भारतमञ्जरी · अध्याय 9
इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां कर्णपर्व
शल्यपर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
एवं जम्भ इवेन्द्रेण हते कर्णे किरीटिना ।
युद्धं न्यवेदयद्राज्ञे पुनरभ्येत्य संजयः
शेखरे सर्ववीराणामर्थिनां कल्पपादपे ।
हते वैकर्तने राजन्सर्वाशारजनीकृति
तदात्मना गते क्वापि निजजीव इवाकुलः ।
दुर्योधनो निरुच्छ्वासो मेने शून्या दिशो दश
चचार रथिनां मध्ये पाण्डवान्योद्धुमुद्यतः ।
परेणैव शरीरेण परलोकगतो नरः
ततो द्रौणिगिरा कृत्वा शल्यं सेनापतिं नृपः ।
रणं वितर(?)राज्यार्थे विवेश त्रिदशालयम्
रथानामयुतं साग्रं तावदेव च दन्तिनाम् ।
लक्ष्यद्वयं द्वयानां च तिस्रः कोट्यः पदातिनाम्
सैन्यशेषमभूदेतत्कुरुराजस्य संगरे ।
अतोर्ऽधं पाण्डवानां च हतशेषमभूद्बलम्
अस्मिन्नायोधने घोरे राज्ञां संहारमण्डले ।
मस्तिष्ककर्दमलुठत्पत्तिस्यन्दनकुञ्जरे
आकीर्णवक्त्रकमले रङ्गोद्भङ्गरथाङ्गके ।
विस्रस्ताराजंसौघे खङ्गखण्डोत्पलाकुले
केशशेवालजम्बालशेषकीलालपिच्छिले ।
अकालकालकरिणा सरसीव विलोडिते
स्रस्तवराश्वकर्णाङ्के भग्नबाणासनावृते ।
कदलीशकलालोले वने वज्रैरिवाहते
उत्पलावयवापूर्णव्यक्तशक्त्यासवोदिते ।
उद्यान इव कालस्य कपालचषकाकुले
पुनः प्रवृत्ते समरे शल्यहार्दिक्यसौवलाः ।
विविशुः पाण्डवचमूं कृपद्रौणिसुयोधनाः
पार्थपार्षतशैनेयद्रौपदेयशिखण्डिनः ।
जघ्नुस्त्रिगर्तगान्धारकपिनाथवरूथिनीः
अमर्यादे रणे तस्मिन्क्षीबा इव महारथाः ।
क्रुद्धा युयुधिरे घोरं हतबन्धुसुहृद्गणाः
सत्यसेनं सुषेणं च चित्रसेनं च कर्णजम् ।
जघान नकुलो वीरान्कर्णतुल्यपराक्रमान्
ततः शल्येन बलिना गजेनेव सरोजिनी ।
मृद्यमाना सनिर्घोषा चकम्पे पाण्डुवाहिनी
शल्येन रिपुशल्येना वध्यमानां वरूथिनीम् ।
दृष्ट्वा भीमो गदापाणिर्भीमकोपस्तमाद्रवत्
स हत्वा गदया तस्य रथं रथशतच्छिदः ।
मुमूर्षोर्दण्डमुद्यम्य तस्थौ काल इवाग्रतः
आदाय मद्रराजो ऽपि गदां चामीकराङ्गदाम् ।
भीमं भीमबलः कोपाद्दर्पोद्धतमयोधयत्
मण्डलानि चरन्तौ तावभिपत्य परस्परम् ।
घातजातस्फुलिङ्गाभ्यां गदाभ्यामभिजघ्नतुः
तयोर्मूर्च्छितयोः क्षिप्रं मोहात्पतितयोर्भुवि ।
सानुगास्तूर्णमाजग्मुः संरब्धाः कुरुपाण्डवाः
संज्ञामवाप्य सहसा यथावत्स्थितयोस्तयोः ।
दुर्योधनमुखा वीराः पार्थमुख्यानयोधयन्
ब्रह्मलोकाभिकामेषु युध्यमानेषु राजसु ।
सुयोधनश्चेकितानमवधीद्भूभुजां वरम्
मद्रराजस्ततः क्रुद्धः पाण्डूपुत्रान्सहानुगान् ।
अवारयद्बलादेकः पूज्यमानो नभश्चरैः
शस्त्रवृष्टिं तदुत्सृष्टां छित्त्वा बाणैरसंभ्रमः ।
मुहुर्ताद्विदधे शल्यस्तानदृश्यान्पतत्रिभिः
छादिते शरजालेन सैन्ये मद्रमहीभुजा ।
क्रुद्धो ऽवधीत्सहस्रे द्वे रथानां धर्मनन्दनः
दृष्ट्वानुगान्हतान्राज्ञा शल्यो युधि युधिष्ठिरम् ।
शिलीमुखशतैः पूर्णमथाशोकमिवाकरोत्
पीडिते धर्मतनये नकुलः कोपकम्पितः ।
भीमसात्यकिमुख्याश्च शरैः शल्यमवाकिरन्
ततः शरान्धकारेण स्थगयन्भुवनोदरम् ।
उन्ममाथः घनध्वानः शल्यः पार्थवरूथिनीम्
आकुलः समरे तस्मिञ्जिष्णुर्द्रैणिमयोधयत् ।
दुर्योधनं भीमसेनो नकुलः सुबलात्मजम्
क्षपिताशेषनृपतेः शल्यस्याथ युधिष्ठिरः ।
छित्त्वायुधानि सर्वाणि तिलशो विदधे रथम्
अपरं रथमास्थाय मद्रराजः क्रुधा ज्वलन् ।
चकार धर्मतनयं कृत्तचापरथध्वजम्
भीमसेनो ऽथ विरथं दृष्ट्वा राजानमाकुलः ।
चकर्त मद्रराजस्य रथं सर्वायुधैः सह
खड्गहस्तस्ततः शल्यो निघ्नन्स्यन्दनकुञ्जरान् ।
चचारालक्षिततनुर्मर्गैर्गरुडविक्रमः
अथ ज्वालायमानेन शोणपट्टेन गुण्ठिताम् ।
भ्राजिष्णुरत्नखचितां मृत्योर्दन्तावलीमिव
एतदन्तं कुरुबलं युद्धमेवंविधं कुतः ।
इतीव घण्टापटलैः क्रोशन्तीमशनिस्वनाम्
युधिष्ठिरः सहस्रघ्निं दीप्तां षण्मुखविक्रमः ।
प्राहिणोन्मद्रराजाय शक्तिं शक्तिमतां वरः
स तया भिन्नहृदयः पपात क्ष्माभृतां वरः ।
श्रोत्रनासास्यविवरस्रवद्रुधिरनिर्झरः
***** शल्यवधः ॥ 1 ॥ *****
शल्ये हते कौरवाणामाशा शेषावलम्बने ।
रथिनो दुद्रुवुः सर्वे भग्नमानमनोरथाः
ततः शल्यानुजः क्रुद्धो विचित्रकवचाभिधः ।
अभ्यायायौ धर्मराजं दारयन्तमनीकिनीम्
पृषत्कवर्षिणस्तस्य चित्ररत्नोज्ज्वलं शिरः ।
रोहणाद्रेरिवोत्तुङ्गं शृङ्गं चिच्छेद धर्मजः
तस्मिन्हते भज्यमानां नाथहीनां पताकिनीम् ।
परावृत्य कृपद्रौणिहार्दिक्यास्तूर्णमाययुः
नदद्भिश्चेदिपाञ्चालैर्लब्धलक्ष्यैर्महारथाः ।
ते मुहूर्तं युयुधिरे प्रयाता बहुतामिव
ततः स्वामिवधामर्षाद्युधिष्ठिरमभिद्रुतान् ।
हत्वा शेषानहो मद्रानमद्रां पृथिवीं व्यधात्
अथ भीमो गदापाणिर्निपुणः क्षयकर्मसु ।
निष्पिष्य म्लेच्छान्सर्वांश्च रणं शून्यमिवाकरोत्
ततः सात्यकिना वीरे सत्यराजे निपातिते ।
स्वयं दुर्योधनो ऽभ्येत्य पाण्डुपुत्रानयोधयत्
न रथो न गजो नाश्वो न योधः पाण्डवेष्वभूत् ।
हैमनामाङ्कितैर्व्याप्तो यो न दुर्योधनेषुभिः
चकम्पे कुञ्जरकुलं तस्य नाराचवर्षिणः ।
मणिकाञ्चनझाङ्कारतारमौर्वीरवैर्मुहुः
दुर्योधने युध्यमाने लब्धलक्ष्यैररातिभिः ।
आययुर्द्रैणिहार्दिक्यसुशर्मकृपसौबलाः
घोरे रणव्यतिकरे तेषां निबिडपातिनाम् ।
निरालोको ऽभवल्लोको रजसा संवृते रवौ
कुञ्जरेन्द्रतटाघातक्षमे रजसि दुःसहे ।
विभागो नाभवत्कश्चित्कल्पापाय इवागते
क्व द्रौणिः क्व च गान्धारः क्व च राजा सुयोधनः ।
इत्यभूद्विपुलः शब्दः पाण्डुसेनासु सर्वतः
तस्मिन्मुहूर्ते प्रलयावर्तसंक्रान्तगोचरे ।
जघान मारुतसुतः शेषान्दुर्योधनानुजान्
महाबाहुं भूरिबलं जैत्रं दुर्दर्शनं शलम् ।
सुनादं च स हत्वा तानुन्ननाद क्षयोचितान्
ततो मामग्रहीद्वीरः सात्यकिर्विनरले रणे ।
संजयो ऽयं मया लब्धो निगद्येति ससंभ्रमम्
अथार्जुनः सुशर्माणं सपुत्रं सपदानुगम् ।
हत्वा संशप्तकानीकं निःशेषं विशिखैर्व्यधात्
द्यूते रणाभिधे तस्मिन्सायकाक्षान्क्षिपन्मुहुः ।
सहदेवोर्ऽधचन्द्रेण जहार शकुनेः शिरः
***** शकुनिवधः ॥ 2 ॥ *****
उलूकं तत्सुतं हत्वा गान्धाराणामनीकिनीम् ।
जघान माद्रीतनयो वनवासदशां स्मरन्
अथ निःशेषिते सैन्ये श्रान्तो निहतवाहनः ।
अपसृत्य रणात्प्रायात्पद्भ्यां राजा सुयोधनः
कृतवर्मकृपद्रौणिशेषे तस्मिन्महारणे ।
क्षणादशेषतां याते भूतवेतालमण्डले
धृष्टद्युम्नस्य वचसा मां निहन्तुं समुद्यते ।
शैनेये भगवान्व्यासो ररक्ष करुणानिधिः
ततो दिनान्ते शोकार्तः प्रस्थितो ऽहं सुयोधनम् ।
अपश्यं वज्रहृदयं प्रयान्तं चक्रवर्तिनम्
स पादचारी मां दृष्ट्वा लज्जाकुटिलकन्धरः ।
ऊचे संजयराजानं ब्रूयास्त्वं जनकं मम
तेन कर्णेन सुहृदा तैश्च वीरैर्विना कृतः ।
ह्रदं प्रविष्टः पुत्रस्ते हीनो दुःशासनादिभिः
मामित्युक्त्वा स संस्तम्भ्य सलिलं दैत्यमायया ।
ह्रदं विवेश विपुलं प्रौढशोकानलाकुलः
तं स्तम्भितोरुसलिले सरसि प्रविष्टं ज्ञात्वा गिरा मम गुरोस्तनयः कृपश्च ।
भोजश्च भूपतिशिखामणिलीढपादं लक्ष्मीविलाससदनं शुशुचुस्तमेत्य
अक्षौहिणीपरिवृतो ऽथ विसृज्य गेहं रात्रौ युयुत्सुमखिलैः सह राजदारैः ।
धर्मात्मजस्तमृणशेषमिव प्रदध्यौ दुर्योधनं सह धनंजयभीममुख्यैः
यत्पादपद्मनखचन्द्रमरीचिमाला माला इव क्षितिभृतां बभुरुत्तमाङ्गे ।
सो ऽप्येक एव कुरुराजसुतः पदातिर्यातो धिगास्थिरविलासविकासि दैवम्
यस्या वशाद्बत नतोन्नतभाञ्जि भावचक्राणि हन्त विशरारुदशां विशन्ति ।
संक्रन्दनानि यतिविभ्रममुद्रितानि तस्यै नमो ऽस्तु सततं भवितव्यतायै
मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0