भाषा

ENहिગુ
ग्रंथ पाठ

भेलसंहिता · अध्याय 1.11

1.11.1

आहारं प्रघसं न्ẏणाम् उपयुक्तं चतुर्विधम् ।
पच्यमानं द्विधा काये कोष्ठे रसमलाख्यया ॥

1.11.2

स्वेदमूत्रशकृद्रूपैर्निष्क्रामति मलः पुनः ।
अन्नस्य पाकतस्तेजो रसो निर्वर्त्यते नृणाम् ॥

1.11.3

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततो ऽ स्थि च ।
अस्थ्नो मज्जा ततः शुक्लं शुक्लाद् गर्भस्य संभवः ॥

1.11.4

एवं पूर्वात्परं याति धातुं धातुर्यथाक्रमम् ।
मात्रापथ्यं यदा भुक्तं रसरूपं गतं पुनः ॥

1.11.5

कुर्यान्न रोगान् दीप्ताग्नेः रसव्यापत्तिसम्भवान् ।
शोणिताद्यात्मतां गच्छेत् परिणामवशां तदा ॥

1.11.6

यस्मिन् व्यापद्यते धातौ तस्मिन् व्याधीन् करोत्यथ ।
विषूचिकां सालसकां पित्तदाहं विलम्बिकाम् ॥

1.11.7

अन्येद्युष्कं सततकं तृतीयकचतुर्थकम् ।
पित्तं लोहितपित्तं च रक्तार्शांसि प्रलेपकम् ॥

1.11.8

विपाटिकांश् च तान् व्याधीन् रसव्यापत्तिजान् विदुः ।
कच्छूं चर्मदलं पामां चर्मकीलं विचर्चिकाम् ॥

1.11.9

व्यङ्गवीसर्पकुष्ठानि रक्तव्यापत्तिजान्विदुः ।
मांसकीलार्बुदं गण्डमजकां जातुलानि च ॥

1.11.10

पूतिमांसालजीश् चैव मांसव्यापत्तिजान् विदुः ।
दौर्गन्ध्यं स्वेदनं स्थौल्यं पिपासां बहुनिद्रताम् ॥

1.11.11

प्रमेहान् विंशतिं चापि मेदोव्यापत्तिजान्विदुः ।
दन्तरोगो नखश्मश्रुकेशरोमाभिपातनम् ॥

1.11.12

अतिवृद्धिस् तथा वास्थ्नामस्थिव्यापत्तिजान् विदुः ।
विदाहं च मदं चैव सोन्मादं चापतानकम् ॥

1.11.13

तमोदर्शनमूर्छायौ मज्जाव्यापत्तिजान् विदुः ।
रेतः क्षाराग्निमञ्जिष्ठानीलहारिद्रकं पृथक् ॥

1.11.14

मेहने भस्मवर्णं च शुक्लव्यापत्तिजान्विदुः ।
नरस्य स्त्रीस्वरत्वं वा स्त्री वापि पुरुषस्वरा ॥

1.11.15

आमगर्भच्युतिर्वापि गर्भव्यापत्तिजान्विदुः ।
इत्य् एते आमजा न्ẏणां विरुद्धाध्यशनात्मकाः ।
विरुद्धाशनवर्जी स्यादेतदारोग्यम् उत्तमम् ॥ इत्य् आह भगवान् आत्रेयः इति भेले एकादशो ऽ ध्यायः ॥ ॥ द्वादशो ऽ ध्यायः ॥ अथातः आत्रेयखण्डकाप्यीयं व्याख्यास्याम इति ह स्माह भगवान् आत्रेयः ।

मूल पाठ: Bhelasaṃhitā · Edition: ed. V. S. Venkatasubramania Sastri and C. Raja Rajeswara Sarma (CCRAS, New Delhi); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc