भेलसंहिता · अध्याय 1.14
चिकित्साप्राभृतो विद्वान् विद्यात् संशोधने विधिम् ।
न च धामार्गवं दद्यात् स्नेहस्वेदानुपस्कृते ॥
यो हि संशोधनं पीत्वा सकषायाणि सेवते ।
तस्य तानि तदा जीवं हरन्त्यनु हुताशनम् ॥
दारु शुष्कमिवास्विन्नं नाम्यमानं यथा भेवेत् ।
तथा विरेचनं हन्यात् स्नेहस्वेदानुपस्कृते ॥
स्नेहस्वेदोपपन्नं तु छर्दितं भावितं पुनः ।
विरेचनस्य सिद्ध्यर्थं पूर्वमास्थापयेद् भिषक् ॥
अजीर्यदथ रूक्षं हि विरेचनमथोल्लिखेत् ।
ओषधीर्हीनवीर्याश् च मात्राहीनाश् च वर्जयेत् ॥
अतिमात्रं हि भैषज्यं जीवं हरति देहिनाम् ।
तस्मात् कालं बलं मात्रामृतुं विद्याद्विरेचने ॥
यथा वृक्षस्य पुष्पेषु पलाशेषु फलेषु च ।
शीर्णेष्व् अन्यानि रोहन्ति तथा व्याधिरनिर्हृतः ॥
यथा मूले तरोश्छन्ने म्लायत्यग्रं न संशयः ।
एवं विरेचिते व्याधिरुपशाम्यति देहिनाम् ॥
उदकं चोदमन्थं च मत्स्यान्मांसतिलानपि ।
गुरु चान्नं न भुञ्जीत स्नेहसन्तर्पणानि च ॥
विरेचनं तु यः पीत्वा दारुणं रूक्षिते गुदे ।
दारुणं भक्तमश्नाति तमामिषरसेन वै ॥
तद् यथा ह्युदकं निम्नं स्थलादध्यवरोहति ।
स्नेहितस्य तथा दोषाः कुक्षिमायान्ति सर्वशः ॥
स्नेहनैर्व्याधितस्थानाद्रसैश् चाभ्यधिकीकृताः ।
स्वेदैर्मृदूकृतास्सन्तः स्रोतसा च समागताः ॥
मृदुसर्वाङ्गकोष्ठस्य भेषजैश्शुचिभिस् तदा ।
दोषास्सुनिर्हरा जन्तोर्भवन्तीति विनिश्चयः ॥
एष हेतुर्विरेकेषु छर्दनेष्वेष एव तु ।
एष हेतुर्निरूहेषु शिरसश् च विरेचने ॥
बहुस्निग्धो विरिक्तश् च यो रसैर्नोपपाद्यते ।
भेषजैरप्युपस्तब्धः सो ऽ तिमात्रं विपद्यते ॥
वक्ष्यामि च क्रियामन्यामजातव्याधिनाशिनीम् ।
मधु सेवेत वर्षासु सर्पिः शरदि चाचरेत् ॥
सम्मिश्रं गण्डकेनैव वारुणीं शिशिरे पिबेत् ।
मार्द्वीकं तु वसन्ते वै निदाघे क्षीरमाचरेत् ॥
कल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ।
शिरसो ऽ न्तस्तर्पयन्तः श्लेष्मणश् च विशोषणाः ॥
उदावर्ताञ्जयन्त्येते स्निग्धत्वाद् गौरवाद् अपि ।
रौक्ष्यात् त्रिधा सा जननात् श्लेष्मन्नाकलास्तथा ॥
एवं तु वर्तमानानाम् आयुर्वृद्धिम् अवाप्नुयात् ।
न्ẏणां समाधिपूर्णानामदीनमनसां तथा ॥ इत्य् आह भ्गवानात्रेयः ।
इति भेले चतुर्दशो ऽ ध्यायः ॥ ॥ पञ्चदशो ऽ ध्यायः ॥ अथातस्तिस्रैषणीयमध्यायं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।
मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0