भाषा

ENहिગુ
ग्रंथ पाठ

भारतमञ्जरी · अध्याय 10

10.1

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां शल्यपर्व
गदापर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

10.2

ततो द्रौणिमुखा वीराः समभ्येत्य रथास्त्रयः ।
ह्रदं प्रविष्टं राजानमूचुर्मानधनं शरैः

10.3

राजन्नुत्तिष्ठ संग्रामे जहि शत्रुं धनुर्धर ।
सहास्माभिरयं कालो विक्रमस्य यशोभुवः

10.4

इति श्रुत्वा कुरुपतिः प्रशंसंस्तत्पराक्रमम् ।
ऊचे प्रातः समाश्वास्य मम क्षत्रोचिता गतिः

10.5

इति तेषां समालापं श्रुत्वा ज्ञात्वा सुयोधनम् ।
शशंसुर्भीमसेनाय लुब्धका धनलुब्धकाः

10.6

भीमसेनगिरा राजा ससैन्यो ऽथ युधिष्ठिरः ।
कृष्णप्रधानैः सहितस्तं देशं तूर्णमाययौ

10.7

गर्जद्गजरथानीकैः पार्थान्वीक्ष्य समागतान् ।
नरेन्द्रसूचनभयात्प्रययुर्गौतमादयः

10.8

तस्य कृष्णस्य वचसा धर्मसूनुः सुयोधनम् ।
ततः स सलिलान्तःस्थमुवाच क्ष्माभृतां वरः

10.9

राजन्रजतकर्पूररजनीपतिसुन्दरम् ।
अहो वीर यशः शुभ्रं भवता मलिनीकृतम्

10.10

घातयित्वा नरपतींल्लक्ष्मीकुलगृहान्रणे ।
प्राणरक्षापरो मानी कथं जीवन्न लज्जसे

10.11

उत्तिष्ठ युद्धे स्वां लक्ष्मीं त्रिदिवं वा समाप्नुहि ।
लाक्षः समो हि वीराणां विजयो निधनं नु वा

10.12

इति यौधिष्ठिरं श्रुत्वा वचो मन्युविषाकुलः ।
प्राह दूर्योधनस्तोये स्तम्भेरम् इव श्वसन्

10.13

एवमेतद्यथात्थ त्वं श्रियं निधनमेव मे ।
बन्धुस्वजनहीना तु लक्ष्मीः कस्य मनः स्पृशेत्

10.14

ध्वजिनी वीरहीनेन गोष्ठीव बुधवर्जिता ।
स्वजनेन विना लक्ष्मीः कस्य प्रीणाति मानसम्

10.15

स कर्णः सुहृदामग्र्यः स गुरुः स पितामहः ।
विना तपोवनमहो सुमुनेः कस्य विस्मरेत्

10.16

बन्धुमित्त्रवियुक्तानां भूतयो हि विडम्बनाः ।
अन्धानामिव सौन्दर्यविचित्राश्चित्रमालिकाः

10.17

भुङ्क्ष्व भुक्तां मया पृथ्वीं वीररत्नविवर्जिताम् ।
वैराग्यमुक्ताभरणां जरतीमिव योषितम्

10.18

इत्याकर्ण्य पृथासूनुर्धार्तराष्ट्रमभाषत ।
दिष्ट्या तपोवनरुचिः शान्तो ऽसि वसुधापते

10.19

सूच्यग्रमपि न त्याज्यं पाण्डवान्प्रति ते भुवः ।
समग्रां पृथिवीमद्य दातुमिच्छसि कौतुकम्

10.20

उत्तिष्ठ युद्धमेकेन तवास्तु विजितः स चेत् ।
जिताः सर्वे त्वया राजन्मा प्रलापैः कृशो भव

10.21

उदतिष्ठन्निशम्यैतत्पार्थवाक्यं नृपः क्रुधा ।
सावलेपं वचः श्रुत्वा न सहन्ते हि मानिनः

10.22

हेमाङ्गदगदापाणिः सुमेरुरिव शृङ्गवान् ।
उत्थितः स बभौ राजा दण्डधार इवापरः

10.23

कृष्णवाक्यात्स संनद्धो गदापाणिर्वृकोदरः ।
तस्य तस्थौ पुरः कृष्णानिकारगणनापरः

10.24

***** दुर्योधनाविर्भावः ॥ 1 ॥ *****
अत्रान्तरे हलधरः कुरुपाण्डवसंक्षये ।
बन्धुनाशभयोद्विग्नस्तीर्थयात्रागतः शनैः

10.25

तदाभ्येत्य कुरुक्षेत्रं तावपश्यद्गदायुधौ ।
शिष्ययोः समरं पश्यञ्शृण्वन्निव गिरो मिथः

10.26

स पूजितः कृष्णमुख्यैः पार्थैः शशिशतद्युतिः ।
उपाविशन्नीलवासा हिमवानिव साम्बुदः

10.27

इत्याकर्ण्य कथापध्ये पप्रच्छ जनमेजयः ।
तीर्थयात्रां हलभृतो वैशम्पायनमादरात्

10.28

सो ऽब्रवीत्प्रस्तुते युद्धे कुरुपाण्डवभूभुजाम् ।
आमन्त्र्य कृष्णं प्रययौ क्षयाशङ्की प्रलम्बहा

10.29

पुष्पेण निर्गतो रामो द्विजेभ्यः सर्वकामदः ।
सरस्वतीमवाप्याथ प्रभासं शयनेन सः

10.30

यत्र तारापतिं तारा रोहिणीसक्तमानसम् ।
खिन्ना न्यवेदयत्पित्रे तच्छापात्सो ऽभवत्क्षयी

10.31

क्षणेन शापात्प्रक्षीणे शशलक्ष्मणि यक्ष्मणा ।
सर्वक्षयभयोद्विग्नैर्दैवैर्दिष्टं तदा ययौ

10.32

तत्प्रभासं हसंस्तूर्णं तत्रापि प्राप पूर्णताम् ।
तत्र भराद्वजः स्नात्वा त्रितकूपं समाययौ

10.33

उपेक्षितः पुरा यत्र भ्रातृभ्यां नृपतिस्त्रितः ।
स चक्रे मानसं यज्ञं ततो देवाः समभ्ययुः

10.34

ततो वरात्सकूपो ऽभूत्सोमपानफलप्रदः ।
तस्मिन्सरस्वतीतीरे सस्ने रामेण सादरम्

10.35

ततो विनशनं पुण्यं प्राप यत्र सरस्वती ।
शूद्रभीरुकविद्विष्टा विनष्टा दुष्टनाशिनी

10.36

स भूमिकं ततः प्रायाद्बली यत्राप्सरःसखा ।
क्रीडन्ति सुरगन्धर्वा नृत्यगीतविनोदनैः

10.37

दुर्गस्रोतः शङ्खतीर्थं पुण्यं द्वैतवनं तथा ।
अवाप्य नगधन्वानं वसतिर्यत्र वासुकेः

10.38

विवेश नैमिष रामो यत्र प्राची सरस्वती ।
मुनीनां दर्शनं यत्र नैमिषारण्यवासिनाम्

10.39

सप्त सारस्वतं प्रायाद्यत्र चङ्कणको मुनिः ।
ननर्त गात्रादालोक्य निजाच्छाकरसं स्रुतम्

10.40

नृत्यतस्तस्य सावेगं सखेलं वरकाननम् ।
मुनेस्तपःप्रभावेन जगत्सर्वं ननर्त च

10.41

देवैरथार्थितो ऽभ्येत्य तस्य शम्बरदर्शनात् ।
स्वकरान्निःसृतं भस्म तेनाभून्निर्मदो मुनिः

10.42

तस्मै स्तुतिकृते तुष्टस्तपोवृद्धिं ददौ विभुः ।
सप्तसारस्वते तीर्थे संनिधानं च शंकरः

10.43

कपालमोचनं प्राप तीर्थमौशनसं बलः ।
यत्र जङ्घाग्रहान्मुक्तो मुनिर्घोरान्महोदरः

10.44

राघवेषुनिकृत्तस्य राक्षसस्य शिरः पुरा ।
महोदरस्य जङ्घायां लग्नं किल विसर्पदम्

10.45

सर्वतीर्थनिमग्नो ऽपि तत्रैव स्वास्थ्यमाप सः ।
उत्तङ्काश्रममासाद्य पृथूदकमवाप च

10.46

वसिष्ठेन जितः पूर्वं धेनुहृद्ब्रह्मतेजसा ।
राजन्यवंश्यो यत्राप ब्रह्मतां कौशिको मुनिः

10.47

तत्र रामो ददौ भूरि धनं वार्ष्णेयनन्दनः ।
ततः सारस्वते कुञ्जे यत्रेन्द्रो नमुचेर्वधात्

10.48

ब्रह्महत्याकुलो मुक्तस्तं प्राप दारुणं शनैः ।
सोमतीर्थं ततः प्राप यत्रेष्टममृतत्विषा

10.49

तारकख्यो हतो यत्र षण्मुखेन महासुरः ।
स्कन्दाभिषेकात्स्नात्वाथ वह्नितीर्थं समाययौ

10.50

यत्रानलो भृगोः शापान्नष्टो ऽभून्निर्वृतः पुनः ।
कौबेरमिन्द्रतीर्थं च यामुनं चाच्युताग्रजः

10.51

देवलस्याश्रमं प्राप्य जैजीषव्यः सुयोगवित् ।
यत्र सर्वगतं ब्रह्म देवलाय जगौ मुनिः

10.52

ततः सारस्वतं तीर्थमाससाद हलायुधः ।
अपसरोदर्शनात्पूर्वं शुक्रं निपतितं जले

10.53

दधीचस्य मुनेस्तेन पुत्रं लेभे सरस्वती ।
दधीचस्यास्थिनिचये महेन्द्रायुधतां गते

10.54

अनावृष्ट्यां स तनयस्तया मत्स्याशनैर्वृतः ।
सारस्वतः सुतो वेदान्स सस्मार महामतिः

10.55

दुर्भिक्षकर्षिता नाम विस्मृते ऽध्ययने ततः ।
सर्वेषां मुनिमुख्यानां बभूव गुरुरर्थितः

10.56

तस्मिंस्तीर्थे बलः स्नात्वा ययौ यत्र पुरा वपुः ।
सनत्कुमारी तपसा स्वर्गाय त्यक्तुमुद्यता

10.57

नारदः प्राह नोद्वाहं विना स्वर्गो भवेदिति ।
सा गालवसुतायैव दिनभोग्यां तनुं ददौ

10.58

कृत्वा ललितमाकारं त्रिदिवं च ययौ ततः ।
तत्र स्नात्वा च दत्वा च प्लक्षप्रस्रवणे तथा

10.59

अवाप कारपवनं तीर्थान्यालोकयञ्शनैः ।
नारदात्तत्र शुश्राव कुरुक्षेत्रे नृपक्षयम्

10.60

***** रामतीर्थयात्रा ॥ 2 ॥ *****
पृष्टो ऽथ धृतराष्ट्रेण संजयो युद्धमब्रवीत् ।
भीमसेनस्य विरथं कौरवस्य च मानिनः

10.61

समन्तपञ्चकं गत्वा पद्भ्यामेव सुयोधनः ।
तस्थावकम्पो महतामधिकं धैर्यमापदि

10.62

ततो दुर्योधनो ऽवादीद्धर्मपुत्रं सहानुगाः ।
उपविश्य निरीक्षन्तां भवन्तो युध्यमानयोः

10.63

अजातशत्रुः श्रुत्वैतत्सह पाञ्चालसैनिकैः ।
उपाविशत्कृष्णसखः परिवार्य हलायुधम्

10.64

अथ भीमं गदापाणिं बद्धकक्षस्तरस्विनम् ।
आजुहाव वचोयुद्धे प्रवृत्ते कुरुनन्दनः

10.65

ततस्तयोर्गदाघातजाता वह्निकणावली ।
विदधे संभ्रमावृत्तहेमाभरणविभ्रमम्

10.66

सुरैरापूरिते व्योम्नि युद्धदर्शनलालसैः ।
बभूव नाककान्तानां को ऽपि कौतुकविभ्रमः

10.67

आक्षेपे वर्जने मोक्षे राजवृत्तौ निवर्तके ।
धावने समवस्थाने विप्लुते समविप्लुते

10.68

तौ प्रगल्भतया वीरौ चित्रमण्डलचारिणौ ।
सनिर्घोषं महावेगः पार्श्वदेशमताडयत्

10.69

ततो भीमः समाधूय गदामशनिनिःस्वनाम् ।
भ्रामयामास येनाभूद्धोरो घरघरारवः

10.70

ततस्तां प्रहिणोद्भीमो गिरिगुर्वीं गदां जवात्।
अकम्पितस्ताडितो ऽपि पुनर्भीमो ऽसृजद्गदाम् ।
पुनर्मोघीकृता राज्ञा सापतत्कम्पितावनिः

10.71

अथ वक्षस्तटे भीमः कौरवेण समाहतः ।
न विवेद क्षणं किंचिन्मूर्छाव्याकुलिताशयः

10.72

पाञ्चालसृञ्जयानीके संदेहाकुलिते ततः ।
शनैर्भीमः समाश्वस्य पार्श्वे नृपमताडयत्

10.73

गाढप्रहाराभिहतः पतितः कौरवेश्वरः ।
उत्थाय तूर्णमाहत्य भुवि भीममपातयत्

10.74

अथापतत्सुरोत्सृष्ट पुष्पवृष्टिर्यशःसिता ।
साधुवादावली मूर्धि सूनवे कुरुभूपतेः

10.75

अथोत्थिते भीमसेने परिमृज्याशु शोणितम् ।
को ऽनयोरधिको योद्धा पप्रच्छेत्यर्जुनो हरिम्

10.76

सो ऽब्रवीद्बलवान्भीमो भीमवीर्यः किमुच्यते ।
उपदेशे गदायुद्धे किंतु युद्धपराक्रमे

10.77

स प्रयत्नः कुरुपतिर्भीमसेनाद्विलोक्यते ।
तस्मान्न धर्मयुद्धेन भीमः शक्तो निपातने

10.78

मायया निहता दैत्या मायावध्या हि मायिनः ।
ऊरुभङ्गमतो भीमो विदधात्वस्य मायया

10.79

अन्यथा दुर्जयो राजा त्रयोदशसमाव्यधात् ।
एष लोकभयं भीमो(मे) विधाय गदया श्रमम्

10.80

व्यायामचतुरो वेगादूर्ध्वचारी सुयोधनः ।
महाशैलेयभङ्गो ऽस्मिन्सुकरश्छिद्रदर्शनात्

10.81

उक्ते जनार्दनेनेति भीमश्चिक्षेप भीषणाम् ।
गदां तां कुरुराजो ऽपि विलङ्घ्य तमताडयत्

10.82

व्यथां संस्तम्भ्य भीमो ऽथ घूर्णमानतनुः क्षणम् ।
गदां रन्ध्रं विचिन्त्यास्मै प्राहिणोत्कनकाङ्गदाम्

10.83

पुष्पायुधपुरोदारहेमाभरणविभ्रमे ।
ऊरुयुग्मे भुजङ्गीव सा पपात महीपतेः

10.84

निर्घातघोरघनघोषगदानिपातनिष्पेषजर्जरतरत्रुटितोरुसंधिः ।
दुर्योधनो ऽथ निपपात दिवं विलोक्य वज्रावपातहतपक्ष इवाद्रिराजः

10.85

अक्षौहिणीपतिनरेश्वरमौलिरत्नरश्मिच्छटापटलपाटलपादपीठे ।
अस्मिन्महीपरिवृढे पतिते च भूमौ कैर्निन्दितं न भवभङ्गुरभङ्गि जन्म

10.86

***** गदायुद्धम् ॥ 3 ॥ *****
तस्मिन्नेकादशचमूनाथे भुवि निपातिते ।
चकम्पे लोलतटिनीरशना वसुधावधूः

10.87

बभूव भयदैर्व्याप्तं दुर्निमित्तशतैर्जगत् ।
प्रशंसन्तश्च तद्युद्धं प्रययुर्व्योमचारिणः

10.88

भीमो निकारगणनां कुर्वन्कुरुपतेः शिरः ।
चरणेनास्पृशल्लक्ष्मीविलाससदनं ततः

10.89

तं विलोक्य रुरोदेव पतितं चक्रवर्तिनम् ।
त्वङ्गद्गदाङ्गदच्छिन्नहारमुक्ताश्रुभिर्मही

10.90

भीमं निरस्य गर्जन्तं धर्मराजः सुयोधनम् ।
ऊचे राजंस्तवैवायमनयात्सुहृदां क्षयः

10.91

दृष्ट्वा शिरः पदा स्पृष्टं भीमेन जगतीभुजः ।
प्राहोत्तालहलः कोपकरालस्ताललाञ्छनः

10.92

प्रतापतापितरिचोर्यशः शत्रुहृतश्रियः ।
शिरो व्याजहतस्यास्य कः स्पृशेदपशुः पदा

10.93

इत्युक्त्वा क्रोधशिखिना तं भीमं दग्धुमुद्यतम् ।
शमयामास कंसारिस्तैस्तैर्विनयभाषितैः

10.94

विषद्युताग्निदोषाणां प्रभावो ऽसीति वादिनम् ।
कृष्णं दुर्योधनो ऽवादीत्संस्तम्भ्य रुजमुत्कटाम्

10.95

गोपालबाल मूर्खाणां संज्ञां कृत्वास्मि वञ्चितः ।
त्वया भीष्ममुखा वीरास्ते व्याजैरेव पातिताः

10.96

भुक्तं सुहृद्भिर्विहृतं कान्ताभिर्हुतमग्र्यजैः ।
वधः क्षत्रोचितः प्राप्तः को ऽन्यो ऽस्ति सदृशो मया

10.97

भ्रूभङ्गेन निवासिता वनभुवं शुष्यन्मुखाः शत्रवो दृष्टा श्रीः स्वयमर्पिताग्र्यसुहृदामुष्णीषहारस्मिता ।
संग्रामे ऽप्यपराङ्मुखस्य निधनं दिक्षु प्ररूढं यशः कर्तव्य स्पृहणीयमन्यदिचितं युक्तं किमस्त्यायुषः

10.98

इत्याकर्ण्य वचस्तस्य लज्जिता इव मानिनः ।
नृपैः सह ययुः पार्था नादयन्तो रथैर्जयम्

10.99

अथावरोप्य प्रथमं फल्गुणं मधुसूदनः ।
रथादवातरत्पस्चाज्जज्वाल स रथस्ततः

10.100

द्रोणकर्णास्त्रदग्धो ऽयमत्यन्तं ज्वलितो रथः ।
इति पृष्टो ऽवदत्पार्थं विस्मितं कालियान्तकः

10.101

श्रुत्वेति संजयाद्राजा दारुणं मोहविह्वलः ।
शुशोच पुत्रान्वाक्यानि विदुरस्य स्मरन्मुहुः

10.102

ततः कृष्णमुनौ प्राप्ते कुरुवेश्म हरिर्नृपम् ।
गान्धारीं चावदत्प्राप्य विसृष्टो ऽजातशत्रुणा

10.103

याचितो ऽपिशमं नैच्छत्कौरवो निजदुर्नयात् ।
न च धर्माच्च्युताः पार्थास्तेन तेन पदं रुषः

10.104

पुत्रास्ते युवयोरद्य पाण्डुपुत्राः सुरत्विषः ।
युवाभ्यामेव चोक्तं प्राग्यतो धर्मस्ततो जयः

10.105

इति प्रसाद्य तौ याते वृष्णिवीरे ऽम्बिकासुतः ।
मुनावाश्वास्य याते च शेषं पप्रच्छ संजयम्

10.106

सो ऽब्रवीदथ पुत्रस्ते वेष्य(प)मानो महीतले ।
मामूचे पश्य सूदेन माययाहं निपातितः

10.107

अत्रान्तरे समभ्येत्य द्रौणिहार्दिक्यगौतमाः ।
ददृशुः कौरवपतिं नीतं कालेन तां दशाम्

10.108

ततो गुरुसुतः कोपाद्विनिष्पिष्य करे करम् ।
निःशेषशत्रुनिधने प्रतिज्ञां निःश्वसन्व्यधात्

10.109

अथ वीरं तमालिङ्ग्य चक्रे सेनापतिं नृपः ।
न ह्यहंकारशैथिल्यं पर्यन्ते ऽप्यभिमानिनाम्

10.110

प्रलयाम्बुदनिर्घोषं विनद्य द्रोणनन्दनः ।
निशायां तां रुजा राजा विषमामगमद्दशाम्

10.111

ततो गौतमहार्दिक्यगुरुपुत्रा महावनम् ।
विविशुः कलयन्तो ऽन्तः श्रियः कल्लोललोलताम्

मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc