भावोपहारस्तोत्र · श्लोक 21-40
तुरीयोद्यानविकसत्संवित्सौरभनिर्भरैः
गिरीश तिसृभिर् वाग्भिः स्तुतिपुष्पैः प्रपूज्यसे
प्राणवह्निशिखास्त्रेण भङ्क्त्वा ब्रह्मबिलं लसत्
धूपवर्तिनिभाभासो धूपस् ते नगजाधव
अनाहता नदत्य् अन्तर् या गौर् धाम्नि परे परा
सा घण्टा वाद्यते शम्भोर् अग्रे ग्रन्थार्थगर्भिणी
कन्दानलोल्लसच्छक्तिशिखां दीपशिखोपमाम्
उद्दीपयामि भगवन् मोहध्वान्तापनुत्तये
वृत्तित्यागामृतकलाचन्द्रश् चन्द्रकिरीटिनः
समालम्भनवेवास्तु मुमुक्षूणां विमुक्तये
नादशक्त्युदितं धाम मलत्रयविवर्जितम्
उष्णीषम् अस्तु ते रुद्र विद्रावितनभो ऽर्गलम्
भवद्भक्तिसुधासारसंप्लावितहृदम्बुधेः
प्रोल्लसद्ब्रह्मकमलम् अमलं ते ऽस्तु शेखरम्
बोधारविन्दसंदोहो हर हारलता तव
नित्योदितान्तरव्याप्तिकला चन्द्रकला च ते
आकृष्यार्ककरैः शाक्तैर् विश्वाकाशकुशेशयात्
चिच्चन्द्रामृतनिःष्यन्दम् आस्वादय जगत्पते
मन्त्रं मनसि तच्छक्तौ तां स्वधाम्नि सदोदिते
कृत्वा जपविधिं सम्यक् शिवाय विनिवेदये
निःशेषार्थपरित्यागे ग्रहणे वामिताद् द्युते
अनाबिलं परां व्याप्तिं मुद्रां बध्नामि धूर्जटे
शष्कुलीकर्णयोर् बद्ध्वा यो रावो ऽत्र विजृम्भते
तद्गीतम् अथ ते वाद्यम् आद्यसंपुटघट्टनात्
भवद्भावरसावेशात् ताण्डवाडम्बरोद्धतः
मन्त्राध्वनि नदाम्य् अन्तः किम् उ बाह्यार्थभावनैः
अखण्डमण्डलाकारशिवताभावनाम्बरम्
उपरिष्टान् मया शम्भोर् वितानम् उपकल्पितम्
रेचयित्वा करन्ध्रेण भाचक्रं हृदयाम्बरात्
धार्यते धूर्जटेर् अग्रे चारुचामरवन् मया
नासापुटकुटीकोटिविसृतैः प्रसृतैः पुरः
तालवृन्तैर् इव विभो वीज्यसे हंसमारुतैः
सर्वातपविनिर्मुक्तं & भवद्भक्तिसुधासितम्
आतपत्रम् अथास्माभिर् & धार्यते ते महाशय
ममतामन्दुरात्यागा&त्रैलोक्याकर्षणक्षमः
अहंकारतुरङ्गस् ते & वाहनाय प्रकल्पितः
स्वसंविन्नन्दनानन्द&नागवल्लीदलोज्ज्वलम्
स्फुरत्स्पन्देन्दुसुरभि & ताम्बूलं ते निवेद्यते
भोग्यभोक्तृविभेदोत्थ&वासनेन्धनसंचयम्
अद्वैताग्नौ जुहोम्य् अन्तः & शांकरे स्रेयसाम् निधौ
मूल पाठ: Bhāvopahārastotra with Vivaraṇa commentary by Ramyadeva Bhaṭṭa · Edition: Mukunda Ramashastri Bombay: Tatva-vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 14) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0