भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.12

1.12.1

आत्रेयः खण्डकाप्यश् च मैत्रेयो ऽ न्ये च तद्विधाः ।
रससंख्याकथां चक्रुर्वने चैत्ररथे द्विजाः ॥

1.12.2

तत्र कश्चिद्रसैकत्वं रससामान्यतो ऽ ब्रवीत् ।
सात्म्यासात्म्यात्तथा द्वित्वं त्रैविध्यं स्थानतो ऽ परे ॥

1.12.3

स्वादुरस्वादुरमृदुर्मृदुश्चेति चतुष्टयम् ।
महाभूतविभागेन पञ्चेत्याहुस्तथापरे ॥

1.12.4

तदेतद् एवं जानीयाद्यथोक्तादेव कारणात् ।
षट्त्वं सप्तत्वमथवा ब्रूयुस्तद्रुचिभेदतः ॥

1.12.5

मधुरो लवणाम्लौ च कषायकटुतिक्तकाः ।
क्षारश् च तान् रसान् सप्त नातिरेकं समाचरेत् ॥

1.12.6

रसातिसेवनाज्जन्तुस्सद्यो मृत्युमवाप्नुयात् ।
भवेयुर्व्याधयश् चास्य रसव्यासङ्गसंभवाः ॥

1.12.7

वृत्तरोहितराजीभिः वृत्ताक्षश्शकली तथा ।
मत्स्यश्चिलिचिमो नाम कूले चरति वारिणः ॥

1.12.8

तं मत्स्यं वर्जयेद् एकं दुग्धेनान्यांस् तु भक्षयेत् ।
पयसा भक्ष्यमाणस् तु नररक्तं प्रदूषयन् ॥

1.12.9

रक्तव्यापत्तिजान्व्याधीन् मृत्युं चापि स यच्छति ।
श्वाविद्वराहं चैकत्र पयसा परिवर्जयेत् ॥

1.12.10

वन्यमूलफलाहारस्तद्विधेन विरुद्ध्यते ।
अश्नीयात्पयसा यस् तु सद्यो मृत्युमवाप्नुयात् ॥

1.12.11

भवेयुर्व्याधयश् चास्य शङ्खरोगगलग्रहाः ।
मधुना गोरसेनापि लिकुचं न च भक्षयेत् ॥

1.12.12

बाधिर्यं वा ऽ प्यथान्ध्यं वा मृत्युं वा भक्षयन् व्रजेत् ।
कपोतान् सर्षपैर्भृष्टान् पयसा न तु भक्षयेत् ॥

1.12.13

मज्जाव्यापत्तिजान् व्याधीन्प्राप्नुयाद्धि तथा परम् ।
पयसा सर्पदष्टस्सन् खाद्यैस्सिद्ध्यति तादृशैः ॥

1.12.14

क्रिमिजा व्याधयश् चास्य दृश्यन्ते यदि जीवति ।
इह या स्त्री पुमांश् चैव हितजीर्णमिताशनौ ॥

1.12.15

अनुदावर्तिनौ चैव स्यातां गर्भस्तयोः खलु ।
बलवान् वर्णवांश् चैव चक्षुष्मांश् च भवत्यथ ॥

1.12.16

विपर्यये वर्तमानौ विपरीतमिहर्च्छतः ।
अजीर्णे त्वशनं यस्य जीर्णे चानशनं भवेत् ॥

1.12.17

स तथोभयथा रोगान् दारुणान् प्राप्यान् नरः ।
तस्माज्जीर्णे च पथ्याश् च मात्रावन्तो ऽ विरोधिनः ।
सर्व एव रसा भोज्याः युक्त्या संवृतधातुभिः ॥ इत्य् आह भगवान् आत्रेयः ।
इति भेले द्वादशो ऽ ध्यायः ॥ ।
।त्रयोदशो ऽ ध्यायः ॥ अथातो जनपदविभक्तीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc