भारतमञ्जरी · अध्याय 12
इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां सौप्तिकपर्व
स्त्रीपर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
गान्धारी धृतराष्ट्रश्च राजा व्याकुलमानसौ ।
हतावथ सुतान्द्रष्टुं सोत्कण्ठाविव जग्मतुः
तत्र तौ विलपन्तौ च क्षिपन्तौ च तनुं भुवि ।
भगवानथ चाभ्येत्य पाराशर्यो व्यलोकयत्
स दीनं पतितं भूमौ हतपुत्रं नरेश्वरम् ।
विदुरेण सहोवाच कृष्णेन च कृपाकुलः
अभावः प्राक्च पश्चाच्च देहिनां सततं स्थितः ।
तेषु मध्यविकारेषु कः श्नेहं कर्तुमर्हसि
अपारे ऽस्मिन्भवाम्भोधौ भवन्ति न भवन्ति च ।
जलबुद्बुदवत्सर्वे कर्मयोगेन जन्तवः
सत्यं भूभारशान्त्यर्थमजायत सुयोधनः ।
स च यातस्तथा कृत्वा कस्त्वं तस्य स कस्तव
नरेन्द्र मा कृथाः शोकं प्रवृत्ते ऽस्मिन्महालये ।
प्रतीपमेति यातानां कणिकापि न पार्षदाम्
आयासाय प्रयासो ऽयं शोकव्यसनसंभवः ।
अधुना दुःखवृक्षाणां स्नेहो मूलं निवार्यताम्
नमः कालाय यः को ऽपि विद्यते मृत्युना वृतः ।
कायो वार्धकमायाति स्वयं येन शरीरिणाम्
आत्मापराधात्पुत्रास्ते कालेन कवलीकृताः ।
तस्मान्न पाण्डपुत्रेभ्यः किल्बिषात्क्रोद्धमर्हसि
धर्मनित्याः कृतधियस्ते धर्मेण क्षतास्तव ।
पाण्डवा भ्रातरं स्मृत्वा कालुष्यं तेषु मा कृथाः
गान्धारीं ब्रूहि सहसा मोहे मज्जति नो यथा ।
एषैवोक्तवती पूर्वं जये धर्मो निबन्धनम्
इति तेषां गिरा क्षिप्रं समोहं कौरवेश्वरम् ।
द्रष्टुमभ्याययुः पार्था लज्जानम्रशिरोधराः
आलिलिङ्ग ततो राजा प्रज्ञाचक्षुर्युधिष्ठिरम् ।
भीमं मायामयं पश्चात्कृष्णबुद्ध्या विवर्धितम्
आययौ मारुतिर्द्वेषाद्भुजाभ्यां तेन पीडितः ।
प्रययौ कणशस्तेन सर्वे विस्मयमाययुः
धर्मसूनुस्ततो वृद्धां प्रणनाम पतिव्रताम् ।
गान्धारीं भर्तृसादृश्यात्सदा वस्त्रावृतेक्षणाम्
अधो निपतितस्तस्याः पादयोर्धर्मनन्दनः ।
ददाहाङ्गुष्ठयुगलं दृष्टिकोपानलाकुलः
ततो हतानां दुःखार्ता वल्लभा जगतीभुजाम् ।
रणमध्यं प्रतिययुर्गान्धारी च स्नुषाकुला
विलप्य करुणं तत्र विह्वला सुबलात्मजा ।
बभाषे केशवं सास्रा दिव्यदृष्टिः पतिव्रता
पश्यैतान्कृष्ण मत्पुत्रान्सीमन्तिन्यो रणे हतान् ।
शोचन्ति याः पुरा दृष्टा न सूर्येण न चेन्दुना
पश्यान्तःपुरचारीभिरप्सरोभिरिवावृतः ।
संमुखं निहतः शूरो भग्नोरुस्तनयो मम
हतनागां हताश्वां च सुयोधनवधूरियम् ।
क्ष्मां सपत्नीमिवालोक्य पश्य मूर्च्छामुपागता
लब्धसंज्ञा शनैरेषा परिमृज्य रजश्चिरम् ।
राजराजस्य महिषी परिपृच्छति वल्लभम्
उत्सङ्गे मामिवादाय रत्नांशुकवतीं गदाम् ।
दोर्भ्यां च भुवमालिङ्ग्य कथं सुप्तो ऽसि भूपते
न ते कनकपर्यङ्के विलासशयने वृता ।
अस्मिन्नरपते सुप्ता रक्तक्षीबा कथं शिवा
एषः दुःशासनः शेते प्रियो रम्यस्तवानुजः ।
निपीतं राक्षसेनेव यस्य भीमेन शोणितम्
अयं ते दयितः पुत्रो लक्ष्मणः शत्रुणा हतः ।
सजीव इव वक्तुं त्वं नाथ किंचित्समीहते
दन्तस्तम्भाविव भ्रष्टावनङ्गङ्गनतोरणौ ।
सरलौ पातितावत्य(?) मन्येते कालदन्तिना
अयं ते मौलिरुचितश्चिरं मूर्ध्नि सुखोषितः ।
रोचिष्णुरिह विभ्रष्टः स्पृष्टः कान्तिपरिक्षयात्
पादाभ्यां रुधिरार्द्राभ्यां रणसंचारिणस्तव ।
वान्तेव सतता पीता राजचूडामणिच्छविः
लोकपाले त्वयि दिवं याते नन्दनकौतुकात् ।
धन्याभिमानितेवैका कीर्तिस्त्वदनुयायिनी
भ्राजिष्णुरत्नवलये दोष्णि कर्पूरपाण्डुरे ।
कस्यान्यस्य मही यातु शेषविश्रान्तिनिर्वृतिम्
यः स कङ्कण्झाङ्कारैर्व्यजनैर्विजितो नृपः ।
क्रव्यादपक्षिवातेने सो ऽयमद्यापि वीज्यते
इति दुर्योधनवधूं क्रोशन्तीं कौरवस्त्रियः ।
समाकृष्य विवेष्टन्ते पतिताः पश्य भूतले
इतः सुभद्रा सौभद्रं पुत्रकं पुत्रवत्सला ।
परिमार्ष्टि रजोदिग्धं स्तनौ दातुमिवोद्यता
अङ्के शशाङ्कसदृशं कृत्वेयं पत्युरुत्तरा ।
वदनं बाष्पधाराभिः प्रक्षाल्य परिपृच्छति
अयि नाथ तथा तत्तदुक्त्वा प्रणयपेशलम् ।
भूमिमालिङ्ग्य किं शेषे प्रियामद्य विहाय माम्
गाण्डीवधन्वनः पुत्रश्चक्रपाणेः स्वसुः सुतः ।
त्वं शक्रसदृशः शौर्ये कथमेको हतः परैः
इदं ते वदनं कान्तं कमलाकमलोपमम् ।
नूनमापास्यति स्मेरं धन्यः स्वर्गवधूजनः
नन्वनङ्गतयानङ्गस्त्वय्यभून्नोपमास्पदम् ।
सो ऽयमङ्गवधात्कान्त त्वयाद्य सफलीकृतः
शशाङ्कशङ्कया शङ्के त्वयि त्रिदिवगामिनि ।
करोति तारकापङ्क्तिः कण्ठे मुक्तावलीभ्रमम्
याहं त्वया नववधूः प्रत्यालापं पुरार्थिता ।
त्वां स्वयं भाष्यमाणां मां कथं न प्रतिभाषसे
क्व नु सर्वगुणग्रामगणनीयस्य ते गतम् ।
दाक्षिण्यं स्वर्गललनासक्तो यन्मामुपेक्षसे
पुनः कर्तुमशक्ये ऽस्मिन्धातुः सौभाग्यवर्णने ।
प्रहृतं त्वच्छरीरे यौर्धिक्तान्दग्धविलोचनान्
कुसुमायुधतुल्यस्य कुसुमायुधतैव ते ।
नूनं रणे ऽभूत्त्वां वीराः सेहिरे कथमन्यथा
एवं विलापिनीं बालां बलादाकृष्य पुत्रिकाम् ।
विराटपत्न्यो यान्त्येता रुदन्त्यः पत्युरन्तिकम्
सानुजः स सुतामात्यो विराटनृपतिर्हतः ।
वधूभिरावृतो भूमौ दिवीवाप्सरसां गणैः
एषा द्रोणशच्छिन्नं सुदोष्णा भर्तुराननम् ।
विलोक्य तारं क्रोशन्ती रुद्धा सख्येव मूर्च्छया
क्रव्यादलुप्तावयवं पश्य कर्णं वधूजनः ।
परायणं कौरवाणामालिङ्ग्यालिङ्ग्य शोचति
नाम्नि संकीर्तिते यस्य प्रापुर्निद्रां न शत्रवः ।
स त्वमद्य हतः शेषे धिक्कालस्य दुरन्तताम्
जम्भारिरभवद्यस्य वर्मकुण्डलयाचकः ।
सत्यसंधः कथं कणः कर्णशेषीकृतः खगैः
निसर्गविसरः सर्गः सर्वथा हतवेधसः ।
कृत्वा यः शक्रतुल्यत्वं न चक्रे कल्पसाक्षिणम्
इति प्रकीर्णाभरणाः क्रन्दन्त्यः कर्णयोषितः ।
दारयन्ति कुचाभोगं वृषसेनस्य मातरः
पश्य जामातरं कृष्ण हतं मम जयद्रथम् ।
बाला शोचिति मत्पुत्री न च जानाति शोचितुम्
एष शल्यो हतः संख्ये रिपुशल्यपराक्रमः ।
शल्यतामधुना यातः पश्यान्तःपुरयोषिताम्
पश्यास्य कृष्यते जिह्वा मद्रराजस्य वायसैः ।
राधेयस्यैष विदधे युधि तेजोवधं यया
पश्य द्रोणस्य समरे वह्नेः शान्तार्चिषो यथा ।
संस्कारः क्रियते विप्रैः क्रिमीनुत्सार्य मूर्च्छितान्
एष भूरिश्रवा वीरः सोमदत्तसुतो हतः ।
महिष्या शोच्यते वीरश्छिन्नबाहुः किरीटिना
रणयज्ञमहीयूपे यूपध्वजभुजे तव ।
निकृते जिष्णुना मन्ये यशो निर्लूनमात्मनः
लक्ष्मीकरेणुकालाने भूभारभुजगेश्वरे ।
शिवाकृष्टे विरौतीव दोष्णि ते कङ्कणावली
चन्द्रिकाभरणे हर्म्ये त्वत्प्रेमाभरणाः स्त्रियः ।
आलिलिङ्ग पुरा सो ऽयं विलासाभरणो भुजः
अर्थिकल्पद्रुमे दोष्णि च्छिन्ने ऽस्मिञ्शत्रुयोषिताम् ।
वैधव्यदीक्षागुरुतां वीर यास्यति को ऽपरः
हठकण्ठग्रहः प्रौढः को नाम हरिणीदृशाम् ।
केयूरकान्तिकलिकां कर्णपूरीकरिष्यति
इति प्रलापिनी वक्ति विह्वला कमलेश्वरम् ।
प्रवरं भूरियशसं भूरिश्रवसमात्मना
हितोपदेशविद्वेषी शुकुनिः पश्य भक्ष्यते ।
शिवाभिरशिवाचारो वेश्याभिरिव वित्तवान्
पृथिवी क्षपिता क्षिप्रं क्षुद्रैः कर्णान्तगामिभिः ।
इतः पूर्वमनेनाक्षैरितो बाणैः किरीटिना
इतः सुदक्षिणस्यैताः प्रियाः काम्बोजभूपतेः ।
हृदयानि प्रलापेन दारयन्त्यश्मनामपि
सौभद्रशरनिर्भिन्नं राजपुत्रं बृहद्बलम् ।
एताः कोमलकामिन्यः शोतन्ति शशिरोचिषम्
धृष्टद्युम्नसुता दीप्तहेममालाविभूषिताः ।
भान्त्येते द्रोणनिहता भ्रष्टा विद्याधरा इव
केकयो धृष्टकेतुश्च जयत्सेनश्च मागधः ।
वृद्धश्च राजा द्रुपदः सामात्यसुतबान्धवः
अलायुधो ऽलम्बुसश्च भगदत्तः श्रुतायुधः ।
विन्दानुविन्दावावन्त्यौ जलसंधः सुलोचनः
प्रवराः पार्थिवाश्चान्ये हता वीराः सहस्रशः ।
लब्धजीवा इवाभान्ति कान्ताभिः परिवारिताः
शक्तेनापि त्वया कृष्ण यस्मात्कामादुपेक्षिताः ।
सर्वक्षयाद्वा द्वेषाद्वा सर्वज्ञेन च लीलया
षङ्विंशे वत्सरे प्राप्ते वृष्णीनां समरे मिथः ।
तस्मात्तावापि भविता विपुलो बान्धवक्षयः
तवाप्यनुचितः को ऽपि वधहेतुर्भविष्यति ।
इत्युक्त्वा तारकरुणं रुरोद सुबलात्मजा
तामुवाच हसन्कृष्णः स्वेच्छासृष्टलयोदयः ।
विधिनैतत्पुरादिष्टं पुनरुक्तं त्वयोदितम्
अवश्यभाविनि शुचं क्षये ऽस्मिन्मा वृथा कृथाः ।
अवश्यं क्षत्रियसुते हन्ताहं किल विद्विषाम्
इत्युक्तवति दाशार्हे धृतराष्ट्रो युधिष्ठिरम् ।
गतिं पप्रच्छ वीराणां परिमाणं च संक्षये
तमब्रवीद्धर्मराजो लक्षणामधुरं रणे ।
विंशतिश्च सहस्राणि कोट्यः षडधिकाश्च षट्
वीराणां गणनार्हाणामस्मिन्नायोधने हताः ।
अप्रहृष्टा हता ये च ते गन्धर्वपुरं गताः
भयात्पराङ्मुखा ये च ते यक्षत्वमुपागताः ।
ये त्वखण्डितसत्त्वस्थास्ते ब्रह्मभुवनं श्रिताः
मेरुपार्श्वं प्रयातास्ते ये पद्भ्यां वाहनैर्हताः ।
प्रसादाल्लोमशस्यैतन्मुनेः पश्यामि दिव्यदृक्
इत्युक्त्वा धर्मतनयो हतानां जगतीभुजाम् ।
बन्धूनां चादिदेशाशु संस्कारं विभवोचितम्
इन्द्रसेनमुखाः सूताः संजयो विदुरस्तथा ।
युयुत्सुश्च गिरा तस्य तेषामन्त्यविधौ ययुः
माल्यैर्वस्त्रैरंलकारैर्भूषितास्ते महारथाः ।
चितानलेषु निहिताः स्वप्रतापमिवाविशन्
अथोदतिष्ठन्नारीणां संहतानामितस्ततः ।
मिथः कण्ठविलग्नानां करुणो रोदनध्वनिः
धृतराष्ट्रेण सहितः सानुगो ऽथ युधिष्ठिरः ।
अनुयातो नृपस्त्रीभिर्ययौ स्नातुमथापगाम्
श्रावितः कर्णवृत्तान्तं स मात्रा गूढसंभवम् ।
भ्रात्रे दुःखाद्ददौ तस्मै बाष्पमिश्रां जलाञ्जलिम्
स यथाविधि बन्धूनां विधाय स्वोचितां क्रियाम् ।
आदिदेश नृपस्त्रीणां क्रियायौ पटमण्डपान्
ता भूमिपालललना सरलायताक्ष्यो नेत्राम्बुनिर्झरविनिर्जिततारहाराः ।
भागीरथीमथ ययुः कलहंसमञ्जुकाञ्चीविराविपुलिनोरुनितम्बबिम्बाः
मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0