भाषा

ENहिગુ
ग्रंथ पाठ

भारतमञ्जरी · अध्याय 8

8.1

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां द्रोणपर्व
कर्णपर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

8.2

हते द्रोणे कुरुक्षेत्रे पुनरभ्येत्य संजयः ।
राज्ञे न्यवेदयद्युद्धमाश्चर्यं कर्णपार्थयोः

8.3

ततो दुर्योधनः कर्णं चित्तसंकल्पशालिनम् ।
चक्रे द्रौणिगिरा हृष्टः शूरं सेनासु नायकम्

8.4

अभिषिक्तो मणिमयैः कलशैर्यशसां निधिः ।
मनोरथसुधावर्षी सो ऽभवत्कुरुभूपतेः

8.5

विधाय मकरव्यूहं स्थितो वैरिकुलेषु सः ।
चक्रिरे पाण्डवा व्यूहमर्धचन्द्रमतन्द्रितम्

8.6

ततः शस्त्रास्त्रसंघर्षकीर्णवह्निकणाकुले ।
घोरे प्रवृत्ते समरे निर्धोषस्तुमुलो ऽभवत्

8.7

भीमो ऽथ कुञ्जरारूढो मत्तमातङ्गमास्थितम् ।
चतुर्दन्तं जघानोग्रं कुलूतनृपतिं रणे

8.8

ततः कर्णान्तनिर्मुक्तैः कर्णचापच्युतैः शरैः ।
निर्भिन्नाः कुञ्जराः पेतुश्छिन्नपक्षा इवाचलाः

8.9

पार्थसात्यकिपाञ्चालद्रौपदेयशिखण्डिनः ।
कृपद्रौणिमुखैश्चक्रुः परं नवमिवाहरम्

8.10

पार्थः संशप्तकान्हत्वा निनाय भ्रातरौ नृपौ ।
दण्डाधारं सदण्डं च दण्डाधारपुरं शरैः

8.11

अथ पाण्ड्यः कुरुचमूं दारयञ्जगतीभुजाम् ।
भल्लैः शिरांसि चिच्छेद लब्धलक्ष्यः प्रहारिणाम्

8.12

भीष्मद्रोणार्जुनस्पर्धां दर्पज्वरभवां नयः ।
सहते नित्यमात्मानं मन्यमानो बलाधिकम्

8.13

दक्षिणापथनाथेन कर्णाटीस्मितकीर्तिना ।
लाटीनेत्रशितास्त्रेण तेन बाणैर्निपीडिता

8.14

द्रौणिना सूतपूत्रेण सौबलेन कृपेण च ।
वार्यमाणापि दुद्राव कुरुराजवरूथिनी

8.15

तमभ्येत्य जवाद्द्रौणिर्विशिखाशनिवर्षिणम् ।
अयोधयदसंभ्रान्तो जम्भारिरिव शम्बरम्

8.16

तस्य लीलावतीलोललोचनभ्रमराम्बुजम् ।
द्रौणिः शिरो जहाराथ भल्लेनान्देलिकुण्डलम्

8.17

पाण्ड्यसंज्ञे हते वीरे मौलिरत्ने महीभुजाम् ।
पाण्डुसेना न शुशुभे शशिहिनेव शर्वरी

8.18

***** पाण्ड्यवधः ॥ 1 ॥ *****
ततो गाढनिषक्तेषु शस्त्रवृष्टिं पिबत्सिव ।
आविष्टेष्विव वीरेषु युधि मानेष्ववारितम्

8.19

मिश्रीभूतेषु भूपानां रथेषु च गजेषु च ।
नष्टालोकेषु लोकेषु वपुर्गाढेन पांसुना

8.20

म्लेच्छराजं महानीकं नकुलः क्रूरयोधिनम् ।
जघान राक्षसाचारं सर्वायुधविशारदम्

8.21

विमर्दे निबिडे तस्मिन्नकुलं वधगोचरम् ।
स्मरन्कुन्तीवचः कर्णो नावधीत्सत्यविक्रमः

8.22

ततः कर्णमुखैर्वीरैः कीर्णाः पाञ्चालसॄञ्जयाः ।
न लेभिरे परित्राणं कुरवश्चार्जुनादिभिः

8.23

हतवीरेषु भग्नेषु च्छिन्नध्वजरथेषु च ।
गाढविद्धस्रवद्दन्तिघटानिष्पिष्टपत्तिषु

8.24

अकाण्डताण्डवाविद्धकबन्धाकुलवर्त्मसु ।
विशालशोणितनदीमञ्जत्कुञ्जरवाजिषु

8.25

हतशेषेषु सैन्येषु श्रान्तेषु कुरुपाण्डवाः ।
अवहारं दिनापाये चक्रुः शिथिलकार्मुकाः

8.26

***** प्रथमो युद्धदिवसः ॥ 2 ॥ *****
अथ प्रभाते संनद्धे संनिकृष्टे बलद्वये ।
ऊचे दुर्योधनं कर्णः पाण्डुसेनां व्यलोकयन्

8.27

त्वत्प्रसादप्रणयिनो मानस्य विभवस्य च ।
अद्याहमनृणो भूत्वा रणे गच्छामि निर्वृतिम्

8.28

अद्य गाण्डीवधन्वानं हत्वा सारं भवद्द्विषाम् ।
सफलं ते करोम्येष संकल्पं चिरसंभृतम्

8.29

निन्द्यं सर्वात्मना लोके सतां स्वगुणकीर्तनम् ।
किंतु कर्तव्यकालेषु न प्रशंसन्ति मूकताम्

8.30

अहमभ्यधिकः पार्थाद्विद्यया विक्रमेण च ।
एतावदधिकं कृष्णो यदनर्घो ऽस्य सारथिः

8.31

कृष्णादभ्यधिकः शल्यो विदितः सर्वभूभुजाम् ।
तेन सारथिना जिष्णुं विजेतुमहमुत्सहे

8.32

इति वैकर्तनेनोक्ते हृष्टो राजा सुयोधनः ।
तदेवाभ्येत्य विनयान्मद्रराजमभाषत

8.33

ततो मद्राधिपः क्रुद्धः संरम्भलुलितांशुकः ।
सासूयं वीक्ष्य राधेयं कौरवाधिपमभ्यधात्

8.34

अहो सरलता राजन्नवमानाय केवलम् ।
यदहं दीर्घसंघाभ्यां सारथ्ये गदितस्त्वया

8.35

किमहं पाण्डवान्सर्वान्हन्तुं शक्ते न संगरे ।
नृपं मां सूतपुत्रस्य सूतं कर्तुं यदिच्छसि

8.36

उक्त्वेति सहसा शल्ये सानुगे हन्तुमुद्यते ।
प्रसाद्य तं कुरुपतिर्वक्तुं समुपचक्रमे

8.37

मद्रराज ज संरम्भमस्थाने कर्तुमर्हसि ।
अधिकस्त्वं हि गोविन्दादतो ऽस्माभिरिहार्थ्यते

8.38

अर्जुनादधिकः कृष्णः सारथिर्विहितः परैः ।
त्वं कर्णादधिकस्तस्मात्सारथ्ये मा हठं कृथाः

8.39

त्रैलोक्योपप्लवे दैत्यैः प्रजापतिवरोर्जितैः ।
राजतायससौवर्णस्वच्छन्दपुरवासिभिः

8.40

वध्यमानेषु लोकेषु देवाः शक्रपुरोगमाः ।
पुरा पिनाकिनं देवं शंकरं शरणं ययुः

8.41

विश्वत्राणाय विश्वेशस्त्रिदशैरर्थितस्ततः ।
सर्वदेवमयं कृत्वा रथं विष्णुं च सायकम्

8.42

उवाच देवान्संनद्धः सारथिः कल्प्यतां मम ।
मत्प्रभावाधिकः कश्चिद्येन हन्तास्मि दानवान्

8.43

ततः शक्रमुखा देवा विचार्य सुचिरं धिया ।
ब्रह्माणं विश्वकर्तारं सारथ्ये पर्यकल्पयन्

8.44

तेनोङ्कारप्रतोदेन गृहीते स्यन्दने हरः ।
एकीभूतान्पुरे दैत्यान्ददाह विशिखाग्निना

8.45

***** त्रिपुरवधोपाख्यानम् ॥ 3 ॥ *****
इति रुद्रस्य धातापि स्वयं सूतो ऽभवत्पुरा ।
तथा त्वमपि कर्मस्य नावज्ञां कर्तुमर्हसि

8.46

ऐश्वर्यस्याभिजन्यस्य गुणानां विक्रमस्य च ।
सन्तः फलं हि मन्यन्ते मित्रप्रणयपूरणम्

8.47

उक्ते दुर्योधनेनेति मद्रराजः स्मिताननः ।
स्वच्छन्दवादी सूतो ऽहं भविष्यामीत्यभाषत

8.48

***** शल्यसारथ्यस्वीकारः ॥ 4 ॥ *****
ततः स्वकल्पितैः श्वेतैस्तुरङ्गैरिव मातलिः ।
तप्तकाञ्चनसंनाहे कर्णस्य रुचिरे रथे

8.49

जग्राह हेलया शल्यो रश्मिममालां सुशिक्षिताम् ।
प्रतापधाम्नः सूर्यस्य दिवीव गरुडाग्रजः

8.50

युयुत्सुं कर्णमालोक्य धन्विनं शल्यसारथिम् ।
जयं हस्तगतं मेने कुरुराजः सहानुगः

8.51

नदस्तु कुरुसैन्येषु शङ्खदुन्दुभिनिःस्वनैः ।
मौर्वीमास्फालयन्कर्णो मद्रराजमभाषत

8.52

अद्य शक्रः सुतं दृष्ट्वा मया निहतमर्जुनम् ।
दिव्यास्त्रेषु दृशः शङ्के सासूयं क्षिपति क्षणात्

8.53

अद्य मद्बाणदलितं पार्थं वीक्ष्य युधिष्ठिरः ।
भीष्मद्रोणवधायासवैफल्यात्परितप्यताम्

8.54

इति ब्रुवाणं राधेयं कर्ण मद्राधिपो ऽब्रवीत् ।
मा सूतपुत्र मिथ्यैव प्रलापं शिशुवत्कृथाः

8.55

गन्धर्वसमरे पूर्वं त्वयि धीमति विद्रुते ।
येन त्रैलोक्यवीरेण कौरवाः परिरक्षिताः

8.56

मानिनामात्तशस्त्रभाणां तस्मिन्गोग्रहविग्रहे ।
युष्मद्विधानां सहसा हृता येनांशुकावली

8.57

आखण्डलः सानुचरः खाण्डवे येन निर्जितः ।
तं समुत्सहसे जेतुं कर्ण कर्णो ऽसि किं न वा

8.58

इति शल्येन सहसा शल्येनेवार्दितो मुहुः ।
संस्तम्भ्य कोपं राधेयो द्रक्ष्यसीति तमभ्यधात्

8.59

ततो व्यूहेष्वनीकेषु सव्यसाचिरणोत्सुकः ।
अग्रेसरो रथाग्र्याणां कर्णः पप्रच्छ सैनिकान्

8.60

क्वासौ जयद्रथारातिर्वीरो वानरकेतनः ।
तं विना रभसादेते ताम्यन्त्येव ममेषवः

8.61

विधत्ते लोचनपथं मम यस्तूर्णमर्जुनम् ।
ददामि तस्मै वासांसि चित्राण्याभरणानि च

8.62

रथान्समत्तमातङ्गान्गाः सुवर्णं पुराणि च ।
कान्ताश्च विविधं चान्यद्द्रविणं यावदिच्छति

8.63

एतदाकर्ण्य सोत्प्रासं बभाषे मद्रभूपतिः ।
हासो दुःखाय जायेत राधेय त्वद्विचेष्टितैः

8.64

मूमूर्षुरिव निष्पुत्रो द्रविणं चिरसंभृतम् ।
अविचार्यैव किं मोहात्परेषु त्यक्तुमिच्छसि

8.65

स्वयमर्जुनमायान्तं वशः सितसटाभरम् ।
द्रष्टासि बाणनखरैः कुरङ्ग इव कातरः

8.66

श्रुत्वैतत्कुपितः कर्णो जगाद भ्रुकुटीमुखः ।
निर्गुणस्त्वं न जानीषे न मां न च धनंजयम्

8.67

अहमेवार्जुनं जाने प्रतिमल्लं पिनाकिनः ।
स च मां वेत्ति तत्त्वेन त्वं मिथ्या तु प्रगल्भसे

8.68

अयं मित्रोपधिः शत्रुः केनापि प्रेषितो ऽसि नः ।
कुदेशजस्य वा नैतत्तव कौटिल्यमद्भुतम्

8.69

मद्रकाः कुत्सिताचाराः सत्यशीलार्जवोज्झिताः ।
मानं प्रचक्षते लोके सर्ववेदविदो जनाः

8.70

निर्लज्जाः सर्वगामिन्यो लोभमोहमदाकुलाः ।
अनार्या मद्रिकायास्ताः स्वसारो मातरश्च ते

8.71

राधेयेनेति संरम्भाद्भाषितो मद्रभूपतिः ।
उवाच मूढ बहुशो हितमुक्तं न बुध्यसे

8.72

स्मर्तासि विगलद्दर्पो निर्जितः सव्यसाचिना ।
हितोपदेशवाक्यानां शोचन्ननुशयाकुलः

8.73

समुद्रकूलनिलयः पुरा वैश्यो महाधनः ।
बह्वपत्यो ऽभवद्राज्ञा रक्षितो निरुपद्रवः

8.74

तत्पुत्राणामभूत्काकः सततोच्चिष्टभोजनः ।
पुष्टाङ्गो यो धनाढ्यानां प्रणयी पुत्रवत्प्रियः

8.75

ततः कदाचिदायाता हंसा मानसगामिनः ।
सो ऽवदज्जातसंघर्षस्तुल्या यूयं न मे जवे

8.76

जाने पातशतं पूर्णं विडीनोड्डीनभेदतः ।
ज्ञायते तुल्यपातान्मे युष्माकं च तरस्विता

8.77

इत्युच्छिष्टभुजा तेन राजहंसा विवल्गिताः ।
आहूता विहसन्तो ऽन्तर्वीरा नो किंचिदूचिरे

8.78

एकस्तु हंसो जलधौ व्रजाव इति संविदा ।
काकेन सार्धं शरवन्निपपात स्मिताननः

8.79

तेन वातजवेनाब्धौ वायसः खे व्रजन्समम् ।
स च क्रोशार्धमात्रे ऽभूद्धस्तपक्षो ऽतिविह्वलः

8.80

तेनैव भग्नदर्पो ऽथ तीरे न्यस्तः कृपावता ।
रक्तष्ठीवी चिरात्प्राप संज्ञां ज्ञातखगान्तरः

8.81

***** हंसकाकीयम् ॥ 5 ॥ *****
एवं त्वमपि राधेय कौरवैः परिवारितः ।
अर्जुनं समरे प्राप्य हीनदर्पो भविष्यसि

8.82

श्रुत्वैतन्मद्रराजेन कथितं मर्मदारणम् ।
ऊचे वैकर्तनो वीरः पृथुकोपो ऽप्यविक्रियः

8.83

युष्मद्विधानां वचसा जायते न भयं मम ।
पश्यार्जुनं मया शल्य समरे विनिपातितम्

8.84

लक्ष्याभ्यासे मया वत्सः पुरा बाणेन दारितः ।
प्रच्छन्नस्तरुखण्डेन होमधेनोर्द्विजन्मनः

8.85

तच्छापाद्रथचक्रं मे पर्यन्तं साधयिष्यति ।
इत्येतच्छिद्रमेकं मे दुर्जयो ऽहमतो ऽन्यथा

8.86

त्वं तु केवलयानेन नृपेण वाहिना वृतः ।
मया स्वयं संनिकर्षे द्विजिह्वः कुटिलो वृतः

8.87

मद्रकाणां कुवृत्तानां पापदेशनिवासिनाम् ।
तीर्थाचारविहीनानामधिपो ऽसि किमुच्यते

8.88

अभक्ष्यं भुञ्जते नित्यमपातव्यं पिबन्ति ये ।
अगम्यासु रमन्ते च ते मद्रास्तव बान्धवाः

8.89

सर्वसाधारणा योषाः सर्वभक्ष्या द्विजातयः ।
सर्वपातकसंपृक्ता मद्रा येषु भवान्नृपः

8.90

***** मद्रकुत्सनम् ॥ 6 ॥ *****
इति कर्णेन गदिते मद्रराजो ऽप्यभाषत ।
कर्ण राजा त्वमङ्गानां मातुल्यत्यागपापिनाम्

8.91

विक्रीयन्ते सदा यत्र दाराः पुत्राश्च मानवैः ।
तस्मिन्प्रणेता विषये नैवं मे वक्तुमर्हसि

8.92

***** अङ्गकुत्सनम् ॥ 7 ॥ *****
इत्युक्ते मद्रराजेन चोदितास्ते तुरङ्गमाः ।
दारयन्त इव क्षोणीं जातपक्षा इवोद्ययुः

8.93

अथादृश्यत शुभ्राश्वो जिष्णुरच्युतसारथिः ।
अग्रे समग्रसैन्यानां व्यग्रः शत्रुनिबर्हणे

8.94

ततः प्रवृत्ते वीराणां समरे प्राणहारिणि ।
धनुषां कूजतां शब्दे छादिते तूर्यनिःस्वनैः

8.95

उवाच शल्यो राधेयं धनंजयरणोत्सुकम् ।
पश्य गाण्डीवधन्वानं भिन्दानं कुरुवाहिनीम्

8.96

एते संशप्तकाः पार्थशरश्रेणीशतार्दिताः ।
हतद्विपघटाकूटकुटीषु निभृतं स्थिताः

8.97

पश्यार्जुनशरोत्कृत्तकण्ठानां मौक्तिकावली ।
पतिता भूमिपालानामश्रुमाला इव श्रियः

8.98

इति मद्राधिपेनोक्ते क्व यास्यति धनंजयः ।
मद्बाणगोचरं यातो हर्षादित्यवदन्नृपः

8.99

ततो वैकर्तनशरैः पूरिते भुवनोदरे ।
चकम्पे पाण्डवानीकं वातैरिव महद्वनम्

8.100

धृष्टद्युम्नमुखान्वीरान्कुर्वाणो विरथान्मुहुः ।
अयुतानि क्षणात्कर्णो वीराणामवधीद्दश

8.101

चेदिमागधपाञ्चालसैन्ये भग्ने युधिष्ठिरः ।
महारथैरनुगतः स्वंय राधेयमाद्रवत्

8.102

राजवल्लभ वाग्युद्धं नेदं यत्र प्रगल्भसे ।
इत्युक्त्वा धर्मतनयः शरैः कर्णमपूरयत्

8.103

अथ कर्णो नरपतेश्चक्ररक्षौ महारथौ ।
हत्वा शरैरुन्ममाथ ध्वजं चापं चकर्त च

8.104

ततः शक्तिं निशाताग्रां कालदंष्ट्रामिवोत्कटाम् ।
प्राहिणोत्सूतवृत्राय स निर्ह्नादां युधिष्ठिरः

8.105

भित्त्वा वैकर्तनः शक्तिं तां घण्टाक्रन्दिनीं मुहुः ।
जातरूपमयं वर्म चकर्त नृपतेः शरैः

8.106

मुहूर्तं तं समापूर्य च्छिन्नवर्माणमाशुगैः ।
दन्तवर्णाञ्जघानास्य कृष्णबालांस्तुरङ्गमान्

8.107

विद्रुतं धर्मतनयं दृष्ट्वा क्रोधी वृकोदरः ।
कर्णं पराङ्मुखं चक्रे शरैरशनिदारुणैः

8.108

दुर्योधनानुजान्वीरानायातान्भ्रातुरज्ञया ।
विदधे विपुलैर्बाणैर्भीमः प्रेतपुराश्रयान्

8.109

नन्दोपनन्दौ दुर्धर्षं धनुर्ग्राहं महाभुजम् ।
जरासंधं श्रुतर्वाणं दुर्दिनं सनिषङ्गिणम्

8.110

पाशहस्तं कवचिनं क्रोधं च स महाभुजम् ।
हत्वा प्रविश्य पृतनां नागानीकमपोथयत्

8.111

ततः सात्यकिपाञ्चालमाद्रीसुतयुधिष्ठिराः ।
अयोधयन्कर्णमुख्यांस्तस्मिन्सुभटसंक्षये

8.112

वृषसेनमुखैर्वीरैर्भिद्यमाने बलार्णवे ।
उदभूच्चण्डगाण्डीवध्वनिराघट्टिताम्बरः

8.113

हत्वा संशप्तकान्सर्वान्प्रत्यावृत्ते धनंजये ।
आवर्तनर्तितेवाभूत्सहसा कुरुवाहिनी

8.114

भग्ने सुशर्मप्रमुखे पार्थास्त्रैर्नृपमण्डले ।
कर्णः पाण्डवसैन्येषु काललीलायितं व्यधात्

8.115

अयुतानि गजेन्द्राणां सप्त हत्वा तरस्विनाम् ।
तावन्त्येव रथानां च चक्रे भूमिभुजां क्षयम्

8.116

व्याघ्रकेतुं जयं शङ्कुं रुद्रमुग्रायुधं परम् ।
सिंहसेनं रोचमानं शुक्तं चित्रायुधं हरिम्

8.117

देवापिं जिष्णुकर्माणं शलभं चित्रदण्डकौ ।
अन्यांश्च भूमिपान्हत्वा पाञ्चालकदनं व्यधात्

8.118

वध्यमाने ऽथ कर्णेन विदीर्णे च सहस्रधा ।
बभूव पाण्डवे सैन्ये घोरो व्यतिकरो नवः

8.119

कर्णेन द्रोणपुत्रेण कृपेण कृतवर्मणा ।
किरीटिना पार्षतेन शैनेयेन शिखण्डिना

8.120

कुपितेन च भीमेन ते सेने प्रविदारिते ।
बभूवतुर्विप्रकीर्णे विध्वस्तकवचायुधे

8.121

दिव्यास्त्रवर्षिणं द्रौणिं दिव्यास्त्रेणैव फल्गुणः ।
जित्वा ददर्श कर्णेन वध्यमानान्महारथान्

8.122

तमब्रवीन्मधुरिपुर्विस्मितः कर्णाविक्रमात् ।
पश्य कौन्तेय कर्णास्त्रवह्निदग्धां वरूथिनीम्

8.123

पश्य कालकटाक्षेण लक्षितः सूतनन्दनः ।
कटाक्षेण मदाध्मातः सारथ्ये मां यदैक्षत

8.124

क्षणेन निखिलां स्यूतां तां सेनां कुरुते नृपः ।
पश्यास्य शरजालेन नीरन्ध्रेणावृता दिशः

8.125

इत्युक्त्वा केशवस्तूर्णं रथेन घननादिना ।
निनाय शक्रतनयं भीमसेनरथान्तिकम्

8.126

ततो भीमगिरा ध्यात्वा धर्मराजं धनंजयः ।
कर्णसायकनिर्भिन्नं प्रयातं शिबिरं शनैः

8.127

निःश्वसन्भृशसंतप्तः केसरीव तलाहतः ।
प्रययौ भ्रातरं द्रष्टुं सह कालियविद्विषा

8.128

स हेमपुङ्खैर्निर्भिन्नं कर्णनामाङ्कितैः शरैः ।
शयानं धर्मतनयं ददर्श च्छिन्नकङ्कटम्

8.129

तस्याभिवाद्य चरणौ निषण्णौ केशवार्जुनौ ।
चिन्तासंतापिततनू तस्थतुः क्षणमाकुलौ

8.130

युधिष्ठिरस्तं विज्ञाय कर्णं हत्वा समागतम् ।
उत्थाय निर्व्यथो हर्षाज्जयादपृथुविस्मयः

8.131

प्रायो निःशेषिताः सेना येनास्त्रदहनेन नः ।
स दिष्ट्या समरे पार्थ त्वया कर्णो निपातितः

8.132

वीराः स विद्विषां हन्ता धौरेयः सर्वधन्विनाम् ।
रामशिष्यस्त्वया ब्रूहि कथं वैकर्तनो हतः

8.133

इति पृष्टो नृपतिना बभाषे श्वेतवाहनः ।
युध्यमानस्य सुचिरं द्रौणिना रुद्रतेजसा

8.134

संशप्तकैश्च विघनो ऽभून्मम कर्णनिपातने ।
भीमसेनमवस्थाप्य प्रत्यनीके महाभुजम्

8.135

प्रहारविक्षतं देव त्वामहं द्रष्टुमागतः ।
अधुना त्वदनुज्ञातः कौरवाणां परायणम्

8.136

कथाशेषं करो ऽप्येष कर्णं कर्णायतैः शरैः ।
इति ब्रुवाणं बिभत्सुं मोघसंकल्पदुःखितः

8.137

उवाच सायकाकीर्णः कोपतप्तो युधिष्ठिरः ।
भारं विन्यस्य विपुलं भीमसेने धनुर्धरः

8.138

अपयातो ऽसि कर्णस्य सत्यं दृष्ट्वा पराक्रमम् ।
मिथ्यैव कुन्त्या गर्भे त्वं क्षत्रियव्यञ्जनो धृतः

8.139

पूरकः पुत्रसंख्यायां बाणस्तृणमयो यथा ।
त्रयोदश समास्ते ते संकल्पा विहितास्त्वयि

8.140

सर्वे प्रयाता वैफल्यमुपकारा इवाधमे ।
क एव नाम जानीते कर्णाद्भीतो धनंजयः

8.141

अपयास्यति संग्रामाद्यो वर्तेत तथा विधिम् ।
एतत्प्रयच्छ कस्मैचिद्गाण्डीवं शौर्यशालिने

8.142

समरे कर्णसंत्रासं यो ऽस्माकमपनेष्यति ।
एतदाकर्ण्य बीभत्सुर्मर्मणीव समाहतः

8.143

एतद्गिरा ददौ खड्गे क्रुद्धः साश्रुलवा दृशः ।
तं कोपसंकटो घोरे दुःखाग्नौ च निरन्तरे

8.144

पतितं वीक्ष्य गोविन्दः सर्वव्यापी तमभ्यधात् ।
जाने ते हृद्गतं पार्थ येन दोलायसे मुहुः

8.145

गाण्डीवं वितरान्यस्मै त्वां ब्रूयाद्यः स ते ध्रुवम् ।
वध्य इत्युचिताचार प्रतिज्ञा तव विश्रुता

8.146

तदर्थमसि कोपान्धो निहन्तुं किंस्विदग्रजम् ।
आत्मानं वा व्रतभ्रंशभयात्खङ्गं निरीक्षसे

8.147

श्रुयतामत्र सत्येन केवलेन विमुह्यसे ।
धर्माधर्मौ न जानीषे सत्यमात्रदृढव्रतः

8.148

असत्यं धर्मतां याति सत्यमायात्यधर्मताम् ।
कदाचित्कर्मभेदेन तद्विचार्यं धिया बुधैः

8.149

धर्मो ऽपि गहनः सूक्ष्मो ज्ञायते न यथा तथा ।
पुरा बभूव विपिने बलाको नाम लुब्धकः

8.150

घोरसत्त्वं कदाचित्स गोब्राह्मणगणान्तकम् ।
हत्वा शरेण सहसा शक्रलोकमवाप्तवान्

8.151

कौशिको नाम विप्रः प्राक्सत्यवाक्यकृतव्रतः ।
विद्रुतान्धनिकान्पृष्टो दस्युभिः क्व गता इति

8.152

अदर्शयत्सत्यवादी स तान्गुणदयाश्रयान् ।
दृष्टांश्च दस्यवो जघ्नुस्तूर्णं तान्द्रविणाशया

8.153

कौशिको ऽप्यथ कालेन पतितो नरकं ययौ ।
इत्येवं गहना पार्थ प्रवृत्तिः सत्यधर्मयोः

8.154

तस्मात्त्वमग्रजे राज्ञि धर्मनिष्ठे युधिष्ठिरे ।
मोहादसांप्रतं किंचिन्न चिन्तयितुमर्हसि

8.155

श्रुत्वैतत्खड्गमाकृष्य हन्तुमात्मानमुद्यतम् ।
प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णो ऽब्रवीत्पुनः

8.156

अवमानेन निहतो गुरुर्भवति सर्वथा ।
भवत्यात्मा च निहतः श्लाघया गुरुसंसदि

8.157

रक्षन्प्रतिज्ञामज्ञानं निरस्य क्रोधसंभवम् ।
तस्मादेतद्वधायाद्य निवृत्तो भव फल्गुण

8.158

इत्युक्तवति दाशार्हे तथेत्युक्त्वा धनंजयः ।
भीरुः प्रमादी क्रूरस्त्वमित्युवाच युधिष्ठिरम्

8.159

मयैकेन हताः सर्वे संहता दैत्यदानवाः ।
धुर्यो ऽहं कार्मुकभृतामित्यात्मानमुवाच च

8.160

ततो धर्मसुतं दुःखात्काननं गन्तुमुद्यतम् ।
यत्नात्प्रसादयामास गृहीत्वा चरणौ हरिः

8.161

पार्थं च पादपतितं साश्रुनेत्रं युधिष्ठिरः ।
रुरोध गाढमालिङ्ग्य विगलन्मन्युविप्लवः

8.162

कृतशौचौ ततो वीरौ धर्मराजधनंजयौ ।
रथावारुह्य संनद्धौ जग्मतुः समराङ्गणम्

8.163

अथार्जुनशरव्रातकृत्तवक्त्रैर्नरेश्वरैः ।
क्षणं बभूव पतितैः सा कबन्धमयीव भूः

8.164

अत्रान्तरे भीमसेनो हत्वा दुर्योधनानुजान् ।
दुःशासनं युध्यमानमाससादेभविक्रमम्

8.165

निष्पिष्य गदया तस्य रथं साश्वायुधध्वजम् ।
आचकर्ष रणे ध्वस्तं तं हिडिम्बापतिर्बलात्

8.166

प्रियापरिभवं घोरं स्मरन्नथ वृकोदरः ।
प्रकोपराक्षसाविष्टः कोष्णं शोणितमापपौ

8.167

घोरं तत्कर्म भीमस्य दृष्ट्वा स्रस्तासिकार्मुकाः ।
त्रस्ता महारथाः सर्वे मीलिताक्षाकम्पिरे

8.168

असृक्प्रसरगर्वितः पुलकदण्डगण्डाननो मदादतिविशृङ्खलः स्खलितपादचारक्रमः ।
बभौ भयदविभ्रमभ्रमितभीमभास्वद्गदः प्रियाचिकुरसंयमोद्यतमतिः समीरात्मजः

8.169

अपूर्वेणैव विधिना हते दुःशासने तथा ।
महतामपि भूतानामभूत्कण्टकिता तनुः

8.170

***** ***** दुःशासनवधः ॥ 8 ॥ ***** *****
अत्रान्तरे पाण्डवानां वृषसेनशरार्दिते ।
सैन्ये बभूव निर्घोषः पततां गजवाजिनाम्

8.171

संहता अपि भूपाला भीमसात्यकिरक्षिताः ।
न सेहिरे रणे दीप्तं कर्णसूनोः पराक्रमम्

8.172

स सात्यकिं भीमसेनं माद्रीपुत्रौ किरीटिनम् ।
धृष्टद्युम्नं नृपाश्चान्यान्वीरस्तुल्यमयोधयत्

8.173

आश्चर्ययोधिनस्तस्य स्मयमान इवार्जुनः ।
भुजौ शिरश्च चिच्छेद कमलाकमलोपमम्

8.174

***** वृषसेनवधः ॥ 9 ॥ *****
वृषसेने हते कर्णः पुरो गाण्डीवधन्वना ।
सस्मार साश्रुनयनः सौभद्रं बहुभिर्हतम्

8.175

अथामर्षाज्यसिक्तेन भ्रुकुटीधूमकेतुना ।
क्रोधाग्निना दह्यमानः कर्णो ऽधावद्धनंजयम्

8.176

मनोरथशताभ्यस्ते प्रवृत्ते समरे तयोः ।
बभूव कौतुकायातसुरसिद्धाकुलं नभः

8.178

कर्णार्जुनरणे तस्मिन्स्वपुत्रजयशंसिनोः ।
जाते विवादे सहसा दिवि सूर्यसुरेन्द्रयोः।
पृष्टो द्विधा स्थितैर्देवैर्वृषाङ्ककमलोद्भवौ ।
कृष्णो यत्र जयस्तत्रेत्यूचतुर्निश्चितं पुरा

8.179

अथ गम्भीरनिर्घोषौ शङ्खौ कर्णकिरीटिनौ ।
दध्मतुः शौरिशल्यौ च यैश्चकम्पे जगत्त्रयी

8.180

ततो धवलपक्षाग्राः स्वयशोभिरिवाङ्किताः ।
वैकर्तनः पाण्डवाय प्राहिणोद्विशिखावलीः

8.181

पार्थध्वजेनाभिहतः कर्णकेतुरकम्पत ।
कृष्णस्य दृक्त्रिभागश्च शल्यं शल्यमिवाविशत्

8.182

अथार्जुनशरैर्दिक्षु पूर्यमाणासु संततम् ।
बाणपातमतिक्रम्य तस्थुः कौरवसैनिकाः

8.183

दुर्योधनप्रयुक्तानां राधेयरथरक्षिणाम् ।
महारथानां वक्त्राणि जहाराथ कपिध्वजः

8.184

असंभ्रान्तस्ततः कर्णो मुष्टिमूले किरीटिनः ।
प्रयुज्यमानमसकृच्चिच्छेद शरमण्डलम्

8.185

ततो भीमो ऽब्रवीत्पार्थमच्युतश्चातिविस्मितः ।
दुर्जयः समरे कर्णः स्थिरो युध्यस्व फल्गुण

8.186

कैराते खाण्डवे वीर कालकेयवधे ऽपि वा ।
यो ऽभवत्तव संरम्भो गृहाणाभ्यधिकं ततः

8.187

एतदाकर्ण्य विजयो वेल्लन्मुखरकङ्कणः ।
गाढमाकृष्य गाण्डीवं दिव्यास्त्रैर्द्यामपूरयत्

8.188

भार्गवास्त्रेण हत्वा तामस्त्रवृष्टिं किरीटिनः ।
तं च भीमं च कृष्णं च कर्णो बाणैरपूरयत्

8.189

ततः कर्णशरासारैरर्जुनास्त्रैश्च सर्वतः ।
पाण्डुकौरवसेनासु बभूव विपुलः क्षयः

8.190

अथ सर्पमुखं दीप्तं कीर्णचन्दनशालिनम् ।
अस्त्रं कर्णो महाभोगं प्राहिणोत्सव्यसाचिनः

8.191

विसृष्टे भुजगे तस्मिन्शल्यो ऽङ्गपतिमभ्यधात् ।
नायं प्राप्नोति पार्थस्य कण्ठं नागस्त्वयेरितः

8.192

पुनः संधानयोग्यस्ते राधेय यदि मन्यसे ।
अकर्णो ऽस्यथ वा कर्णहितवाक्येषु सर्वदा

8.193

इति तेजोवधायोक्तः शल्येन तपनात्मजः ।
उवाच द्विर्न संधत्ते कर्ण इत्यमलाशयः

8.194

कर्णच्युतं महाघोरमापतन्तं विषोल्बणम् ।
व्यालं दृष्ट्वा हरिश्चक्रे वपुर्मन्दरगौरवम्

8.195

जानुभिर्वसुधां याते ततो हयचतुष्टये ।
फणी जग्राह नम्रस्य किरीटाग्रं किरीटिनः

8.196

किरीटखण्डे पतिते मुक्तारत्नाट्टहासिनि ।
सो ऽविशद्वसुधां सर्पो विप्रलब्धो विनिःश्वसन्

8.197

ततः कृष्णार्जुनौ विध्यन्कालदण्डोपमैः शरैः ।
कर्णः कर्णायतो ऽसृष्टैरुन्ननाद हसन्मुहुः

8.198

अथ शक्रसुतः कोपाद्दिव्यरत्नविराजितम् ।
वर्म चिच्छेद कर्णस्य शरैश्चापूरयद्वपुः

8.199

खाण्डवे कृतवैरं तं खं व्रजन्तं महोरगम् ।
छित्त्वा षड्भिः शरैः पार्थः कर्णं पुनरताडयत्

8.200

वैकर्तनेन निहते ब्रह्मास्त्रे शाक्रमर्जुनः ।
प्रादुश्चक्रे विघाताय वज्राशनिशताकुलम्

8.201

हत्वा तमस्त्रं राधेयो ज्यां चिच्छेद किरीटिनः ।
क्षणादभिनवां मौर्वी विदधे च धनंजयः

8.202

ततो रौद्रं स्फुरज्ज्वालाजटालं संदधेर्ऽजुनः ।
अस्त्रं येनाभवद्व्योम घोरदिग्दाहभीषणम्

8.203

अत्रान्तरे मही स्वयं रथचक्रं विधेर्वशात् ।
जग्राह समये तस्मिन्नङ्गराजस्य संगरे

8.204

ततस्तच्चक्रमुद्धर्तुमुद्यतो विषमस्थितः ।
उवाच कर्णः कौन्तेयं मुहूर्तं क्षमतां भवान्

8.205

उद्धृते ऽस्मिन्मया चक्रे महास्त्रं मुञ्च फल्गुण ।
व्यसनस्थे विशस्त्रे च नहि शूरा भवादृशः

8.206

एतच्छ्रुत्वावदत्कर्णं हसन्कालियसूदनः ।
दिष्ट्याद्य कर्ण जानीषे धर्मं वीरव्रते स्थितः

8.207

बहुभिर्निहतो बालः सौभद्रः किं नु विस्मृतः ।
गण्यतां तच्च यत्कृष्णां सभायामुक्तवानसि

8.208

विषवह्निप्रदानेषु च्छिन्नधर्मः स्मृतस्त्वया ।
नूनं विपदि नीचानां नृपाणां धर्मवृत्तयः

8.209

उक्ते जनार्दनेनेति मन्युना प्रज्वलन्निव ।
ब्रह्मास्त्रं कर्णविहितं ब्राह्मेण विजयो ऽवधीत्

8.210

आग्नेयमर्जुनोत्सृष्टं वारुणेनाङ्गभूपतिः ।
अस्त्रेणास्त्रं समाहृत्य ग्रस्तचक्रो व्यलम्बत

8.211

अथोन्ममाथ बाणेन ध्वजं कनकभास्वरम् ।
कर्णस्याखण्डलसुतो मनोरथमिवोन्नतम्

8.212

ततो ऽञ्जलिकमादाय शरं काञ्चनभूषितम् ।
अभिमन्त्र्य समाकृष्य मृत्युदंष्ट्रासिताननम्

8.213

रुद्रादयो ऽस्त्रगुरवस्तुष्टा मे तपसा यदि ।
तदनेन रिपुं हन्यामित्युक्त्वासृजदर्जुनः

8.214

निर्भिन्नस्तेन सहसा कण्ठे हारपरिष्कृते ।
राधेयः क्रकचोत्कृत्तहेमताल इवापतत्

8.215

हते धनुष्मतां धुर्ये कौरवानीकनायके ।
कर्णे द्रुतं ययौ शल्यः शल्ययन्हृदयाननम्

8.216

प्राप्तं रथेन शून्येन दृष्ट्वा मद्रनरेश्वरम् ।
हतो दुर्योधनः कर्णो जीवतीत्यूचिरे नृपाः

8.217

दुर्योधनो ऽर्जुनशरैरङ्गराजे निपातिते ।
उत्तमाङ्ग इवाज्ञासीन्न किंचिद्विहतोन्द्रियः

8.218

तेजस्ततस्तरलदीधितिकर्णदेहादभ्युद्गतं तरणिमण्डलमाविवेश ।
येनावकाशविशरारुविमानमासीज्ज्वालाकलापजटिलं क्षणमन्तरिक्षम्

मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc