भाषा

ENहिગુ
ग्रंथ पाठ

भावोपहारस्तोत्र · श्लोक 1-20

1

[ओं] नमः सूर्यकलाजाल&कालदेहापहारिणे
आधाराधेयपीठाय & भवायाभवदायिने

2

नमः शिशुनिशाकान्त&कलाकमलमालिने
परमानन्ददेहाय & शिवायाव्यक्तमूर्तये

3

नमः पाशौघसंघट्टलयविश्लेषकारिणे
मन्त्रगर्भोदरस्थाय हराय परमात्मने

4

यद्यपि त्वं गुणातीतो वाक्पतेर् अप्य् अगोचरः
तथाप्य् आ हृदयात् स्तोतुम् उद्यता वाक् सदा मम

5

अतिभक्तिरसावेशविवशा विश्वतोमुख
त्वत्प्रेरिता यतो नाथ नापराधो ऽस्ति मे क्वचित्

6

त्वत्पादाब्जरजःपूतचिताभूतिविभूषितात्
गृहाण मत्तः श्रीकण्ठ ! भावपूजाम् अकृत्रिमाम्

7

हृत्पुष्कराख्ये स्नात्वान्तस् तीर्थे योगिनिषेविते
संबोधधौतवसनः श्यामकण्ठं यजाम्य् अहम्

8

प्रभूतभूतसंभूतशोणितैर् अर्घभाजनम्
क्रियते ते महाकालकायकंकालकन्दले

9

यद् यद् विकल्पनाजालं बाह्यार्थप्रतिपत्तये
तत् तद् द्वाराधिपकुलं तव पूज्यं मनस्विभिः

10

अशेषावरणोन्मुक्तगुप्तसौषुप्तमण्डले
पूज्यसे नगजाकान्त ! ग्रहणे चन्द्रसूर्ययोः

11

हानादानोदयारम्भसदसद्विभ्रमोज्झितम्
ज्ञप्तिमात्रप्रतिष्ठानम् आसनं त्रिजगत्पते

12

मूर्तिदानम् अनाभासशक्तिभासोपबृंहितम्
तुर्यपीठप्रतिष्ठानं वितरामि जगत्पते

13

दिक्कालदेशकलनाकलङ्कोज्झितचेतसः
कः करोति बुधः स्थाणोर् आह्वानादिविसर्जनम्

14

सूर्यशीतांउनेत्राभ्यां मथित्वा शक्तिवारिधिम्
परामृतरसाभ्यङ्गं शिवाय विनिवेदये

15

इन्द्रियेष्व् इन्द्रियार्थेषु रागलोभानुयायिषु
निःस्नेहत्वं प्रभुत्वं च रूक्षम् उद्वर्तनं तव

16

संशोध्यानच्छकलया बैन्धवं तीर्थमञ्जसा
तद्विरामरसस्नानं देयं चन्द्रार्धमौलये

17

स्वप्रबोधाम्बरोदारविकसद्वस्त्रघर्षणम्
विनिवेश्य भवत्संविद्विकारान् विकरामहे

18

ज्ञानज्ञेयपरित्यागनगनिर्झरविस्रुतम्
परमानन्ददं मे ऽन्तस् तव पाद्यम् अनाबिलम्

19

अमन्दानन्दनिःष्यन्दस्पन्दमन्दिरकन्दरात्
गलत्कैवल्यसलिलम् आदत्स्वाचमनं विभो

20

प्रक्षाल्य धारणाम्भोभिर् ग्रन्थिपञ्चकमौक्तिकम्
अनर्घ्यम् अर्घं पादेभ्यः प्रयच्छामि वृषाकपे

मूल पाठ: Bhāvopahārastotra with Vivaraṇa commentary by Ramyadeva Bhaṭṭa · Edition: Mukunda Ramashastri Bombay: Tatva-vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 14) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc