भावोपहारस्तोत्र · श्लोक 41-47
प्रकाशाकाशहस्ताभ्याम् & अवलम्ब्योन्मनास्रुचम्
धर्माधर्मगलत्स्नेह&पूर्णां वह्नौ जुहोम्य् अजे
युष्मद्ध्याननिशानाथ&किरणैर् उपरञ्जितः
अन्तर्मानविधौ ते ऽस्तु & चित्तचिन्तामणिर् मम
मोक्षलक्ष्मीकराम्भोज&पात्रे विन्यस्य संस्कृताम्
निवेदयामि भगवन् & प्राणसर्वस्वदक्षिणाम्
संसारवारिधेः सन्तः & परं पारं तितीर्षवः
चन्द्रमौलेः श्रयन्तूच्चैर् & भावपूजातरण्डकम्
इत्थम् ईशानचरण&नुतेर् यत् समुपार्जितम्
श्रेयस् तेन जगत् कृत्स्नं & द्वेषदोषाद् विमुच्यताम्
स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् & मानावमानमतोज्झितचित्तवृत्तेः
मत्तस् त्वदङ्घ्रियुगपीठनिलीनमौलेर् &भस्मावगुण्ठिततनोर् नृकपालपाणेः
महापाशुपतोद्याने & कश्चिद् विश्रम्य तापसः
चक्रे चिच्चक्रनाथस्य & शम्भोर् भावनुतिं पराम्
मूल पाठ: Bhāvopahārastotra with Vivaraṇa commentary by Ramyadeva Bhaṭṭa · Edition: Mukunda Ramashastri Bombay: Tatva-vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 14) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0