भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.17

1.17.1

चतुर्विधमथो भुक्तं दशधा प्राणमृच्छति ।
ऊष्मस्वेदशकृन्मूत्रैस् तथा वातादिभिस् त्रिभिः ॥

1.17.2

स्त्रियाः स्तन्येन शुक्लेन शोणितेन च वाप्य् अथ ।
इत्य् एभिर् दशभिः प्राणः स्थिरीभवति देहिनाम् ॥

1.17.3

ईहते ऽ मृतवद्वृत्तिं वातपित्तकफैस्त्रिभिः ।
आहारसाम्ययोगाद् धि वैषम्ये व्याधयः स्मृताः ॥

1.17.4

इह द्वौ भिषजौ विद्यात् ज्ञश् चैवाज्ञश् च देहिनाम् ।
तत्र ज्ञः सूत्रवान्यः स्यात् सूत्रार्थेन विचक्षणः ॥

1.17.5

पञ्चाश्रयान्कषायांश् च भोजनं चतुराश्रयम् ।
चतुःश्रेष्ठांस् तथा स्नेहानामयांश् चातुराश्रयान् ॥

1.17.6

चूर्णप्रदेहान्विविधान् यवागूश् चाष्टधा स्मृताः ।
द्वादशान्नानि पथ्यानि प्रायश्चित्तद्वयं तथा ॥

1.17.7

त्रिंशतं चोपनाहानां स्थानेष्व् अष्टासु तत्त्वतः ।
सूत्रस्थानं चिकित्सा च त्रिंशत्रिंशदिहोच्यते ॥

1.17.8

अष्टौ निदानान्युक्तानि विमानानि तथैव च ।
शारीराण्यष्ट गात्राङ्गप्रत्यङ्गं यत्र वर्णितम् ॥

1.17.9

सिद्धयो द्वादश प्रोक्तास् तथा कल्पेन्द्रियाणि च ।
एतद्विंशशतं प्रोक्तं मूलिन्यो यत्र षोडश ॥

1.17.10

एकोनविंशतिर्ज्ञेयाः फलिन्यः क्षीरिणीत्रयम् ।
आयुर्ज्ञानमरिष्टिभ्यः साध्यासाध्यचिकित्सिताः ॥

1.17.11

रोगज्ञानं निदानेभ्यो देशकालौ विमानतः ।
शारीराद्धातुसंघातं प्रकृतिं धातुसात्म्यताम् ॥

1.17.12

अन्यदेवंविधं यच् च शास्त्रे किंचिदपि श्रुतम् ।
भिषग्यो वै विजानाति सज्ञः अज्ञं तु निबोधत ॥

1.17.13

यो ऽ न्नकाले यवागूं तु सूपकाले तथा रसम् ।
यूषकाले ऽ थ मांसं तु शोध्येषु स्तम्भनानि च ॥

1.17.14

विरेचनीये वमनं निरूह्ये चानुवासनम् ।
विपर्ययेण यो ऽ न्यद्वा कुरुते सो ऽ ज्ञ उच्यते ॥

1.17.15

योगेन विद्याम् आदद्यात् तस्मात् तत्त्वदिदृक्षया ।
यथा तमसि दीपः स्यात् तत्ररहा शास्त्रं प्रकाशकृत् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले सप्तदशो ऽ ध्यायः ॥ ॥ अष्टादशो ऽ ध्यायः ॥ अथातो ऽ न्नरक्षीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc