भेलसंहिता · अध्याय 1.16
कतमो ऽ भ्यधिको दोषो न्यूनश् चैवेति तत्वतः ।
कृष्णात्रेयं पुरस्कृत्य कथाश् चक्रुर्महर्षयः ॥
वातं तत्राधिकं कश्चित्प्राहान्यम् उपहन्ति यः ।
यावत्तिष्ठति वातो हि देही तावत् तु जीवति ॥
स हि गर्भाशये शुक्लं विस्रंसयति योषितः ।
वातः स्त्रिया रजो हन्ति वन्ध्या भवति तेन सा ॥
न स्त्रियः पुरुषा वापि वन्ध्यास्सन्तीह जन्मना ।
आशये शीतलो वापि वातश्शुष्केन्द्रियस् तथा ॥
वातः सदिन्द्रियो वापि वातो हीनेन्द्रियस् तथा ।
आलोकितं निमिषितं यच् च किंचिद्विचेष्टितम् ॥
अशीतिश् चामया न्ẏणां नावातात्संभवन्ति हि ।
वाताद्धि कुब्जाः कुणिनः खंजा गृध्रसिनस् तथा ॥
हीनाङ्गा ह्य् अधिकाङ्गाश् च भवन्त्यन्ये च तद्विधा ।
स्थितिः प्राणभृतां चैव सरितां चैव निःस्वनाः ॥
पृथिव्याश् चलनं चैव वातादेव प्रवर्तते ।
वातेन धूमो भवति धूमादभ्रं प्रजायते ॥
अभ्राद्विमुच्य्ते वारि बीजानां सम्भवस्ततः ।
उल्कानिपातः स्तनितं विधुतारागणस्य च ॥
विद्युतां च बलं चैव वातादेव प्रवर्तते ।
अग्निर्ज्वलति वातेन पुण्यानां हविषां पतिः ॥
स्रवन्ति चापगास्तेन पृथिवीं प्लावयन्ति च ।
वायुस्तत्राधिको देवः प्रभवस्सर्वदेहिनाम् ॥
योन्यां रेतः प्रसिक्तं च वायुना युज्यते गुणैः ।
एष पित्तं कफं चैव हन्यादन्यतरं तयोः ॥
आदाय कुपितो वायुः देहे विप्रतिपद्यते ।
एवं व्यानमुदानं च समानं च प्रचक्षते ॥
देहे बहुविशेषित्वाद् अपानं प्राणम् एव च ।
ऊर्ध्वगो ऽ त्राप्युदानः स्याद् व्यानस्तिर्यग्विवृद्धिकृत् ॥
प्राणो न्यस्यत्यपानं तु प्रवर्तयति देहिनाम् ।
समानो धारणश् चैव संगृह्णाति स देहिनाम् ॥
इन्द्रियाणि मनश् चैव भूतात्मानं च सम्मतः ।
विशेषस् त्व् अपरो वायुरपान इति संज्ञितः ॥
शोषणश् चरणश् चैव तथा विचरणः स्मृतः ।
वायुः पञ्चसु भूतेषु भूतं परममुच्यते ॥
तानि वायुनिबद्धानि वायुस्सर्वत्र सर्वदा ।
मूत्रेन्द्रियपुरीषाणां वायोर् उत्सर्ग एव च ॥
पाचनाच्चैव भुक्तस्य कर्मापानस्य शिष्यते ।
प्राणः प्रीणाति भूतानि प्राणो जीव इति स्मृतः ॥
व्यानाच्छरीरचेष्टा च निमेषोन्मेषणानि च ।
यच्चान्यदूर्ध्वगं जन्तोस्तदुदानस्य चेष्टितम् ॥
क्षवथुं हिक्कितं कासमुच्छ्वासं भाषणं तथा ।
गुदमाध्मापयत्येष देहं यस्स च सर्वशः ॥
एषु प्रतिष्ठितो वायुरपान इति संज्ञितः ।
इत्य् एभिर् ईदृशैश् चान्यैर्हेतुभिस् तत्त्वदर्शिभिः ।
भूतेभ्यो ऽ भ्यधिकं वातं लक्षयाम शरीरिणाम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले षोडशो ऽ ध्यायः ॥ ।
।सप्तदशो ऽ ध्यायः ॥ अथातो दशप्राणायतनीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0