भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.13

1.13.1

कस्मिन् जनपदे रोगाः के भवन्त्यधिका इति ।
गुर्दालुभेकिना पृष्टो व्याचचक्षे पुनर्वसुः ॥

1.13.2

मत्स्यान्नभोजिनो नित्यं प्राच्याः स्युः कफपित्तनः ।
श्लीपदं गलगण्डं च प्रायशस्तेषु दृश्यते ॥

1.13.3

नदीतोयगतान् मत्स्यान् भक्षयन्ति समुद्रजान् ।
प्रायशः कुष्ठिकास्तेन मनुष्या दक्षिणादिशि ॥

1.13.4

मसूरयवगोधूमतिलकोद्दालसेविनः ।
भूयिष्ठमर्शसास्तेन काम्भोजादन्तजाः स्मृताः ॥

1.13.5

मांसकामाः सुराकामाः स्त्रीकामास्साहसप्रियाः ।
प्रीच्यास्तेन भूयिष्ठं दृश्यन्ते राजयक्ष्मिणः ॥

1.13.6

तीक्ष्णोष्णानि हि बाह्लीकाः प्रायेणान्नानि भुञ्जते ।
अभिष्यन्दीनि मांसानि पानकान्य् औदकानि च ॥

1.13.7

प्रकृत्या चाप्य् अभिष्यण्णाः पार्वतोपत्यकास्सदा ।
तेन बाह्लीकदेशेषु प्रायो व्याधिर्बलासकः ॥

1.13.8

मेघे ऽ वर्षति वर्षासु हेमन्ते यत्र वर्षति ।
ऋतुव्यापत्तिसमये जनमारः प्रवर्तते ॥

1.13.9

तत्रोपवासी धृतिमान् रतो विप्राभिवादने ।
मन्त्रौषधरतश् चापि जनमारात् प्रमुच्यते ॥

1.13.10

सूर्योपतापात्सहसा वर्षान्ते पित्तमीर्यते ।
शरदि प्रायशस्तेन ज्वरो भवति देहिनाम् ॥

1.13.11

गवां च चारणाख्यश् च चतुष्पाच्छ्वापदेषु च ।
इन्द्रजालश् च मत्स्येषु शकुनानां प्रमीलकः ॥

1.13.12

चित्रकस्सर्वधान्येषु दवो मूलफलेषु च ।
हस्तिनां पाकलश् चैव ज्वर इत्य् अभिधीयते ॥

1.13.13

उत्कर्णकस्तथाश्वेषु तेजस्सर्वामयेषु च ।
सर्वत्र वसति ह्येष एष चान्तक उच्यते ॥

1.13.14

तं धूमकेतुं प्रत्यक्षं क्षिप्रं प्रशमयेज्ज्वरम् ।
असात्म्यं गन्धमादाय वातो यत्रातिवीज्यते ॥

1.13.15

तत्र मर्त्येषु सामान्यः प्रतिश्यायः प्रवर्तते ।
तथा बतालिका नाम पिटका चास्य जायते ॥

1.13.16

कक्षायामूरुमूले च पाणिपादतलेषु च ।
कण्ठे वा श्रोत्रमाश्रित्य् अ वस्तौ वा हृदये ऽ पि वा ॥

1.13.17

त्वरमाणश्चिकित्सेत प्रवृद्धा मारयेन्नरम् ।
पित्तश्लेष्मसमुत्थाना वातशोणित्मूर्च्छिता ॥

1.13.18

बतालिकेति तामाहुर्यत्नवांस् तत्र जीवति ।
इत्य् एतत्सम्यगुद्दिष्टं सर्वं यद्यच् च चोदितम् ।
ऋषिभ्यः परिपृच्छद्भ्यः प्रश्नजातं यथाक्रमम् ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले त्रयोदशो ऽ ध्यायः ॥ ॥ चतुर्दशो ऽ ध्यायः ॥ अथातः चिकित्साप्राभृतीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc