भाषा

ENहिગુ
ग्रंथ पाठ

भारतमञ्जरी · अध्याय 7

7.1

इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्या भीष्मपर्व
द्रोणपर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

7.2

सुरव्रतं हतं श्रुत्वा धृतराष्ट्रो ऽतिदुःखितः ।
मुहुर्मुहुर्यशोराशिं तमशोचदरिंदमम्

7.3

पुनः संग्राममालोक्य समायातो ऽथ संजयः ।
पृष्टो वैचित्रवीर्येण वीरसंहारमभ्यधात्

7.4

ततो भीष्मेहते राजन्कुरवो भृशदुःखिताः ।
अब्धौ भग्ने प्रवहणे वणिजः पतिता इव

7.5

वाञ्छितं समरे शर्म ददृशुः कर्णमागतम् ।
विक्रीताः परदेशेषु स्निग्धं बन्धुमिवापदि

7.6

ततो दुर्योधनः शोकं संस्तम्भ्य धृतिसागरः ।
कर्णस्यानुमते चक्रे द्रोणं सेनासु नायकम्

7.7

तेनाभिषिक्तो विधिवद्गुरुः सर्वधनुष्मताम् ।
स बभौ शक्तिमान्वीरो महासेन इवापरः

7.8

वृद्धस्य स्वयशःशुभ्रं छत्त्रं तस्य व्यरोचत ।
दुग्धोदधेरिव श्रीमच्चन्द्रमण्डलमुद्यतम्

7.9

आमुक्तहेमकवचः स दीप्तः किरणैर्बभौ ।
उपस्थितैः कृत्यकाले दिव्यास्त्रैरिव सेवितः

7.10

प्रणेता सर्ववीराणां सदृशः प्राज्यतेजसा ।
साक्षादिव धनुर्वेदः संहारस्यागमावधिः

7.11

रेजे रथेन रौक्मेन शोणाश्वेन पताकिना ।
संध्याजुषा निर्झरिणा मेरुणेव दिवाकरः

7.12

विरराज रथे तस्य शातकौम्भः कमण्डलुः ।
शौर्योष्मणा प्रतिगतः प्रताप इव पिण्डितः

7.13

आकर्णपलितः श्यामो धौरेयः सर्वधन्विनाम् ।
ददौ वरं श्रिया जुष्टः स राज्ञा स्वयमर्थितः

7.14

जीवग्राहं समादाय राजानं ते युधिष्ठिरम् ।
हतेर्जुने प्रदास्यामि पश्यतां सर्वभुभुजाम्

7.15

एतद्गुरुवचो राजा प्रतिगृह्य कृताञ्जलिः ।
विश्राव्य निजसेनासु तूर्यनादोत्सवं व्यधात्

7.16

तच्च धर्मसुतो ज्ञात्वा सह गाण्डीवधन्वना ।
क्रौञ्चव्यूहं समाधाय संनद्धो योद्धुमुद्ययौ

7.17

द्रोमेन शकटव्यूहे निर्मिते भृशसंहते ।
अवर्तत महद्युद्धं वीराणां देहशातनम्

7.18

ततः सृञ्जयपाञ्चालमत्स्यसेनासु दुःसहाः ।
शरीरहारिणः पेतुर्द्रेणनामाङ्किताः शराः

7.19

भिद्यमानेषु सैन्येषु निपतद्गजवाजिषु ।
रक्तकल्लोलिनीवेगैर्नीतेषु स्यन्दनेष्वपि

7.20

युधिष्ठिरमुखान्वीरान्कोपाद्द्रोणमभिद्रुतान् ।
अवारयन्सुसंरब्धान्द्रोणिकर्णकृपादयः

7.21

अभिमन्युरथाकृष्य रथात्केशेषु पौरवम् ।
अपातयत्कृपाणेन पश्यतां सर्वधन्विनाम्

7.22

तत्कोपात्खङ्गमादाय जयद्रथमुपागतम् ।
शल्यं च विरथं वीरो विदधे बलिनां वरम्

7.23

ततः शल्यो गदापाणिः पद्भ्यां सौभद्रमाद्रवत् ।
गदया वीरवारिन्या भीमश्च तमवारयत्

7.24

तयोः परस्पराघातकीर्णवह्निकणाकुलम् ।
नृणां विमोहनं घोरं गदायुद्धमवर्तत

7.25

मण्डलानि चरन्तौ तौ समदाविव कुञ्जरौ ।
अभिपत्य पदान्यष्टौ गदाभ्यां जघ्नतुर्मिथः

7.26

गाढप्रहारसंजातमूर्छाविह्वलमानसौ ।
तौ दृष्ट्वा पतितौ वीराः संनिपेतुः प्रहारिणः

7.27

नीते मद्राधिपे तूर्णं रथेन कृतवर्मणा ।
भीमसेनः समादाय कुरुसेनामदारयत्

7.28

कर्णसूनोरथ शरैर्दृषसेनस्य पाण्डवाः ।
आकीर्णान्द्रौपदीपुत्रान्विलोक्य तमुपाद्रवन्

7.29

ततो रुक्मरथो द्रोणः स्वयं पाञ्चालवाहिनीम् ।
प्रविश्य बाणैर्विदधे विप्रकीर्णां सहस्रधा

7.30

शिखण्डिसात्यकिमुखान्स विदार्य महारथान् ।
युधिष्ठिरमभिप्रेक्षुः कुर्वन्नरपतिक्षयम्

7.31

युगंधरं व्याघ्रदत्तं सिहसेनं च पार्थिवम् ।
निनाय मृत्युसदन शरैरशनिदारुणैः

7.32

तिष्ठ स्थितो ऽह युद्धस्व हतो ऽसीति मुहुर्मुहुः ।
द्रोणाग्रे युध्यमानानां भूभुजामभवद्रणः

7.33

द्रोणेन युध्यमानानां निशम्य श्वेतवाहनः ।
कोलाहलं स्वसैन्यानां तूर्णं तं देशमाययौ

7.34

स निहत्यास्त्रजालेन वीरः कुरुवरूथिनीम् ।
विदधे रक्ततटिनीमावर्तहृतकुञ्जराम्

7.35

ततो ऽवहारं सैन्यानां पार्थसायकपीडिताः ।
याते ऽस्तं तिग्मकिरणे चक्रिरे कुरुपुंगवाः

7.36

***** द्रोणाभिषेकः प्रथमो युद्धदिवसश्च ॥ 1 ॥ *****
निशायां संनिविष्टेषु शिबिरे सर्वराजसु ।
लज्जमान इवाचार्यो दुर्योधनमभाषत

7.37

उक्तमेव मया राजन्रहितं सव्यसाचिना ।
युधिष्ठिरं ग्रहीष्यामि दुर्जयो हि धनंजयः

7.38

इति ब्रुवाणे वैलक्ष्यादाचार्ये राजसंनिधौ ।
त्रिगर्वराजः प्रोवाच कृतवैरः किरीटिना

7.39

वयं संशप्तकगणैर्मालवैस्तुण्डिलैस्तथा ।
वीरैर्मद्रककाम्बोजललितैश्च प्रहारिभिः

7.40

रथायुतैस्त्रिभिः पार्थमाहूय पृथगास्थितः ।
योत्स्यामहे सुप्रकृतैरिति सत्यं शपामहे

7.41

इत्युक्ते शपथं कृत्वा त्रिगर्ता वह्निसाक्षिणः ।
प्रत्यूषे निर्ययुर्वीराः सुशर्मप्रमुखा नृपाः

7.42

ते तुरङ्गखरोद्धूतधूलिग्रस्तनभस्तलाः ।
चक्रिरे फल्गुणाह्वानं नादैः प्रलयशंसिभिः

7.43

तान्व्यूहेनार्धचन्द्रेण समे देशे व्यवस्थितान् ।
दृष्ट्वा पार्थस्तदाहूतो युधिष्ठिरमभाषत

7.44

अनुजानातु मामार्यस्त्रिगर्तानां वधं प्रति ।
एते मामभिवाञ्चन्ति योद्धुं संघर्षशालिनः

7.45

अयं ते सत्यजिद्वीरः पाञ्चाल्यः प्रवरो रथः ।
गोप्ता द्रोणाभिसरणे शक्रतुल्यपराक्रमः

7.46

इत्युक्त्वा चण्डगाण्डीवघोषघण्टितदिक्तटः ।
प्रलयाम्भोदसंरब्धस्तान्ययौ कपिकेतनः

7.47

ते ऽपि पाण्डवमायान्तं दृष्ट्वा प्रमदनिर्भराः ।
फुल्लसालमिवादृश्यं चक्रुः क्षिप्रं शिलीमुखैः

7.48

ततः शौर्याम्बुधेः फेनमट्टहासं रणश्रियः ।
दध्मौ धनंजयः शङ्खं कन्दं निजयशस्तरोः

7.49

तस्य शब्देन महता तत्सैन्यं भयकारिणा ।
अभून्निवृत्तमातङ्गं स्तिमिताङ्गतुरङ्गमम्

7.50

अथ सायकजालेन जीवमत्स्यापहारिणा ।
त्रिगर्तवाहिनीं पार्थः समन्तात्पर्यवारयत्

7.51

ततः संशप्तकगणोत्सृष्टैरविवरैः शरैः ।
पिहिते भुवनाभोगे बभूवाकालशर्वरी

7.52

ततः प्रविदधे त्वाष्ट्रं महास्त्रं वज्रिनन्दनः ।
येनार्जुनसहस्राणि ददृशुस्ते ससंभ्रमाः

7.53

जहाराकर्णकृष्टेन भल्लेन च महौजसः ।
स्फुरन्मौलिप्रभाजालं शिरः कायात्सुधन्वनः

7.54

तत्प्रेषितां शस्त्रवृष्टिं पवनास्त्रेण हारिणा ।
विधूय तच्छिरःपुञ्जैरदृश्यां विदधे महीम्

7.55

छिन्नच्छत्त्रध्वजरथं पतद्भुजभटाननम् ।
त्रिगर्तकदनं पार्थो घोरमायोधनं व्यधात्

7.56

***** संशप्तकयुद्धम् ॥ 2 ॥ *****
अस्मिन्क्षणे वैनतेयव्यूहे द्रोणेन निर्मिते ।
व्यूहेन निर्मितार्धेन पाण्डुपुत्राः समुद्ययुः

7.57

ततः प्रवृत्ते संग्रामे क्षये चैव महीभुजाम् ।
धृष्टद्युम्नप्रभृतयो द्रोणमुख्यानयोधयन्

7.58

रजोभिः पिहिते व्योम्नि दिक्षु रुद्धासु सायकैः ।
अविभागममर्यादं घोरं युद्धमवर्तत

7.59

अभिद्रुते ततो द्रोणे धर्मराजजिघृक्षया ।
घोरो हलहलाशब्दः सैन्यानामुदभूत्क्षणम्

7.60

कालाग्नितेजसं वीरं धौरेयं सर्वधन्विनाम् ।
अवारयितुमभ्येत्य सत्यजित्सत्यविक्रमः

7.61

युध्यमानं ततो हत्वा वृकं राजसुतं गुरुः ।
शरैः सत्यजितं चक्रे कीर्णांशुमिव भास्करम्

7.62

हेमनामाङ्कितैर्बाणैर्मुहूर्तादथ सत्यजित् ।
दीप्तैरपूरयद्द्रोणं खद्योतैरिव पादपम्

7.63

ततः सत्यजितः कायादाचार्यः शौर्यशालिनः ।
शिरो जहार भल्लेन चण्डताण्डवकुण्डलम्

7.64

निपातिते सत्यजिति प्रवरे सर्वधन्विनाम् ।
विद्रुते धर्मतनये व्यदीर्यते वरूथिनी

7.65

***** सत्यजिद्वधः ॥ 3 ॥ *****
हृत्वानुजं विराटस्य शतानीकं प्रहारिणम् ।
दृढसेनं क्षत्रदेवं वसुदानं च पार्थिवम्

7.66

निघ्नन्रुक्मरथश्चेदिमत्स्यपाञ्चालसृञ्जयान् ।
विदधे रुधिरावर्तैः कृतान्तोद्यानवाहिनीम्

7.67

विद्रुते पाण्डवबले पीडिते द्रोणसायकैः ।
कर्णदुर्योधनमुखा भारद्वाजमपूजयन्

7.68

पुनरावर्तिते सैन्ये भीमेन भुजशालिना ।
संहताः पृथिवीपालाः कोपाद्द्रोणमुपाद्रवन्

7.69

ऋष्यवर्णैर्हयैर्भीमः सात्यकिः स्फाटिकप्रभैः ।
पारावतप्रभैश्चाश्वैर्धृष्टद्युम्नश्चमूपतिः

7.70

नकुलः सहदेवश्च शुकतित्तिरिसप्रभैः ।
अभिमन्युः पिशङ्गाभैः पाण्ड्यैश्च तुहिनप्रभैः ।
दन्तप्रभैः कृष्णवालैः स्वयं राजा युधिष्ठिरः

7.71

अन्ये तु विविधच्छायैश्चित्रवर्माम्बरध्वजैः ।
परिवार्य रणे द्रोणं चक्रुर्बाणमयं जगत्

7.72

मृदङ्गनादकौ राज्ञो ध्वजो नन्दोपनन्दकौ ।
दिव्ययन्त्रेण विहितौ बभतुर्धर्मजन्मनः

7.73

धर्मानिलेन्द्राश्विनां च प्रतिमा द्रौपदीभुवाम् ।
तुमुले युध्यमानानां रेजिरे काञ्चनोज्ज्वलाः

7.74

आवृतं द्रोणमालोक्य राजभिः क्रूरया धिया ।
दुर्योधनादयो वीरान्भीममुख्यान्समापतन्

7.75

तेषु शल्यप्रधानेषु युधिष्ठिरपुरोगमैः ।
द्वन्द्वद्धनिषक्तेषु समरोत्सवराजिषु

7.76

कृतबाहौ सुबाहौ च हते वीरे युयुत्सुना ।
वङ्गराजे समातङ्गे भीमसेनेन पातिते

7.77

विद्रुते कौरवबले निहतेष्वभिमानिषु ।
निरालोकेषु लोकेषु रजस्तिमिरमण्डलैः

7.78

प्रेरितो भगदत्तेन संवर्तकघनप्रभः ।
सुप्रतीको मदोद्दामः पाण्डुसेनां व्यगाहत

7.79

दैत्यसंग्रामसाहाय्ये जम्भारिभवनस्थितः ।
ऐरावणघटाबन्धः प्रमाणं यस्य वर्ष्ममः

7.80

शशिशुभ्रैर्नखैरुद्यादेकपात्स क्षणं बभौ ।
स्वमहीपीडनरुषा दष्टः सेषशतैरिव

7.81

इतश्चन्द्रार्कमुख्यानां प्रभवः सर्वतेजसाम् ।
इति नक्षत्रमालाभिरुदयाद्रिरिवाश्रितः

7.82

दिग्वारणरणावाप्तिं विना व्यर्थमिदं बलम् ।
इतीव पृथुशूत्कारैर्निःशश्वास मदालसः

7.83

एता आयान्तु वैक्लव्यं मत्प्रतापोष्मणा दिशः ।
इतीव कर्णतालाभ्यां मुहुर्मुहुरवीजयत्

7.84

चण्डीशडमरोच्चण्डडिण्डिमध्वाननिःस्वनैः ।
हेलयोन्मीलयन्किंचिल्लोचने प्रचचाल सः

7.85

भगदत्तास्त्रनिष्कृत्तवीरवक्त्राञ्चितां महीम् ।
गत्वा पदे पदे पश्यन्सस्मार कमलाकरान्

7.86

स वाहिनीं पाण्डवानां प्रविश्य निबिडं गजः ।
गजवाजिरतान्पिंषन्वसाकर्दमिनीं व्यधात्

7.87

मृद्यमानाः करीन्द्रेण ताः सेनाः कौरवद्विषाम् ।
संकोचमापुः सहसा दर्पेणेव विभूतयः

7.88

तेन मन्दरतुल्येन गजेनानीकवारिधेः ।
समाक्रान्तस्य निस्त्रिंशकालकूटच्छटा बभुः

7.89

कुण्डलीकृतशुण्डाग्रः सो ऽभ्यधावद्वृकोदरम् ।
आकृष्टं पाशहस्तेन येन तं मेनिरे जनाः

7.90

संशये पतितं भीमं दृष्ट्वा तूर्णं युधिष्ठिरः ।
सह सर्वैर्महीपालैर्भगदत्तं समभ्यधात्

7.91

स तैः परिवृतो वीरैर्हत्वा दाशार्णभूपतिम् ।
उन्ममाथ रथं वेगात्सुप्रतीकेन सात्यके

7.92

तस्य शीकरिणा घोरशीत्कृतेनाथ दन्तिनः ।
भीमसेनमुखा दूरं जह्रुस्त्रस्तास्तुरङ्गमान्

7.93

सा सेना भगदत्तेन कुञ्जरस्थेन पीडिता ।
जनता कृनृपेणेव न लेभे शरणं क्वचित्

7.94

गजानां पत्यमानानां रथानां स्फुटतामपि ।
हाहाकारैश्च भीतानां निःस्वनस्तुमुलो ऽभवत्

7.95

स्वेषामाक्रन्दमाकर्ण्य वज्रास्त्रेणेन्द्रनन्दनः ।
त्रिगर्तान्सानुगान्हत्वा भगदत्तमथापतत्

7.96

दृष्ट्वा गाण्डीवधन्वानं तार्क्ष्यवत्तर्णमागतम् ।
प्रेरितो भगदत्तेन क्रुद्धो ऽदावद्द्विपाधिपः

7.97

तमन्तकमिवायान्तमपसव्येन केशवः ।
रथेन मोघसंरम्भं कृत्वा पुनरभूत्पुरः

7.98

विद्ध्वा शरसहस्रेण पार्थं प्राग्ज्योतिषेश्वरः ।
नारायणास्त्रमसृजत्तच्च जग्राह केशवः

7.99

अर्जुनं रक्षतस्तूर्णं तदस्त्रं कैटभद्विषः ।
निषक्तं वक्षसि प्राप हेमस्रग्दामविभ्रमम्

7.100

तस्मिन्विफलतां याते महास्त्रे दीप्ततेजसि ।
वैलक्ष्यादर्जुनः कृष्णमुवाचास्फालयन्धनुः

7.101

नूनं युद्धेष्वयोग्यो ऽहं येनास्त्रं धृतवानसि ।
श्रुत्वैतदवदत्पार्थं मानयन्गरुडध्वजः

7.102

चतुर्मूर्तिमृता पूर्वं पृथिवीवचसा मया ।
वितीर्णं नरकायैतन्निजास्त्रं भूमिसूनवे

7.103

अमोघमाप्तवांस्तस्माद्देत्यात्सो ऽसौ नराधिपः ।
गृहीतं तन्मया दिव्यं जह्येनमधुना नृपम्

7.104

उक्ते जनार्दनेनेति सव्यसाची सकुञ्जरम् ।
ऊर्ध्ववक्त्रैः शरैः क्षिप्रं भगदत्तमपूरयत्

7.105

गिरिवर्ष्म गजारूढो बाणैः प्राग्ज्योतिषेश्वरः ।
अदूरविद्रुतामर्त्यविमानमकरोन्नभः

7.106

ततः कर्णान्तकृष्टेन कुम्भयोः कुञ्जरेश्वरम् ।
आपुच्छगामिना पार्थो नाराचेनाकुलं व्यधात्

7.107

स फल्गुणेषुनिर्भिन्नः पतिन्द्विरदभूधरः ।
जघान महीतं सेनां पतिताः पातयन्ति यत्

7.108

क्रुद्धस्ततोर्ऽधचन्द्रेण हृदि विद्धः किरीटिना ।
मुक्ताङ्कुशधनुर्बाणो भगदत्तो ऽभवद्व्यसुः

7.109

***** भगदत्तवधः ॥ 4 ॥ *****
तस्मिन्निपतिते वीरे ककुदे सर्वभूभुजाम् ।
विजये कुरुसेनानामाशाबन्धः श्लथो ऽभवत्

7.110

विद्रुते कौरवानीके सौबलौ वृषकाचलौ ।
गान्धारौ धन्विनां धुर्यै धनंजयमयुध्यताम्

7.111

तौ बाणवर्षिणौ पार्थशरेणैकेन संहतौ ।
स्यूतावपातयत्प्रीत्या यातो भारुण्डतामिव

7.112

***** वृषभकाचलवधः ॥ 5 ॥ *****
अनुजौ निहतौ दृष्ट्वा शकुनिः कोपकम्पितः ।
कल्पयन्विपुलां मायां सव्यसाचिनामाद्रवत्

7.113

अस्त्रैश्च क्रूरसत्वैश्च तमोभिश्चभितो वृतः ।
नाकम्पत रणे पार्थस्तस्य मायाशतैरपि

7.114

सौरेणास्त्रेण तन्मायां छित्त्वा कातरमोहिनीम् ।
प्राहिणोत्सायकान्येन शकुनिः प्रययौ भयात्

7.115

यातेर्ऽजुनमयं लोकं मन्यमाने ऽथ सौबले ।
न लेभे शरणं त्रासाद्विद्रुता कुरुवाहिनी

7.116

ततो द्रोणः सहानीकैर्युधिष्ठिरजिघृक्षया ।
हरन्वक्त्राणि वीराणां पाञ्चालान्समुपाद्रवत्

7.117

वध्यमानेष्वनीकेषु शोणाश्वेन सहस्रशः ।
रक्तासवमदेनेव चकम्पे वसुधावधूः

7.118

तूर्णं प्रहरत द्रोणं तूर्णं रक्षत संगरे ।
पाण्डवानां परेषां च बभूवेति महाध्वनिः

7.119

पाञ्चालेष्वथ भग्नेषु सृञ्जयेषु च सर्वतः ।
अयोधयत्कुरुचमूं नीलो माहिष्मतीपतिः

7.120

तं दहन्तमनीकानि दिव्यास्त्रैर्वह्नितेजसम् ।
प्रत्युद्ययौ धैर्यनिधिर्द्रैणिरेको धनुर्धरः

7.121

आचार्यसूनुस्तस्याथ वज्रसारेषुवर्षिणः ।
छत्त्रं ध्वजं कार्मुकं च भल्लैश्चिच्छेद निर्व्यथः

7.122

अवरुह्य रथात्तूर्णं नीलश्चित्रपराक्रमः ।
कृपाणेन शिरो हर्तुं द्रौणेः श्येन इवापतत्

7.123

भारद्वाजसुतस्तस्य भल्लेनोज्ज्वलकुण्डलम् ।
कान्तं शिरो ऽहरत्तारायुगयुक्तमिवोडुपम्

7.124

***** नीलवधः ॥ 6 ॥ *****
नीले हते पाण्डवानां भग्ने सुभटमण्डले ।
हत्वा संशप्तकान्पार्थो जवार्तां भुवमाययौ

7.125

भीमफल्गुणसौभद्रमत्स्यचैद्यमुखैस्ततः ।
भिद्यमाने परानीके निःस्वनस्तुमुलो ऽभवत्

7.126

ततः कर्णप्रभृतिभिस्तेषां समरशालिनाम् ।
घोरो बभूत संमर्दः सर्वलोकभयंकरः

7.127

निर्मर्यादे रणे तस्मिन्रूधिरावर्तदुस्तरे ।
भिन्नां कुरुचमूं दृष्ट्वा कर्णः पार्थमयोधयत्

7.128

सोर्ऽजुनं पावकास्त्रेण सात्यकिप्रमुखांस्तथा ।
चकार घोरदिग्दाहपिङ्गलानिव भूधरान्

7.129

ततो धनंजयमुखा हत्वास्त्रैरस्त्रमुत्कटम् ।
कर्णं शरशतैश्चक्रुर्घनवेत्रवनोपमम्

7.130

शत्रुंजयं विपाटं च वीरं चावरजं शरैः ।
कर्णानुजान्यमपुरं प्राहिणोत्कपिकेतनः

7.131

***** कर्णानुजवधः ॥ 7 ॥ *****
अथ द्रोणमुखाः सर्वे कौरवाणां महारथाः ।
कर्णपार्श्वं समाजग्मुर्दीप्तास्त्रग्रामदुःसहाः

7.132

ते सात्यकिप्रभृतिभिः संसक्ता धन्विनां वराः ।
चक्रिरे समरं घोरं गजवाजिरथक्षयम्

7.133

ततोर्ऽजुनशरासारैर्भिन्नेषु भुजशालिषु ।
वासरान्ते न्यवर्तन्त पार्थिवा भृशपीडिताः

7.134

***** द्वीतीयो युद्धदिवसः ॥ 8 ॥ *****
ततः प्रातः समभ्येत्य गुरुं दुर्योधनो ऽब्रवीत् ।
कर्णयन्भृशसंतप्तः पाण्डवानां पराक्रमम्

7.135

अहो नु पुण्यहीनस्य भवतापि प्रतिश्रुतः ।
वीरो निष्फलतां यातो धर्मजग्रहणे मम

7.136

शक्तिमन्त- प्रणयिनामभिजाता यशस्विनः ।
वृथा मनोरथं कर्तुं शिक्षिता न भवद्विधाः

7.137

श्रुत्वा सुयोधनेनोक्तं जगाद कलशोद्भवः ।
दुर्ग्रह्यः पाण्डवो राजन्गुप्तो गाण्डीवधन्वना

7.138

तथाप्यद्य करोम्येष यथाशक्ति हितं तव ।
संशप्तकाः पुनर्यान्तु रतादाकृष्य फल्गुणम्

7.139

आचार्येणेति गदिते संशप्तकगणाः पुनः ।
समाहूयार्जुनं निन्युर्दक्षिणाशां युयुत्सवः

7.140

रामशिष्यस्ततो द्रोणः क्षत्रियक्षयदीक्षितः ।
संसारचक्रदुर्भेद्यं चक्रव्यूहं विनिर्ममे

7.141

अरीणामयुते तस्मिन्राजपुत्रायुतं बभौ ।
व्योमनिर्झरिणीस्वच्छपताकालंकृतैर्भुजैः

7.142

नाभिमन्ये स्वय श्रीमान्राजा तस्थौ सुयोधनः ।
गजानीकेन महता वृतः सर्वैर्महारथैः

7.143

जयद्रथेन सहितो द्रोणो व्यूहमुखो ऽभवत् ।
त्रिंशता त्रिदशाकरैस्तथा दुर्योधनानुजैः

7.144

तदपारं बलं दृष्ट्वा व्यूहं विक्रमशालिभिः ।
द्रोणनिर्दारितानीकः प्रदध्यौ धर्मनन्दनः

7.145

स सौभद्रं रणे मत्वा कंसारिसमविक्रमम् ।
बभाषे संनिधौ राज्ञां त्रैलोक्यविजयक्षमम्

7.146

अभिमन्यो तव पिता यातः संशप्तकान्प्रति ।
तद्वोढुर्महसि धुरं त्वमिमां तद्गुणाधिकः

7.147

कृष्णोर्ऽजुनो रौक्मिणेयस्त्वं वा वज्रिपराक्रमः ।
प्रगल्भः पञ्चमो नास्ति चक्रव्यूहविभेदिने

7.148

श्रुत्वैतदूचे सौभद्रः प्रहर्षोत्फुल्ललोचनः ।
एष व्यूहं विदार्याद्य प्रविशामि त्वदाज्ञया

7.149

निर्गन्तुमनभिज्ञं मामनुयान्तु महारथाः ।
उक्तेर्ऽजुनसुतेनेति युधिष्ठिरमुखैर्नृपैः

7.150

तथेत्यभिहिते सूतं सौभद्रः समचोदयत् ।
स मुक्तशैश्वो वीरः केसरीव त्रिहायनः

7.151

मन्यमानो रणमुखे वराकं सर्वराजकम् ।
कान्तः कन्कसंनाहो बद्धस्वङ्गो विभूषितः

7.152

कौतुकात्क्ष्मामिवायातो वीरः सुरकुमारकः ।
अकठोरतराकारो वीरो जरठविक्रमः

7.153

द्रोणानीकं शरैश्चक्रे क्षुभिताम्भोधिविभ्रमम् ।
ततः प्रवृत्ते समरे महतामपि मोहने

7.154

विदार्य व्यूहमविशत्सौभद्रस्तीक्ष्णविक्रमः ।
लाघवे सौष्ठवे चित्रे यातमेकमनेकताम्

7.155

दृष्ट्वा प्रविष्टं तं सर्वे कुरुवीराः समाद्रवन् ।
अयं गृहीतो यातो ऽयं हतो ऽयं हन्त्ययं बहून्

7.156

इति राज्ञां निनादो ऽबूदभिमन्युरथं प्रति ।
सरत्नमुकुटैः शीर्षैः सप्रासासिशरैः करैः

7.157

सहेमकवचैः कायैः सकेयूराङ्गदैर्भुजैः ।
तुरङ्गैः कृत्तसारङ्गैर्भिन्नकुम्भैश्च कुम्भिभिः

7.158

निपतद्भिरविश्रान्तश्छन्नां चक्रे स मेदिनीम् ।
वध्यमानं बलं दृष्ट्वा सौभद्रेण प्रहारिणा

7.159

तमाद्रवन्ससंरब्धाः द्रौणिकर्णकृपादयः ।
तान्बाणवर्षिणो वीरान्विधाय विमुखाञ्शरैः

7.160

शिरो जहार भल्लेन सौभद्रो ऽश्मकभूपतेः ।
भग्ने ततो कुरुबले द्रोणकर्णकृपाः पुनः

7.161

द्रौणिहार्दिक्यगान्धारशरशल्यबृहद्बलाः ।
भूरिभूरिश्रवश्चित्रदुःशासनसुयोधनाः

7.162

अन्ये चाभ्येत्य भूपालाः सायकैस्तमवाकिरन् ।
क्षिप्रैः शिलीमुखैस्तेषां संच्छन्नोर्ऽजुननन्दनः

7.163

वसन्तसमये कान्तः कर्णिकार इवाबभौ ।
तस्य पार्थकुमारस्य कुमारस्येव दानवाः

7.164

शक्त्या शक्तिमतो युद्धे निर्जितास्ते प्रदुद्रुवुः ।
मद्रराजानुजं हत्वा स तूर्णं भीमविक्रमम्

7.165

कर्णस्य भ्रातरं शूरं जघान घनगर्जितम् ।
क्रमेणैकैकशो जित्वा संहतांश्च पुनः पुनः

7.166

कर्णदुःशासनमुखान्स चक्रे भूभुजां क्षयम् ।
परसैन्यान्तरस्थस्य दिक्षु सर्वासु भूमिपाः

7.167

हेमचापसहस्राणि ददृशुस्तस्य लाघवात् ।
गजवाजिरथानीके दारिते तेन पत्त्रिभिः

7.168

चामरोष्णीषहासाङ्का प्रससर्पास्रवाहिनी ।
उत्थितेषु कबन्धेषु भग्ने सुभटमण्डले

7.169

दध्मौ पार्थसुतः शङ्खं दिशः शकलयन्निव ।
अत्रान्तरे पाण्डुसुतान्प्रवेष्टुं व्यूहमुद्यतान्

7.170

अवारयद्भर्गवराद्दृप्तो राजा जयद्रथः ।
स कृष्णाहरणे पूर्वं विजितस्तैर्महेश्वरात्

7.171

वरं तपः कृशो लेभे तज्जयं फल्गुमं विना ।
स बभौ पाण्डुतनयान्वारयन्सपदानुगान्

7.172

वेलाचल इवोद्धूतान्वारिवेगान्महोदधेः ।
हैमं वराहं बिभ्राणो ध्वजे वैश्वानरप्रभम्

7.173

ददाह पाण्डवचमूं सैन्धवो रुद्रतेजसा ।
तेनैकेन निरुद्धेषु प्रसभं पाण्डुसूनुषु

7.174

अभिमन्युर्विशन्राज्ञामुच्चकर्त शिरोवनम् ।
वृषसेनं स विद्राव्य वीरो वैकर्तनात्मजम्

7.175

जहार लुलितोष्णीषं काम्बोजनृपतेः शिरः ।
तस्मिन्विमर्दे तुमुले दिक्षु रुद्धासु पांसुभिः

7.176

असूच्यन्त महीपाला रत्नाभरणरशिमभिः ।
ततो विजयदायादः केसरीव मदद्विपम्

7.177

जग्राह सत्यश्रवसं राजानमतुलौजसम् ।
अभिमन्योर्वशं याते तस्मिन्भूमिभृतां वरे

7.178

शल्यात्मजो रुक्मरथस्तं गर्जन्समुपाद्रवत् ।
स तेषां भ्रुकुटीधूमलक्ष्यकोपाग्निसंपदाम्

7.179

गान्धर्वास्त्रेण सहसा विदधे कीर्तिशेषताम् ।
तेन तुल्यवयोवेशे राजपुत्रशते हते

7.180

रम्भाकाण्डवने भग्ने प्रभिन्नेनेव दन्तिना ।
विद्रुते भूभुजां चक्रे भग्नामानः सुयोधनः

7.181

निःशश्वास ह्रिया नम्रः सौभद्रशरदारितः ।
ततो दुर्योधनसुतो लक्ष्मणो लक्ष्मणोपमः

7.182

अभिमन्युं समभ्येत्य प्राहिणोद्विशिखावलीम् ।
लक्ष्मीलताकिसलयं संभोगतरुकन्दरम्

7.183

तं राजपुत्रं सौभद्रः क्षणं तुल्यमयोधयत् ।
तस्य मुक्तावलीतारापङ्क्तिसेवितमाननम्

7.184

शशाङ्कमिव भल्लेन कण्ठमूलाज्जहार सः ।
कौरवेन्द्रस्ततः क्रुद्धः प्रिये पुत्रे निपातिते

7.185

सौभद्रमाद्रवद्वीरः सह सर्वैर्महारथैः ।
नृपवैकर्तन्द्रोणद्रौणिहार्दिक्यगौतमान्

7.186

शरैर्विद्राव्य तरसा वृन्दारकमपातयत् ।
कोपादापततः सो ऽथ कोसलाधिपतेः शिरः

7.187

बृहद्बलस्य चिच्छेद भल्लेनाकुलकुण्डलम् ।
ततः कर्णमभिद्रुत्य शरैरशनिदारुणैः

7.188

निनाय संशयतुलां मृत्युदंष्ट्राङ्कुरैरिव ।
निपात्य कर्णसचिवान्राजपुत्रान्प्रहारिणः

7.189

जघान मार्तिकं भोजं तथा कुञ्जरेकतनम् ।
दौःशासनिं ततः कृत्वा पृषत्केन पराङ्भुखम्

7.190

विधाय विरथं शल्यं शरजालैरमोहयत् ।
शत्रुंजयं मेघवेगं चन्द्रकेतुं सुवर्चसम्

7.191

सूर्यभासं च हत्वैतान्गान्धाराणां क्षयं व्यधात् ।
विद्राव्य भिन्नसर्वाङ्गं शकुनिं क्षतजोक्षितम्

7.192

शिरःफलोच्चयं चक्रे राजचूतवनेषु सः ।
हेमपुङ्खेषुजालेन जनकस्पर्धयेव सः

7.193

चकार कौरवानीकं ज्वलत्स्वाण्डवविभ्रमम् ।
स बभौ बिम्बितो राज्ञां स्वङ्गेषु कवचेषु च

7.194

एको विश्वक्षयायेव प्रयातो विश्वरूपताम् ।
तं दहन्तमनेकानि दृष्ट्वा शरशतार्चिषम्

7.195

आचार्यमेत्य राधेयो गाढविद्धः समभ्यधात् ।
बालो ऽप्यबालचरितः काकुत्स्थमविक्रमः

7.196

अशेषं क्षपयत्येष सैन्यं वज्रिसुतात्मजः ।
विधीयतामत्र नीतिर्दुर्जयो ऽयमुपेक्षितः

7.197

त्वदधीना हि युद्धे ऽस्मिन्कौरवाणां जयश्रियः ।
श्रुत्वैतत्सस्मितो द्रोणः सूतपुत्रमभाषत

7.198

सत्यं हिनस्ति पृतनां मुहुर्तेनार्जुनात्मजः ।
अस्य धैर्यममर्यादं दृष्ट्वा प्रौढं च विक्रमम्

7.199

रोमाञ्जकञ्चुकः कायः कस्य नाम न जायते ।
सकार्मुको न शक्यो ऽयं सखङ्गरथकङ्कटः

7.200

सचक्रो वा रणे जेतुं भास्वरैस्त्रिदशैरपि ।
तदस्य क्रियतां यत्नः सर्वायुधविनाशने

7.201

परचक्रान्तरस्थस्य युष्माभिर्यदि शक्यते ।
ततो द्रोणः समाभाष्य कर्णेन सहितो ययौ

7.202

सौभद्रं द्रावितानीकं सह सर्वैर्महारथैः ।
स तानापततो वीरान्मण्डलीकृतकार्मुकः

7.203

शरैश्चकार विमुखान्नदीवेगानिवाचलः ।
ततश्चिच्छेद पार्श्वेन कर्णस्तस्यानतं धनुः

7.204

रथं जघान हार्दिक्यः सारथिं तस्य गौतमः ।
विरथं छिन्नधन्वानं द्रोणमुख्यास्तमाद्रवन्

7.205

स दीप्तं स्वङ्गमादाय चर्म चानेकतारकम् ।
मण्डलानि चरन्वीरो दुर्लक्ष्यः समपद्यत

7.206

चरन्तं व्योम्नि बाहुल्यात्सहस्रांशुमिवाभितः ।
पतितं मेनिरे मूर्ध्नि तुल्यं सर्वे महारथाः

7.207

प्रहारिणः क्षुरप्रेण द्रोणस्तस्याकरोद्द्विधा ।
खङ्गं भिन्नेभकुम्भाग्रसक्तमौक्तिकदन्तुरम्

7.208

छिन्नखङ्गः समादाय चक्रं विक्रमलाच्छनः ।
स चक्रे राजचक्राणां क्षयं चक्रायुधभ्रमम्

7.209

ततस्ते संहताः सर्वे द्रोणमुख्या महारथाः ।
तच्चक्रं तिलशश्चक्रुः शरैः संहारशङ्किताः

7.210

हेमाङ्गदगदापाणिः सो ऽथ भीम इवापरः ।
सुबलस्यात्मजं वीरं कालिकेयं जघान सः

7.211

गान्धारराजपुत्राणां स हत्वा सप्तसप्ततिम् ।
नृपान्ब्रह्मवसातीयान्गदयापातयद्दश

7.212

निष्पिष्टकेकयरथो गजानीकं चकार सः ।
वज्रपातविनिर्भिन्नशैलमण्डलसंनिभम्

7.213

रथं दौःशासनेः साश्वं स निष्पिष्य ससारथिम् ।
गदया गजघातिन्या गदापाणिं तमाद्रवत्

7.214

मण्डलानि चरन्तौ तावन्योन्यमभिजघ्नतुः ।
गदाभ्यं भीषणाघातजातवह्निकणाकुलौ

7.215

गुरुप्रहाराभिहतौ पेततुस्तौ महाभुजौ ।
सौभद्रं पतितं दूराद्बाणैर्जघ्नुर्महारथाः

7.216

सायकाञ्चितसर्वाङ्गं विकीर्णाकुलकुन्तलम् ।
दौःशासनिस्तमुत्थान गदया मूर्ध्न्यताडयत्

7.217

तस्मिन्निपतिते वीरे वालचूत इवानिलैः ।
वीतशोभमभूत्सर्वं जगदुद्यानमाकुलम्

7.218

प्रशान्तमपि तं दृष्ट्वा क्षत्रवेणुवनानलम् ।
पुनरुत्तिष्ठतीत्यासीद्भूभुजां हृदयभ्रमः

7.219

तं दृष्ट्वा चन्द्रवदनं कुमारं भूमिपातितम् ।
व्योमगा मुमुचुर्बाष्पं सुरविद्याधराङ्गनाः

7.220

बालो लूनधनुष्स्वण्डः श्रान्तो विहतवाहनः ।
हतो महारथैः सर्वैरित्यभूद्दिवि निःश्वनः

7.221

ततः प्रहृष्टैः कुरुभिर्लब्धलक्ष्यैः समन्ततः ।
गर्जद्भिर्निर्जिताः सेना दुद्रुवुर्धर्मनन्दनम्

7.222

***** तृतीये दिने ऽभिमन्युवधः ॥ 9 ॥ *****
सहस्रपत्त्रनयने सौभद्रे युधि पातिते ।
शोकार्त इव रक्तांशुः पपातास्ताद्रिकन्दरात्

7.223

ततो युधिष्ठिरमुखाः संमुखं हतमाहवे ।
अशोच्यं शुशुचुः स्नेहाज्जम्भारितनयात्मजम्

7.224

समाययौ ततो जिष्णुः शिबिरं विमना इव ।
प्रायः पूर्वं मनांस्येव कथयन्ति शुभाशुभम्

7.225

स निजं सैन्यमालोक्य ध्वस्तच्छायमधोमुखम् ।
भ्रातॄंश्च विषनाराचनिर्भिन्नानिव मर्मसु

7.226

दिवसप्रोषितं पुत्रं द्रष्टुमुत्कण्ठिताशयः ।
मूकीभूतानिव शुचा तानपृच्छत्ससंभ्रमः

7.227

कच्चिन्न द्रोणविहितं चक्रव्यूहं ममात्मजः ।
प्रविष्टो निधनं नीतः कुरुभिः कूटयोधिभिः

7.228

प्रवेशं शिक्षितो व्यूहे मया बालो न निर्गमम् ।
ध्रुवं स निहतः पापौर्वीरो राजीवलोचनः

7.229

उक्त्वेति शोकदनक्वाथ्यमानो धनंजयः ।
श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत् ।
यशोमयीं प्रविष्टो ऽसौ वीरः कल्पस्थिरां तनुम्

7.230

इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः ।
अहो नु नाभवत्कश्चिन्मत्पुत्रं यो ऽरिमध्यगम्

7.231

ररक्ष मध्ये युष्माकं मिथ्याशस्त्रपरिग्रहः ।
तं समग्रगुणारामं तनयं रामविक्रमम्

7.232

द्रक्ष्यामि क्व पुनः कान्तं स्वप्नलब्धमिवेप्सितम् ।
व्यक्तं रिपुभिराकीर्णः पतन्सस्मार मां सुतः

7.233

स्वस्रीयः केशव त्वां वा लुप्तधैर्यो ऽथवा न सः ।
हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा

7.234

सर्वातिशयलावण्यगुणविक्रमशालिना ।
मन्ये तं मन्यते कान्तं तारापतिनिभाननम्

7.235

नवं मन्मथमायातं दिवि देववधूजनः ।
परिष्वजस्व हा पुत्र क्व यातो ऽसि विहाय माम्

7.236

इत्युक्त्वा मूलनिर्लूनो भुवि ताल इवापतत् ।
प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम्

7.237

सुतक्षयप्रकोपाग्निपीतशोकार्णवो ऽवदत् ।
हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम्

7.238

अनस्तनो तिग्मकरे पश्यतां सर्वभूजाम् ।
ये चरन्ति गुरुद्रोहं साधून्परिवदन्ति ये

7.239

विश्वस्तान्घ्नन्ति ये स्वैरं निक्षेपं भक्षयन्ति ये ।
निन्दन्ति ये स्त्रियं भुक्त्वा ये च शास्त्रार्थवर्जिताः

7.240

आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये ।
लोकन्व्रजेयं तत्तुल्यान्हन्या यदि न तं युधि

7.241

असमाप्ते ऽह्नि निखिले न हतश्चेज्जयद्रथः ।
तत्प्रवेक्ष्यामि दहनं हूषणानृतशान्तये

7.242

भुवि वा दिव पाताले मेरुमन्दरकन्दरे ।
अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः

7.243

इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा ।
दध्मौ शङ्खं मही येन चकम्पे सकुलाचला

7.244

***** अर्जुनप्रतिज्ञा ॥ 10 ॥ *****
अस्मिन्नवसरे चारैर्विज्ञायार्जुनभाषितम् ।
भीतो दुर्योधनायैत्य सैन्धवस्तन्न्यवेदयत्

7.245

कौरवस्तं समादाय द्रोममभ्येत्य सानुगः ।
प्रतिज्ञामवदद्धोरां सैन्धवे सव्यसाचिनः

7.246

जयद्रथो वदत्येष दिनमेकमलक्षितः ।
गच्छामि पार्थिवाः सर्वे मां वा रक्षन्तु संहताः

7.247

इति दुर्योधनेनोक्ते भारद्वाजस्तमब्रवीत् ।
श्वः कर्तास्मि महाव्यूहं दुर्भेद्यं त्रिदशैरपि

7.248

अहं धनंजयं वीरं वारयिष्यामि सायकैः ।
सैन्धवार्थिनमायान्तं वेलशैल इवोदधिम्

7.249

उक्ते शोणहयेनेति प्रहृष्टाः कुरुपुंगवाः ।
हतं पार्थममन्यन्त प्रतिज्ञाभङ्गवह्निना

7.250

अधुनैवाखिलां सेनामेकः क्रुद्धो विनाशयेत् ।
रात्रावित्यर्जुनभयात्कुरवस्तस्थुरुत्थिताः

7.251

अत्रान्तरे पुत्रशोकव्यथाताप्रलापिनीम् ।
सुभद्रां याज्ञसेनीं च शौरिः सान्त्वयितुं ययौ

7.252

आश्वासिता केशवेन सुभद्रा बाष्पगद्गदम् ।
विललाप मुहुः कण्ठे स्नुषामालम्ब्य मूर्च्छिताम्

7.253

हा पुत्र नयनानन्द मन्दिरामृतदीधिते ।
क्व नु ते पद्मपत्त्राक्षं द्रक्ष्यामि वदनं पुनः

7.254

इयं ते मत्स्यदुहिता नवोढा महिषी प्रिया ।
मर्तुमाहितसंकल्पा रक्ष्यते गर्भगौरवात्

7.255

नाथे पितरि कृष्णे च भीमे च बलिनां वरे ।
रणे रेणुभिरकीर्णः शेषे कथमनाथवत्

7.256

ब्रह्मण्यानां वदान्यानां यज्वनां पुण्यकर्मिणाम् ।
सदाचारव्रतजुषां गतिमाप्नुहि पुत्रक

7.257

इति प्रलापमुखरां तां समाश्वास्य माधवः ।
तूर्णं गाण्डीवधन्वानं वीतनिद्रमुपाययौ

7.258

कृष्णाज्ञया जपपरो विधिवत्परिकल्पिते ।
पवित्रे शयने निद्रां लेभे शक्रसुतस्ततः

7.259

सो ऽपस्यद्व्योमगः स्वप्ने विष्णुना सह संयुतः ।
दिव्यपर्वतमारूढो देवं चन्द्रार्धसेखरम्

7.260

तं गोविन्दसखो दृष्ट्वा प्रणम्य रचिताञ्जलिः ।
भक्त्या तुष्टाव वरदं वरेण्यं हर्षनिर्भरः

7.261

नमो भवाय भुवनप्रभवाप्यायकारिणे ।
नमः शर्वाय निःशेषदुष्कर्मविषहारिणे

7.262

नमो रुद्राय दैत्येन्द्रद्रावितेन्द्रभयच्छिदे ।
नमः शिवाय भीमाय श्रीकण्ठाय कपालिने

7.263

उग्राय श्रेयसां धाम्ने वामार्धायोर्ध्वरेतसे ।
व्यालाकुलाय सेव्याय निष्कलाय कलाभृते

7.264

त्रिगुणाय त्रिनेत्राय त्र्यम्बकाय त्रिमूर्तये ।
संकल्पकल्पवृक्षाय नमस्तुभ्यं त्रिशूलिने

7.265

इति रुद्रः स्तुतः स्वप्ने महाभुजगविग्रहम् ।
धनुरस्त्रं च पार्थाय सस्थानकमदर्शयत्

7.266

पूर्वलब्धं महास्त्रं तद्दृष्ट्वा पाशुपतं जयः ।
मन्त्त्रं च प्राप्य चण्डीशात्कृतकृत्यो व्यबुध्यत

7.267

ततः प्रभाते कृष्णाय तन्निवेद्य धनंजयः ।
प्रतिज्ञाभारमखिलं हृष्टः स्वल्पममन्यत

7.268

अथ स्नाताः कृतावश्यकरणीया हुताग्नयः ।
रणाङ्गणं महोत्साहा निर्ययुः कुरुपाण्डवाः

7.269

ततो व्यूहं व्यधाद्द्रोणः पृथुचक्रपरिष्कृतम् ।
शकटं विकटाटोपं गुप्तं सुभटकोटिभिः

7.270

महादलं च तन्मध्ये पद्मं नृपतिकेसरम् ।
तुरङ्गरथमातङ्गसहस्रायुतकर्णिकम्

7.271

कृतवर्ममुखैः कृत्वा सूचिव्यूहं तदन्तरे ।
जयद्रथं वृतं वीरैः सूचीपाशे न्यवेदयत्

7.272

एवं व्यूढेष्वनीकेषु गुरुणाद्भुतकारिणा ।
गाण्डीवधन्वा सेनाग्रे दीप्तकेतुरदृश्यत

7.273

तस्य चण्डकरस्येव शररश्मिसहस्रिणः ।
सेहिरे न महीपाला द्रष्टुं तेजो महौजसः

7.274

आकम्पिते ऽथ भुवने दुर्निमित्तशताकुले ।
श्वेताश्वे स्यन्दने कृष्णौ शुभ्रौ शङ्खौ प्रदध्मतुः

7.275

तयोः शब्देन पवनस्कन्दसंघट्टकारिणा ।
अकाण्डप्रलयारम्भसर्वभूतानि मेनिरे

7.276

ततो मिलितयोस्तूर्णं मिथः सेनासमुद्रयोः ।
व्यालनीलवलतस्वङ्गातरङ्गः संगरो ऽभवत्

7.277

शिरोभिरथ शूराणां बाहुभिश्च सभूषणैः ।
महीमाच्छादयन्पार्थो द्रोणानीकमथाविशत्

7.278

स प्रणम्य गुरुं वृद्धमनुमान्य प्रसाद्य च ।
पूर्वोत्सृष्टशरं दीप्तैः शरजालैरवाकिरत्

7.279

ततो जयद्रथाकाङ्क्षी तूर्णमच्युतसारथिः ।
द्रोणं प्रदक्षिणीकृत्य प्रविश्यानिलरंहसा

7.280

लाघवाद्द्रोणमृत्सृज्य प्रविष्टे श्वेतवाहने ।
चक्ररक्षौ विविशतुर्युधामन्यूत्तमौजसौ

7.281

ततो मन्दरसंरब्धक्षुभिताम्भोधिविभ्रमः ।
व्यूहस्यादीर्यमाणस्य निर्घोषस्तुमुलो ऽभवत्

7.282

प्रसक्तं व्रजतस्तस्य पुरः कुञ्जरभेदिनः ।
बभुः पद्मवनानीव पतितैर्भूभुजां मुखैः

7.283

वृतो गतो हतो लब्धो हन्त्येष पतिता वयम् ।
इत्यभूद्दारुमः शब्दो यत्र यत्र धनंजयः

7.284

तूर्णं प्रविशतस्तस्य सिन्धुराजवधेप्सया ।
प्रलयाम्बुधरध्वानधीरो ऽभूतस्यन्दन्स्वनः

7.285

अजय्यं समरे द्रोणं त्यक्त्वा धीमति फल्गुणे ।
प्रविष्टे शरवर्षाभ्रे चकम्पे कुरुकाननम्

7.286

कृतवर्ममुखान्वीरांस्ततस्तूर्णमभिद्रुतान् ।
जित्वा यवनकाम्बोजं जघान शतमन्युजः

7.287

द्रोणः पश्चादथाभ्येत्य ब्रह्मास्त्रेण धनंजयम् ।
रुन्धानः समरे चक्रे ज्वालाजालजटं नभः

7.288

ब्रह्मास्त्रेणैव सहसा हत्वास्त्रं शक्रनन्दनः ।
परिवर्ज्य गुरुं प्रायाद्भोजानीकं मनोजवः

7.289

विधाय विमुखं भोजं प्रयान्तं सव्यसाचिनम् ।
अभ्युद्ययौ वारिपतेः सुतो राजा श्रुतायुधः

7.290

शरैस्तेनायुतोत्सृष्टैर्विद्धो धैर्यमहोदधिः ।
रथं हत्वास्य विदधे पार्थः सर्वायुधक्षयम्

7.291

वरुणेन पुरा पित्रा स दत्तामाददे गदाम् ।
अयोधे पातिता मोहात्तमेवैत्य निहन्ति या

7.292

स तया केशवं मूढो मृत्युदूत्येव घोरया ।
अताडयन्महावेगी विचचाल न चाच्युतः

7.293

तया प्रतीपमभ्येत्य स निष्पिष्टो नरेश्वरः ।
पपात भग्नकटको वज्रेणेव कुलाचलः

7.294

सरितस्तनये वीरे वर्णमायाः श्रुतायुधे ।
हते पार्थरथस्याभूदभग्नप्रणया गतिः

7.295

***** श्रुतायुधवधः ॥ 11 ॥ *****
जयोद्धूतपताकाग्रं व्रजन्तं वानरध्वजम् ।
वेगदीर्घीकृतस्मेरकिरीटाभरणप्रभम्

7.296

तडितां मण्डलेनेव पिङ्गं गाण्डीवतेजसा ।
राजा सुदक्षिणो ऽभ्यायात्काम्बोजः कुरुदक्षिणः

7.297

तस्यास्त्रवर्षिणस्तूर्णं छित्वा कार्मुकमर्जुनः ।
चकर्त शक्तिं तन्मुक्तां घनघण्टाविराविणीम्

7.298

सो ऽथ पार्थशरासारविशरारुतनुर्नृपः ।
पपात हेममालाङ्को विद्याधर इवाम्बरात्

7.299

***** सुदक्षिमवधः ॥ 12 ॥ *****
काम्बोजे निहते वीरे भज्यमाने बलार्णवे ।
सहाच्युतायुषा राज्ञा श्रुतायुः पार्थमाद्रवत्

7.300

श्रुतायुषा तोमरेम शूलेनान्येन चाहतः ।
तुल्यं बाणसहस्रैश्च मुमोह कपिकेतनः

7.301

लब्धसंज्ञो ऽथ शक्रास्रं समुदीर्य धनंजयः ।
साश्वसूतौ सुपत्रौ च कथाशेषौ चकार तौ

7.302

***** श्रुतायुर्वधः ॥ 13 ॥ *****
अङ्गान्वङ्गान्कलिङ्गांश्च दाक्षिणात्यांश्च पाण्डवः ।
हत्वा जघान विपुलं कुञ्जरानीकमाशुगैः

7.303

दरत्तुरष्कचीनानां म्लेच्छानां च वरूथिनीम् ।
शरैर्निपात्य विदधे घोरां रक्ततरङ्गिणीम्

7.304

अम्बष्ठाधिपतेश्छित्वा मौलिरत्नोज्जवलं शिरः ।
अवारितगतिर्वीरो विवेशाच्युतसारथिः

7.305

अथ द्रोणं समभ्येत्य बभाषे कौरवेश्वरः ।
आचार्य पश्य पार्थेन भूभुजां कदनं कृतम्

7.306

कथं नु लङ्घयेद्वीर वराकस्त्वां पृथासुतः ।
शिष्यानुरोधो यदि ते न स्यात्सरलचेतसः

7.307

दत्ताभयो ऽद्य भवता हेलयैव जयद्रथः ।
प्रवेशितः स्वयं कालकरालवदनोदरे

7.308

को हि गाण्डीवधन्वानं त्वयापि समुपेक्षितम् ।
चरन्तं मम सैन्येषु सामान्यो वारयिष्यति

7.309

इत्युक्ते कुरुराजेन भारद्वाजो जगाद तम् ।
तार्क्ष्यवेगो युवा पार्थो वृद्धमुल्लङ्घ्य चागतः

7.310

व्यूहद्वारे मया रुद्धा भीमसात्यकिपार्षताः ।
प्रविशन्त्येष बीभात्सुं व्रजामि यदि पृष्ठतः

7.311

इदं तु ते करोम्यद्य हितं लोकेषु दुष्करम् ।
भविष्यसि रणे येन देवानामपि दुर्जयः

7.312

घोरे वृत्ररणे रुद्रः सुरेन्द्राय ददौ पुरा ।
दिव्यं मन्त्रमयं वर्म दुर्भेद्यो येन सो ऽभवत्

7.313

तदेतन्मन्त्रसंयुक्तं प्राप्तं गुरुमुखान्मया ।
बध्नामि ब्रह्मसूत्रेण तव शत्रुनिबर्हणम्

7.314

इत्युक्त्वा तस्य मन्त्रेण भास्वत्कनककङ्कटम् ।
प्रस्थितस्यार्जुनं जेतुं बबन्ध कुरुभूपतेः

7.315

आमुक्तदिव्यकवचो गुरुणा कौरवेश्वरः ।
गजवाजिरथानीकैः प्रययौ पार्थमोजसा

7.316

अस्मिन्नवसरे युद्धे व्यूहस्य प्रमुखे ऽभवन् ।
द्रोणशल्यशलादीनां धृष्टद्युम्नपुरोगमाः

7.317

पाण्डवा द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
सात्यकिर्द्रुपदो मत्स्यः कुन्तिभोजस्च केकयाः

7.318

वीराश्चान्ये महीपालाः समभिद्रुत्य संहताः ।
दिव्यास्त्रवित्तमा वीरा जलसन्धं नराधिपम्

7.319

दुःशासनं विकर्णं च चित्रसेनं विविंशतिम् ।
अलायुधं राक्षसेन्द्रमलम्बुममलम्बुसम्

7.320

बाह्लिकं शकुनिं द्रोणिं वृषसेनं च गौतमम् ।
मुहुर्मुहारथांश्चन्यान्व्यूहगर्भविनिर्गतान्

7.321

अवाकिरन्हेमपुङ्खैर्निजनामाङ्कितैः शरैः ।
मिथो रथाग्रे कुर्वाणा रुधिरावर्तदुर्गमम्

7.322

ते चक्रुर्विक्रमोदारा घोराभिः शस्त्रवृष्टिभिः ।
कबन्धताण्डवोच्चण्डसंरम्भललिता दिशः

7.323

अत्रान्तरे श्वेतहयः प्रविशन्कुरुवाहिनीम् ।
चकार निपतच्छत्रुराजहंसावलीसिताम्

7.324

शराणामर्जुनभुजोत्सृष्टानामाशुगामिनाम् ।
क्रोशद्वयं ययावग्रे स कृष्णप्रेरितो रथः

7.325

ते हया हेमसंनाहा गाहमाना इवाम्बरम् ।
जवदीर्घैः प्रभाजालैश्चक्रुः पल्लविता दिशः

7.326

हतो गजो रथश्छिन्नः पतितो ऽयं नराधिपः ।
इत्यभून्निःस्वनस्तत्र चेरुर्यत्रार्जुनेषवः

7.327

विन्दानुविन्दावावन्त्यावभिद्रुत्याथ पाण्डवम् ।
अदृश्यं चक्रतुर्नानाशस्त्रवर्षैः सकेशवम्

7.328

तयोः पार्थो रथौ हत्वा छित्वा च धनुषी शरैः ।
जहार शिरसी याभ्यां द्विचन्द्रेवाभवन्मही

7.329

***** विन्दानुविन्दवधः ॥ 14 ॥ *****
ससैन्यो राजपुत्रौ तौ हत्वा विपुलविक्रमौ ।
निजाश्वान्व्यथितान्वीक्ष्य बभाषे कृष्णमर्जुनः

7.330

कृष्णार्तान्वाजिनः क्लान्तान्दस्युशस्त्रशरक्षतान् ।
पाययोद्धृतशल्यांस्त्वं मुक्त्वैतान्सलिलं विभो

7.331

उक्त्वेति सो ऽवतीर्यशु पादचारी नरेश्वरान् ।
इदमन्तरमित्याप्तानेकः सर्वानयोधयत्

7.332

ततः पार्थास्त्रजालानां तदस्त्राणां च संघशः ।
निघर्षनिःसृतज्वालाकरालमभवन्नभः

7.333

अर्जुनेन कृते क्षिप्रं शरपञअजरमन्दिरम् ।
तदस्त्रभिन्नवसुधासंजातविमलोदके

7.334

परिवृत्तान्समाकृष्टशल्यानाघ्रातभूतलान् ।
पाययित्वा हयान्कृष्णो हृष्टान्पुनरयोजयत्

7.335

ते कृष्णाववहन्वाहा जातद्विगुणरंहसः ।
आरुहन्त इवाकाशं शक्राश्विविजिगीषया

7.336

अथ स्वल्पावशेषे ऽह्नि तूर्णं सैन्धवकाङ्क्षिणः ।
चकम्पे कौरवचमूः सायकैः सव्यसाचिनः

7.337

विद्रुतेषु नरेन्द्रेषु भग्ने गजघटावने ।
द्रोणानुबद्धकवचः कौरवेन्द्रः समाययौ

7.338

विलोक्य विपुलानीकं तमायान्तं महौजसम् ।
उवाच कैटभारातिर्निवातकवचान्तकम्

7.339

अयं स कर्ता दर्पान्धो निकाराणां स्थवीयसाम् ।
प्राप्तो मूलमनर्थानां जह्येनं कुलकण्टकम्

7.340

इत्युक्ते पुष्कराक्षेण वीरौ जिष्णुसुयोधनौ ।
क्षणं विलोक्य चक्राते सुरेन्द्रनमुचिप्रभम्

7.341

प्रेरिता कुरुराजेन शुभ्रपक्षा किरीटिनम् ।
क्रौञ्चाद्रिमिव हंसाली विवेश विशिखावली

7.342

गाण्डीवधन्वनो बाणान्वन्ध्यान्दृष्ट्वा सुयोधने ।
किमेतदिति गोविन्दो जगाद पृथुविस्मयः

7.343

धनंजयस्तमवदत्स्मितधौताधरद्युतिः ।
ज्ञातं कृष्ण मया येन पापो ऽयं प्रतिभां श्रितः

7.344

वर्मास्य गुरुणा बद्धं विद्यया वज्रसंनिभम् ।
प्रतियोगं च जाने ऽहं कृत्स्नमेतद्विनाशने

7.345

इत्युक्त्वास्त्रं महद्दिव्यं कवचोच्छित्तये व्यधात् ।
तच्च दूरान्महास्त्रेण द्रोणपुत्रो व्यदारयत्

7.346

द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा पाण्डुनन्दनः ।
चक्रे सुयोधनं छिन्नरथसारथिकार्मुकम्

7.347

हस्तयोश्च शरैरस्य चकाराप्राप्तवर्मणोः ।
लक्ष्याभ्यासमिवासक्तं येनासौ विमुखो ऽभवत्

7.348

ततो द्रौणिप्रभृतयः पार्थं सर्वे महारथाः ।
अभ्याद्रवन्सुसंरब्धा विचित्रकवचध्वजाः

7.349

शिखिध्वजः कर्णसुतः सीराङ्को मद्रभूपतिः ।
मणिनागध्वजः श्रीमान्स्वयं राजा सुयोधनः

7.350

भूरिश्रवा यूपकेतुरन्ते च विविधध्वजाः ।
हेमदीप्तायुधधरा घोरं युयुधिरे नृपाः

7.351

तेषामापततां तूर्णं लघुहस्तो धनंजयः ।
चिच्छेद बाणैर्मर्माणि छत्त्राणि च धनूंषि च

7.352

शरैर्विवर्मणां तेषां पद्मगर्भनिभानि सः ।
बालातपारुणानीव वपूंषि रुधिरैर्व्यधात्

7.353

वध्यमानेषु वीरेषु जिष्णुना सर्वराजसु ।
वलत्स्वङ्गभुजः कालो ननर्तेव निजोत्सवे

7.354

अत्रान्तरे धर्मसुतं द्रोणो व्यूहमुखे स्थितः ।
महारथैः परिवृतं जिघृक्षुस्तूर्णमाद्रवत्

7.355

स कृत्वा मत्स्यपाञ्चालचेदिसृञ्जयकेकयान् ।
अल्पावशेषान्राजानं चकार विरथं शरैः

7.356

हताश्वं कृत्तचापं च दृष्ट्वा सर्वे युधिष्ठिरम् ।
हृतो हृतो नृप इति स्फारतारं प्रचुक्रुशुः

7.357

ततः पाण्डुसुतः शक्तिं प्राहिणोत्प्राणहारिणीम् ।
ब्रह्मस्त्रेण च तां द्रोणो भस्मसादकरोत्क्षणात्

7.358

छिन्नसर्वायुधो विद्धः शरैः कुलिशदारुणैः ।
सह देवरथेनाशु मुक्त्वा द्रोणं ययौ नृपः

7.359

विद्रुते धर्मतनये भारद्वाजो रुषा ज्वलन् ।
ददाह पाण्डवचमूं शरश्रेणीशिकाशतैः

7.360

केकयो ऽथ बृहत्क्षत्रः पाण्डवानीकनायकः ।
द्रोणानुगं क्षेमधूतिं महीपालमपातयत्

7.361

त्रैगर्तं वीरधन्वानं धृष्टकेतुं महारथम् ।
विधाय च्छिन्नमूर्धानं कबन्धं विदधे क्षणम्

7.362

निरपत्यं हातमित्रं सहदेवो ऽवधीद्युधि ।
सात्यकिर्व्याघ्रदत्तं च राजपुत्रमपातयत्

7.363

विध्यमानं बलं दृष्ट्वा भारद्वाजसुतः परैः ।
शिरःकूटावसेषाणि पाण्डुसैन्यान्यकल्पयत्

7.364

राक्षसो ऽथ बकभ्राता भीमसेनमलम्बुसः ।
योधयित्वा शरशतैस्तत्सेनां माययावधीत्

7.365

प्रवर्तितां राक्षसेन भीमो दृष्ट्वासृगापगाम् ।
त्वाष्ट्रेणास्त्रेण तन्मायां छित्वारमजयत्कृती

7.366

वधाय भीमसेनस्य रक्षस्तत्पुनरागमत् ।
अवारयन्महाकायं महाकायो घटोत्कचः

7.367

स रथाद्रथमुत्सृज्य कालः काल इवोन्नदन् ।
आकृष्यालम्बुसं वेगान्निष्पिष्य विदधे व्यसुम्

7.368

***** अलम्बुसवधः ॥ 15 ॥ *****
घटोत्कचेन निहते राक्षसे जम्भविक्रमे ।
भयमाविरभूद्धोरं समरे सर्वभूभुजाम्

7.369

अत्रान्तरे धर्मसुतो दूरस्थस्य किरीटिनः ।
अशृण्वञ्शङ्खनिर्घोषं किमप्याशङ्कितो ऽभवत्

7.370

भीतो ऽभिमन्युवृक्तान्ताद्विषण्णो भ्रातृवत्सलः ।
उवाच सात्यकिं मत्वा स धुर्यं सर्वधन्विनाम्

7.371

सात्यके पश्य बन्धूनां गुरूणां सुहृदां तथा ।
दोर्दर्पस्य च संप्राप्तः कालो ऽयमुचितस्तव

7.372

स ते गुरुः सखा बन्धुः किरीटि शत्रुमध्यगः ।
न ज्ञायते प्रणष्टे ऽत्र शङ्खशब्दे कथं स्थितः

7.373

ऋते त्वामुज्ज्वलाचारं प्रवरं शौर्यशालिनाम् ।
भारः कस्मिन्नसह्यो ऽयं धुरंधर निधीयताम्

7.374

पात्रे वितरतां पृथ्वीं रक्षतां शरणागतम् ।
मित्त्रार्थे त्यजतां प्राणान्समानं श्रूयते फलम्

7.375

धन्या भवद्विधा एव क्रियते यैः स्थिरं यशः ।
पवनाकम्पिकदलीदलालोलैर्निजासुभिः

7.376

त्वयि यातेर्ऽजुनं द्रष्टुं द्रोणग्रहणजं भयम् ।
भीमपार्षतगुप्तस्य सत्यं मे न भविष्यति

7.377

उक्त युधिष्ठिरेणेति सात्यकिः सत्वसागरः ।
सज्जो ऽभवत्तथेत्युक्त्वा परानीकबिभित्सया

7.378

स हेमकवचः स्रग्वी शुभ्राश्वं रथमास्थितः ।
दीप्तसंहध्वजः श्रीमान्घननिर्घोषकार्मुकः

7.379

दाता हुतानलो हृष्टो नृपमान्त्र्य सानुजम् ।
भीमे रक्षां निधायास्य मङ्गलालंकृतो ययौ

7.380

स भारद्वाजमासाद्य वैनतेय इवाशुगः ।
चक्रे राजभुजङ्गानां क्षणमाकम्पविभ्रमम्

7.381

ततो युद्धमभूद्धोरमाचार्ययुयुधानयोः ।
मोहनं सर्वलोकानां स्कन्दतारकयोरिव

7.382

द्रोणं स दुर्जयं मत्वा धीमान्सात्यकिरब्रवीत् ।
गुरो शिष्यं तवान्वेष्टुं फल्गुणं प्रस्थितस्य मे ।
अस्मिन्नल्पावशेषे ऽह्नि न विघ्नं कर्तुमर्हसि

7.383

श्रुत्वैतच्चापमाकृष्य बभाषे कुम्भसंभवः ।
न प्रवेष्टुं त्वया शक्यं मयि जीवति सात्यके

7.384

इति ब्रुवाणं शैनेयो मनो मारुतरंहसा ।
रथेन वञ्चयित्वा तं पराहूतं समाविशत्

7.385

स व्रजन्दुर्जयाञ्जित्वा कृतवर्ममुखान्रणे ।
घोरान्म्लेच्छान्किरातांश्च काम्बोजांश्च न्यपातयत्

7.386

सानुगान्पाण्डुतनयान्भेत्तुं व्यूहाग्रमुद्यतान् ।
निर्गत्यावारयन्सर्वान्कृतवर्मा धनुर्धनः

7.387

जवेन प्रविशन्तं च सात्यकिं सुभटाशनिम् ।
भिन्दानं कुञ्जरघटा रुन्धानं सायकैर्दिशः

7.388

शस्त्रवृष्टिं तदुत्सृष्टां शरैर्विक्षिप्य सात्यकिः ।
चिच्छेद जलसंधस्य शक्रायुधनिभं धनुः

7.389

कुपितश्छिन्नचापास्त्रः कृत्वा सर्वायुधव्ययम् ।
सावेगं प्रेरितगजः सो ऽथ सात्यकिमाद्रवत्

7.390

जवादापततस्तस्य शैनेयश्चन्दनोक्षितौ ।
छित्वा भुजौ जहाराशु सरत्नमुकुटं शिरः

7.391

तस्मिन्हते स नागेन्द्रो युयुधानशरार्दितः ।
विद्रुतः कौरवचमूं पिपेषालम्बि कङ्कटः

7.392

***** जलसंधवधः ॥ 16 ॥ *****
विदार्य मागधानीकं प्रविशन्वृष्णिपुंगवः ।
दुर्योधनमुखान्वीरानयोधयदसंभ्रमः

7.393

पराङ्मुखीकृताशेषसुभटः सो ऽथ मानिनः ।
सुदर्शनस्य नृपतेश्चकर्त रुचिरं शिरः

7.394

शबरान्यवनान्भोजान्बर्बरांस्ताम्रलिप्तिकान् ।
शकान्मुण्डान्कुविन्दांश्च हरन्दूरान्मतङ्गजान्

7.395

दस्युसंघांश्च विविधान्स हत्वा क्रूरविक्रमान् ।
चक्रे करभकुट्टाकः क्षितं मस्तिष्ककर्दमाम्

7.396

दुःशासनो ऽथ निशितैर्विद्धः सात्यकिना शरैः ।
विहाय समरं तूर्णं भारद्वाजान्तिकं ययौ

7.397

तं दृष्ट्वा विह्वलं द्रोणो बभाषे पार्श्वर्तिनम् ।
को ऽयं ते संभ्रमो वीर गत्वा रक्ष यजद्रथम्

7.398

अहो न सात्यकिशरैर्भिन्नां दृष्ट्वा वरूथिनीम् ।
कृतवैरश्च मानी च योद्धव्ये विद्रुतो ऽसि किम्

7.399

एतत्तावत्कृतं कर्म शैनेयेनातिमानुषम् ।
अतो बहुगुणं वीरौ भीमपार्थौ करिष्यतः

7.400

नैषा सभा सा पाञ्चाली यत्र त्वं कृष्टवानसि ।
इमाः प्राणपणप्राप्या यशोविक्रमभूमयः

7.401

अद्यापि रोचतां संधिर्युष्माकं पाण्डुनन्दनैः ।
अन्तं न याता वीराणां संप्रत्यर्जुनसायकाः

7.402

युध्यस्व तूर्णमथवा शात्रवैरपराङ्मुखः ।
भग्नप्रधाना हि चमूर्वार्यमाणापि दीर्यते

7.403

इति रुक्मरथेनोक्तो वैलभ्यात्क्ष्मां विलोकयन् ।
निघ्नन्साहाय्यकं चक्रे मृत्योरिव जगत्क्षते

7.404

वीरकेतुं सुधन्वानं चित्रकेतुं च पार्थिवम् ।
तथा चित्रर्थं वीरं पाञ्चालानवधीद्युधि

7.405

धृष्टद्युम्नस्ततः क्रुद्धः सर्वाभरणभेदिभिः ।
विद्ध्वा द्रोणमसंभ्रान्तः शरैः सेनामदारयत्

7.406

आचार्यं भृशमाकीर्णं शरैर्मूर्छामुपागतम् ।
खड्गपाणिरभिद्राव्य पार्षतो हन्तुमुद्ययौ

7.407

लब्धसंज्ञस्ततो द्रोणः शरैरासन्नपातिभिः ।
किष्कुप्रमाणैर्वैतस्तैर्वंशोत्थैस्तमपूरयत्

7.408

वृश्चिकैरिव तैर्व्याप्तो धृष्टद्युम्नः पराङ्मुखः ।
प्रययौ गुरुणा पश्चाद्दारितः पृथुसायकैः

7.409

ततः शोणहयः क्रुद्धः पाण्डवानामनीकिनीम् ।
दारयन्भूमिपालानां शिरोभिः क्ष्मामपूरयत्

7.410

दुःशासनमथायान्तं सात्यकिः शरवर्षिणम् ।
चकार च्छिन्नवर्माणं विरथध्वजसायकम्

7.411

संत्यक्तं विद्रुतैर्म्लेच्छैः प्रहारशकलीकृतैः ।
रक्षन्प्रतिज्ञां भीमस्य विमुखं नावधीद्गतम्

7.412

अत्रान्तरे रुक्मरथो विशन्पाञ्चालवाहिनीम् ।
द्रोणाय प्राहिणोद्दीप्तां शिशुपालसुतो बली

7.413

तस्य तूर्णं शितैर्बाणैर्गुरुः कृत्वा युधि क्षयम् ।
चकार मौलिरत्नांशुच्छुरितोष्णीषमाननम्

7.414

धृष्टकेतौ विनिहते जलसंधसुतो बली ।
बाणवर्षी क्षणात्प्राप द्रोणानलपतङ्गताम्

7.415

***** केकयधृष्टकेतुवधः ॥ 17 ॥ *****
धृष्टद्युम्नसुतं हत्वा कृतवर्माणमाशुगैः ।
द्रोणो जघान पाञ्चालान्हेहयानिव भार्गवः

7.416

भग्नासु पाण्डुसेनासु घोरे तस्मिन्महाहवे ।
निनिन्द क्रूरवर्माणमाचार्यं व्यथितो जनः

7.417

***** सात्यकिप्रवेशः ॥ 18 ॥ *****
चिरप्रविष्टे शेनेये शङ्कितो धर्मजः पुनः ।
लम्बमाने रवौ भीमं समभ्येत्याभ्यभाषत

7.418

यथा न श्रूयते भीम शङ्खशब्दः किरीटिनः ।
तथा मन्ये किमप्यस्य कृतं सर्वैर्महारथैः

7.419

तं वीरममरारातितमोविध्वंसभास्करम् ।
विना तवानुजं भीम कथं जीवितुमुत्सहे

7.420

निर्घोषः श्रूयते घोरः पाञ्चजन्यस्य दुःसहः ।
जानेर्ऽजुनवधक्रोधान्माधवो योद्धुमुद्यतः

7.421

तद्गत्वा वीर जानीहि वृत्तान्तं सव्यसाचिनः ।
पश्यामि तिमिराक्रान्ताः कश्मलाभिहतो दिशः

7.422

उक्ते युधिष्ठिरेणेति तं जगाद वृकोदरः ।
राजन्धनंजये शङ्कां न मिथ्या कर्तुमर्हसि

7.423

को नाम विबुधारातिवधूवैधव्यदायिनः ।
प्रगल्भते धुरं धत्ते युधि गाण्डीवधन्वनः

7.424

तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् ।
चरामि पदवीं जिष्णोर्दारयन्कुरुवाहिनीम्

7.425

इत्युक्त्वा मारुतसुतः स्यन्दनेनाभ्रनादिना ।
हेमचित्रतनुत्राणः पत्त्रिराज इवाद्रवत्

7.426

स रुक्मरथमारुह्य रुक्मपुङ्खैः शिलीमुखैः ।
अपूरयत्कुरुवनं रत्नदीप्तैरिवाहिभिः

7.427

प्रवेष्टुकाममाचार्यस्तमभ्येत्याब्रवीत्ततः ।
मामनिर्जित्य कौन्तेय भेत्तुं शक्या न वाहिनी

7.428

त्वद्विधैः कुरुराजस्य संरम्भं मा कृथा वृथा ।
इत्युक्त्वा पाण्डवं द्रोणः शरवर्षैरवाकिरत्

7.429

तद्बाणजालनिर्भिन्नो बभाषे च वृकोदरः ।
यथा त्वं मन्यसे द्रोण नेदानीं नो गुरुर्भवान्

7.430

पूजयत्यर्जुनो मान्यान्भीमो ऽहं पश्य मामिति ।
इत्युक्त्वा प्राहिणोत्तस्मै गदामशनिगौरवाम्

7.431

तया द्रोणपरित्यक्तो रथः शकलतां ययौ ।
अपक्रान्ते क्षणं द्रोणे सानुजं कौरवेश्वरम्

7.432

शरैरपूरयद्भीमो भीमसायकवर्षिणम् ।
क्षुरप्रोत्कृत्तवदनान्स जघानाथ कौरवान्

7.433

वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् ।
रौद्रकर्माणमभयं चित्रकान्तिं सुदर्शनम्

7.434

निपात्यैतान्गदाभिन्नसैन्यश्चक्रे तलस्वनम् ।
विद्रुतं स्वबलं दृष्ट्वा तं द्रोमः पुनराद्रवत्

7.435

रथेनाकालजलदध्वनिगम्भीरनादिना ।
संप्रहारस्ततः क्षिप्रं दारुणो द्रोणभीमयोः

7.436

ययौ भार्गवकाकुत्स्थरणस्मरणहेतुताम् ।
स्यन्दनादवरुह्याथ क्रूरकर्मा वृकोदरः

7.437

चिक्षेप दोर्भ्यामुत्क्षिप्य दूरदूरे रथं गुरोः ।
भग्नचक्रध्वजहयाद्विकीर्णयुगकूबरात्

7.438

अवप्लुत्य ययौ तस्माद्द्रोणो गरुडविक्रमः ।
अथान्तरं समासाद्य दारयन्वरवारणान्

7.439

पोथयन्रणसंघातान्विवेश पवनात्मजः ।
पातयन्राजवक्त्राणि पुनः सस्मार मारुतिः

7.440

निर्लूननालनलिनां कुबेरनलिनीं मुहुः ।
स व्रजन्बोजकाम्बोजान्विजित्य विजयाग्रजः

7.441

विवेशाकुलितं तूर्णं कर्णानीकमनाकुलः ।
तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ

7.442

आकर्ण्य कार्मुकरवं ननाद प्रमदाकुलः ।
तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ

7.443

मन्दरोद्धूतदुग्धाब्धिघोषौ सङ्खौ प्रदध्मतुः ।
तेन दिक्तटसंघट्टपट्टटाङ्कारशालिना

7.444

शब्देन साध्वसकृता भुवनानि चकम्पिरे ।
आकर्ण्य कृष्णयोस्तुल्यं शङ्खनादं युधिष्ठिरः

7.445

हृष्टो मेने समुत्तीर्णमर्जुनं रिपुसागरात् ।
भज्यमानं बलं दृष्ट्वा भीमेन भुजशालिना

7.446

कोपादभ्याययौ कर्णः कुर्वन्बाणमयं जगत् ।
तमायान्तं शरैर्विद्ध्वा नदत्पवननन्दनः

7.447

चकार विमुखं कृत्तध्वजस्यन्दनकार्मुकम् ।
भग्ने समिति राधेये धौरेये धैर्यशालिनाम्

7.448

उवाच द्रोणमागत्य म्लानमानः सुयोधनः ।
अर्जुनस्ते प्रियः शिष्यस्त्वामुल्लङ्घ्य गतो यदि

7.449

तत्किं प्रविष्टौ प्रसभं युयुधानवृकोदरौ ।
किमन्यद्विधिवैमुख्यं सत्यमस्मासु जृम्भते

7.450

यत्र वेलामतिक्रान्तो भवान्वीर्यमहोदधिः ।
इत्युक्तः कुरुराजेन बभाषे कुम्भसंभवः

7.451

सैन्यं पुरश्च पश्चाच्च गृहीतं धार्यते कथम् ।
रक्ष्यमाणमितो यत्नात्पुरतः प्रविदीर्यते

7.452

अवारिता विशन्त्येव सर्वे पाञ्चालसृञ्जयाः ।
सैन्यद्वारमितो यत्नाद्रक्ष्यं सर्वात्मना मया

7.453

भवान्कर्णमुखैः सार्धमेभिः सर्वैर्महारथैः ।
पार्थसात्यकिभीमानां पर्याप्तः किं न वारणे

7.454

अस्मिन्मुहूर्तशेषे ऽह्नि गत्वा रक्ष जयद्रथम् ।
अधुना तत्पणावेव रणद्यूते जयाजयौ

7.455

इत्युक्तो गुरुणा राजा गत्वा पाञ्चालनन्दनौ ।
सर्वैश्चकार विरथौ चक्ररक्षौ किरीटिनः

7.456

अत्रान्तरे पुनः कर्णः समागत्य वृकोदरम् ।
हेमुपुङ्खैः शरैश्चक्रे ज्वलितानलसंनिभम्

7.457

ततो भीमभुजोत्सृष्टैः पत्त्रिभिर्गिरिभेदिभिः ।
विद्धश्छिन्नायुधरथो रणं तत्याज सूतजः

7.458

ततो भग्ने कुरुबले नदन्तं वायुनन्दनम् ।
कर्णो मानी समाश्वस्य रथेन पुनराद्रवत्

7.459

घोरे प्रवृत्ते समरे सुचिरं कर्णभीमयोः ।
बभूव विशिखव्रातैर्नरनागरथक्षयः

7.460

भीमो ऽथ सूतपुत्रस्य च्छित्वा तालोपमं धनुः ।
जघान घननिर्घोषं रथं सह मनोरथैः

7.461

विरथं कर्णमालोक्य युध्यमानं प्रयत्नतः ।
आदिष्टः कुरुराजेन दुर्जयस्तमुपाद्रवत्

7.462

दुर्योधनानुजं वीरमायान्तं शरवर्षिणम् ।
तं हत्वा विनदन्भीमः शरैः कर्णमपूरयत्

7.463

पुनः स्यन्दनमास्थाय सूतपूत्रो वृकोदरम् ।
अभ्यधावत्पृथुशरज्वालाजटिलकार्मुकम्

7.464

तद्बाणदारिततनुः पावनिः कोपकम्पितः ।
गुर्वी गदां विसृज्यास्य निष्पिपेष रथं जवात्

7.465

भुवि स्थितं शरैर्भिन्नं कर्णं दृष्ट्वा सुयोधनः ।
आदिदेशानुजं कोपाद्दुर्मुखं कर्णगुप्तये

7.466

वेगात्कौरवमायान्तं तं शस्त्राशनिदुःसहम् ।
रथादपातयद्भीमो निर्भिन्नहृदयं शरैः

7.467

आरुह्य दुर्मुखरथं कर्णो दुःखानलाकुलः ।
भीमाय प्राहिणोद्बाणाञ्ज्वलितानिव दुःसहान्

7.468

ततो भीमभुजोत्सृष्टाः सनिःश्वासा इवोरगाः ।
अङ्गराजं विनिर्भिद्य शराः पातालमाविशन्

7.469

स गाढविद्धो दुद्राव जवव्यालोलकेतुना ।
रथेन कुरुसेनानां धृतिमुन्मूलयन्निव

7.470

अभ्यधावंस्ततो भीमं पञ्च दुर्योधनानुजाः ।
जगदुः शल्यदुर्ग्राह्याः सदुर्दर्शनदुष्प्रभाः

7.471

युध्यमानान्स तान्बाणैर्महार्हाभरणोज्ज्वलान् ।
अपातयन्महावात इव सेन्द्रायुधान्घनान्

7.472

हतेषु तेषु राधेयो धुनानो विपुलं धनुः ।
अयोधयत्पुनर्भीमं महाकाले ऽप्यसंभ्रमः

7.473

तस्य भीमो धनुश्छित्वा रथं च गुरुविक्रमः ।
नर्दन्करे ऽभ्यो वीराणामायुधानि न्यपातयत्

7.474

विषमे वर्तमानस्य राधेयस्य सुयोधनः ।
सप्तानुजान्सहायार्थं प्रेषयामास सत्वरम्

7.475

चित्राक्षश्चित्रवर्मा च चित्रबाणः शरासनः ।
उपचित्रः सचित्रश्च चारुचित्रश्च ते समम्

7.476

आयान्त एव विमुखास्तुल्याभरणवाससः ।
शरैभर्मिभुजोत्सृष्टैः प्रेताः पेतुर्महीतले

7.477

तान्वीक्ष्य पतितान्वीरान्क्षीणपुण्यानिव ग्रहान् ।
कर्णो ऽस्रुपूर्णनयनो रथमन्यं समाददे

7.478

क्रोधादधिकसंरम्बो युध्यमानो वृकोदरः ।
तं निर्विकारो विशिखैर्वज्रवेगैरपूरयत्

7.479

कर्णमाच्छादितं दृष्ट्वा भीमचापच्युतैः शरैः ।
व्यादिदेशानुजान्सप्त तद्गुप्त्यै कौरवेश्वरः

7.480

चित्रायुधः शत्रुसहः शत्रुः शत्रुंजयस्तथा ।
चित्रासुश्चित्रसेनश्च विकेशश्चेति तान्द्रुतम्

7.481

वीरानभिमुखान्बाणविद्धान्पवननन्दनः ।
उन्ममाथ रताग्रेभ्यः शैलेभ्यः पादपानिव

7.482

हतेषु राजपुत्रेषु तेषु विक्रमशालिषु ।
भीमकर्णशरैः क्षिप्रं बभूव जनसंक्षयः

7.483

भीमबाणविनिर्भिन्नः संस्तम्भ्याधिरथिर्व्यथाम् ।
मण्डलीकृतकोदण्डश्चक्रे बाणमयं नभः

7.484

ततः कर्णशराश्चक्रुर्व्यश्वसूतधनुर्ध्वजम् ।
एकीभूता इव जवाद्भीमं विस्मयकारिणः

7.485

सर्वायुधानि संरब्धो विरथस्योपसर्पतः ।
वैकर्तनश्चकर्तास्य संवर्तक इवोन्नदन्

7.486

क्षीणायुधो ऽथ द्विरदान्हयांश्च पवनात्मजः ।
प्राहिणोत्सूतपुत्राय शरैश्चिच्छेद तांश्च सः

7.487

विषमस्थं रणे कर्णो न जघान वृकोदरम् ।
वीरः कुन्तीवचः स्मृत्वा सत्यशीला हि साधवः

7.488

तं स्पृशन्निव चापेन प्रोवाच विनदन्नृपः ।
महद्भिर्मूढमा युद्धमकृतास्त्रः पुनः कृथाः

7.489

हंहो बहुभुजो नेयमुचिता तव युद्धभूः ।
मांसास्तिकूटकुट्टाक सूदशालासु शोभसे

7.490

अथवा भारयोग्यस्य शरीरस्यास्य ते पशोः ।
युक्तास्तूवरकाः स्फीताः कानने लब्धवृत्तयः

7.491

इति ब्रुवाणे राधेये भीमं कृच्छ्रदशाश्रितम् ।
विलोक्य दूरात्कंसारिः फ्लगुणाय न्यवेदयत्

7.492

ततो मुहूर्तगणने हेमरेखानुकारिणी ।
तूर्णं बाणावली कर्णं गाण्डीवपतिताविशत्

7.493

खाण्डवानलसंक्रान्तशिखयेव भृतो भृशम् ।
व्याप्तो दुद्राव राधेयो जयोद्धूतध्वजांशुकः

7.494

***** भीमसेनप्रवेशः ॥ 19* ॥****
आरूढे सात्यकिरथं कोपतप्ते वृकोदरे ।
कर्णाय प्राहिणोत्पार्थो नाराचं व्योमवर्त्मना

7.495

वज्रतुल्यं तमायान्तं दारुणं सर्वभूभुजाम् ।
दूरादलक्षितो द्रौणिश्चिच्छेदाशु पतत्रिभिः

7.496

अथार्जुनो बाणशतैर्द्रेणात्मजमपूरयत् ।
सो ऽपि तत्सायकैर्भिन्नः सेनासंगरमाविशत्

7.497

ततः कनकपृष्ठानां शराणां धनुषां तथा ।
रश्मिभिः कोपरचना रटन्तमिव राजकम्

7.498

विदारयन्नाससाद सूचिव्यूहं धनंजयः ।
आस्ते महारथैर्गुप्तो यत्र पापो जयद्रथः

7.499

अत्रान्तरे शरज्वालीञक्षितिपकाननम् ।
अलम्बिषो घनध्वानो गर्जन्सात्यकिमाद्रवत्

7.500

तं राजवरमायान्तं पूरयन्तं शरैर्दिशः ।
अवारयन्महानीकं सात्यकिः सत्यपौरुषः

7.501

तयोः काञ्चनपुङ्खाभिः शरमालाभिरावृताः ।
सिक्ता वीररसेनेव दिशः पल्लविता बभुः

7.502

ततश्चकर्त भल्लेन शिरस्तस्याशु सात्यकिः ।
मौलिशोणमणिच्छायाच्छुरितेन समाहरन्

7.503

निहत्यालम्बिपं वीरं प्रवराणां प्रहारिणाम् ।
शतानि राजपुत्राणां न्यवधीत्पञ्च सात्यकिः

7.504

क्षपयन्तं कुरुचमूं तं रणे दीप्तविक्रमम् ।
अभ्यधावद्वीरकेतुर्वीरो भूरिश्रवाः स्वयम्

7.505

तयोर्विचित्रधनुषोः शरदुर्दिनमेघयोः ।
गर्जितं चकिताः सर्वे राजहंसा न सेहिरे

7.506

तौ मिथः शरसंपातनिर्घर्षणसमुत्थितैः ।
विरेजतुः स्फुलिङ्गौघैः कीटरत्नौरिवाचलौ

7.507

छित्वा परस्परं चापं स्यन्दनं संप्रमथ्य च ।
खङ्गचर्मधरौ वीरौ युयुधाते चिराय तौ

7.508

जवादलक्ष्यवपुषोश्चित्रमण्डलचारिणोः ।
तयोः स्थगितसंग्रामा वीराः प्रेक्षकतां ययुः

7.509

ततः सात्यकिमाकृष्य माल्यवद्भिः शिरोरुहैः ।
हत्वा वक्षसि पादेन सौमदत्तिरपातयत्

7.510

खड्गेन सात्यकिशिरश्छेत्तुं दृष्ट्वा तमुद्यतम् ।
उवाच सहसा पार्थं संभ्रान्तः कैटभान्तकः

7.511

प्रेषितं धर्मराजेन त्वदर्थं वृष्णिपुंगवम् ।
पश्य शत्रुवशं यातं श्रान्तं सात्यकिमाहवे

7.512

अनित्यौ सर्वथा नूनं सुभटानां जयाजयौ ।
यदिमां सात्यकिरपि प्राप्तः क्लीबोचितां दशाम्

7.513

एष भूरिश्रवास्तूर्णं खड्गेनाखण्डविक्रमः ।
समुद्यतः शिरो हर्तुं शिष्यस्य तव सात्यकेः

7.514

उक्ते जनार्दनेनेति प्रहाराभिमुखं भुजम् ।
भल्लेन भूरिश्रवसो जहार कपिकेतनः

7.515

कृत्ते दूराददृश्येन भुजस्तम्भे किरीटिना ।
कालवक्त्रान्निपतितं सात्यकिं मेनिरे जनाः

7.516

पतन्स भुवि दोर्दण्डः कङ्कणावलिनिःस्वनः ।
निनादैरिव कौन्तेयं तारतारैरतर्जयत्

7.517

तस्मिञ्जयद्विपालाने विश्रान्तिसदने क्षितेः ।
प्रतापमन्दिरस्तम्भे भुजे भुवि निपातिते

7.518

त्यक्त्वा वामकराकृष्टां सात्यकेर्मूर्धजावलीम् ।
उवाचानल्पसंकल्पो यूपकेतुर्धनंजयम्

7.519

अहो वीरव्रतं पार्थ कीदृशं दर्शिनं त्वया ।
येनान्यरणसक्तस्य च्छद्मना मे हतो भुजः

7.520

उचितं वा तवैवैतन्मन्त्री यस्य जनार्दनः ।
जाता हृद्यार्थलोभेन कूटयुद्धविग्धता

7.521

इत्युक्त्वा वामहस्तेन शरशय्यां विधाय सः ।
उपविश्य विशन्नन्तः सहितः स्वर्शवृत्तिभिः

7.522

हुत्वा प्राणानलं बाणैर्भ्रुमध्ये निहितेक्षणः ।
तेजः प्रविदधे मूर्ध्नि शशिसूर्यानलोत्तरम्

7.523

ततो बीभत्सुरवदन्निन्दामुखरितान्नृपान् ।
विह्वलो विषमात्मा च रक्षितः सात्यकिर्मया

7.524

हन्ता शिष्यस्य सख्युश्च कृत्तहस्तः कृतो यदि ।
तत्र किं नाम मन्यध्वं निर्देषा यूयमाहवे

7.525

एको ऽभिमन्युर्निहतः समायैः सर्वपार्थिवैः ।
श्रान्तश्छिन्नधनुःखड्गस्तत्किं नाम वदन्ति नः

7.526

इत्युक्तवति कौन्तेये लब्धसंज्ञो ऽथ सात्यकिः ।
ययाचे प्रणतः पूर्वं रणं प्रायजुषो रिपोः

7.527

खड्गेन यज्ञशीलस्य वीरस्य यशसां निधेः ।
वक्त्रं मुक्तावलीभाभिर्जातहासमिवाहरत्

7.528

स कृष्णेन च भूपालैर्वार्यमाणेन संभ्रमात् ।
क्रोधादज्ञातवृत्तेन तस्मिन्सात्यकिना हते

7.529

धिक्शब्दः सर्ववीराणामुत्तस्थौ स्थगिताम्बरः ।
सौमदत्तेश्च चरितं प्रशशंसुः सुरा दिवि

7.530

***** भूरिश्रवसो वधः ॥ 20 ॥ *****
स तेन निर्जितः पूर्वं सोमदत्तो ऽतिमन्युना ।
आराध्य तपसा देवं रूद्रं त्रिपुरदारणम्

7.531

लेभे सात्यकिजेतारं भूरिश्रवसमात्मजम् ।
शेखरं सर्ववीराणां वदान्यं बहुयाजिनम्

7.532

तस्मिन्निपतिते वीरे जयद्रथवधोत्सुकः ।
तूर्णं विवेश श्वेताश्वो निबिडं राजमण्डलम्

7.533

अस्ताद्रिचूडामणितां गन्तुमिच्छति भास्करे ।
ददर्श सैन्धवं पार्थो गुप्तं सर्वैर्महारथैः

7.534

आकर्णाञ्चितगाण्डीवस्तं दूराद्दुःसहागमम् ।
दृशैव कोपारुणया तस्य दाहमिवाकरोत्

7.535

ततो विलुलिते सैन्ये परावृत्त इवाम्बुधौ ।
हतो हतः सिन्धुराजो बभूवेति महास्वनः

7.536

अथ कर्णकृपद्रौणिदुःशासनसुयोधनाः ।
सह सर्वैर्महीपालैर्धनंजयमयोधयत्

7.537

तान्विधाय शरैस्तूर्णं द्वस्तवर्मरथध्वजान् ।
पातयन्राजवक्त्राणि जिष्णुः सैन्धवमाद्रवत्

7.538

जयद्रथो ऽपि विजयं विलोक्याच्युतसारथिम् ।
स निष्कृष्यासकृत्तैस्तैः सायकैस्तमपूरयत्

7.539

ततो ऽब्रवीन्मधुरिपुर्दिनान्ते सव्यसाचिनम् ।
छिन्धि सिन्धुपतेः क्षिप्रं शिरो दिव्येन पत्रिणा

7.540

वृद्धक्षत्त्रः पिता प्रादाद्वरमस्य क्षितौ शिरः ।
पातयिष्यति यस्तुल्यं तस्यापि निपतिष्यति

7.541

समन्तपञ्चकाभ्यर्णे पितास्य तपसि स्थितः ।
तदङ्के पातय रिपोः सिरस्तस्मात्प्रयातु गाम्

7.542

इत्युक्ते शौरिणा जिष्णुश्छित्त्वा सिन्धुशिरो जवात् ।
शरेण संध्याध्यानस्थजनकाङ्के न्यपातयत्

7.543

अङ्कादज्ञासवृत्तस्य क्षिपतस्तच्छिरः क्षितौ ।
वृद्धक्षत्त्रस्य सहसा पपाताग्रे निजं शिरः

7.544

***** जयद्रथवधः ॥ 21* ॥****
तस्मिन्निपतिते वीरे त्रैलोक्याश्चर्यकारिणा ।
गाण्डीवधन्वना कृष्णो ननादास्फोटयन्दिशः

7.545

ततो विघटिते व्यूहे कुरुराजवरूथिनी ।
नौरिवाब्धेर्महावातैर्बभ्रामावर्तनर्तिता

7.546

भीमो ननर्द तं नादं हतं मत्वा जयद्रथम् ।
प्रहृष्टः प्रतिजग्राह नानावाद्यं युधिष्ठिरः

7.547

अक्षौहिणीः सप्त हत्वा हतः पार्थेन सैन्धवः ।
नूनं न दुर्गं दैवस्य किंचिदित्यूचिरे जनाः

7.548

निर्विभागे ततो युद्धे प्रवृत्ते नृपतिक्षये ।
द्रोणं कृपं च विदधे शरैर्जिष्णुः पराङ्मुखम्

7.549

भीमसायकनिर्भिन्नजिह्वाकर्णं(?) च सात्यकिः ।
आरुरोह रथं वीरो वितीर्ण हरिणा निजम्

7.550

मारुतेरवमानं च कलयञ्शतमन्युजः ।
पुनः प्रतिज्ञां कर्णस्य वृषसेनवधे व्यधात्

7.551

ततो युधिष्ठिरं प्राप्य तौ च सात्यकिफल्गुणौ ।
मिथः शशंसुः प्रमदादभिनन्द्य पराक्रमम्

7.552

कृष्णावथ परिष्वज्य मानन्दं धर्मनन्दनः ।
तुष्टाव जगतां नाथं विष्णुं विजयकारणम्

7.553

बाष्पाकुलस्ततो राजा द्रोणमेत्य सुयोधनः ।
ऊचे त्वया कृताश्वासो निहतः स जयद्रथः

7.554

श्रुत्वैतदवदद्द्रोणो निधनायैव दीक्षितः ।
त्यक्ष्यामि कवचं राजन्नाहत्वा तव वैरिणः

7.555

आचार्येणेत्यभिहिते सर्वे दुर्योधनानुगाः ।
प्राणहव्ये रणमखे तस्थुराबद्धनिश्चयाः

7.556

अथांशुमति याते ऽस्तं दिनकृत्कमलत्विषि ।
शोणच्छत्र इवाकृष्टे संध्यारक्तसरित्प्लवैः

7.557

नक्षत्रैस्तारतरलैः कोपकम्पजुषां रणे ।
हतानां भूभुनां जीवैरिव व्याप्ते नभस्तले

7.558

तमोभिरावृते व्योम्नि कृपाणवनमेच्कैः ।
दिव्यास्त्रदग्धैर्मातङ्गैरिव त्रिदिवगामिभिः

7.559

विस्फुरन्मौलिकेयूरहेमसायककार्मुकाः ।
चक्रिरे समरं घोरं दुर्योधनमुखाः परैः

7.560

अर्जुनध्वानगर्जाभिः सिंहनादैश्च मारुतेः ।
द्रोणकार्मुकनिर्घोषैः पृथिवी समकम्पत

7.561

अश्रान्तं युध्यमानानां कुरुपाण्डवभूभुजाम् ।
बभौ साक्षादिवायाता कालरात्रिर्विभावरी

7.562

प्रापुस्तमांसि वैपुल्यं खड्गेषु द्विरदेषु च ।
प्रापुस्तमांसि दारिद्र्यं छत्त्रेषु व्यजनेषु च

7.563

गृध्रभूतोत्सवे तस्मिन्विकराला वसुंधरा ।
अवर्तमानमानेन तमसेव विदारिता

7.564

दत्तवेतालतालो ऽभूदकाण्डधृतिखण्डनः ।
कबन्धोद्दण्डदोर्दण्डताण्डवाडम्बरोत्सवः

7.565

शिरस्त्रकङ्कटापातिशस्त्रज्वालाजटा बभुः ।
तमःपिशाचसंघानां पिङ्गाः श्मश्रुसटा इव

7.566

तत्र द्रोणो महास्त्रौघैः क्षपयन्राजमण्डलम् ।
आदीप्तरत्नमुकुटं प्रोच्चकर्त शिनेः शिरः

7.567

भीमसेनो ऽपि कालिङ्गं राजपुत्रं तरस्विनम् ।
रथाद्रथमभिप्लुत्य निजघानाशु मुष्टिना

7.568

तस्य मुष्टिहतस्याजौ पेतुरस्थीनि भूतले ।
फल्गुन्यश्महतस्येव चिरपक्वस्य शाखिनः

7.569

कलिङ्गकुलसंहारं कृत्वा तूर्णं वृकोदरः ।
ध्रुवं च जलधारं च राजपुत्रावदारयत्

7.570

विधाय विमुखं कर्णं भीमो दुर्योधनानुजम् ।
निष्पिपेष पदा हत्वा वीरो दुष्करदुर्मदः

7.571

सोमदत्तस्य तनयं शलं हत्वाथ सात्यकिः ।
तं पुत्रशोकविधुरं चकार विमुखं शरैः

7.572

दारयन्तं कुरुचमूं सात्यकिं शरवर्षिणम् ।
दिशः संपूरयन्बाणैरश्वत्थामा समाद्रवत्

7.573

क्षपयन्तमनीकानि दृष्ट्वा रुद्रमिवापरम् ।
निशीथे द्विगुणोत्साहस्तमधावद्धटोत्कचः

7.574

तस्य नादेन महता दिशः समभिपूरिताः ।
स्फुटिता यत्र दलशस्तदाश्चर्यमिवाभवत्

7.575

अश्वत्थाम्नि प्रभाधाम्नि बाणोग्रकिरणे रणे ।
कुर्वन्घटोत्कचो रेजे राहुजृम्भाविजृम्भितम्

7.576

शराणां द्रौणिमुक्तानां दिव्यानां समरे रुचः ।
न कूणितानि नेत्राणि रात्रौ भूतानि सेहिरे

7.577

अक्षौहिणीं राक्षसानां हैडम्बवशवर्तिनाम् ।
तटायुधानि दलयन्नेको द्रौणिरयोधयत्

7.578

छित्त्वा घटोत्कटो हृष्टं चक्रं कालानलप्रभम् ।
जघानाञ्जनपर्वाणं तत्पुत्रं घोरविक्रमम्

7.579

ततो विमोहनीं मायां द्रौणिः क्रुद्धस्य रक्षसः ।
छित्त्वा जघान विसिखैर्धृम्नानुजान्रणे

7.580

कुन्तिभोजसुतान्हत्वा सहस्राणि प्रहारिणाम् ।
जघान राजपुत्राणां द्रौणिः काल इवाकुलः

7.581

अत्रान्तरे भीमसेनो बाह्लिकाधिपतेः शिरः ।
गदया वीरघातिन्या निष्पिपेषाशु मौलिनः

7.582

ततो जघान संरब्धान्दश दुर्योधनानुजान् ।
वीरबाहुं दृढरथं नागदन्तमयोभुजम्

7.583

प्रमाथिनं विरजसं सुहस्तं सुदृढं तथा ।
हत्वैतान्सप्त गान्धारानवधीत्सुबलात्मजान्

7.584

निघ्नन्तं कौरवचमूं स्वयं युधि युधिष्ठिरम् ।
ऐन्द्रवारुणवायव्यैरस्त्रैर्द्रेणो ऽप्ययोधयत्

7.585

ततः प्रयुक्तं ब्रह्मास्त्रं गुरुणा तज्जिहीर्षया ।
अवारयदसंरम्भो ब्रह्मास्त्रेणैव धर्मजः

7.586

सानुगैः पाण्डुतनयैर्गजैरिव सरोजिनीम् ।
मृद्यमानां चमूं दृष्ट्वा कर्णमूचे सुयोधनः

7.587

कर्णाकर्णय संग्रामे जयिभिः पाण्डुसूनुभिः ।
विरावं वध्यमानानां सैन्यानां च तरस्विनाम्

7.588

तुमुले ऽस्मिन्निरालोके विषमे समुपस्थिते ।
तेजसामाश्रयः शूर त्वमेवैकः परायणम्

7.589

प्रणयादिति राधेयो भूभुजा स्वयमर्थितः ।
उवाच पाण्डुसेनासु क्षिपन्निव शरवलीः

7.590

वीरशय्यास्थिते भीष्मे शेखरे सर्वधन्विनाम् ।
राजन्भारः क्रमायातो ममैवायं किमुच्यते

7.591

अद्य वीरव्रतहरं हरस्यापि किरीटिनम् ।
पातयाम्येष समरे शक्त्या वासवदत्तया

7.592

इत्युक्ते सूतपुत्रेण प्रोवाच प्रहसन्कृपः ।
लोके सूत्यमवीरे ऽस्मिन्नेकस्त्वं वीरतां गतः

7.593

अहो नु मिथ्या राधेय कथितेन तावमुना ।
सततं सर्ववीराणां श्रवणौ बधिरीकृतौ

7.594

कुतस्त्वमश्रुतोदन्त इवायातः पराक्रमी ।
यदा हतः सिन्धुपतिः कृतवान्न भवांस्तदा

7.595

दृष्टसारा वयं सर्वे तव पाण्डुसुतस्य च ।
बलानुसारं युध्यस्व वृथा श्लाघां तु मा कृताः

7.596

इति शारद्वतेनोक्ते कोपाद्वैकर्तनो ऽब्रवीत् ।
गर्जन्ति सफलं वीराः प्रावृषेण्या इवाम्बुदाः

7.597

त्वं तु वृद्ध निराचारो मोहादेवं प्रभाषसे ।
अन्यपक्षाश्रयः को हि बन्दीवान्यान्प्रशंसति

7.598

ब्रह्मबन्धो पुनर्द्वेषाद्यद्येवमभिधास्यति ।
छेतस्यामि जिह्वां कटुकां तदनेनासिना तव

7.599

इति कर्णेन संरम्भात्कोपितं वीक्ष्य मातुलम् ।
करवालमथाकृष्य क्रुध्यंस्तं द्रौणिराद्रवत्

7.600

रुद्रतुल्यं तमायान्तं त्रिजगत्प्रलयक्षमम् ।
न्यवारयत्स्वयं राजा नयवाग्भिः सगौतमम्

7.601

द्रोणिकर्णौ प्रसाद्याथ कुरुराजे रणोन्मुखः ।
विवेश पाण्डवचमूं सह सर्वैर्महारथैः

7.602

आकर्णाञ्चितकोदण्डमुक्तैः कर्णशरैस्तथा ।
अभूद्यौधिष्ठिरं सैन्यं विप्रकीर्णं समन्ततः

7.603

शरत्वालाकरालं तं कर्णपावकमुत्कटम् ।
अभ्येत्य पार्थजलदो बाणधाराभिरावृणोत्

7.604

क्षणादथार्जुनशरच्छिन्नचापरथध्वजः ।
कर्णः कृपस्यारुहोह रथं भग्नमनोरथः

7.605

दृष्ट्वा दुर्योधनं वीरं युध्यमानमरातिभिः ।
जघान पाञ्चालचमूं द्रौणिराहवदुर्मदः

7.606

सहस्रशो वध्यमानाः क्षत्रकाननवह्निना ।
पाञ्चाला द्रोणपुत्रेण हतशेषा दिशो ययुः

7.607

धृष्टद्युम्नं ततो जित्वा वीरं हत्वास्य चानुगान् ।
द्रौणिरायोधनं चक्रे कृतान्तोद्यानविभ्रमम्

7.608

भीमार्जुनाभ्यां सहितः स्वयं राजा युधिष्ठिरः ।
विद्राव्य कौरवीं सेनां द्रोणशेषामिवाकरोत्

7.609

सोमदत्तमथायान्तं सात्यकिः पृथुविक्रमम् ।
अयोधवदसंभ्रान्तः कुमार इव तारकम्

7.610

तद्बाणशतनिर्भिन्नो व्यथां संस्तम्ब्य सात्यकिः ।
शरेणाशनितुल्येन विदार्य तमपातयत्

7.611

ततो द्रोणार्जुनरणे दिव्यास्त्रग्रामदुःसहे ।
बभौ रक्ताम्बरवती कालरात्रीव शर्वरी

7.612

ततः किरीटिप्रमुखैर्द्रैणिकृपेरितैः ।
सैन्यानां भज्यमानानां बभूव भयदो रवः

7.613

ततो दुर्योधनादेशाद्गाढे तमसि संततैः ।
दीपैर्युयुधिरे वीरा गजाश्वेत्सङ्गसङ्गिभिः

7.614

ते सेने दीपनिकरैरभितो बभतुः क्षणात् ।
हतानां कणशो यातैस्तेजोभिरिव भूभुजाम्

7.615

विरेजुस्तान्यनीकानि दीपैः खड्गेषु बिम्बितैः ।
ज्वलितानि वनानीव नक्तमोषधिमण्डलैः

7.616

दीपदीप्ता नरेन्द्राणां रत्नाभरणरोचिषः ।
तमःकषणपाषाणे हेमलेखा इवाबभुः

7.617

ततो विमर्दनष्टेषु तेषु दीपेषु संगरे ।
निशीथो यौवनं प्राप वैराण्यपनयैरिव

7.618

निर्विभागे ततो युद्धे प्रवृत्ते शौर्यशालिनि ।
स्वयं जिते धर्मजेन सानुगे कौरवेश्वरे

7.619

मृत्युवीथीमपि प्राप्तं सहदेवमवारयत् ।
न जघान रणे कर्णः स्मरन्कुन्तीवचो मुहुः

7.620

ततः कर्णसुतो वीरो वृषसेनो ऽरिवाहिनीम् ।
विवेशास्त्रावलीज्वालालीढक्षत्त्रियकाननः

7.621

विद्रावितेषु वीरेषु वृषसेनेन सायकैः ।
कुपितो द्रौपदो रोषात्कुरुसैन्यं व्यदारयत्

7.622

वर्तमाने रणे घोरे भारद्वाजस्य पश्यतः ।
धृष्टद्युम्नो ऽवधीद्वीरं द्रुमसेनं नराधिपम्

7.623

ततो दुर्योधनगिरा द्रोणकर्णौ महीभुजाम् ।
कृत्तैः शिरोभिश्चक्राते भुवि पद्माकरानिव

7.624

धृष्टद्युम्नमुखाञ्जित्वा क्षपितानीकनायकः ।
विद्राव्य पाण्डवचमूं कर्णश्चक्रे नृपक्षयम्

7.625

तं कर्णं सायकानेन किरन्तं तेजसां निधिम् ।
न सेहिरे परे द्रष्टुं रणे तपनसंभवम्

7.626

भज्यमानेष्वनीकेषु कर्णेन रणशालिना ।
जयाशा पाण्डुपुत्राणां सकला तनुतां ययौ

7.627

अथ कृष्णस्य वचनात्कृष्णरात्रौ घटोत्कचः ।
अवधीत्त्वरितं कर्णं कृष्णाकोप इवापतन्

7.628

तस्मिन्नभ्युद्गते दीप्तश्मश्रुजिह्वाविलोचने ।
वाहिन्यः शतधा जग्मुः प्रतापपतिता इव

7.629

स तदा जलदच्छायो भ्रुकुटी विद्युदुत्कटः ।
स्फाराभिः शतधाराभिः पार्थः कर्णमपूरयत्

7.630

आस्थितस्तप्तहेमाङ्गं चतुर्हस्तशतं रथम् ।
सर्वाकारस्य लग्नाग्नेर्नीलाद्रेरुपमाक्षमम्

7.631

दशहस्तपरीणाहं दधानो भासुरं धनुः ।
दावानलप्रज्वलितं महासालमिवानलः

7.632

विस्फुरत्स्फारमुकुटो दीप्तजाम्बूनदाङ्गदः ।
तमःशैलशिखासज्जो बभौ विघटयन्निव

7.633

अट्टहासपटुर्नादस्तस्याभूत्तमसामिव ।
तं दृष्ट्वा विकटाज्वालं पाटितानां व्यथारवः

7.634

विद्रुतेष्वरिसैन्येषु संभोगार्हेषु राजसु ।
राधेयगिरिरेवास्य जग्राह शरदुर्दिनम्

7.635

अथाङ्गराजरक्षायै जटासुरसुतो बली ।
कौरवेश्वरमामन्त्र्य समभ्यायादलम्बुसः

7.636

ततस्तस्याभवद्धोरः संप्रहारः प्रहारिणा ।
घटोत्कचेन सश्त्रास्त्रशिलापावकवर्षिणः

7.637

तयोर्मायामयाश्चर्यकूटप्रकटयोधिनोः ।
ऊर्जितैः शतशो योधा गर्जितैर्व्यसवो ऽभवत्

7.638

रथाद्रथमभिद्रुत्य ततो भैमिरलम्बुसम् ।
दोर्भ्यां मित्त्रमिवालिङ्ग्य गाढगाढमपीडयत्

7.639

तस्य निष्पीड्यमानस्य निर्ययुः स्रोतसां मुखैः ।
सधूमाः सानलज्वालाः सशब्दं शोणितच्छटाः

7.640

ततो भुवि विनिष्पिष्य राविणं तं घटोत्कचः ।
उद्धृत्य तच्छिरो वेगाद्दुर्योधनमथाययौ

7.641

तमुवाच हतो ऽयं ते मया बन्धुर्निशाचरः ।
प्रियस्य पातय शिरः पुनरेव नृपाधम्

7.642

उक्त्वैतत्कर्णमभ्यायाद्विनदन्रजनीचरः ।
चण्डानिलसमुद्धूतः कालमेव इवाकुलः

7.643

***** अलम्बुसवधः ॥ 22 ॥ *****
ततः प्रवृत्ते समरे घोरे राधेयरक्षसोः ।
रामरावणसंग्राममस्मरन्विबुधा दिवि

7.644

स्तम्भप्रमाणैर्विशखैर्ज्वलितैरुल्मुकैरिव ।
विद्धो ऽपि रक्षसा कर्णो न चचाल महाशयः

7.645

अथ क्रोधविनिर्मुक्तैर्विपुलैः कर्णसायकैः ।
निर्भिन्नो राक्षसश्चक्रं प्राहिणोत्कर्णपावकम्

7.646

प्रेक्ष्य चायत्सहस्रारं तेजःपिञ्जरिताम्बरम् ।
चकार खण्डशश्चक्रं कर्णः सावेगमाशुगैः

7.647

ततो घटोत्कचः कोपान्मायां कृत्वा विमोहनीम् ।
पिष्ट्वा सूतध्जरथं विशालमविशन्नभः

7.648

शान्ततेजोमये वह्नौ तारा तारास्थिसंकुले ।
व्योम श्मशाने तस्यासन्मत्तवेतालकोटयः

7.649

मुहुर्गजो मुहुः सिंहः क्षणं मेघः क्षणं गिरिः ।
सर्वभूतमहाकायो वर्षन्स विपुलाः शिलाः

7.650

भुवो वह्निं दिवः शस्त्रं दिग्भ्यो राक्षसमण्डलम् ।
विसृजन्कुरुसेनासु वैकर्तनमयोधयत्

7.651

ततो विधूय तां मायां कर्णो दिव्यास्त्रतेजसा ।
निर्दहन्पाण्डवचमूं रक्षो विव्याध सायकैः

7.652

हेडिहन्पाण्डव यातुधानान्सहस्रशः ।
कर्णो धनुष्मतां धुर्यो विबभौ रामविक्रमः

7.653

अष्टाष्टचक्रामशनिं कालजिह्वविभीषणाम् ।
भैमः ससर्ज कर्णाय स्वयं रुद्रेण निर्मिताम्

7.654

विसृष्टा राक्षसेन्द्रेण शैलसंघप्रमाथिनी ।
सा भस्मसान्महाघोषा रथमाधिरथेर्व्यधात्

7.655

ततो ऽपरं समास्थाय स्यन्दनं सूतनन्दनः ।
पिशाचवदनानन्याञ्जघान पिशिताशिनः

7.656

विरथः कोपहुतभुग्ज्वालावलयितेक्षणः ।
घटोत्कचो महामायः पुनरन्तरधीयत

7.657

अत्रान्तरे राक्षसेन्द्रो बकस्य दयितः सखा ।
सुयोधनाभ्यनुज्ञातो बीममायादलायुधः

7.658

हयानां हस्तिकर्णानां पिशाचमुखवर्चसाम् ।
युक्ते शतेन गम्भीरनिर्घोषे स्यान्दने स्थितम्

7.659

तं भीमः प्रतिजग्राह संरम्भगुरुगर्जितम् ।
सिद्धमन्त्र इवाकम्पो वीरो वेतालमुत्थितम्

7.660

आकीर्यमाणो घोरेण शिलशस्त्रस्त्रवर्षिणा ।
राक्षसेन गदां भीमः प्राहिणोत्तद्वधाशया

7.661

तां गदां गदया रक्षो हत्वा जाम्बूनदाङ्गदाम् ।
नदन्नकालजलदध्वानधीरः खमाविशत्

7.662

अलायुधेन संसक्तं रजन्यां कूटयोधिना ।
भीमं दृष्ट्वा क्षणं कृष्णः संदेहाकुलितो ऽभवत्

7.663

ततः शौरेर्गिरा वीरः प्रवरो रौद्रकर्मणाम् ।
अलायुधं समभ्यायात्त्यक्त्वा कर्णं घटोत्कचः

7.664

तयोः संरब्धयोर्व्योम्नि संनिपातो घनस्वनः ।
अभूद्भृशं शिलाशस्त्रनिर्घर्षोद्धूतपावकः

7.665

चिताग्निपङ्गलश्मश्रुजटाभीषणयोस्तयोः ।
दन्तनिष्पेषसंजाताः स्फुलिङ्गा इव बभ्रमुः

7.666

अग्निकुण्डोपमानाभ्यां कुण्डलाभ्यां विराजितम् ।
अलायुधस्याशु शिरश्चिच्छेद च घटोत्कचः

7.667

***** अलायुधवधः ॥ 23 ॥ *****
तं हत्वा विनदन्घोरं हैडिम्बो घोरविक्रमः ।
द्रुतं कर्णं समभ्येत्य शिलवर्षैरताडयत्

7.668

वैकर्तनो ऽपि पार्थानां क्षपयित्वा वरूथिनीम् ।
घटोत्कचसंभ्रान्तः शरजालैरपूरयत्

7.669

अथास्त्रेण रथं हत्वा कर्णस्य रजनीचरः ।
त्रिजगन्मोहनीं मायां समादायाविशन्नभः

7.670

उल्मुकैरायुधैर्वृक्षैः शिलाभिः पर्वतैस्तथा ।
स जघान महाघोषः कौरवाणामनीकिनीम्

7.671

निशीथे सर्ववीरेषु युध्यमानेषु रक्षसा ।
दुद्रुवुः पृथिवीपाला भग्नस्यन्दनकुञ्जराः

7.672

संहारे सर्वयोधानां तस्मिन्नतिभयंकरे ।
निष्कम्पः समरे कर्णः सायकैः खमपूरयत्

7.673

गगने विध्यमानानां शिलानां कर्णमार्गणैः ।
ज्वालाजालजटालानामभूच्चटचटारवः

7.674

ततः परिघनिस्त्रिंशशतघ्निप्रासमुद्गराः ।
सत्रिशूलगदाचक्रभुसुण्डिशरतोमराः

7.675

कर्णानने राक्षसेन प्रास्त विषमयोधिना ।
चक्रिरे कौरवानीकं हतं कालशतैरिव

7.676

विद्रुते च तथा सैन्ये रक्तकुल्यावरोहिनि ।
विद्यमाने निराधारे राधेये धैर्यशालिनि

7.677

स्वस्तीत्युक्त्वा प्रयातेषु व्योम्नः सिद्धसुरर्षिषु ।
अकम्पत जगत्सर्वं राक्षसेन्द्रस्य मायया

7.678

युध्यमानं ततो वीरं कर्णमभ्येत्य कौरवः ।
अवदत्सर्वसंहारसंत्रासायासकातरः

7.679

त्वयार्जुनवधे शक्तिर्धार्यते किमनर्थका ।
अस्मिन्निशीथे को ह्यस्मान्मुच्यते यः पुनर्जयेत्

7.680

एतदाकर्ण्य राधेयः शक्रदत्तां महाप्रभाम् ।
एकवीरवधायत्तां सुचिरं परिरक्षिताम्

7.681

दारणीं दैत्यसङ्घानामुत्ससर्ज नभस्तले ।
यस्या ज्वालावलीधाम्ना सीमन्तितमिवाभवत्

7.682

तेजस्विनो राक्षसस्य दृढं वक्षो विदार्य सा ।
जगाम त्रिदिवं दीप्ता प्राणशक्तिरिवापरा

7.683

दग्धमायस्तदा क्षिप्रं हैडिम्बो मन्दराकृतिः ।
पतन्निर्भिन्नहृदयः पिपेष कुरुवाहिनीम्

7.684

***** रात्रियुद्धे घटोत्कचवधः ॥ 24 ॥ *****
हते घटोत्कचे वीरे दशकण्ठपराक्रमे ।
प्रहृष्टाः कुरवः कर्णं रामोपममपूजयन्

7.685

शक्तिहीने ततः कर्णे नदत्कालियसूदनः ।
विष्णो पाण्डवानीके ननर्तानन्दनिर्भरः

7.686

वलत्पीतांशुकास्तस्य नृत्यतो विबभुर्भुजाः ।
स्फूर्जतिकञ्जल्कपटला वातलोला इव द्रुमाः

7.687

तमूचे निन्दयन्पार्थो हैडिम्बवधदुःखितः ।
को ऽयं विषादसमये प्रहर्षस्ते जनार्दन

7.688

श्रुत्वैतदब्रवीत्कृष्णो जितः कर्णो ऽधुना सखे ।
हैडिम्बवपुषः प्राणश्चिन्ताचपलचेतसः

7.689

शक्तिश्च कर्णदोर्दण्डात्समं याता जयाय वः ।
एकलव्यजरासंधशिशुपालादयो मया

7.690

पुरा युद्धमिदं ज्ञात्वा दुर्जयाः शक्तिभिर्हताः ।
एवमेव रणे कर्णो न जेयस्त्रिदशैरपि

7.691

किं पुनर्घोरया पार्थ शक्त्या वासवदत्तया ।
त्वयि नोत्सृष्टवाञ्शक्तिं सततं मोहितो मया ।
कर्ण प्रतिनिशं पापैः प्रेर्यमाणो ऽपि कौरवैः

7.692

इत्युक्तवति दाशार्हे सिद्धवीरवधार्दिताः ।
निर्विभागं युयुधिरे क्रोधान्धाः कुरुपाण्डवाः

7.693

हैडिम्बे निहते राजा शोकतप्तो युधिष्ठिरः ।
आश्वासितः केशवेन कुपित्तः कर्णमाद्रवत्

7.694

नृपैरनुगतः सर्वैः प्रविष्टः कुरुवाहिनीम् ।
अभ्येत्य भगवान्व्यासो धर्मराजमभाषत

7.695

दिष्ट्या नाधिरथेः शक्त्या कृतं जगदनर्जुनम् ।
अधुना वीर युध्यस्व निःसंरम्भमनाकुलः

7.696

इतश्चतुर्भिर्दिवसैर्न भविष्यन्ति भूमिपाः ।
धर्मवीर त्जज क्रोधं सदा धर्मानुगो जयः

7.697

इत्युक्त्वान्तर्हिते व्यासे भीमार्जुनयुधिष्ठिराः ।
चक्रिरे समरं घोरं द्रोणकर्णकृपादिभिः

7.698

सा कालरात्रिः शूराणामुत्सवो यक्षरक्षसाम् ।
सहस्रयामतां याता त्रियामाबून्महीभुजाम्

7.699

ततो निद्राकुले सैन्ये शान्ते शस्त्रकृतक्षते ।
दृष्ट्वा जगाद कारुण्याच्छ्वेताश्वो यशसां निधिः

7.700

मुहुर्ते ऽस्मिन्निरालोके खिन्नाः सर्वे महारथाः ।
क्षणं भजन्तु विश्रान्तिं निद्रामुकुलितेक्षणाः

7.701

इत्युक्ते सैनिकाः सर्वे प्रशंसन्तो धनंजयम् ।
क्षणं गजरथस्कन्दनिष्ण्णास्तत्यजुः श्रमम्

7.702

निःस्यन्दनागतुरगा निस्चलच्छत्रचामराः ।
अङ्कन्यस्तायुधभाटास्ताः सेना निश्चला भभुः

7.703

अथोद्ययौ व्योमकृपाणपट्टदन्तत्सरुः कान्तिसरिन्मरालः ।
चन्द्रो जगत्कुञ्जरकर्णशङ्खो दिगङ्गनामण्डनदर्पणश्रीः

7.704

ततः समस्तवीराणां संमुखाहवपातिनाम् ।
यशोभिरिव शीतांशुरंशुभिर्द्यामपूरयत्

7.705

तुषारहररुचिरैः किरणैरमृतत्विषः ।
चामरैरिव भूपाला वीज्यमानाः क्षणं बभुः

7.706

शरेष्वङ्कुरितश्चन्द्रः सान्द्रं पल्लवितोमिंषु ।
हरेषु फुल्लितो राज्ञां शङ्खेषु फलितो ऽभवत्

7.707

प्रतिबिम्बगतो रक्ततटिनीषु निशाकरः ।
बभौ संध्यासवेनेव घूर्णमानारुणच्छविः

7.708

ततः क्षीणे क्षपाकाले ध्वजिनी राजयक्ष्मणि ।
उद्ययौ शोणिताताम्रो भगवान्वासरेश्वरः

7.709

***** चतुर्थदिवसे रात्रियुद्धम् ॥ 25 ॥ *****
दुर्योधनेन वाक्यल्यैरर्दितः कुम्भसंभवः ।
ततो ददाह दिव्यास्त्रैरनस्त्रज्ञानपि क्रुधा

7.710

पुनः प्रवृत्ते समरे निर्मर्यादे जगत्क्षये ।
द्रोणेन वध्यमानानामानन्दस्तुमुलो ऽभवत्

7.711

तस्मिन्नकालकल्पान्ते रुद्रः किं वापुषामुना ।
संहर्तुमुद्यतो लोकानित्यूचुर्व्योमचारिणः

7.712

चेदिसोमकपाञ्चालमत्स्यकेकयसृञ्जयाः ।
न शर्म लेभिरे वीराः पीडिता द्रोणसायकैः

7.713

ततो विराटद्रुपदौ भारद्वाजं शितैः शरैः ।
संच्छाद्य चक्रतुः क्षिप्रं विस्मयं तव धन्विनाम्

7.714

द्रोणो ऽथ पार्षतसुतान्हत्वा विपुलविक्रमान् ।
कण्ठाञ्जहार भल्लाभ्यां विराटद्रुपदौ समम्

7.715

***** विराटद्रुपदवधः ॥ 26 ॥ *****
मत्स्यपाञ्चालसेनासु भग्नासु पवनात्मजः ।
धृष्टद्युम्नमुखैः सार्धं द्रोणानीकमुपाद्रवत्

7.716

कर्णसौबलहार्दिक्यदुःशासनमुखास्ततः ।
भीमपार्षतसैनेयफल्गुनाद्यानयोधयन्

7.717

संघट्टः सर्ववीराणां तुमुले संप्रहारिणि ।
आयात्सोल्लोलकीलालकुल्या कल्लोलमालिनी

7.718

पाञ्चालचेदिमत्स्यानां कुर्वाणां कदनं रणे ।
द्रोणं विलोक्य कंसारिर्बभाषे पाण्डुनन्दनम्

7.719

जामदग्न्यस्य शिष्यो ऽयं प्रवृद्धः क्षत्रियानलः ।
दिव्यास्त्रदुःसहशिखः सोढुं नः केन पार्यते

7.720

सर्वात्मना युध्यमानो दुर्जयः सायुधो गुरुः ।
उद्यतः कर्तुमद्यैव जाने निष्पाण्डवं जगत्

7.721

पुत्रं तु निहतं श्रुत्वा ध्रुवमेष न योत्स्यते ।
तस्माद्युक्तिमुपाश्रित्य जये नीतिर्विधीयताम्

7.722

श्रुत्वैतदर्जुने कर्णौ पिधायाधोमुखस्थिते ।
कथंचिदभ्युपगमान्मूके पाण्डवभूपतौ

7.723

अश्वत्थामाभिधं हत्वा गदया मदकुञ्जरम् ।
उच्चैः पुत्रवधं भीमो द्रोणमश्रावयत्पुरः

7.724

लज्जमानेन भीमेन व्याहृतं भृशमप्रियम् ।
दुर्जयं तनयं मत्वा द्रोणो मेने न तत्तथा

7.725

स प्रविश्याथ पाञ्चालान्धृष्टद्युम्नजिघांसया ।
जघान वीरयोधानां रथानामयुतानि षट्

7.726

चेदिपाञ्चालमत्स्यानां ब्रह्मस्त्रेणोग्रविक्रमः ।
प्रयुतान्यदहत्क्रुद्धो द्रोणो रुद्र इवापरः

7.727

निघ्नन्प्रभद्रकान्वीरान्सोमकाश्च प्रहारिणः ।
चतुर्वर्षशतो दर्पाद्युवेव विचचार सः

7.728

ऋषयो ऽथ समभ्येत्य तं क्रूरतरकारिणम् ।
तस्मादवारयन्घोराल्लोकसंहारवैशसात्

7.729

मुनिसंघे गते व्योम्ना द्रोणो भीमवचः स्मरन् ।
युधिष्ठिरं शङ्कितधीरपृच्छत्सत्यविक्रमम्

7.730

गोविन्देनार्थितो यत्नाल्लोकसंहारशान्तये ।
युधिष्ठिरस्तदेवोक्त्वा स्वैरं हस्तीत्यभाषत

7.731

अस्पृशन्तो हया भूमिमवहन्ये युधिष्ठिरम् ।
ते नीचगामिनस्तूर्णमसत्यगुरवो ऽभवन्

7.732

ततः सविषनाराचैर्निर्भिन्न इव मर्मसु ।
निश्चित्यात्मवधं द्रोणश्चित्रार्पित इवाभवत्

7.733

तं जिह्वादीप्तविशिखो धृष्टद्युम्नो ऽवदद्द्रुतम् ।
अहो तनु ब्राह्मणो भूत्वा पिशिताशीव निष्कृपः ।
करोषि कलुषं कर्म निहते ऽपि प्रिये सुते

7.734

तच्छ्रुत्वा सहसा द्रोणस्त्यक्त्वा चापं सह क्रुधा ।
दत्त्वा सर्वाभयं मौनी ददर्श ज्योतिरान्तरम्

7.735

तस्य षट्कोशसंघस्य संपुटत्रयपातनात् ।
ब्रह्मरन्ध्रविनिष्क्रान्तं ज्योतिर्व्योम समाविशत्

7.736

अत्रान्तरे समाकृष्य धृष्टद्युम्नः शिरोरुहैः ।
क्रोधान्धः पाण्डुतनयैर्वार्यमाणो ऽपि संभ्रमम्

7.737

गुरोरकृष्टशस्त्रस्य धाम्नि संक्रान्ततेजसः ।
शिरो जहार खड्गेन धिक्कृतः स्रवराजभिः

7.738

***** द्रोणवधः ॥ 27 ॥ *****
हते रुक्मरथे वीरे गुरौ सर्वधनुष्मताम् ।
संभ्रान्ता दुद्रुवुः सर्वे कौरवाणां महारथाः

7.739

भग्नं कुरुबलं दृष्ट्वा शङ्कितो द्रोणनन्दनः ।
किमेतदिति पप्रच्छ साश्रुनेत्रं सुयोधनम्

7.740

तस्मिन्नधोमुखे दुःखाद्धोरं वक्तुमनीश्वरे ।
तत्प्रेरितः पितृवधं गौतमो ऽस्मौ न्यवेदयत्

7.741

श्रुत्वा स वैशसं घोरं छद्मना विहितं गुरौ ।
पाञ्चाल्येन नृशंसेन जज्वाल क्रोधवह्निना

7.742

तस्य निःश्वसतः कोपात्कालस्येव दिधक्षतः ।
संरम्भः सर्वभूतानां बभूवातिभयंकरः

7.743

निष्पिष्यपाणिना पाणिं सो ऽब्रवीत्साश्रुलोचनः ।
अहो ममापि जनकः केशग्रहणमाप्तवान्

7.744

घातयित्वा मृषावादी गुरुं राजा बकव्रतः ।
मयि जीवति कौन्तेयः कथं प्राप्स्यति मेदिनीम्

7.745

अद्य मत्कोपनिर्दग्धे पाण्डुपुत्रे सराजके ।
भार्गवस्य स्मरिष्यन्ति वीराः क्षत्त्रकुलच्छिदः

7.746

कृत्वाद्य पार्षतपशुं क्रोधाग्नेरुपहारताम् ।
अकृष्णपार्थां पृथिवीमेषो ऽहं कर्तुमुद्यतः

7.747

पुरा मह्यं पिता प्रादादस्त्रं नारायणोदितम् ।
तेनाद्य संहृतांल्लोकान्मया पश्यन्तु खेचराः

7.748

इत्युक्त्वा संदधे धीप्तं तदस्त्रं नियतः शुचिः ।
येनाश्वत्थदलालोला विचचालजगत्त्रयी

7.749

ततो ननाद मन्थाद्रिक्षुभिताम्भोधिनिःस्वनम् ।
द्रौणिर्येन दिशः सर्वा ययुः शकलतामिव

7.750

ततो व्यथितमालोक्य स्वसैन्यं श्वेतवाहनः ।
जगाद धर्मतनयं श्वसन्ननुशयाकुलः ।
व्याजाद्विभवलुब्धेन शिष्येण निहतो गुरुः

7.751

इति प्रलापमुखरे सुरराजसुते गुरोः ।
कोपादाताम्रनयनः प्रोवाच पवनात्मजः

7.752

न नाम मुनिवत्पार्थ क्षत्त्रियो वक्तुमर्हसि ।
घोरापकारे कः शत्रौ रणे न्यायमुपेक्षते

7.753

अस्मिन्मम भुजे वीरे गदाप्रणयिनि स्थिते ।
त्वयि कृष्णे च किं नाम द्रौणिश्लाघाभिनन्द्यते

7.754

इत्युक्ते भीमसेनेन पार्षतोर्ऽजुनमब्रवीत् ।
लोकान्तको विकर्मस्थो ब्रह्मबन्धुर्हतो मया

7.755

ब्रह्मास्त्रेण हतो येन मुक्तवर्मा पृथग्जनः ।
सर्वोपायैः स हन्तव्यो ऽसुरवद्विश्वकण्टकः

7.756

त्वया हतः कथं भीष्मः स च प्राग्ज्योतिषेश्वरः ।
पितुः सखा किमेतेन गहना वीरवृत्तयः

7.757

धृष्टद्युम्नवचः श्रुत्वा तिर्यग्जिह्मीकृतेक्षणः ।
निःश्वस्य कोपसंतप्तो धिग्धिगित्यर्जुनो ऽब्रवीत्

7.758

लज्जानते धर्मसुते मूकीभूतेषु राजसु ।
सात्यकिः कोपसंतप्तो धृष्टद्युम्नमभाषत

7.759

बत पाप वयं सर्वे ये गुरुघ्नं पुरः स्थितम् ।
स्वस्तिवत्प्रतिभाषन्ते हन्तव्यं त्वां प्रयत्नतः

7.760

इत्युक्तवति शैनेये जगाद द्रुपदात्मजः ।
अहो नु परदोषज्ञो निर्देष इव भाषसे

7.761

भूरिश्रवाः प्रायगतः कृत्तबाहुः किरीटिना ।
नृशंस पतिताचार केनान्येन निपातितः

7.762

नैतद्वाच्यं त्वया भूपो बाणैस्त्वामन्यथा शितैः ।
करोमि शिक्षागुरुभिर्विनयावनिवर्तिनम्

7.763

इति ब्रुवाणौ संरम्भात्तौ मिथो हन्तुमुद्यतौ ।
नि(न्य)वारयत्कृष्णगिरा भीमसेनः सहानुजैः

7.764

ततः क्षणात्समावृत्ते कुरुराजबलार्णवे ।
द्रोणात्मजास्त्रपिहिता नालक्ष्यन्त दिशो दश

7.765

नारायणास्त्रनिःसृतैः प्रदीप्तायुधमण्डलैः ।
बध्यमानाल्पशेषाभूत्पाण्डवानामनीकिनी

7.766

तस्मिन्नायुधसंघर्षजातज्वालाशताकुले ।
घोरे सुभटसंहारे त्रस्तो राजा युधिष्ठिरः

7.767

उवाच पार्षतमुखान्वीक्षमाणः किरीटिनम् ।
पलायन्तामितः सर्वे महद्भयमुपस्थितम्

7.768

माध्यस्थ्यमास्थितो जिष्णुः कोपितो निधनाद्गुरोः ।
येनाभिमन्युर्वृद्धेन व्याजाद्बालो निपातितः

7.769

सत्यजित्प्रमुखा येन हतास्ते ते महारथाः ।
दुर्भेद्यं कवचं प्रादाद्दिव्यं दुर्योधनाय यः

7.770

क्रियतां नाधुना युद्धं स्वस्ति पार्थाय धीमते ।
एवं वह्निं प्रवेक्ष्यामि द्रौणिं कालं सहेत कः

7.771

इत्युक्ते धर्मराजेन भुजावुत्क्षिप्य केशवः ।
उच्चैरुवाच भूपालाञ्ज्वलितान्स्त्रतेजसा

7.772

भो भोः शस्त्रं परित्यज्य रथेभ्यो व्रजत क्षितिम् ।
अस्त्रेणानेन हन्यन्ते न विशस्त्रा भुवि स्थिताः

7.773

इति ब्रुवाणे संरम्भात्सावेगं कैटभद्विषि ।
भीमो बभाषे भूपालानभयं कर्तुमर्हथ

7.774

एषो ऽहं समयप्रख्यां गदामादाय दंशितः ।
द्रौणिमभ्युद्यतो हन्तुं पश्यन्तु कुरुपाण्डवाः

7.775

इति गर्जन्तमायान्तं पावनिं द्रोणनन्दनः ।
हसन्मूढो ऽयमित्युक्त्वा शरजालैरपूरयत्

7.776

ततो नारायणास्त्रेण दह्यमानाः समन्ततः ।
अवातरन्वाहनेभ्य शस्त्राण्युत्सृज्य भूमिपाः

7.777

रथे स्थितं युध्यमानं भीमसेनमसंभ्रमात् ।
अस्त्रज्वालावलीचक्रमेकीभूतं समापतत्

7.778

प्रजवाग्निशिखाकूटसंघट्टन्तरितं क्षणात् ।
अर्जुनो भीममालोक्य वरुणास्त्रमवासॄजत्

7.779

नारायणास्त्रदहनैस्तदस्त्रमभितो हतम् ।
मोधीकृतं क्षणेनाभूदप्रयुक्तमिवाम्बरे

7.780

महास्त्रसंकटे घोरे वर्तमानं वृकोदरम् ।
अवरुह्य रथात्कृष्णौ द्राग्भुजाभ्यां विकृष्य तम्

7.781

शस्त्रं हृत्वा बलाद्वीरं नीत्वाशु स्यन्दनाद्भुवम् ।
वीरौ चित्रोज्ज्वलौ हृष्टौ तस्थातुः कृष्णपाण्डवौ

7.782

अस्त्रे ततः स्वयं शान्ते प्रसन्ने भुवनत्रये ।
ऊचे दुर्योधनो द्रौणिं पुनरस्त्रं प्रयुज्यताम्

7.783

द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा द्रौणिराकुलः ।
शरैश्वकार पाञ्चालमत्स्यकेकयसंक्षयम्

7.784

स सात्यकिं पार्षतं च जित्वा विद्राव्य वाहिनीम् ।
जघान पौरवं वीरं राजानं च सुदर्शनम्

7.785

पाण्डुसैन्येषु भग्नेषु द्रौणिं पश्चादभिद्रुतम् ।
अवारयत्स्वयं क्रुद्धो बाणवर्षैर्धनंजयः

7.786

प्रादुश्चक्रे ततो घोरं ज्वालावलयिताम्बरम् ।
आग्नेयमस्त्रं लोकानां क्षयाय द्रौणिरुद्यतः

7.787

अथ काञ्चनसंनाहौरिव सर्वे समावृताः ।
महास्त्रतेजसा व्याप्ताः पेतुर्भूमिभृतां वराः

7.788

अस्त्रेणाक्षौहिणीं दग्धां वह्निव्याप्तो धनंजयः ।
दृष्ट्वा प्रादुश्चकारोग्रं ब्रह्मास्त्रं तत्प्रशान्तये

7.789

अस्त्रे तिरोहिते तस्मिन्विमुक्तौ केशवार्जुनौ ।
दृष्ट्वा द्रोणसुतः क्रुद्धो धिगस्त्राणीत्यभाषत

7.790

अत्रान्तरे ज्ञानसहस्ररश्मिरपारवेदामृतसिन्धुसेतुः ।
सरस्वतीमानसराजहंसः कृष्णो ऽप्यकृष्णो मुनिराजगाम

7.791

रथं समुत्सृज्य तमुग्रकर्मा प्रणम्य पप्रच्छ गुरोस्तनूजः ।
अस्त्राणि दिव्यान्यफलानि कस्मात्पार्थे सकृष्णे भगवन्गतानि

7.792

पृष्टः कोपाकुलेनेति तमुवाच मुनीश्वरः ।
वीरौ कृष्णार्जुनावेतौ नरनारायणावृषी

7.793

षष्टिं वर्षसहस्राणि तपः कृत्वा पिनाकिनम् ।
नारायणस्तोषयित्वा लेभे तत्तुल्यतां पुरा

7.794

स एष दुर्जयः कृष्णः स्वयं लिङ्गार्चनव्रतः ।
द्रौणे त्वमपि रुद्रांशस्तस्मान्मा विक्रियां गमः

7.795

एतद्व्यासवचः श्रुत्वा शान्तमन्युर्गुरोः सुतः ।
धिया रुद्रं नमस्कृत्य देवौ कृष्णावमन्यत

7.796

ततो ऽवहारे सैन्यानां विहिते कुरुपाण्डवैः ।
निवृत्तः समरात्पार्थः पथि व्यासं व्यलोकयत्

7.797

तं नमस्कृत्य पप्रच्छ भगवन्समरे पुरः ।
दृष्टो मया शूलहस्तः पुरुषो दहनद्युतिः

7.798

तच्छूलिनःसृतैर्दीप्तैरसंख्यैः शूलमण्डलैः ।
कुरुसेना मया दृष्टा दह्यमाना समन्ततः

7.800

क्रोशार्धस्पृष्टवसुधो रौद्रो रुद्र इवापरः ।
पृष्टो धनंजयेनेति हृष्ये द्वैपायनो ऽब्रवीत्।
स देवस्त्रिपुरारातिर्गजासुरविमर्दनः ।
रुद्रः कृतान्तदहनस्त्रिजगत्प्रलयक्षमः

7.801

यं नमस्कृत्य वरदं राजन्ते दिवि देवताः ।
अस्तम्भयद्बुजस्तम्भं जम्भारातेः स्मिताननः

7.802

स्मरहरमसुरारिं तं स्मर स्मेरकान्तिं हरमजरमजय्यं शाश्वतं विश्वरूपम् ।
विषमदृशमनीशं शान्तमीसानमीशं तरुणतरणिमालास्फारतेजःप्रकारम्

7.803

क्षपितदिनकराक्षं दक्षदीक्षाविघातं भवमभवमभेदं स्वच्छभावोपलभ्यम् ।
शिवमचलमचिन्त्यं बालचन्द्रावतंसं गिरिपरिवृढपुत्रीद्यूतगोष्ठीगरिष्ठम्

7.804

हत्याग्रहात्परममाग्रहमिन्द्रसूनोः प्रीत्या विधाय मुनिमौलिमणौ प्रयाते ।
भूपाः प्रविश्य शिबिराणि दिनावसाने चक्रुः कथाः प्रवरवीरकथानुबद्धाः

मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc