याद् भूश् च दुष्टपर्यन्ता दुष्टच्छत्रनिषेवणात् ॥
कुरुते रूपवैवर्ण्यं प्रदुष्टश्मश्रुवर्धकः ।
शिशिरे मुञ्चति स्वेदं ग्रीष्मे शीतातुरो भवेत् ॥
प्रवेपते प्रव्यथते गद्गदा च सरस्वती ।
स्यन्दनौ च विवर्णौ च परुषौ दशनच्छदौ ॥
उपानहौ यदा दुष्टौ तदा कण्डूः प्रजायते ।
प्रस्विद्यते पादतलं तथा चिमचिमायते ॥
अथेह विषपीतस्य विषदग्धस्य वा पुनः ।
दिग्धविद्धस्य वा राजन् रूपाणीमानि लक्षयेत् ॥
गात्रोद्वेष्टनमाप्नोति वेपते व्यथते नरः ।
कम्पते चापि कण्ठो ऽ स्य निःस्वनं ष्ठीवते मुहुः ॥
जिह्वा चास्य जडीभूता शूलैर् इव च तुद्यते ।
व्याहर्तुं च न शक्नोति शर्म चैव न विन्दति ॥
केशान्तं शीर्यते चास्य नखाः श्यामीभवन्ति च ।
अङ्गुष्ठाङ्गुलयः कृष्णाः हस्तपादतलैः सह ॥
शरीरं पाण्डुतामेति विषार्तस्यैव देहिनः ।
सो ऽ कृत्यकरतामेति भग्नो रथ इवाहवे ॥
तस्मात् कुर्यात् क्रियां वैद्यः षोडशागदकोविदः ।
ह्रिया युक्तः कुलीनश् च धर्मज्ञो दीर्घदर्शनः ॥
अर्थाश् चास्य प्रतिष्ठेया विधिवत्संभृता गृहे ।
चिकित्सितेषु या प्रोक्ता विषप्रशमने हिता ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले ऽ ष्टादशोध्यायः ॥ ॥ एकोनविंशो ऽ ध्यायः ॥ अथातो विधिशोणितीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0