भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.15

1.15.1

प्राणैषणा स्यात् प्रथमा द्वितीया तु धनैषणा ।
धर्मैषणा तृतीया तु पुरुषस्य भवत्यथ ॥

1.15.2

तत्र प्राणैषणां पूर्वं समापद्येत मानवः ।
धर्मार्थकामप्राप्तिर्हि सद्भिः प्राणैः प्रपद्यते ॥

1.15.3

धर्मदीनामवाप्तिश् च पुरुषार्थः परः स्मृतः ।
तस्माच्छरीरं प्रयतः परिरक्षेद्धि शास्त्रतः ॥

1.15.4

धनैषणां द्वितीयां तु समापद्येत मानवः ।
पापीयो नास्त्यतः किञ्चिद्यथा जीवन्नृते धनात् ॥

1.15.5

धर्मकामौ न संपीड्य तस्माद् वित्तमुपार्जयेत् ।
ज्वररोगादिका येन निरस्येदापदो बुधः ॥

1.15.6

धर्मैषणां तृतीयां तु समापद्येत मानवः ।
अवश्यमाधिगन्तव्या देहभेदे वरा गतिः ॥

1.15.7

प्राणाद्यनुपरोधेन तस्माद् धर्मं चरेद्बुधः ।
त्रिवर्गानुपरोधेन तत्प्राप्तिर्हि नरे हिता ॥

1.15.8

इत्य् एतास्सम्मता लोके व्याख्यातास्तिस्र एषणाः ।
यथोक्तास्ताः प्रयुञ्जानः परत्रेह च मोदते ॥

1.15.9

उपस्तम्भास् तु चत्वारो यदाहारश् चतुर्विधः ।
शरीरे च बलं चैव मलं तेभ्यः प्रजायते ॥

1.15.10

शरीरमात्मनो मर्म मलमात्मबलं पुनः ।
रोगास् तस्यातिवृद्ध्यां च वातपित्तकफात्मकाः ॥

1.15.11

मलं तु रोगो भवति वैषम्यं धातुभिर् गतैः ।
मलाच् चाप्य् एति वैषम्यं तस्मात् तमभिनिर्हरेत् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले पञ्चदशो ऽ ध्यायः ॥ ॥ षोडशो ऽ ध्यायः ॥ अथातो वातकलाकलीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc