भाषा

ENहिગુ
ग्रंथ पाठ

भारतमञ्जरी · अध्याय 6

6.1

भीष्मपर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

6.2

आसूर्यकिरणाक्रान्ताज्जगतो जनगोचरात् ।
पुण्यधाम्नि कुरुक्षेत्रे समायातेषु राजसु

6.3

एकीभूतेषु सैन्येषु कुरुपाण्डवसंगरे ।
वृद्धबालावशेषासु दिक्षु यातासु शून्यताम्

6.4

दारुणेषु निमित्तेषु प्रादुर्भूतेषु सर्वतः ।
मिथो दृष्टिपथं याते पताकाभिर्बलद्वये

6.5

सोत्साहं दध्मतुः शङ्खं हृषीकेशधनंजयौ ।
ययोर्गम्भीरघोषेण भुवनानि चकम्पिरे

6.6

विषमस्थो न हन्तव्यो न च सेनाविनिर्गतः ।
न निवृत्ते रणे चेति मर्यादां चक्रिरे नृपाः

6.7

अत्रान्तरे समभ्येत्य पाराशर्यो मुनीश्वरः ।
विषण्णं मन्दिरगतं धृतराष्ट्रमभाषत

6.8

वीराणां भूमिपालानामशेषे ऽस्मिन्समागमे ।
क्षत्त्रस्य संक्षयो राजन्विषमः समुपस्थितः

6.9

दिव्यं गृहाम नयनं स्वयं युद्धं विलोकय ।
इत्युक्ते मुनिना राजा जगादाकुलिताशयः

6.10

भगवान्बन्धुनिधनं नाहं द्रष्टुं समुत्सहे ।
भाव्यस्यावश्यभावित्वान्न च वारयितुं क्षमः

6.11

इत्युक्तवति भूपाले संजयं वरदो मुनिः ।
विधाय दिव्यनयनं पुनः क्षितिपमभ्यधात्

6.12

अयं ते निखिलं युद्धं कथयिष्यति संजयः ।
नास्य किंचिदविज्ञातं दिव्यदृष्टेर्भविष्यति

6.13

कृतान्तो जृम्भते राज्ञां धृतराष्ट्र तवानयात् ।
दृश्यन्ते दुर्निमित्तानि क्षयकर्णेजपानि यत्

6.14

सौरेण पीडिता गाढं रोहिणी ज्वलिता दिशः ।
विपरीता प्रसूतिश्च कबन्धेनावृतो रविः

6.15

क्रव्यादैरावृतं व्योम मेघा वर्षन्ति शोणितम् ।
किमन्यद्राजमहिषी हा मही न भविष्यति

6.16

प्रदक्षिणशिखो वह्निः प्रसादो मनसस्तथा ।
लक्षव्यक्तं जयस्यैतद्धर्मो यत्रास्ति तत्र सः

6.17

शतान्येकेन जीयन्ते नैको जेयः शतैरपि ।
तरला ह्यसिधारेयं निश्चयो नात्र गण्यते

6.18

इत्युक्त्वान्तर्हिते क्षिप्रं मुनीन्द्रे संजयं नृपः ।
पप्रच्छ द्वीपसंस्थानं स च पृष्ठो ऽभ्यभाषत

6.19

राजन्विशाले शीतांशोर्मण्डले दर्पणाकृतौ ।
स्फारं सुदर्शनं द्वीपं निखिलं प्रतिबिम्बितम्

6.20

एकतः पिप्पलाच्छायमन्यतः शशकाकृति ।
द्वीपे ऽस्मिन्मण्लाकारे लवणाम्बुधिवेष्टिते ।
कर्णिकेवाम्बुजे प्रांशुर्मध्ये कनकपर्वतः

6.21

शयाना भृधराश्चान्ये पार्श्वयोस्तस्य भूभृतः ।
स्थिता हिमालयमुखाः स्पृशन्तः पूर्वपश्चिमम्

6.22

हिमवान्हेमकूटश्च निषदश्चेति दक्षिणे ।
उत्तरे शृङ्गवान्नीलः श्वेतश्चेति महाबलाः

6.23

एषां रत्नविचत्राणामन्तरे वर्षभूमयः ।
कर्मभूर्भारतं वर्षमन्याश्च फलभूमयः

6.24

हरिवर्षमुखेष्वेव प्रजासर्गः स्मरोपमः ।
स्थानं सुकृतिनां यत्र विख्याता गण्डिका इति

6.25

जम्बूखण्डं तथा मेरोरधो यत्फलविस्रुता ।
जाता जम्बूनदी शुभ्रा जाम्बुनदविधायिनी

6.26

उत्तराः कुरवः पीत्वा तामेव गतमृत्यवः ।
दिवस्पृशस्तरेस्तस्य नाम्नेदं द्वीपमुच्यते

6.27

इत्युक्त्वा संजयो गत्वा कुरुक्षेत्रे राणाङ्गणे ।
समेत्य धृतराष्ट्राय शशंय स्वभटक्षयम्

6.28

***** जम्बूखण्डनिर्माणम् ॥ 1 ॥ *****
शृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः ।
विदधे पाण्डुपुत्राणां यथा विजयसंशयम्

6.29

वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः
मिथो व्यूढेष्वनीकेषु गाङ्गेयेनार्जुनेन च

6.30

तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे ।
दुर्योधने ऽतिसंरब्धे पृथुसैन्याभिमानिनि

6.31

गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे ।
शङ्खशब्देन पार्थानां पाञ्चजन्यानुयायिना

6.32

पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव ।
सर्वसेनाश्रयः श्रीमान्विजयो ऽच्युतसारथिः

6.33

ददर्श कुरुसेनासु गुरुसंबन्धिबान्धवान् ।
निजप्रतापदहने स तेषां शलभायितम् ।
मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः

6.34

अहो वत विमूढानां राज्यलेशे सुखाय नः ।
कृष्ण बन्धुवधे ऽप्यस्मिन्ससंरम्भो ऽयमुद्यमः

6.35

अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् ।
कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम्

6.36

इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे ।
करादुत्सृज्य गाण्डीवं निषसाद विषादवान्

6.37

***** श्रीमद्भगवद्गीतासु प्रथमो ऽध्यायः ॥ 2 ॥ *****
तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः ।
अकाण्डे धैर्यसारस्य केयं कातरता तव

6.38

तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी ।
निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि

6.39

संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् ।
विश्वमायाप्रपञ्चे ऽस्मन्को ऽनुशोचति तत्त्वधीः

6.40

सुखाद्यवस्था देहस्य काले काले यथाविधाः ।
देहिनो ऽस्य तथा देहाः सतः सत्ताविवर्जिताः

6.41

विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् ।
सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम्

6.42

अजस्य पुराणस्य देहिनो ऽस्याविनाशिनः ।
जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना

6.43

आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः ।
सत एवास्य सततं न विरामः शरीरिणः

6.44

अयशस्यमतस्त्यक्त्वा संकोचं विपुलाशयः ।
जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम्

6.45

आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः ।
शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज

6.46

सर्ववेदेषु विदुषामेतदेव प्रयोजनम् ।
जलाशयेषु पूर्णेषु यथा सलिलहारिणाम्

6.47

निःसङ्गः फलसंन्यासी कुरु कर्म सदोदितः ।
परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम्

6.48

यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् ।
कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः

6.49

इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् ।
पृष्टः समाधिसक्तस्य भगवानित्यभाषत

6.50

ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः ।
निरस्ताखिलसंकल्पः स्थितप्रज्ञो ऽभिधीयते

6.51

आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् ।
विषयाध्यानविरहात्स्थितधीर्न स नश्यति

6.52

कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना ।
अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम्

6.53

निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः ।
स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते

6.54

***** श्रीगीतासु द्वितीयो ऽध्यायः ॥ 3 ॥ *****
श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः ।
कथमेवं वदन्घोरे समरे ऽस्मिन्युनक्षि माम्

6.55

कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो ।
कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन्

6.56

श्रेयो वदेत्युक्तवति श्वेताश्वे केशवो ऽब्रवीत् ।
निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता सांख्ययोगयोः

6.57

अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः ।
श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु

6.58

स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि ।
मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः

6.59

श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना ।
यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः

6.60

कर्मस्थितो ऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः ।
आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते

6.61

कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा ।
तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम्

6.62

ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः ।
विनस्यत्यन्यथा लोको मत्प्रमाणविशृङ्खलः

6.63

पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः ।
तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव

6.64

युध्यस्व सर्वकर्माणि मयि संन्यस्य निर्वृतः ।
तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः

6.65

प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु ।
रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ

6.66

श्रुत्वैतदर्जुनो ऽवादीत्प्रेरितः केन पातकम् ।
चरत्यनीश्वरः प्राणी बलादिव वशीकृतः

6.67

इति पृष्टो हृषीकेशो जगाद जगतां पतिः ।
रजोगुणसमुत्थेन हर्षशोकादिदायिना

6.68

लोकसंहारशीलेन कामेन क्रोधबन्धुना ।
अहंकारेण बलिना घोरेणानेन वैरिणा

6.69

शेवालेनैव सलिलं रजसेवामलं नभः ।
आवृतो मलिनोनात्मा मेघेनैवोदितो रविः

6.70

मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् ।
यस्य तं दुःसहं शत्रुं कामरूप विनाशय

6.71

***** श्रीगीतासु तृतीयो ऽध्यायः ॥ 4 ॥ *****
सूर्येणाप्तः पुरा मत्तो योगो ऽयं मनुना ततः ।
य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः

6.72

अनेकजन्मसाक्षी त्वं भक्तः सहचरो ऽपि मे ।
न तत्स्मृतिपथं यातं किंतु ते प्राक्तनं वपुः

6.73

अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् ।
युगे युगे भवाम्येष विनाशाय दृरात्मनाम्

6.74

अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् ।
त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम्

6.75

दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् ।
स्वोचितं फलहीनं च विरुद्धं चेति भेदतः

6.76

कर्मणः फलसंन्यासाद्यो ऽनुपश्यत्यकर्मताम् ।
जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान्

6.77

ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः ।
निराशीर्निरहंकारो यज्वा ब्रह्मणि लीयते

6.78

ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः ।
प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना

6.79

संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले ।
तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम्

6.80

ये ऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः ।
प्राणापानादिह विषो धृत्वा नाडीषु धारणम्

6.81

समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः ।
ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः

6.82

तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया ।
अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम्

6.83

ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि ।
कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति

6.84

नश्यन्ति संशयजुषो मूढा न त्वस्तसंशयाः ।
ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये

6.85

***** श्रीगीतासु चतुर्थो ऽध्यायः ॥ 5 ॥ *****
निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् ।
संन्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन

6.86

इति पृष्टो ऽवदच्छौरिरुभावेतौ विमुक्तये ।
कर्मयोगस्तु संन्यासाद्विशिष्ट इति मे मतिः

6.87

शृण्वन्तो ऽपि वदन्तो ऽपि स्पृशन्तो ऽपि स्वकर्मणि ।
सक्ता अपि न सज्जन्ति पङ्के रविकरा इव

6.88

तदेव विहितं किंचित्पुंसां सुकृतदुष्कृतम् ।
अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना

6.89

ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः ।
ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः

6.90

बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे ।
अन्तःसुखारामतया परं ज्योतिः प्रसीदति

6.91

बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः ।
नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये

6.92

कामरागमदद्वेषभयक्रोधविवर्जितः ।
अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः

6.93

***** श्रीगीतासु पञ्चमो ऽध्यायः ॥ 6 ॥ *****
क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः ।
आरुरुक्षुदशातीतो योगारूढो विमत्सरः

6.94

कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना ।
समासनः समाकारो निस्तरङ्ग इवोदधिः

6.95

घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना ।
युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः

6.96

आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः ।
मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः

6.97

आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् ।
मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः

6.98

तथाभ्यासेन बलिना वातस्येव प्रमाथिनः ।
एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम्

6.99

लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः ।
अर्जुनेनेति भगवान्पुनः पृष्टो ऽभ्यभाषत

6.100

योगभ्रष्टो ऽपि पुरुषः शुभकृत्तु भविष्यति ।
चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः

6.101

भोगिनां योगिनां वापि संभूतो महतां कुले ।
पूर्वाभ्यस्तं पुनर्धीमाञ्जन्मभिः प्रतिपद्यते ।
तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन

6.102

***** श्रीगीतासु षष्ठो ऽध्यायः ॥ 7 ॥ *****
मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव ।
अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे

6.103

उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः ।
सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम्

6.104

देवीं मायां दधानं मां न जानाति विमोहितः ।
ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा

6.105

अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते ।
प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे

6.106

अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः ।
वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः

6.107

ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् ।
साधिदैवाधियज्ञं च देहव्युपरमेष्वपि

6.108

***** श्रीगीतासु सप्तमे ऽध्यायः ॥ 8 ॥ *****
अच्युतेनेत्यभिहिते शक्रसूनुरभाषत ।
किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते

6.109

इति पृष्टो हृषीकेशो बभाषे श्वेतवाहनम् ।
अनश्वरं परब्रह्म भावो ऽध्यात्मा तथात्मनः

6.110

निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता ।
अधिदैवो ऽहमेवात्र ह्यधियज्ञो ऽप्यहं विभुः

6.111

अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः ।
पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः

6.112

कविं पुराणं शास्तारमणीयांसमणोरपि ।
परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम्

6.113

भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः ।
ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम्

6.114

ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते ।
परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः

6.115

वैरञ्चे ऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च ।
भूतान्येकस्तु भगवानव्यक्तो न विनश्यति ।
तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम्

6.116

***** श्रीगीतास्वष्टमो ऽध्यायः ॥ 9 ॥ *****
राजगुह्यमिदं चान्यत्पवित्रं शृणु फल्गुण ।
अश्रद्दधानो नाप्नोति मां संसारवशीकृतः

6.117

सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् ।
लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः

6.118

अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् ।
असक्तं मां न जानन्ति मलिनामोघदर्शिनः

6.119

सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् ।
विदन्ति मां सुकुतिनः सर्वकारणकारणम्

6.120

त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः ।
न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः

6.121

मदेकशरणा नित्यं कृतिनो ऽनन्ययाजिनः ।
अप्यन्ययोनिसंभूताः स्वयमायान्ति यत्पदम्

6.122

***** श्रीगीतासु नवमो ऽध्यायः ॥ 10 ॥ *****
भूयो ऽपि मे शृणु सखे प्रीत्या यत्प्रतिबोध्यसे ।
न तत्त्वेनामरगणा मुनयो वा विदन्ति माम्

6.123

चराचरे ऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् ।
तदहं सर्वभूतात्मा न हि किंचिन्मया विना

6.124

अहं विष्णुरहं सूर्यश्चन्द्रो ऽहं मघवानहम् ।
शंकरो ऽहं धनेशश्च वह्निः सुरगुरुस्तथा ।
अक्षरो ऽहमहं कालो जयो ऽहं भूतिरप्यहम्

6.125

***** श्रीगीतासु दशमो ऽध्यायः ॥ 11 ॥ *****
श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत ।
किंतु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो

6.126

इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः ।
विश्वाविष्कारकलया विश्वरूपमदर्शयत्

6.127

तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः ।
देहे जगन्निवासस्य लीनं विश्वमदृश्यत

6.128

अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् ।
दृष्ट्वा पुलकितः पार्थस्तमुवाच कृताञ्जलिः

6.129

पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् ।
त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा

6.130

ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् ।
द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः

6.131

भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते ।
दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये

6.132

को भवान्सर्वसंहारारौद्रेण वपुषासूदनः ।
अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः

6.133

इत्युक्तवति कौन्तेये जगाद मधुसूदनः ।
अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः

6.134

कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया ।
हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम्

6.135

तच्छ्रुत्वा कालियारातेर्वचः पार्थः कृताञ्जलिः ।
उवाच कम्पितमनाः प्रणतो गद्गदस्वनः

6.136

कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः ।
दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन

6.137

नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् ।
अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः

6.138

क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः ।
उक्तो ऽसि कृष्ण गोविन्द यादवेति पुरा मया

6.139

उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् ।
चक्रारूढमिवाशेषं पश्यामि निखिलं जगत्

6.140

प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे ।
शान्तिं मे याति सहसा नान्यता व्यथितं मनः

6.141

इति प्रसादितः कृष्णः प्रणतेन किरीटिना ।
अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम्

6.142

देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः ।
इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः

6.143

***** श्रीगीतास्वेकादसो ऽध्यायः ॥ 12 ॥ *****
अथार्जुनो ऽवदत्कृष्णं ये भक्तास्त्वामुपासते ।
अव्यक्तमक्षरं ये च तेषां के ऽधिकयोगिनः

6.144

पार्थेनेति हरिः पृष्टो विहितानुग्रहो ऽवदत् ।
मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनो ऽधिकाः

6.145

क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् ।
सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते

6.146

मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् ।
अतस्त्वं मन्मना नित्यमनन्यनिरतो भव

6.147

वशे यदि न ते चित्तमभ्यासेन गृहाण तत् ।
तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव

6.148

अथवा फलसंन्यासं कर्मणां कुरु मत्परः ।
ज्ञानं हि परमाभ्यासाज्ज्ञानाद्ध्यानमिहोत्तमम्

6.149

ध्यानाच्च फलसंन्यासस्ततः शान्तिर्विशिष्यते ।
अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी

6.150

उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम ।
***** श्रीगीतासु द्वादशो ऽध्यायः ॥ 13 ॥ *****
शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः ।
क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम्

6.151

शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् ।
मानदम्भमदक्रोधत्यागो गुरुनिषेवणम्

6.152

असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा ।
ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम्

6.153

सर्वतः पाणिवदनं सर्वाकारमनामयम् ।
प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसंगमः

6.154

प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः ।
एकस्थानं पृथग्भावं भूतानां यो ऽनुपश्यति

6.155

तत्संगमाच्च विस्तारं स याति ब्रह्म शाश्वतम् ।
परमात्मा गुणातीतो नित्यत्वादयमव्ययः ।
भौतिके ऽपि स्थितः काये सर्वव्यापी न लिप्यते

6.156

***** श्रीगीतासु त्रयोदशो ऽध्यायः ॥ 14 ॥ *****
सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् ।
यद्योगो ब्रह्मगर्भे ऽस्मिन्संभवन्मूर्तिसंभवः

6.157

सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः ।
वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः

6.158

सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः ।
तमो ह्यावरणं मोहप्रमादाद्यस्य संभवः

6.159

सततं संकरेणैषां न्यूनाधिक्यविभेदतः ।
गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम्

6.160

मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः ।
गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम्

6.161

***** श्रीकीतासु चतुर्दशो ऽध्यायः ॥ 15 ॥ *****
ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् ।
लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम्

6.162

गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् ।
स्वभावभूमाववृतं जानीते यः स वेदवित्

6.163

तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम ।
निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम्

6.164

यदंशो जीवलोके ऽस्मिञ्जीवश्चरति सर्वगः ।
वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः

6.165

तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् ।
पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम्

6.166

भूतसर्गामिवागत्य अक्षरो ऽहं सनातनः ।
मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम्

6.167

***** श्रीगीतासु पञ्चदशो ऽध्यायः ॥ 16 ॥ *****
अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः ।
अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसंपदाम्

6.168

दम्भमानमदक्रोधपारुष्याज्ञानचापलैः ।
आसुरी सूच्यते संपन्मोहसोकविवर्धिनी

6.169

युक्तो ऽपि सततं दिव्यसंपदा मा शुचः सखे ।
आसुरं भावमापन्ना भजन्ते योनिमासुरीम्

6.170

सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः ।
मनोभोजनमाचारो गुणतुल्यो हि देहिनाम्

6.171

***** श्रीगीतासु षोडशो ऽध्यायः ॥ 17 ॥ *****
आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् ।
संन्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो

6.172

उक्ते पाण्डुसुतेनेति भगवानभ्यभाषत ।
काम्यकर्मफलत्यागं संन्यासं संप्रचक्षते

6.173

सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते ।
म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम्

6.174

नित्यकर्मपरित्यागो मोहात्तामस उच्यते ।
क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः ।
कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः

6.175

***** श्रीगीतासु सप्तदशो ऽध्यायः ॥ 18 ॥ *****
कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः ।
धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम्

6.176

यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे ।
मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि

6.177

इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् ।
यः श्रोष्यति स संसारदुःखान्यतितरिष्यति

6.178

कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया ।
केशवेनेति कथिते बभाषे शक्रनन्दनः

6.179

भगवन्वीतमोहो ऽहं करिष्ये तव शासनम् ।
उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः

6.180

***** श्रीगीतास्वंष्टादशो ऽध्यायः ॥ 19 ॥ *****
अथोदतिष्ठद्गम्भीरजलदध्वानमन्थरः ।
युयुत्सुं पार्थमालोक्य सैन्यानां हर्षनिःस्वनः

6.181

पूर्वं ततः सुभटकङ्कटपातिखङ्गटाङ्कारनादमुखरेषु बलेषु राज्ञाम् ।
धर्मात्मजः कवचचापशरान्विमुच्य देवव्रताभिमुखमुत्सुकधीः ससर्पः

6.182

धिग्धिङ्नृपं कृपणचेष्ट मनुष्यसंज्ञं भूरुं युधिष्ठिरमलीककृताभिधानम् ।
याच्ञा कृताञ्जलिरुपैति परान्यदेष शूरास्तदिङ्गितजडाः पृथगित्यवोचन्

6.183

सो ऽप्यच्छकीर्तिरथ भीष्ममुखानुपेत्य प्रह्वः शरीरपणसंश्रितधार्तराष्ट्रान् ।
तत्पादलग्नमुकुटः प्रकटं प्रणम्य लेभे तदाशिषमशेषमहीपजैत्रीम्

6.184

अभ्याहतं च रणरङ्गमृदङ्गतूर्ये पार्थान्गुणैकरसिको गुणवान्युयुत्सुः ।
अभ्याययौ तव सुतः स्वकुरून्निरस्य धावन्ति तुल्यगुममेव नृणां मनांसि

6.185

अस्मिन्महाक्षयमुखे करवालपट्टसंरक्षितप्रतिमुखे रणरङ्गनाट्ये ।
व्याकीर्णकीर्तिकुसुमाञ्जलिरर्जुनाग्रनान्दीमिवापठदमन्दधनुर्निनादैः

6.186

अत्रान्तरे नृपतिचक्रकिरीटकोटिसंपातजातवबुशाकुलविस्फुलिङ्ग ।
जैत्री त्रिशूलकरशिष्यमुनेरुदग्रा गाङ्गेयशातविशिस्वावलिरुल्ललास

6.187

संत्राससंकुचितनिश्चलकर्णतालदिक्कुञ्जराकलितकम्पितसर्वलोकम् ।
क्षुभ्यत्क्षयाम्बुधरभैरवभीमनादं भीमं निशम्य भयमाविरभूद्भटानाम्

6.188

अथ भीमं समभ्यायात्स्वयं राजा सुयोधनः ।
भ्रातृभिः सहितो वीरैर्धुनानो विपुलं धनुः

6.189

ततः प्रवृत्ते संग्रामे दुर्लक्ष्ये शरवृष्टिभिः ।
स्वयं शान्तनवः श्रीमानभ्यधावद्धनंजयम्

6.190

सात्यकिं कृतवर्मा च ह्यभिमन्युं बृहद्बलः ।
दुःशासनो ऽपि नकुलं सहदेवं च दुर्मुखः

6.191

युधिष्ठिरं तथा शल्य आचार्यो द्रुपदात्मजम् ।
सोमदत्तश्च वैराटिं बाह्लिकश्चेदिभूपतिम्

6.192

रक्षसां प्रवरं वीरं घटोत्कचमलुम्बुसः ।
शिखण्डिनं द्रोणसुतो मत्स्यं प्राग्ज्योतिषेश्वरः

6.193

कृपः केकयभूपालं द्रुपदं च जयद्रथः ।
सुतसोमं विकर्णश्च भीमसेनसुतं बली

6.194

चेकितानः विकर्णश्च प्रऐतिविन्ध्यं च सौबलः ।
इरावतश्च विक्रान्तं शतायुः फल्गुणात्मजम्

6.195

विन्दानुविन्दावावन्त्यौ कुन्तिभोजं यशस्विनम् ।
कौरवो वीरबाहुश्च विराटसुतमुत्तरम्

6.196

अन्ये च वीरा राजानो राजसिंहाः प्रहारिणः ।
उत्साहसत्त्वसंपन्नाः ससैन्याः यमुपाद्रवन्

6.197

तेषां कङ्कणरत्नांशुपटलाः करनिर्गताः ।
हेमपुङ्खा शराश्चक्रुर्वह्निव्याप्तं दिगन्तरम्

6.198

अथोपुङ्खा रजसा गजवाजिरथाकुलम् ।
वीराणां तुमुलं युद्धं निर्मर्यादमवर्तत

6.199

ततः शिरोभिर्वीराणां पतितोत्फुल्लितैर्मुहुः ।
अमन्दकन्दुकक्रीडा बभूवेव रणश्रियः

6.200

ततः पाण्डवसैन्येषु भीष्मचापच्युतैः शरैः ।
विदारितेष बहुशः समुत्तस्थौ महारवः

6.201

अथाभिमन्युरभ्येत्य शतमन्युसुतात्मजः ।
भीष्ममभ्याद्रवद्वीरो मिषतां सर्वभूभुजाम्

6.202

कृतवर्मप्रभृतिभिः सहितं भीष्ममोजसा ।
अयोधयत्स विशिश्वैर्ध्वजमस्य चकर्त च

6.203

हेमताले निपतिते संरब्धो ऽथ पितामहः ।
दिव्यास्रवर्षी सावेगं सौभद्रं समुपाद्रवत्

6.204

ततो वृकोदरमुखा विनदन्तो महारथाः ।
सानुगं शन्तनुसुतं समन्तात्पर्यवारयन्

6.205

भीष्मो ऽपि सात्यकिं विद्ध्वा ध्वजं पवनजन्मनः ।
उन्ममाथ शराग्रेण हैमं केसरिणं रथात्

6.206

अत्रान्तरे गिरिप्रांशुमारुह्य मदकुञ्जरम् ।
अयोध्यन्मद्रराजं हृष्टो वैराटिरुत्तरः

6.207

स कुञ्जरेन्द्रः शल्यस्य पादेन चतुरो हयान् ।
जघानाकृष्य हस्तेन गर्जञ्जलदनिःस्वनः

6.208

ततो मद्राधिपः क्रुद्धः शक्तिं शक्तिमतां वरः ।
प्रदीप्तां प्राहिणोद्वेगादुत्तरायेषुवर्षिणे

6.209

स तया भिन्नहृदयः पपात गलितायुधः ।
कर्णिकार इव भ्रष्टः करीन्द्राचलशेखरात्

6.210

उत्तरं निहतं दृष्ट्वा शङ्खस्तस्यानुजः क्रुधा ।
चकार शल्यमभ्येत्य शरैर्जटिलविग्रहम्

6.211

तस्य शल्यो ऽथ गदया विदार्य दलशो रथम् ।
उन्ननादाभवन्येन दिशः शकलिता इव

6.212

शङ्खो हताश्वः सहसा फल्गुणस्य रथं ययौ ।
भीष्मो ऽथ पाण्डवचमूं व्यगाहत नृपान्तकः

6.213

मत्स्यकेकयापाञ्चालचेदिसेनासु सर्वशः ।
भीष्मबाणविभिन्नासु सूर्यो ऽस्तशिखरं ययौ

6.214

ततो निवृत्ते संग्रामे शिबिराणि नरेश्वराः ।
भेजिरे प्रतिसंसन्तो विपुलं भीष्मविक्रमम्

6.215

***** प्रथमे युद्धदिवसे उत्तरवधः ॥ 20 ॥ *****
दिनान्ते दीर्णपृतनः शोकार्तो धर्मनन्दनः ।
संहारं निजसैन्यानां प्रदध्यौ भीष्मविक्रमम्

6.216

स राजमध्ये गोविन्दमुवाच करुणाकुलः ।
क्षीयमाणस्य समरे सत्यं श्रेयस्तपो मम

6.217

अलं युद्धेन मे कृष्ण पृथिवीक्षयकारिणा ।
को मुच्येत रणे प्राप्य भीष्मं भीष्मपराक्रमम्

6.218

इति ब्रुवाणं राजानमुवाच मधुसूदनः ।
ध्रुवस्ते विजयो राजन्यस्य योद्धा धनंजयः

6.219

सात्यकिर्द्रुपदः शैब्यः सिखण्डी पञ्च केकयाः ।
सौभद्रश्च रणे क्रुद्धो हन्यादेव गणानपि

6.220

उक्ते जनार्दनेनेति तीव्रं भीष्मपराक्रमम् ।
मिथः कथयतां तेषां सा जगाम विभावरी

6.221

अथोदिते सहस्रांशौ विहिते पाण्डुनन्दनैः ।
क्रुञ्चव्यूहे महोत्साहैर्व्यूहमन्ये ऽपि चक्रिरे

6.222

ततः प्रवृत्ते समरे तीव्रे भीरुभयंकरे ।
हृदयाकम्पने नाज्ञां तालकेतुरदृश्यत

6.223

गम्भीरधीरसंरम्भो वर्जयन्स पृथग्जनम् ।
चकर्त भूभुजामेव शिरांसि लघुविक्रमः

6.224

भीष्मेणालोलिते व्यूहे वातोद्धूत इवार्मवे ।
तमभ्यधावत्संरब्धः श्वेताश्वो ऽच्युतसारथिः

6.225

तमापतन्तं विशखैर्भीष्मः क्षिप्रमपूरयत् ।
द्रोणदुर्योधनमुखाः सर्वे चान्ये महारथाः

6.226

पार्थो ऽपि सायकैश्चक्रे समन्तात्कुरुवाहिनीम् ।
तत्पक्षपवनस्फारैर्दीर्णामिव सहस्रधा

6.227

दुर्योधनप्रेरितो ऽथ स्वयं शन्तनुनन्दनः ।
निन्दन्निजं क्षत्रधर्ममभ्यदावद्धनंजयम्

6.228

निर्विशेषं तयोस्तत्र सुचिरं युध्यमानयोः ।
निरुद्धां शरजालेन नादृश्यन्त दिशो दश

6.229

न ददर्श तयोः कश्चिदन्तरं क्षिपतोः शरान् ।
धारासारप्रबलयोर्नदतोरिव मेघयोः

6.230

ततो द्रोणमुखा वीरा धृष्टद्युम्नपुरोगमैः ।
अयुध्यन्ताभवन्येन सुराः पुलकिता दिवि

6.231

भीभसेनः कलिङ्गानां प्रविश्याथ वरुथिनीम् ।
पातयन्कुञ्जरांश्चक्रे निःसंचारां वसुंधराम्

6.232

भीमनिर्भिन्नमत्तेभकुम्भोद्भूतासृगम्भसाम् ।
प्रवाहैर्ययुराकण्ठं तुरङ्गाः कृच्छगामिनः

6.233

निहत्य कुञ्जरानीकं कलिङ्गानां प्रहारिणाम् ।
केतुमन्तं नरपतिं जघान सपदानुगम्

6.234

निःशेषितकलिङ्गस्य भीमसेनस्य नादतः ।
घनगम्भीरनादेन पृथिवी समकम्पत

6.235

ततो भीष्मः समभ्येत्य दृष्ट्वा दीर्णामनीकिनीम् ।
विधाय विरथं भीमं शैनेयाश्वानपोथयत्

6.236

दुर्योधनसुतं वीरं लक्ष्मणं शौर्यलक्षणम् ।
अभिमन्युः शितैर्बाणैः क्षिप्रहस्तमपोथयत्

6.237

गोचरे पतितं पुत्रं सौभद्रस्य प्रमाथिनः ।
दृष्ट्वा दुर्योधनो राजा सानुगः स्वयमाद्रवत्

6.238

कुरुवीरैः परिवृतं विलोक्य सुतमर्जुनः ।
मण्डलीकृतगाण्डीवस्तूर्णं प्रत्युद्ययौ परान्

6.239

लाघवादभितस्तस्य सायकाश्चित्रयोधिनः ।
जह्नुः शिरांसि शूराणां फलानीव महीरुहाम्

6.240

आखण्डलभुवा चण्डगाण्डीवप्रेरितैः शरैः ।
विदारितेष्वनीकेषु विध्वस्तरथसादिषु

6.241

रुधिरेणेव गगने संध्यारागेम पूरिते ।
अवहारं रणे चक्रे वासरान्ते पितामहः

6.242

***** दितीयो युद्धदिवसः ॥ 21 ॥ *****
अन्येद्युर्गारुडं व्यूहं दृष्ट्वा भीष्मेण कल्पितम् ।
अर्धचन्द्रं प्रतिव्यूहं चक्रिरे पाण्डुनन्दनाः

6.243

ततः प्रवृते समरे भीरूणां धृतिखण्डने ।
आरूढेव महीव्योम रजसा समलक्ष्यत

6.244

असृक्प्रवाहैः सहसा प्रशान्ते रेणुमण्डले ।
सुघोरः संप्रहारो ऽभून्नृपाणां त्रिदशेक्षितः

6.245

भीष्मद्रोणमुखैर्वीरैः। फल्गुणप्रमुखा रणे ।
संसक्ताः समदृश्यन्त पूर्वदेवैरिवामराः

6.246

बाणजालेन महता संहतानां समन्ततः ।
अर्जुनेन निरुद्धासु रिपूणां शस्त्रवृष्टिषु

6.247

अकम्पितौ कुरुव्यूहे भीमसेनघटोत्कचौ ।
प्रविश्य चक्रतुर्वीरौ व्याकुलां परवाहिनीम्

6.248

तावभ्यधावत्संरम्भादमर्षी धृतराष्ट्रजः ।
कुर्वन्नाजसमाजेन मौलिरद्नारुणा दिशः

6.249

हैडम्बबाणनिहता वीरास्तस्य पदानुगाः ।
महावातसमाक्रान्ता द्रुमा इव चकम्पिरे

6.250

दुर्योधनप्रेरितानां शराणां दीप्ततेजसाम् ।
वृष्टिमभ्युद्गतां घोरां चिच्छेदाशु वृकोदरः

6.251

भीमोत्सृष्टेन पृथुना पृषङ्के(त्के)नाथ कौरवः ।
हृदि विद्धो निमग्नेन मुमोह भृशविह्वलः

6.252

तस्मिन्सारथिना नीते रथेनाकुलकेतुना ।
दुद्राव सैन्यं तत्सर्वं पश्यतोर्द्रेणभीष्मयोः

6.253

महारथैर्वारिते ऽपि कीर्णे तस्मिन्बलार्णवे ।
प्रत्युद्ययौ समाश्वस्य तूर्णं राजा सुयोधनः

6.254

पार्थसात्यकिसौभद्रैः स दृष्ट्वा बहुशश्चमूम् ।
विद्रावितां समभ्येत्य पितामहमभाषत

6.255

दारितं पश्य मे सैन्यं लब्धलक्षैररातिभिः ।
पाण्डुपुत्रेषु कृपया त्वयि माध्यस्थ्यमाश्रिते

6.256

अलं द्रोमसहायस्य परिस्थातुं पुरस्तव ।
मदभाग्यवशान्न स्याद्यदि पार्थेषु वः कृपा

6.257

एतत्सुयोधनेनोक्तं श्रुत्वा सुरसरित्सुतः ।
ईषत्स्मितसुधाधौतकपोलफलको ऽवदत्

6.258

उक्तो ऽसि बहुशो राजन्नजेयाः पाण्डवा इति ।
यत्तु शक्यं मया किंचिद्वृद्धेनाद्य करोमि किम्

6.259

इत्युक्त्वा चापमाकृष्य तालमात्रं महाभुजः ।
मन्दायमाने दिवसे सममभ्युद्ययौ परान्

6.260

ततो भीष्मरथोदीर्णैः शरैः सूर्यकरप्रभैः ।
विदारितान्यनेकानि तमांसीव क्षयं ययुः

6.261

तोमरेष्वातपत्रेषु शरीरेषु च भूभुजाम् ।
पेतुः पुनरभावाय भीष्मनामाङ्किताः शराः

6.262

अदृष्टपुङ्खवदनैर्घनश्रेणीकृतैर्मुहुः ।
तत्सायकैरदृश्याभूत्पाण्डवानामनीकिनी

6.263

तं युध्यमानं दीप्तास्त्रं वर्जयन्तो ऽपि संगरे ।
दिक्षु भीष्मसहस्राणि ददृशुः सर्वपार्थिवाः

6.264

व्रजत्सु राजचक्रेषु भीष्मानलपतङ्गताम् ।
एकेनैकेन बाणेन भिन्नेषु त्रिषु दन्तिषु

6.265

याते सहस्रधा सैन्ये पाण्डवानां तरस्विनाम् ।
अनयत्फल्गुणरथं गाङ्गेयान्तिकमच्युतः

6.266

ततो ऽभवद्भीष्मशरैर्भास्वरैः सव्यसाचिनः ।
क्षणं पञ्चाननस्येव चारुकाञ्चनपञ्जरः

6.267

निरुद्धशरसंचारो यत्नेन शतमन्युजः ।
विचित्रैर्विचरन्मार्गैर्युयुधे कृष्णसारथिः

6.268

तस्यातिमानुषं धैर्यमास्थितस्य पितामहः ।
साधु पुत्रेति संहृष्टः पराक्रममपूजयत्

6.269

तत्कङ्कपत्त्रिनिर्भिन्नौ कृष्णावेकरथे स्थितौ ।
रक्ताशोकाविवोत्फुल्लौ बभतुः क्षतजोक्षितौ

6.270

ततो निरन्तरैर्बाणैर्भीष्मकार्मुकनिर्गतैः ।
आक्रान्तभुवनाभोगैर्नादृश्यन्त दिशो दश

6.271

भीष्मे पृथुशरज्वाले कालानल इवोद्यते ।
दुद्राव पाण्डवचमूः पश्चादभिसृता परैः

6.272

भग्नेषु भटमुख्येषु बभाषे कैटभान्तकः ।
क्व नु मानधना यूयमपारयशसो रणे ।
परित्यज्य कुलाचारं याताः कातरतामिमाम्

6.273

इत्युक्त्वा तान्समालोक्य विद्रुतानेव केशवः ।
उवाच सात्यकिं वीरं युध्यमानं प्रयत्नतः

6.274

तिष्ठन्तु यान्तु वा सर्वे सात्यके पृतनाग्रगाः ।
एष स्वयं निहन्म्यद्य सानुगं शन्तनोः सुतम्

6.275

इत्युक्त्वा चण्डमार्तण्डमण्डलाग्रं सुदर्शनम् ।
स्वयमुद्यम्य कंसारिः स्यन्दनाग्रादवातरत्

6.276

क्रुद्धस्य तस्य कल्पान्तकरालानलरोचिषः ।
न रूपं सेहिरे द्रष्टुं सुरा अपि दिवि स्थिताः

6.277

संरम्भोद्भ्रान्तदोर्दण्डविलसत्पीतवाससा ।
शोभां भेजे स नीलाद्रेः सर्पत्संध्याभ्रशालिनः

6.278

तमन्तकमिवायान्तं जगत्संहारदीक्षितम् ।
धीरः शान्तनवो दृष्ट्वा धुनानो धनुरभ्यधात्

6.279

एह्येहि भगवन्विष्णो जिष्णो त्रिदशविद्विषाम् ।
चक्रेण मे शिरश्छिन्धि भवक्लेशकृशानुना

6.280

भवता नाभिजाम्भोजसमुद्धूतस्वयंभुवा ।
हतो जगन्निवासेन धन्यतां यात्वयं जनः

6.281

सिद्धसिन्धुसुतेनेति भाषिते नतमौलिना ।
अवरुह्य रधात्तूर्णमर्जुनः कृष्णमन्वगात्

6.282

स निष्पीड्य बलात्पादौ पुरस्तात्कालियद्विषः ।
उवाच संहर विभो कोपं विश्वक्षयोचितम्

6.283

क्षपयामि रिपून्सर्वान्युधि सत्येन ते शपे ।
इति प्रसाद्य तं पार्थो रथमारोपयत्पुनः

6.284

ततो गाण्डीवघोषेण पाञ्चजन्यरवेण च ।
चक्राते राजचक्राणां कृष्णौ कृष्णाम्बुदभ्रमम्

6.285

ततो निर्विवरैर्बाणैः शल्यभिरिश्रवःशलाः ।
अवाकिरन्भीष्ममुखाः फल्गुणं शस्त्रवृष्टिभिः

6.286

तामायुधमहावृष्टिं छित्त्वा सपदि पाण्जवः ।
माहेन्द्रमस्त्रं विदधे सर्वलोकक्षयक्षमम्

6.287

तस्मिन्नुदीर्णे सहसा महास्त्रे दीप्ततेजसि ।
चण्डवातविकीर्णेव चकम्पे कुरुवाहिनी

6.288

वध्यमानेषु सैनेषु क्षिप्रं गाण्डीवधन्वना ।
नरनागाश्वदेहोत्था ससर्प रुधिरापगा

6.289

छत्त्राच्छफेनपटलां चलच्चामरसारसाम् ।
केशशेवालशबलां पिशाचास्तां सिषेविरे

6.290

घोरे नृपक्षये तस्मिन्वर्तमाने रणोत्सवे ।
संध्यया दिक्षु जातासु शोणितेन भृतास्विव

6.291

याते ऽस्तं चण्डकिरणे प्रत्यग्ररुधिरत्विषि ।
मांसपिण्ड इव ग्रस्ते घोरेण ध्वान्तरक्षसा

6.292

विध्वस्तचापकवचा विप्रकीर्णरथध्वजाः ।
अवहारमकुर्वन्त पाण्डवाः शस्त्रविक्षताः

6.293

***** तृतीयो युद्धदिवसः ॥ 22 ॥ *****
पुनः प्रभाते संरब्धा निर्ययुः कुरुपाण्डवाः ।
विनदन्तो महोत्साहा व्याडव्यूहाग्रवर्तिनः

6.294

अथ प्रवृत्ते समरे पृथिवीक्षयशंसिनि ।
सौभद्रप्रमुखा वीरान्भीष्ममुख्यानयोधयन्

6.295

ततः शरशतासारसंपूरितदिगन्तरः ।
महारथानतीत्यान्यान्भीष्मोर्ऽजुनमुपाद्रवत्

6.296

निर्विशेषं तयोः क्षिप्रं पीरयोर्युध्यमानयोः ।
एको द्रोणिमुखान्वीरानभिमन्युरयोधयत्

6.297

छिन्नवर्मध्वजरथान्स विधाय महारथान् ।
शिरःप्रकरमुच्छिन्नं राज्ञां क्षिप्रमपातयत्

6.298

द्रोणप्रभृतिभिः सर्वैर्दृष्ट्वा सौभद्रमावृतम् ।
धृष्टद्युम्नश्चमूनाथश्चकर्ताभ्येत्य कौरवान्

6.299

स हत्वा चामरं शूरः पौरव्यतनयं नृपम् ।
शिरःसंयमनेः कायाज्जहाराकुलकुण्डलम्

6.300

अत्रान्तरे गजानीकैर्विपुलैश्च गजाधिपः ।
भीमदुर्योधनादिष्टो गदापाणिः समाद्रवत्

6.301

भीमसेनो ऽथ रभसादवरुह्य रथाद्गजान् ।
गर्जन्नुरुगदाघातैर्जघान घनविक्रमः

6.302

गदाप्रहाराभिहतैर्वज्रभिन्नैरिवाचलैः ।
पतद्भिर्मत्तमातङ्गैश्चकम्पे चकितेव भूः

6.303

निहते कुञ्जरानीके भीमेन भयदायिना ।
तमभ्यधावन्संक्रुद्धाः सर्वे दुर्योधनादयः

6.304

सुयोधनशराघातमूर्छितो ऽथ वृकोदरः ।
समाश्वास्य परानीकं रथेन कुपितो ऽविशत्

6.305

विश्वसंहारसंक्रुद्धं तं कृतान्तमिवोत्थितम् ।
प्राप्यानुजाः कुरुपतेश्चतुर्दश ययुः क्षयम्

6.306

सेनापतिं सुषेणं च जयसंधं सुलोचनम् ।
भीममुग्रं भीमरथं भीमबाहुमलोलुपम्

6.307

समं ववित्सुं कटकं दुर्मुखं दुष्प्रदर्शनम् ।
हत्वैनामकरोत्सेनां कौरवाणां सहस्रधा

6.308

तमभ्यधावन्मत्तेन सुप्रतीकेन दन्तिना ।
गम्भीरघोरघोषेण भगदत्तः सहानुगैः

6.309

गजोदयाचलरवेः शरैस्तीक्ष्णैरिवांशुभिः ।
प्रतापधाम्नस्तस्यारात्स च कोपारिवाहिनी

6.310

तत्सायकेन विद्धो ऽथ हृदि मर्मावभेदिना ।
ध्वजयष्टिं समालम्ब्य तस्थौ भीमो ऽतिमूर्छितः

6.311

ततो घटोत्कचः क्रुद्धो दृष्ट्वा जनकमाकुलम् ।
भगदत्तमभिद्रुत्य घोरां मायां समाददे

6.312

ऐरावणगतः सो ऽथ प्रभिन्नैर्दिग्द्विपैः सह ।
अपीडयत्सुप्रतीकं दीप्ताभिः शस्त्रवृष्टिभिः

6.313

तस्य निर्भिद्यमानस्य कुञ्जरेन्द्रस्य गर्जतः ।
शब्देन तस्थुरालीय सर्वे संकुचिता गजाः

6.314

घटोत्कचेन संसक्तं दृष्ट्वा प्राग्ज्योतिषेश्वरम् ।
सह द्रोणादिभिर्वीरैर्भीष्मस्तं देशमाद्रवत्

6.315

घटोत्कचं कालरूपं नदन्तं वीक्ष्य भैरवम् ।
संध्यायां दुर्जयं मत्वा भीष्मस्तं भीमविक्रमम्

6.316

अवहारं सुसैन्यानां विदधे धीमतां वरः ।
येनाभवन्कालवक्त्रान्निष्क्रान्ता इव कौरवाः

6.317

***** चतुर्थो युद्धदिवसः ॥ 23 ॥ *****
ततो निशायामभ्येत्य कुरुराजः पितामहम् ।
पप्रच्छ पाण्डुपुत्राणां दुःखितो जयकारणम्

6.318

तमब्रवीच्छान्तनवो राजन्नुक्तो ऽसि सर्वदा ।
देवेन विष्णुना गुप्ता न जेयाः पाण्डवा इति

6.319

पुरा भूभारशान्त्यर्थं स्वयंभूर्मुनिसंसदि ।
प्रादुर्भूतं स्वयं विष्णुं तुष्टाव सहसां निधिम्

6.320

जय विश्वेश विश्वात्मन्विश्वक्सेन सुधानिधे ।
अमन्दचिद्धनानन्द संवित्समरसद्युते

6.321

नमस्तुभ्यं जगत्सर्गस्थितिसंहारकारिणे ।
त्रिविक्रमाय महते त्रिगुणाय त्रिमूर्तये

6.322

नमः प्रचण्डचक्राग्रप्रभाबासुरबाहवे ।
दैत्यान्धकारसंहारकारिणे मोहदारिणे

6.323

अवतीर्णा भुवं नाथ दानवा ये हतास्त्वया ।
तेषां वधाय दृप्तानां मानुषी तनुमाविश

6.324

इति स्तुताः पद्मभुवा देवो नारायणः प्रभुः ।
नरेण साकं भूभारशान्त्यै क्षितिमवातरत्

6.325

स एष कृष्णो भगवाञ्जातो यादवनन्दनः ।
नरश्च विजयो धीरः प्रवरः सर्वधन्विनाम्

6.326

देवौ कृष्णार्जुनावेतौ न जेयौ त्रिदशैरपि ।
इति ज्ञात्वा शमः पुत्र क्रियतां पाण्डुनन्दनैः

6.327

***** विश्वेपाख्यानम् ॥ 25 ॥ *****
अथ प्रभाते मकरश्येनव्यूहाग्रवर्तिनः ।
भीष्मभीममुखा युद्धं चक्रिरे पाण्डुनन्दनाः

6.328

हतानां हन्यमानानां घ्नतां च समरे मिथः ।
पततां तत्र वीराणां निःस्वस्तुमुलो ऽभवत्

6.329

भीमफल्गुणसौभद्रमत्स्यसात्यकिपार्षतैः ।
भीष्ममुख्यैश्च ते सेने भिन्ने संशयमापतुः

6.330

कबन्धताण्डवश्चण्डे मत्तवेतालसंकुले ।
तस्मिन्नायोधने घोरे भूतानामुत्सवो ऽभवत्

6.331

धन्विनां शरजालेन दिवमुत्पततां मुहुः ।
रवौ संछादिते राज्ञां व्यर्थो ऽभूच्छस्त्रसंग्रहः

6.332

बीरेण भूरिश्रवसा संसक्तं वीक्ष्य सात्यकिम् ।
अभ्याद्रबन्धन्विनस्तं देशं सात्यकिसूनवः

6.333

तेषामापततां पूर्णं सृजतां शरदुर्दिनम् ।
भूरिश्रवाः शिरांस्यारादुश्चकर्त शितैः शरैः

6.334

हतेषु तेषु कुपितः प्रदीप्तास्त्रो धनंजयः ।
चकार कुरुसेनानां संहारं हरिसारथिः

6.335

हते लक्षचतुर्भागे भूभुजामनिवर्तिनाम् ।
गाम्डीवधन्वना सैन्यं वासरान्ते न्यवर्तत

6.336

***** पञ्चमो युद्धदिवसः ॥ 26 ॥ *****
पुनः प्रभाते संनद्धा निर्ययुः कुरुपाण्डवाः ।
अलक्ष्यभेदाव्यूहाभ्यां क्रौञ्चेन मकरेण च

6.337

ततः प्रमथ्य सहसा भीमसेनो ऽरिवाहिनीम् ।
विवेश भृशसंक्रुद्धः समं द्रुपदसूनुना

6.338

ताभ्यां विदारिते व्यूहे कुपिताः कुरुनन्दनाः ।
विमुखैः कुञ्जरानीकैस्तौ तूर्णं पर्यवारयन्

6.339

भीमसेनगदाघातनिष्पिष्टवपुषां रणे ।
अभूद्व्यतिकरो घोरः पततां गजयोधिनाम्

6.340

युध्यमानेषु सैन्येषु भीमेन भुजशालिना ।
अभ्याद्रवत्सानुगस्तं स्वयं राजा सुयोधनः

6.341

छादितं कौरवैर्दृष्ट्वा भीमं विशिखवर्षिभिः ।
विमोहं विदधे तेषां मोहनास्त्रेण पार्षनः

6.342

द्रोणेन स्वयमभ्येत्य ज्ञानास्त्रेण विनाशिते ।
मोहनास्त्रे कुरुपतिं भीमस्तूर्णमुपाद्रवत्

6.343

मदान्ध क्वाधुना जीवन्मयि जीवति यास्यसि ।
इत्युक्त्वा ते शरशतैर्वज्रवेगैरवाकिरन्

6.344

भीमचापच्युतैर्बाणैः सो ऽथ कृत्तरथध्वजः ।
हृदि निर्दारितो भेजे मूर्छां व्यथितमानसः

6.345

अत्रान्तरे भीष्मशरैर्हन्यमानेषु राजसु ।
घोरो बभूव संमर्दः कृतान्तसमरोत्सवः

6.346

द्रौपदेयेषु वीरेषु युध्यमानेषु कौरवैः ।
अवर्तत रणो घोरो गजवाजिरथक्षयः

6.347

अथावहारं सैन्यानां चक्रे शन्तनुनन्दनः ।
राजसेवावृते सूर्ये याते ऽस्तं रुधिरारुणे

6.348

***** षष्ठो युद्धदिवसः ॥ 27 ॥ *****
अन्येद्युर्मण्डलव्यूहे भीष्मेण विहिते स्वयम् ।
युधिष्ठिरः स दुर्भेद्यं वज्रव्यूहमकल्पयत्

6.349

ततः प्रवृत्ते समरे भीषणे भीष्मपार्थयोः ।
विराट आद्रवद्द्रोणं गरिष्ठं सर्वधन्विनाम्

6.350

द्रोमस्तं बाणवर्षेण संछाद्य शरवर्षिणम् ।
उन्ननाद धनध्वानो रथमस्य जघान च

6.351

स हताश्वं समुत्सृज्य रथं पुत्रस्य संभ्रमात् ।
आरुरोह हतानीकं शङ्खस्यारूढधन्विनः

6.352

द्रोणो ऽथ तौ पितापुत्रौ विलोक्यैकरथे स्थितौ ।
शङ्खाय प्राहिणोद्धोरं मृत्युदण्डोपमं शरम्

6.353

स तेन भिन्नहृदयः पपात क्षतजोक्षितः ।
वातेनोन्मथितः शैलादुत्फुल्ल इव किशुकः

6.354

ततः शिखण्डिनं द्रोणः शरैर्विशिखवर्षिणम् ।
हताश्वे सात्यकिरथं समारूढे शिखण्डिनि ।
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा तमाद्रवत्

6.355

मायया युध्यमानं तं गर्जन्तं राक्षसेश्वरम् ।
चकार विमुखं कोपाद्रौर्द्रेणास्त्रेण सात्यकिः

6.356

शैनेयेन जिते तस्मिन्निरावानर्जुनात्मजः ।
विन्दानुविन्दावभ्यायाज्जम्भारिसमविक्रमः

6.357

घटोत्कचमथायान्तं कृतान्तमिव भैरवम् ।
अवारयद्गजेन्द्रेण भगदत्तो नृपाग्रणीः

6.358

वीरं स हत्वा हैडम्बं पाण्डवानामनीकिनीम् ।
दर्पाद्विलोडयामास गजेन्द्रो नलिनीमिव

6.359

माद्रीसुतौ ततः शल्यं विधाय विरथं शरैः ।
चक्रतुर्विमुखं संख्ये राजचक्रस्य पश्यत

6.360

स्वयं युधिष्ठिरो राजा नृपं जित्वा श्रुतायुधम् ।
विगाह्य कौरवानीकं विदधे विमुखं शरैः

6.361

चेकितानेन विजिते गौतमे धन्विनां गुरौ ।
भीष्मश्चकार कदनं राज्ञामन्यत्र चार्जुनः

6.362

युधिष्ठिरगिरा वीक्ष्य भीष्माय समभिद्रवत् ।
शिखण्डिनं मद्रराजो दिव्यैरस्त्रैरवारयत्

6.363

भीष्मेण हन्यमानेषु भूपालेष्वनिवर्तिषु ।
पार्थेन च त्रिगर्तेषु जगामास्तं दिवाकरः

6.364

तमोभिरावृते लोके रणे रक्तासवाकुले ।
प्रमत्तैरिव वेतालैः शिबिराणि ययुर्नृपाः

6.365

***** सप्तमो युद्धदिवसः ॥ 28 ॥ *****
भीष्मेण सागरव्यूहे प्रातर्विरचिते पुनः ।
शृङ्गाटकं महाव्यूहं चक्रे द्रुपदनन्दनः

6.366

विदीर्णेष्विव सैन्येषु भीष्मचापच्युतैः शरैः ।
बभूवाभिमुखः कोपादेक एव वृकोदरः

6.367

स हत्वा सारथिं बाणैस्तूर्णं शन्तनुजन्मनः ।
द्रोणस्य च समुद्भ्रान्तपताकं विदधे रथम्

6.368

लब्धलक्ष्यस्ततो भीमः सप्त दुर्योधनानुजान् ।
जघान मदसंरब्धान्पञ्चानन इव द्विपान्

6.369

बह्वाशिनं कुण्डधारं विशालाक्षं सुदुर्जयम् ।
महोदरं मण्डितकं सुनाभं च निहत्य तान्

6.370

विद्राव्य कौरवचमूं ननादास्फालयन्दिशः ।
क्षयाय सर्वजगतां देवै रुद्र इवोदितः

6.371

इरावानथ विक्रान्तो विवेश कुरुवाहिनीम् ।
उलूपी नागललना फल्गुनाद्यमजीजनत्

6.372

कार्यं समारसाहाय्यं स्वयमित्यर्जुनेन सः ।
उक्तः पुरा सुरपुरे तां युद्धभुवमाययौ

6.373

रत्नकाञ्चनसंनाहैः स पातालतुरङ्गमैः ।
उह्यमानः शरैश्चक्रे फणिलोकमिवापरम्

6.374

स गत्वा विपुलानीकान्गान्धारान्हययोधिनः ।
शकुनेस्तनयान्सप्त जघान घनविक्रमान्

6.375

ततो दुर्योधनादिष्टो मायावी राक्षसाधिपः ।
अलम्बुसः समभ्यायादिरावन्तं रणोत्कटः

6.376

इरावनथ खङ्गेन छित्त्वा सपदि रक्षसः ।
स निषङ्गं धनुर्दीप्तं ननाद बलिनां वरः

6.377

ततो मायां समाश्रित्य महतीं मोहनीं नृणाम् ।
युयुधाते समाविश्य तौ नभो भीमविक्रमौ

6.378

इरावता निजास्त्रौघैर्हन्यमानस्य रक्षसः ।
घोरः समुदभून्नादः सर्वप्राणिभयंकरः

6.379

अथ साहाय्यकं चक्रुर्भुजङ्गा भुजगीभुवः ।
तद्वमन्तो विषं तीक्ष्णं भोगान्भोगभृतां वराः

6.380

राक्षसो ऽथ भृशं क्रुद्धो रूपमास्थाय गारुडम् ।
भक्षयित्वाखिलान्सर्पान्भीमं स्वं वपुराददे

6.381

मायाविमोहितस्याथ खङ्गेनारादिरावतः ।
जहार राक्षसं कायाच्छिरस्तलकुण्डलम्

6.382

हते धनंजयसुते हैडम्बः क्रोधमूर्छितः ।
रुराव येन वसुधा चचाल सकुलाचला

6.383

तमभिद्रुतमालोक्य राजा दुर्योधनः स्वयम् ।
सह सर्वैर्निजानीकैर्महामायमयोधयत्

6.384

विद्युज्जिह्वं वेगवन्तं महारौद्रं प्रमाथिनम् ।
हैडिम्बानुचरान्घोरान्स जघान निशाचरान्

6.385

शक्तिं घटोत्कचेनाथ प्रेरितां कुरुभुभूजे ।
महागजेन जग्राह वङ्गानामधिपः पुरः

6.386

नागे निपतिते तस्मिन्रक्षिते च सुयोधने ।
संहारं पुरुसैन्यानां चकार पिशिताशनः

6.387

भगदत्तो ऽथ विद्राव्य पाण्डवानामनीकिनीम् ।
सुप्रतीकेन नागेन घटोत्कचमयोधयत्

6.388

तनयं निहतं श्रुत्वा कुपितः शतमन्युजः ।
शिरोभिर्भूमिपालानां दुर्गमां वसुधां व्यधात्

6.389

भीमो ऽपि क्रोधसंतप्तो भ्रातुः पुत्रे निपातिते ।
सुयोधनानुजान्वीरान्प्राहिणोद्यममन्दिरम्

6.390

अनाधृष्टिं कुण्डलिनं कुण्डभेदिं सुलोचनम् ।
विराटं दीर्घबाहुं च सुबाहुं कनकध्वजम्

6.391

हत्वैतान्कौरवानीकं कबन्धशतसंकुलम् ।
विदधे मत्तवेतालनन्दने दिनसंक्षये

6.392

विस्रस्तचापकवचे भग्नस्यन्दनकुञ्जरे ।
रणे ऽवहारं सैन्यानां ततश्चक्रुर्महारथाः

6.393

***** अष्टमे युद्धदिवसे इरावद्वधः ॥ 29 ॥ *****
ततो निशायामनुजैः सह राजा सुयोधनः ।
कर्ममानाय्य पार्थानां पराभवमचिन्तयत्

6.394

वैकर्तनस्तमवदत्क्रियतां मद्वचः सखे ।
शस्त्रं न्यासय गाङ्गेयमहं जेष्यामि पाण्डवान्

6.395

एष वृद्धो निरीहश्च सपक्षश्च धनंजये ।
त्वया न्यस्तो ऽतिभारो ऽस्मिन्नविचार्यैव केवलम्

6.396

एतदाकर्ण्य कर्णोक्तं हर्षात्कर्मशतैरिव ।
उत्थाय भीष्मशिबिरं प्रतस्थे भ्रातृभिः सह

6.397

मणिदीपसहस्रांशुपिङ्गीकृतदिगन्तरः ।
नक्तं दीप्तौषधिवनः सकुलाद्रिरिवाबभौ

6.398

रत्नकुण्डलकेयूरकिरीटद्युतिनिर्जिताः ।
पुरो निष्प्रतिभा दीपास्तस्यासंल्लज्जिता इव

6.399

प्रणतान्दृक्त्रिमोदारैः भूमिपालान्विलोकयन् ।
नामभिर्विक्रभागेन सूचितान्वेत्रिमण्डलैः

6.400

स बभौ गतिलोलेन हारेण तुहिनात्विषा ।
सुधाकल्लोलजालेन पाददारेण मन्मथः

6.401

श्रीमान्संप्राप्य शिबिरं शुभ्रं शन्तनुजन्मनः ।
शयानं रत्नपर्यङ्के प्रणनाम विलोक्य तम्

6.402

राज्ञेति पूजितस्तेन कृतासनपरिग्रहः ।
दुर्योधनः क्षणं ध्यात्वा पितामहमभाषत

6.403

अयं जेता भृगुभुवः कार्मुकप्रमयी तव ।
भुजस्त्रैलोक्यविजये पर्याप्त इति मे मतिः

6.404

कारुण्यादानृशंस्याद्वा रक्ष्यास्ते यदि पाण्डवाः ।
तत्कर्णमनुजानीहि युद्धाय रणकर्कशम्

6.405

इत्युक्तः कुरुराजेन मर्मणीव समाहतः ।
प्रभाते द्रक्ष्यसीत्युक्त्वा निःश्वसन्क्ष्मामलोकयत्

6.406

कौरवो ऽपि तमामन्त्र्य निजं शिबिरमाययौ ।
दिशः शबलयन्क्षिप्तं दीपदीप्तौर्विभूषणैः

6.407

अथ प्रभाते भीष्मेण द्रोणद्रौणिमुखैः सह ।
विहिते सर्वतोभद्रे व्यूहे व्यूहाग्रवर्तिना

6.408

प्रतिव्यूहेष्वनीकेषु नदद्भिः पाण्डुनन्दनैः ।
अभिमन्युः कुरुचमूरग्रे वीरो व्यदारयत्

6.409

शरांशुशतदुष्प्रेक्ष्यं निदाघार्कमिवोद्यतम् ।
न सेहिरे तं भूपाला मानिनः संहता अपि

6.410

दुर्योधनप्रेरितो ऽथ रक्षःपतिरलम्बुसः ।
तमभ्यधावद्बिभ्राणो मायां त्रैलोक्यमोहिनीम्

6.411

तस्य नादेन महता जगत्प्रलयशंसिना ।
निपेतुः सहसा योधा बहवो विगतासवः

6.412

द्रौपदेयैः पुरः प्राप्तैः स विधाय रणं क्षणम् ।
अभिमन्युरधं बाणैः समं देहमिवाकरोत्

6.413

शरनिर्दारितेनाथ विहितां तेन रक्षसा ।
सौभद्रस्तामसीं मायां चिच्छेदार्कास्त्रतेजसा

6.414

अथ द्रौणिप्रभृतिभिः सात्यकिप्रमुखा युधि ।
संसक्ता गगनं चक्रुर्दिव्यास्त्रदहनाकुलम्

6.415

अर्जुनो द्रोणमभ्येत्य महास्त्रग्रामदुःसहम् ।
वायव्यास्त्रेण विदधे जगतां क्षोक्षविभ्रमम्

6.416

समुदीर्य च शैलास्त्रं द्रौणेन क्षपिते ऽनले ।
धनंजयः कुरुचमूं शरजालैरपूरयत्

6.417

भीमभीमगदाघातनिर्भिन्ने गजमण्डले ।
सुस्राव शोणितनदी पताकाफेनमालिनी

6.418

तस्मिन्नाकुलसंग्रामे वर्तमाने भयंकरे ।
वेतालदत्ततालेषु नृत्यत्सु च्छिन्नमूर्धसु

6.419

भीष्मः पृथुशरज्वालादुःसहः सुभटेन्धनः ।
जज्वाल चापक्रेङ्कारमन्त्रपूत इवानलः

6.420

तद्भुजप्रेरिताः क्षिप्रं सायका विविशुर्नुपान् ।
विहङ्गा इव सायाह्ने घनच्छायान्महीरुहान्

6.421

खद्योता इव वृक्षेषु शलभा इव शालिषु ।
भीष्मबाणा नरेन्द्रेषु पेतुर्हंसाः सहःस्विव

6.422

निकृत्तैश्चामरोष्णीषैश्छन्नाश्च पृथिवीभुजाम् ।
चकार समरे भीष्मः स्वयशोविषदा दिशः

6.423

राज्ञां शिरोभिः पृथिवीमास्तीर्य पुलकोज्ज्वलः ।
रणलक्ष्म्याः स विदधे केलिपद्माकरानिव

6.424

शिरस्त्रशरनिर्घर्षजाता वह्निकणा बभुः ।
राज्ञां हतानां भीष्मेण जीवा इव नभश्चराः

6.425

घनेन शरजालेन ग्रस्ता लोकेन सर्वतः ।
स चक्रे सर्वसैन्यानामकण्डरजनीभ्रमम्

6.426

विदीर्णे पाण्डवबले छिन्नवर्मरथध्वजे ।
गजानीकेषु भग्नेषु भाघशेषेषु राजसु

6.427

लज्जामुत्सृज्य यातेषु त्यक्तचापेषु केशवः ।
सत्यसंधं रणे भीष्मं जहीत्यर्जुनमब्रवीत्

6.428

धनंजयो ऽथ निःश्वस्य विषण्णवदनाम्बुजः ।
निन्दन्मुहुः क्षत्त्रधर्मं पितामहमुपाद्रवत्

6.429

दृषट्वा गाण्डीवधन्वानमुद्यतं शरवर्षिणम् ।
बले तूर्णमुपावृत्ते पुनर्युयुधिरे भटाः

6.430

भीष्मचापच्युतैर्बाणैश्छादितं वीक्ष्य फल्गुणम् ।
रथमुत्सृज्य कंसारिस्तमधावद्भुजायुधः

6.431

विलोक्य कुपितं भीष्मः स्वयं कृष्ममभिद्रुतम् ।
उवाच धन्यतामानी पुलकालंकृताकृतिः

6.432

पुण्यभाजामहं धुर्यो भगवन्कृतिनां वरः ।
यस्य त्वं जगतां नाथो वधाय स्वयमुद्यतः

6.433

इति वादिनि गाङ्गेये रथात्तूर्णं धनंजयः ।
अवरुह्य ततः कृष्णमानिनाय रथं पुनः

6.434

अथार्जुनशरासारैराकीर्णे कुरुकानने ।
पुनः शान्तनवश्चक्रे संहारं पृथिवीभुजाम्

6.435

घोरे व्यतिकरे तस्मिन्भग्ने सुभटमण्डले ।
अवहारमकुर्वन्त दिनान्ते पाण्डुनन्दनाः

6.436

***** नवमो युद्धदिवसः ॥ 30 ॥ *****
ततो राजन्यां विजने धर्मराजो जनार्दनम् ।
जगाद राजकं दृष्ट्वा भिन्नं भीष्मेण दुःखितः

6.437

पश्य कृष्ण प्रबुद्धेन गाङ्गेयवडवाग्निना ।
सैन्याम्बुधिरपर्यन्ते मम नीतो ऽल्पशेषताम्

6.438

मण्डलीकृतचापस्य सहस्रांशुशतत्विषः ।
भीष्मस्याखण्डलोप्यग्रे सत्यं परिभावास्पदम्

6.439

अलं राज्येन मे तावदिति वादिनि धर्मजे ।
उवाच शौरिर्योत्स्ये ऽहं स्वयं शन्तनुनन्दनम्

6.440

नाकार्य मे भवत्कार्यमुत्सृष्टसमयो ऽधुना ।
पालयामि रणे भीष्मं पश्यतां जगतीभुजाम्

6.441

एतदाकर्ण्य कृष्णोक्तं बभाषे पाण्डवाग्रजः ।
न मिथ्यावादिनं कामात्त्वां कुर्यामहमच्युत

6.442

जयोपायमितो गत्वा भीष्मं पृच्छामि भूतले ।
स हि मामाशिषा पूर्वं वात्सल्यात्समयोजयत्

6.443

इति निश्चित्य कृष्णेन भ्रातृभिश्च सहाशु कृत् ।
जगाम भीष्मशिबिरं गूढचारी युधिष्ठिरः

6.444

स प्रमम्यानुजसखः शौर्यराशिं पितामहम् ।
पप्रच्छ विजयोपायं स च पृष्टस्तमब्रवीत्

6.445

न तं पश्यामि लोकेषु वीरो मां विजयेत यः ।
जयलाभे च युष्माकं मयि जीवति का कथा

6.446

न विशस्त्रेन संत्रस्ते न स्त्रीपूर्वे ममेषवः ।
पतन्ति तस्मात्क्लीवेन मां घातय शिखण्डिना

6.447

उक्ते देवव्रतेनेति लज्जाविनमिताननः ।
अकाम इव दुःखेन ययौ स्वशिबिरं नृपः

6.448

ततः प्रभाते व्यूहेषु सैन्येषु सुभटैर्मिथः ।
शिखण्डिप्रमुखा वीरा परानीकमुपाद्रवन्

6.449

ततो भीष्मशरश्रेणीलुलिते राजमण्डले ।
शिखण्डी धुतकोदण्डश्चण्डकोपस्तमभ्यधात्

6.450

तमब्रवीच्छान्तनवः कामं प्रहर पार्षत ।
ननाम भीष्मविशिखाः पतन्त्यनुजने जने

6.451

इति वादिनमभ्येत्य मण्डलीकृतकार्मुकः ।
शिखण्डी निःश्वसन्कोपादापगेयमभाषत

6.452

जेतारं भार्गवस्यापि जानामि त्वां महौजसम् ।
युधि युध्यस्व वा मा वा न मे जीवन्गमिष्यसि

6.453

उक्त्वैतद्बाणजालेन पार्षतः समपूरयत् ।
रक्ष्यमाणः समभ्येत्य पश्चाद्गाण्डीवधन्वना

6.454

भीष्मो ऽपि तमनादृत्य विद्ध्वा कृष्णार्जुनौ शरैः ।
विवेश पाण्डवचमूं राजवेणुवनानलः

6.455

धृष्टद्युम्नमुखैर्वीरैः कौरवाणां तरस्विनाम् ।
दारुणो ऽथ प्रहारो ऽभूद्रजःपिहितदिड्भुखः

6.456

ततो द्रोणिप्रभृतयो वीरा द्रोणस्य शासनात् ।
रक्षन्तः समरे भीष्मं धनंजयमयोधयन्

6.457

ततः शान्तनवो राज्ञां शरैरशनिगौरवैः ।
मौलिरत्नांशुशबलं समुन्मथ्य विरोचनम्

6.458

आक्रीडमिव कालस्य विधाय कदनं रणे ।
अब्रवीत्कूणितमना दूरादेव युधिष्ठिरम्

6.459

वधाय कुरु कौन्तेय यत्नं मे नृपतिक्षयात् ।
विषण्णो ऽहं भृशं पुत्र रौद्रेणानेन कर्मणा

6.460

इति वादिनि गाङ्गेये शिथिलीकृतकार्मुके ।
सृञ्जयाः सह पाञ्चालैः सोमकैश्च सहाद्रवन्

6.461

ततः कुरुचमूवीराः पाण्डवानां महारथान् ।
आवार्य भीष्मरक्षायै द्वन्द्वं युद्धानि चक्रिरे

6.462

अथ गाङ्गेयविशिखैरप्रयत्नोज्झितैरपि ।
अवर्तत महारौद्रो राजजीवितसंक्षयः

6.463

तमभ्यधावदाकर्णाकृष्टकोदण्डलः ।
शिखण्डी खण्डपरशुप्रभावं फल्गुणेरितः

6.464

स्वयं दुर्योधनेनाथ प्रेरितां वीक्ष्य वाहिनीम् ।
तस्मिन्स्वभटसंहारे वर्तमाने पितामहः

6.465

उदीर्य घोरं दिव्यास्त्रमभ्यधावद्धनंजयम् ।
अथार्जुनस्याग्रमेत्य शिखण्डिनि पुरःस्थिते

6.466

विमाना इव गाङ्गेयो महास्त्रं संजहार तत् ।
ब्रह्मलोकाबिकामेषु युध्यमानेषु राजसु

6.467

वीराणां भीष्मविशिखैरयुतेषु पतत्सु च ।
दारयन्तं परानीकं तमेत्य वसवो ऽब्रुवन्

6.468

भीष्म संन्यासकालो ऽयं तवास्मदभिकाङ्क्षितः ।
ततः श्लथोद्यमे तस्मिन्प्रसन्ने भुवनत्रये

6.469

अर्जुनप्रमुखाः सर्वे सायकैस्तमपूरयन् ।
छिद्यमानेषु बालेषु तस्य तूर्णं किरीटिना

6.470

शिखण्डी प्राहिणोत्तस्मै हेमपुङ्खशरावलीम् ।
शैखण्डीं शरमालां तां शैरोषीमिव पेशलाम्

6.471

जग्राह प्रहसन्भीष्मः क्षणं स्थगितकार्मुकः ।
दुर्योधनसमादिष्टान्भीष्मस्य रथरक्षिणः

6.472

मोहयन्बाणजालेन फल्गुणस्तमवाकिरत् ।
विदार्यमाणो नीरन्ध्रैर्गाण्डीवान्निःसृतैः शरैः

6.473

दुःशासनं पार्श्वगतं भीष्मः सस्मितमब्रवीत् ।
नैते शिखण्डिनो बाणाः शिलासंघातभेदिनः

6.474

विशन्ति मम मर्माणि बिलं विषधरा इव ।
एते ते वज्रसंस्पर्शा निवातकवचच्छिदः

6.475

शरीरहारिणो घोराः किरातरणसाक्षिणः ।
इत्युक्त्वा पाण्डुपुत्राय शक्तिं चिक्षेप शक्तिमान्

6.476

तां च शक्रसुतस्तूर्णं चकार विशिखैस्त्रिधा ।
सर्वायुधेषु च्छिन्नेषु ततो गाण्डीवधन्वना

6.477

क्षणाद्बभूव दुर्लक्ष्यो भीष्मो निर्विवरैः शरैः ।
युध्यमानेषु वीरेषु भूताविष्टेष्विवाकुलम्

6.478

दारुमे तुमुले तस्मिन्निर्विभागे बलद्वये ।
अपराह्णे रथाद्भीष्मः सहस्रांशुरिवापरः

6.479

अस्पृष्टभूमिर्विशिखैः पपात महसां निधिः ।
तस्मिन्निपतिते वीरे केतौ सर्वधनुष्मताम्

6.480

महतामपि वीराणां हृदयानि चकम्पिरे ।
ततो निवृत्ते संग्रामे हाहाकारे नभःस्पृशिः

6.481

दिव्यं भेजे निजं भावमलुप्तात्मा पितामहः ।
आकम्पमाने भुवने वागुवाचाशरीरिणी

6.482

भीष्म कालं प्रतीक्षस्व योगवानुत्तरायणम् ।
सर्वज्ञ धारय प्राणान्स्वच्छन्दनिधनो हृदि

6.483

श्रुत्वैतत्परमं योगमाससाद सुरव्रतः ।
ततस्त्रिदशवाहिन्या विसृष्ट हंसरूपिणः

6.484

तमेवार्थं समभ्येत्य मुनयो भीष्ममब्रुवन् ।
स्थितो ऽस्मीति च गाङ्गेयो निगद्य यशसां निधिः

6.485

इरतल्पे गतः सर्वान्कुरून्भीतानसान्त्वयत् ।
प्रणतानथ संप्राप्तान्पुनः कौरवपाण्डवान्

6.486

अश्रुपूर्णेक्षणानूचे संभाव्य कुरुपुंगवः ।
धारणं लम्बमानस्य शिरसो मे विधीयताम्

6.487

श्रुत्वैतदुपधानेषु समानीतेषु राजभिः ।
जग्राह शासनात्तस्य त्रिभिः पार्थः शरैः शिरः

6.488

भीष्मस्तत्कर्मतुष्टो ऽथ प्रशशंस धनंजयम् ।
पाण्डवैः क्रियतां संधिरित्युवाच च कौरवम्

6.489

***** दशमो युद्धदिवसः ॥ 31 ॥ *****
ततो रजन्यां यातायामुपाविष्टेषु राजसु ।
सेव्यमानो मुनिजनैर्भीष्मो जलमयाचत

6.490

मणिकाञ्चनचित्रेषु कलशेष्वमलाम्भसः ।
समानीतेषु भूपालैर्व्यधान्मेघास्त्रमर्जुनः

6.491

तदुद्भूतेन पयसा गाङ्गेयस्तेन तर्पितः ।
नरावतारं प्रीतात्मा सादरं तमपूजयत्

6.492

महारथेषु यातेषु समामन्त्र्यापगासुतम् ।
कर्णः प्रसादयामास तदभ्यर्च्य कृताञ्जलिः

6.493

तमुवाच प्रसन्नात्मा वीतमन्युः पितामहः ।
भजस्व पार्थेषु शमं वीरास्ते भ्रातरस्तव

6.494

वैकर्तनस्तदाकर्ण्य जगाद विनताननः ।
जाने सर्वमवश्यं तु भवितव्यमिदं प्रभो

6.495

किंतु दुर्योधनस्यार्थे सुहृदो मानकारिणः ।
अनुजानीहि मां तात समराय समुद्यतम्

6.496

इति ब्रुवाणो भीष्मेण सो ऽनुज्ञातो वरूथिनीम् ।
प्रययौ कुरुपुत्राणां रथेन घननादिना

6.497

अथ कुरुवृषबाणामङ्गराजोत्सुकानां परपरिभवदीक्षाभग्नमानादराणाम् ।
पतिहितमनीकं साम्यमाप द्रुतानां सरयपवनपानीकम्पितानां वनानाम्

मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc