भारतमञ्जरी · अध्याय 13
इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्त्रीपर्व
शान्तिपर्वन्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
कृतोदकं कृताशौचं स्थितं सुरसरित्तटे ।
मुनयो ऽभ्याययुर्द्रष्टुं नारदाद्या युधिष्ठिरम्
तेषु प्राप्तासनार्घ्येषु पूजितेषु पुरोधसा ।
प्रीत्या प्रोवाच देवर्षिः पृष्ट्वा नृपमनामयम्
दिष्ट्या विराजसे राजन्कुशली निहताहितः ।
दिष्ट्या शल्यादयो वीरा याता वृत्रसमा क्षयम्
कच्छिन्न बन्धुविरहादवस्थां कातरोचिताम् ।
मोहादालम्ब्य धैर्यघ्नीं विजयं नाभिनन्दसि
इत्युक्ते दिव्यमुनिना निःश्वस्योवाच धर्मजः ।
श्मशानसदृशे राज्ये को ऽस्मिन्मोदेत मादृशः
गुरवः सुहृदः पुत्रा भृत्याः संबन्धिबान्धवाः ।
शरीरशेषैरस्माभिर्घातिता विभवार्थिभिः
यदर्थं राज्यमीहन्ते राजानो हतकण्टकम् ।
ते हताः स्वजनाः सर्वे गतो निष्फलतां श्रमः
इदं दहति मे चेतो यत्कर्णो विनिपातितः ।
स हि मे कथितः कुन्त्या भ्राता तपनसंभवः
पुरा विकारजः क्रोधस्तस्मिन्मम पुरःसरः ।
कुन्त्याः सदृशपादो ऽसाविति मार्दवमाययौ
ऐश्वर्यलुब्धैरस्माभिर्निहतः स सहोदरः ।
नरकापरपर्यायं धिग्राज्यमधुना मम
अस्मदर्थे रहो मात्रा याचितः स महायशाः ।
काले काले ररक्षास्मान्पतितान्वधगोचरे
श्रोतुमिच्छामि भगवंस्तस्य शापो यथाभवत् ।
इति राज्ञा विषण्णेन पृष्टः प्रोवाच नारदः
युष्मद्देषात्पुरा कर्णो भारद्वाजमयाचत ।
ब्रह्मास्त्रं तच्च न ददौ द्रोणो ऽस्मै फल्गुणप्रियात्
ज्ञातव्यं ब्राह्मणेनैतदित्युक्तस्तेन दुःखितः ।
विप्रवेषं विधायाशु जामदग्न्याश्रमं ययौ
अन्येवासी भृगुभुवः सो ऽथ ब्रह्मास्त्रयाचकः ।
विचचार चिरं धन्वी महेन्द्रगिरिसानुषु
तं कदाचिद्दिजः कश्चिदज्ञानावाप्तकिल्बिषम् ।
शशापात्यन्तकुपितो होमधेनुनिकारतः
मोहादपकृतं यस्माद्धोमधेनोर्मम त्वया ।
सक्तस्य शत्रुणा तस्माद्भूस्ते चक्रं ग्रसिष्यति
इति शप्तः स विप्रेण दह्यमान इवानिशम् ।
आराध्य रामं ब्रह्मास्त्रमवाप विपुलश्रमः
ततः कदाचित्संजातविस्रमवाप भृगुसंभवः ।
कर्णस्याङ्के शिरः कृत्वा सुष्वाप व्रतकर्षितः
अत्रान्तरे कृमिस्तीक्ष्णदंष्ट्रोष्ठचरणः कृशः ।
अदशद्दारुणः कर्णमलर्को नाम दुःसहः
गुरुप्रबोधचकितो यावत्सेहे स तद्व्यथाम् ।
तावत्तद्रुधिरासिक्तो निद्रां तत्याज भार्गवः
किमेतदिति संभ्रान्तः शोणितस्पर्शकूणितः ।
दष्टं राधेयमालोक्य ददर्श विकृताकृतिम्
रामेण दृष्टमात्रो ऽथ भस्मीभूतः कृमिः क्षणात् ।
राक्षसो लोहितग्रीवः प्रदीप्ताक्षो बभूव सः
सो ऽब्रवीद्भृगुभार्यायां चापलादभिलाषुकः ।
गृध्रो नाम सुरारातिः शप्ते ऽहं मुनिना पुरा
तच्छापान्निरयं यातः पापां योनिमिमां विभो ।
त्वत्संदर्शनपर्यन्तां प्रपन्नः क्षपिता च सा
इत्युक्त्वा राक्षसे याते कर्णं पप्रच्छ भार्गवः ।
कस्त्वं नासि द्विजो नूनं क्षत्त्रस्तीव्रव्यथासहः
श्रुत्वैतच्चकितः कर्णो निजं तस्मै न्यवेदयत् ।
कुलं नाम च येनाशु तं शशाप रुषा गुरुः
ब्राह्मणच्चद्मना यस्माद्ब्रह्मास्त्रं प्राप्तवानसि ।
तस्मात्तवैतत्पर्यन्ते विनाशमुपयास्यति
निरस्तो भार्गवेणेति कर्णः प्राप्य सुयोधनम् ।
युष्मत्संघर्षसौहार्दात्तेनाङ्गेषु कृतः पतिः
चित्राङ्गदस्य तनयां कलिङ्गनृपतेः पुरा ।
तद्बाहुबलमाश्रित्य जहार धृतराष्ट्रजः
तस्मिन्स्वयंवरे कर्णः कुपितं राजमण्डलम् ।
याते दुर्योधने पूर्वमेको दर्पदयोधयत्
जित्वा समस्तभूपालाञ्जरासंधं यशोनिधिः ।
संदेहदोलामनयन्नियुद्धेन बलोद्धतः
जरासंधो ददौ तस्मै मालिनीं नगरीं जितः ।
अन्ये च तत्यजुर्वीरा भागं भागं नरेश्वराः
वञ्चितः स सुरेन्द्रेण वर्मकुण्डलहारिणा ।
शप्तः पूर्वं द्विजेन्द्रेण गुरुणा भार्गवेन च
प्राज्ञयामन्त्रितः कुन्त्या गाङ्गेयेन तिरस्कृतः ।
शल्येन तेजसः शान्त्यै श्रावितः परुषा गिरः
हतः कृष्णधिया धीरो दिव्यास्त्रैः शक्रजन्मना ।
अन्यथा समरे हन्यात्कस्तमूर्जितविक्रमम्
नारदेनेति कथिते शोकार्तं धर्मनन्दनम् ।
उवाच कुन्ती धैर्येण विधूय तनयव्यथाम्
रविणाप्यर्थितः संधिं बुबुधे न विधेर्वशात् ।
युष्मद्द्वेषी स सततं मया स्वयमुपेक्षितः
यातः स सूर्यसदनं संमुखं समरे हतः ।
मा शुचः प्राप्तमधुना भुङ्क्ष्व राज्यमनाकुलः
न लेभे शर्म विपुलान्कर्णस्य कलयन्गुणान् ।
सो ऽब्रवीद्गूहनान्मातुरज्ञातो ऽस्माभिरग्रजः
यस्मात्तस्माद्भविष्यन्ति च्छिन्नसत्त्वा सदा स्त्रियः ।
भैक्ष्येण फलमूलैर्वा वृत्तयः सन्त्यवारिताः
तास्त्यक्ताः कथमस्माभिर्घोरः सर्वक्षयः कृतः ।
लोभाद्धर्मं परित्यज्य प्रज्ञाहीनैरभिक्षवत्
ध्यात्वास्माभिः कुलाचारं विक्रीता त्रिदिवे गतिः ।
अहो श्वभिरिवास्माभिर्घोरः सर्वक्षयः कृतः
अङ्गक्षयावधि क्षुद्रैः कलहो विपुलः कृतः ।
मित्त्रबनधुवियोगोग्रग्राहसंसारवारिधिम्
संगत्यागप्लवो नैष तरामि वितरस्पृहः ।
अर्जुनः पृथिवीं वीरो रक्षत्वस्मासु गौरवात्
त्यजाम्यायासविरसामेतां कुत्सितजीविकाम् ।
इत्युक्त्वति संतप्ते धर्मपुत्रे धनंजयः
उवाच कोपताम्राक्षः क्षणमालोकयन्क्षितिम् ।
अहो नु देवशप्तानां दुःखान्यन्ते सुखान्यति
तत्सर्वेष्वपि शोचन्ति सर्वथा विधिवञ्चिताः ।
हासाय साधुगोष्ठीषु संन्यासो ऽयं तवाधुना
नष्टामर्थयमानस्य प्राप्तां च त्यजतः श्रियम् ।
अवस्थाविपरीतेषु क्लीबकार्येषु मज्जताम्
संन्यासो दीर्घसूत्राणामालस्यमभिधीयते ।
लज्जाकरमतो लोके किमन्यत्प्राज्ञगर्हितम्
यत्सर्वं त्यजति क्षिप्रं नरः क्षीब इवाम्बरम् ।
अपूर्वमिदमारब्धं भवता व्यसनाधिकम्
न कदाचिच्छ्रुतो ऽस्माभिः किल भिक्षाशनो नृपः ।
क्रमप्राप्तामिमां लक्ष्मीं भज राजन्नविक्रियः
धनिनामेव धन्यानां यज्ञदानादिकाः क्रियाः ।
यथा हि शोच्यस्त्यक्तार्थो न तथा त्यक्तजीवितः
व्यसुर्मुहूर्तं निधनो निर्धनस्तु सदा मृतः ।
इमां वसुमतीं राजन्मान्धातृनहुषोपमः
अवाप्य विविधैर्यज्ञैर्यजस्व बहुदक्षिणैः ।
इति शक्रसुतेनोक्तो धर्मसूनुरभाषत
श्रोतुमर्हसि मे पार्थ हित्वा ग्राम्यसुखस्पृहाम् ।
शीर्णपर्णलवाहारः समः शान्तप्रियाप्रियः
स ब्रह्मचारी विपिने कुरङ्गाणां विहारिणाम् ।
धिया न चिन्तये किंचिन्मौनी विगलिताग्रहः
निराहारो भविष्यामि संसारोच्छित्तये मुनिः ।
इति ब्रुवाणं राजानमभ्यधान्मारुतात्मजः
बत देव जडस्येव बुद्धिस्ते दुर्ग्रहे दृढा ।
अघातयित्वा पृथिवीं किं नैषा धीस्त्वया कृताः
किं जलाहृतयन्त्रेण निर्दग्धे नगरे ऽग्निना ।
राजन्न पश्चिमवयाः सर्वत्यागी न शोभसे
मधुमासु इवाशोकः सहसा शुष्कपल्लवः ।
पाप्तां पाणपणेनाथ श्रमेण पृथिवीमिमाम्
त्यजतस्तव सावज्ञं मोहादन्यत्किमुच्यते ।
विधूय विघ्नसंमर्दमास्थाय स चिरान्निधिम्
पदा क्षिपसि किं राजन्गतं न प्राप्यते पुनः ।
तैस्तैः प्राणपरित्यगैः कान्तमाहृत्य गत्वराम्
मधुमत्तो यथा शेते तथा त्वं कर्तुमुद्यतः ।
संन्यासविप्रलब्धात्मा न स्थितिं हातुमर्हसि
मुक्ता वृक्षा न दृश्यन्ते मोक्षश्चेत्त्यक्तकर्मणाम् ।
किं वान्यत्पतिताः सर्वे तदैव व्यसने वयम्
यदैव त्वं ग्रामकामस्त्वं धात्रा ज्येष्ठः कृतो ऽसि नः ।
पुरा वने ग्रामकामस्त्वं ग्रामे ऽद्य वनोत्सुकः
तिष्ठत्यङ्के न च स्कनधे कष्टं बाल इवातुरः ।
सत्त्वशीलाः स्वकर्मस्था मुच्यन्ते गृहमेधिनः
वने कुरङ्गमातङ्गा न तु दृष्टा दिवं गताः ।
इत्युक्ते बीमसेनेन पुनरूचे धनंजयः
राजन्नस्ति गृहे मोक्षो धन्यानां विघसाशिनाम् ।
अजातश्मश्रवो बालाः पुरा ब्राह्मणपुत्रकाः
अकाले श्रितवैराग्या वनमेत्य प्रवव्रजुः ।
संजातकरुमस्तेषु पक्षिरूपी पुरंदरः
प्रशशंस तदभ्यासे गृहस्थान्विघसाशिनः ।
हिरण्मयस्य शुकनेस्ते श्रुत्वा भाषितं द्विजाः
आत्मानं मेनिरे मूर्खाः प्रहृष्टा विघसाशिनम् ।
शकुनिः सो ऽथ तैः पृष्टो जगाद विहसन्निव
रूक्षाः कृशा मलादिग्धा विपिने कष्टवृत्तयः ।
दुःखैकभागिनो नित्यं न यूयं विघसासिनः
सायं प्रातर्विभज्यान्नं विधिवद्गृहमेधिनः ।
भृत्यार्थिशेषं ये ऽश्नन्ति ते धन्या विघसाशिनः
तेषां पुण्यैरपर्यन्तैर्दिवि लोकाः सनातनाः ।
गृहादाश्रमिणः सर्वे जीवन्त्यभ्रादिव प्रजाः
एवं ते बोधिता युक्त्वा स्वगरूपेण वज्रिणा ।
वनवासं परित्यज्य द्विजाः स्वगृहमाययुः
गतिज्ञः सर्वधर्माणामाचार्याणां च तत्त्ववित् ।
त्वमप्येवं महीपाल न स्थितिं त्यक्तुमर्हसि
अर्जुनेनेति कथिते माद्रीपुत्रावथोचतुः ।
भज राज्यमनायासमिदमुद्धृतकण्टकम्
साम्राज्यविजयी यज्वा पाहि भूमिपते प्रजाः ।
यमाभ्यामित्यभिहिते प्रिया प्रणयिनी प्रियम्
द्रौपदी धर्मतनयं बभाषे वल्गुवादिनी ।
त्वदाज्ञाकारिणो वीरा भ्रातरस्त्रिदशत्विषः
अनुत्साहेन ते पश्य लिखन्त्येते मृषा भुवम् ।
यदेतैर्दुष्करं कर्म समरे कृतमोजसा
तदद्य राज्यभागेन सफलं कर्तुमर्हसि ।
अधोमुखानां श्वसतां निष्फलारम्भदुःखिनाम्
प्रणयैर्मानयैतेषामभिननद्य पराक्रमम् ।
अक्लीबचरितो राजन्राज्यं निजभुजार्जितम्
भजस्व विजयोत्थानां न क्लीबाः संपदां पदम् ।
इत्युक्ते कृष्णया जिष्णुः पुनर्नृपमभाषत
लोकस्य पालनात्सम्यग्राजानः स्वर्गगामिनः ।
स्वधर्मेषु प्रवर्तन्ते राजदण्डभयात्प्रजाः
मिथो मत्स्या इवाश्नन्ति जना दण्डविवर्जिताः ।
यत्र संनिहितो दण्डः श्यामो लोहितलोचनः
तत्र वेदैश्च यज्ञैश्च वर्धन्ते धर्मसंपदः ।
तैस्तैस्तपोभिरुचितैर्यत्फलं शान्ततोजसाम्
तदेव दण्डधारस्य धर्मभ्रातुर्महीभृतः ।
जनकं राज्यविमुखं यियासुं काननं पुरा
उवाच पत्नी प्रणयान्मधुरं धर्मवादिनी ।
राजन्वने न मोक्षो ऽस्ति बन्धो नास्ति गृहेषु च
स्वकर्मणि प्रवृत्तानामपवर्गो विवेकिनाम् ।
अमुण्डितस्पृहा मुण्डा बहिरन्तः कषायिणः
दम्भधर्मध्वजा लोके कथ्यन्ते धर्मवादिभिः ।
तस्माद्राज्ये ऽपि भवता वर्तमानेन सर्वदा
लभ्यः सत्यमसक्तेन सुखिना संसृतिक्षयः ।
इत्युक्तो मैथिलः पत्न्या जीवन्मुक्तदशां श्रितः
ययावत्यक्तराज्यो ऽपि परमं धाम शाश्वतम् ।
फल्गुणेनेति कथिते देवस्थाने प्रशंसति
मुनिः प्रवृत्तधर्मं च कृष्णद्वैपायनो ऽब्रवीत् ।
प्रजानां पालनं सम्यक्स्वधर्मस्ते महीपते
अरण्यगमनं राज्ञामकाले स्थितिविप्लवः ।
सिद्धिं प्रकृतिनो(तो) याताः सुद्युम्नप्रमुखा नृपाः
तपःक्लेशैरसंस्पृष्ट यथावद्दण्डधारणात् ।
भ्रातरौ प्राड्मुनिवरौ श्रुतिस्मृतिविशारदौ
अभूतां शङ्खलिखितावाचारनिशितव्रतौ ।
कदाचिदाश्रमे भ्रातुः स्वयमादाय पादपात्
फलानि लिखितो मोहाद्भुक्तवान्प्रणयादिव ।
तमभ्येत्याब्रवीच्छङ्खो धर्मभ्रंशभयाकुलः
स्तैन्यमेतन्न जानीषे कस्मात्परफलाशनम् ।
गच्छ पापं कृतं भ्रातः स्वयं राज्ञे निवेदय
इत्युक्तो लिखितस्तेन सुद्यम्नं वसुधाधिपम् ।
श्रुत्वाचचक्षे दण्डार्थीं स स्वयं फलभक्षणम्
तमभ्यधात्क्षितिपतिर्भगवन्विपुलव्रताः ।
यूयं प्रमाणं धर्माणां शुचिर्गच्छ वरान्मम
इत्युच्यमानो राज्ञापि दण्डमेव पुनः पुनः ।
सो ऽयाचत सदाचारभ्रंशभीरुर्नरेश्वरम्
ततस्तस्य करच्छेदमादिदेश महीपतिः ।
छिन्नहस्तः स च ययौ प्रहृष्टो भ्रातुरन्तिकम्
तद्गिरा च पुनर्दद्यां स्नात्वा जातकरद्वयः ।
स बभूव तपोयोगात्प्रशान्तानुशयज्वरः
सुद्युम्नो ऽपि प्रजानाथः सम्यग्दण्डस्य धारणात् ।
तपःसमुचितांल्लोकानवाप यशसां निधिः
***** सुद्युम्नोपाख्यानम् ॥ 1 ॥ *****
तस्मात्पालय भूपाल क्षत्त्रधर्मे स्थितः प्रजाः ।
क्षयं कालकृतं वीक्ष्य मा च शोके मनः कृथाः
भूत्वा भूत्वा प्रलीयन्ते कालेन कलिताः किल ।
लोकाः कालकलाजलैश्चित्रश्चायं भवश्रमः
उक्तं सेनजिता राज्ञा पुरा राजन्विवेकिना ।
दुःखे दृढं मनः कुर्यान्नर्तिशोकगदौषधम्
शोचतां धृतिहीनानां न शान्तिर्जायते क्वचित् ।
दुःखैरायान्ति दुःखानि धनानीव धनैर्नृणाम्
दृष्ट्वा जगति जन्तूनां काले काले भवाभवम् ।
फलानामिव कालज्ञः को ऽनुशोचति तत्त्वधीः
जनकेन पुरा पृष्टो जगाद ब्राह्मणो ऽश्मकः ।
स्वभावनश्वरान्भावान्न शोचन्ति विवेकिनः
न कश्चिद्दृश्यते ऽत्येतुं स्थावरेषु चरेषु च ।
शक्तो ह्यायुषि मर्यादां यः कालविहितां भवेत्
धनमायुः शरीरं च जातिस्तरुणता तथा ।
भजन्ते कालवैचित्र्यान्नानारूपविपर्ययम्
उच्चा नीचत्वमायान्ति विशीर्यन्ते च संहताः ।
भवन्ति किल कालेन निम्नान्युच्छ्रायवन्ति च
हीनवंशाः कुलीनत्वं धनिनश्च दरिद्रताम् ।
यान्ति मूर्खाश्च वैदुष्यं दौर्भाग्यं सुभगास्तथा
स्वल्पायुषश्च राजानो दरिद्राश्च शतायुषः ।
जराभग्नाश्च दृश्यन्ते रसायनविचक्षणाः
धनिनो व्याधिसंतप्ता दरिद्राश्च निरामयाः ।
आयुर्वेदविदो यान्ति तरुणा एव पञ्चताम्
मूर्खाः सदाचाररताः पण्डिता धर्मवर्जिताः ।
भवन्ति कालविहतैस्तैस्तैः किल विपर्ययैः
अपि त्रैलोक्यकर्तारस्चतुर्मुखमुखाः सुराः ।
न हि कालकटाक्षेण लक्षितं रक्षितुं क्षमाः
श्रीमतां हीनवित्तानां धीमतां जडचेतसाम् ।
तुल्यं निरनुरक्तो हि कालपण्यगृहे क्रयः
कालानिलविलोलानां देहिनां भवकानने ।
द्रुमाणामिव जायन्ते मिथो नित्यं गमागमाः
अकस्मात्संगतो नाम यद्यकस्माद्विनश्यन्ति ।
शोकः किं तत्र जन्तूनां सततं हि गतागतम्
न वियोगेषु संतापः कार्यः किल विवेकिभिः ।
अभावानुभवे भावा भवे हि क्षणभङ्गिनः
अश्मकेनेति कथितं कथयित्वा मुनीश्वरः ।
विरराम समालोक्य गाढशोक युधिष्ठिरम्
***** अश्मकगीता ॥ 2 ॥ *****
अथार्जुनेन प्रणयात्प्रेरितः पुष्करेक्षणः ।
भगवान्कैटभारातिर्धर्मसूनुभाषत
विषादं मा वृथा राजञ्शरीरोच्छोषणं कृथाः ।
तेषां हतानां वीराणां न शोकात्पुनरागमः
एके ऽद्य प्रातरपरे पश्चादन्ये पुनः परे ।
सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते
नूनमक्षयमात्मानं मोहात्सर्वो ऽभिमन्यते ।
यत्पुरःस्थितनाशो ऽपि नष्टञ्शोचति नश्वरः
ते जनास्ते प्रभावाश्च ताश्च प्रज्वलिताः श्रियः ।
हेलया किल कालेन प्रापिताः स्मृतिशेषताम्
सृञ्जयं नाम भूपालं भगवानेष नारदः ।
कृपयाश्वासयन्नूचे पुत्रशोकाकुलं पुरा
राजन्प्राप्तावधिं पुत्रं यातं किमनुशोचसि ।
सर्वं जगत्सहास्माभिः पर्यन्ते न भविष्यति
मतुत्तः पृथिवीपालः कालेन निधनं गतः ।
यस्यासन्भुवि गीर्वाणाः सेन्द्रा यज्ञसभासदाः
ववर्ष कनकं यस्मै वत्सरं पाकशासनः ।
अभूद्बृहस्पतिभ्राता संवर्तो यस्य याजकः
सुहोत्रश्च महीनाथः कथाशेषत्वमागतः ।
यो यथार्थां वसुमतीं चक्रे काञ्चनवृष्टिभिः
बृहद्रथश्च नृपतिर्यातो ऽस्तं रथिनां वरः ।
यस्य यज्ञे सुरपतिः सोमं पीत्वा मुदं ययौ
शिबिरौशीनरः पृथ्वीमेकच्छत्रां शशास यः ।
स धुर्यः सर्वदात्तॄणां प्रयातः कीर्तिशेषताम्
सहस्रेणाश्वमेधानां राजसूयशतेन च ।
ईजे यः सो ऽपि भरतः कालेन त्रिदिवं गतः
स च दाशराथी रामो दशकण्ठकुलान्तकः ।
यातः पर्यन्तपदवीं गीयमानगुणः सुरैः
भगीरथश्च भूपालस्तपसा यस् जाह्नवी ।
अवाप शंकरशिरः स कालस्येच्छया गतः
सो ऽपि स्मृतिदशां प्राप्तो दिलीपः पृथिवीपतिः ।
यूपे हिरण्मये यस्य ननृतुस्त्रिदिवौकसः
अयोनिजश्च मांधाता स सर्वविजयी नृपः ।
गतः शक्रादयो देवा यस्यासन्कान्तविक्रमे
ययातिरपि कालेन क्ष्मापालः प्रलयं गतः ।
देवासुररणे वीरो यो जघानामरद्विषः
यशः शरीरमविशत्सो ऽम्बरीषश्च पार्थिवः ।
यस्य शासनमम्लानं नृपा माल्यमिवावहन्
शशबिन्दुर्नरपतिः सो ऽप्यन्तपदमाश्रितः ।
अभूत्कोटिशतं यस्य पुत्राणां शक्रवर्चसाम्
गतो गयश्च नृपतिर्यः काञ्चनमयीं महीम् ।
प्रददौ यस्य संख्यां च यज्ञानां न प्रचक्षते
प्रयातो रन्तिदेवश्च यज्ञेषु पशुचर्मभिः ।
स्रुतैः प्रवर्तिता तेन पुण्या चर्मण्वती नदी
अतीतः स च भूपालः सगरो येन सागराः ।
षष्ट्या पुत्रसहस्राणां कृतास्तुरगरक्षिणाम्
वैन्यश्च यो धनुष्कोट्या पर्वतान्करोत्पृथक् ।
सो ऽपि शक्राधिपो राजा प्रियं तत्याज विग्रहम्
एते चान्ये च भूपालाः कालेन कवलीकृताः ।
मा शचस्तव मद्वाक्यात्पुत्रः सृञ्जय जीवतु
इत्युक्त्वा नारदो राज्ञः कनकष्ठीविनं सुतम् ।
तं सहस्रायुषं चक्रे जीवयित्वा कृपानिधिः
***** षोडशराजकीयम् ॥ 3 ॥ *****
कथं स काञ्चनष्ठीवी सृञ्जयस्य सुतो ऽभवत् ।
पृष्टो धर्मसुतेनेति पुनरुचे चतुर्भुजः
सृञ्जयस्य क्षितिपतेस्तथा नारदपर्वतौ ।
देवर्षी तस्थतुर्गेहे मर्त्यलोकविहारिणौ
वक्तव्यं हृद्गतं सर्वं मिथस्ताविति संविदम् ।
चक्रतुस्तत्र सहितौ प्रीत्या प्रणयशालिनौ
सॄञ्जयस्तत्सपर्यायै कन्यां लावण्यभूषणाम् ।
यथार्थनाम्नीं तनयां सुकुमारीं समादिशत्
बालां परिचरन्तीं तां हरिणीहारिलोचनाम् ।
निर्वर्णयन्ननिमिषो नारदो ऽबूत्स्मराकुलः
तं तस्य हृद्गतं भावं गूहमानस्य लज्जया ।
स्वस्रीयः पर्वतः क्षिप्रं बुबुधे ज्ञानचक्षुषा
मर्यादाभ्रंशकुपितः स शशापाथ मातुलम् ।
पतिर्वानररूपो ऽस्याः सुकुमार्या भविष्यसि
इति तेन रुषा शप्तः कोपात्तमपि नारदः ।
शशापाश्वर्गगो भूयाद्भवानिति सुतं स्वसुः
वितीर्णां सृञ्जयेनाथ कन्यां कालेन नारदः ।
तां प्राप्योद्वाहसमये क्षणाच्चासीत्तथविधः
सापि तद्विधमासाद्य भर्तारं नारदं सती ।
अनन्यमनसा मेने तं नेत्रामृतनिर्झरम्
शमयित्वा मिथः शापं प्रशान्ते मन्युविप्लवे ।
प्रीत्या बभूवतुः स्वस्थौ तौ परित्यज्य विक्रियाम्
त्यक्तवानररूपं च सुकुमारी पतिव्रता ।
शङ्किता नारदं भेजे चिरेण ज्ञाततत्कथा
अतः शेषां कथामेष स्वयं वदतु नारदः ।
इत्युक्त्वा विरते कृष्णे तमपृच्छद्युधिष्ठिरः
मुनिस्तेनाब्रवीत्पृष्टस्तथाहं पर्वतानुगः ।
उषित्वा सृञ्जयगृहे परितोषमुपागतः
अस्मद्वरात्ततो राज्ञः सृञ्जयस्य सुतो गतः ।
यथार्थं काञ्चनष्ठीवी न सेहे तं शतक्रतुः
तं शिशुं जाह्नवीतीरे केलिसक्तं यदृच्छया ।
अघातयत्सुरपतिर्वज्रेण व्याघ्ररूपिणा
सृञ्जयस्तं हतं दृष्ट्वा पुत्रं राजीवलोचनम् ।
शुशोच विषमायासमूर्छाविह्वलमानसः
प्रलापमुखरं क्ष्मापं तं विलोक्याहमाकुलम् ।
कृपयाजीवयं तस्य स्वर्णष्ठीविनमात्मजम्
मद्वरात्स सहस्रायुर्भुक्त्वा वसुमतीमिमाम् ।
कालेन यातस्त्रिदिवं स्थायिनो न हि देहिनः
***** स्वर्णष्ठीव्युपाख्यानम् ॥ 4 ॥ *****
नारदेनेति कथिते व्यासेनापि मुहुर्मुहुः ।
बोधितो धर्मतनयः शोकार्तः पुनरब्रवीत्
लोभान्धं पतितं धिङ्भामस्मिन्किल्बिषसंकटे ।
भोगाशया कृतो येन गुरुबन्धुसुतक्षयः
पुनः पुनरिमां हुत्वा वह्नौ पातकिनीं तनुम् ।
क्षयं यास्यति मन्ये नो न भीष्मवधपातकम्
इति शोकानलक्रान्तं विलपन्तं युधिष्ठिरम् ।
उवाच लोकस्थितये पराशरसुतो मुनिः
संग्रामजीविनां राज्ञां धर्मः शत्रुवधः सदा ।
कृत्वा कुलोचितं कर्म मा विषादं वृथा कृथाः
कीर्तनैरनुतापैश्च प्रायश्चित्तैर्महाबलैः ।
दानैस्तीर्थाभिषेकैश्च पापानामस्ति निष्कृतिः
निजधर्मपरित्यागात्त्वं तु राजन्सकल्मषः ।
यजस्व हयमेधेन मिथ्या यदि विशङ्कसे
प्रजाः पालय विस्रब्धं हतनाथाश्च योषितः ।
निहातारातिपुत्राणां पुत्रवत्पश्य कन्यकाः
इति ब्रुवाणो भगवान्राज्ञा पृष्टो मुनिः पुनः ।
उवाच सर्वपापानां प्रशान्तिं शान्तविप्लवः
सत्कर्मणामकरणान्निन्दितानां च सेवनात् ।
पश्चात्तापमनासाद्य प्रायश्चित्तं नरोर्ऽहति
कपाली द्वादश समाश्चरन्भैक्ष्यमसंवृतः ।
ब्रह्महत्याभयात्तीव्राद्व्रतान्ते मुच्यते नरः
एतत्तुल्यानि पापानि यज्ञैर्विपुलदक्षिणैः ।
गोसहस्रप्रदानैश्च तरन्ति किल देहिनः
सुरापैश्चेर्यत पापं पीत्वाग्निसदृशीं सुराम् ।
वह्निवर्णशिखाशायी मुच्यते गुरुतल्पगः
भृगुवह्निनिपातेन महाप्रस्थानकेन च ।
महीदानेन दातॄणां क्षीयते गुरुपातकम्
प्रायश्चित्तं न तु स्त्रीणां रजसा संवृता हिताः ।
महौघेनेव वाहिन्यो भवन्ति विमलाशयाः
भक्ष्याभक्ष्यविचारेण कार्याकार्यविभेदतः ।
विहिताविहितोदीर्णः सूक्ष्मो ऽयं धर्मसंकरः
अभिनन्द्य निजं राज्यं स्वीकृत्य प्रकृतीस्तथा ।
गच्छ शान्तनवं भीष्मं स ते धर्मान्प्रवक्ष्यति
इति द्वैपायनेनोक्तः कृष्णेन च विबोधितः ।
धृतराष्ट्रं पुरस्कृत्य नगरं सानुगो ऽविशत्
पूज्यमानः प्रकृतिभिर्गीयमानश्च मागधैः ।
राजधानीं समासाद्य विवेश रुचिरां सभाम्
उपस्थितान्स्वयं तत्र ब्राह्मणान्विपुलाशिषः ।
अपूजयत्पुरस्कृत्य धौम्यं धुर्यं पुरोधसाम्
***** युधिष्ठिरनगरप्रवेशः ॥ 5 ॥ *****
अत्रान्तरे त्रिदण्डाङ्कस्त्रिशिखः कपटो मुनिः ।
सुहृद्दुर्योधनस्यायाच्चार्वाको नाम राश्रसः
सो ऽब्रवीद्धर्मजं राजन्वच्मि त्वां ब्राह्मणाज्ञया ।
बन्धुमित्त्रद्रुहः किं ते राज्येन ध्वस्ततेजसः
इति ब्रुवाणे चार्वाके विषण्णे च युधिष्ठिरे ।
ब्राह्मणास्ते क्रुधाविष्टा जज्ञिरे ज्ञानचक्षुषः
सखा दुर्योधनस्यायं चार्वाको नाम राक्षसः ।
उक्त्वेति तं द्विजाश्चक्रुर् हुंकारेणैव भस्मसात्
तस्मिन्ब्राह्मणकोपेन निर्दग्धे रजनीचरे ।
उवाच विहसञ्शौरिरमृतं विकिरन्निव
अवध्यः सर्वभूतानां तपस्वी वेधसो वरात् ।
एधो ब्राह्मणकोपाग्नेर्बभूवैष निशाचरः
सो ऽयं दिष्ट्या हतः पापस्तेजसा ब्रह्मवादिनाम् ।
इत्युक्तवति गोविन्दे सभायामुत्सवो ऽभवत्
***** चार्वाकनिग्रहः ॥ 6 ॥ *****
अथाभिषेको दिव्येन विधिना धर्मजन्मनः ।
अवर्तत हते वृत्रे देवस्येव शतक्रतोः
सुमेरुविपुले पीठे परिष्वक्तो जयश्रिया ।
प्रदीपसंध्यारुचिरो दिवाकर इवाबभौ
धृत्वा दैवतवत्पूर्वं धृतराष्ट्रं वधूसखम् ।
निधाय मारुतसुतं यौवराज्ये महाभुजम्
विदुरं मन्त्रकार्येषु दिग्जयेषु धनंजयम् ।
संजयं व्ययचिन्तासु नकुलं सैन्यपालने
धौम्यं ब्राह्मणचिन्तासु सहदेवं च संनिधौ ।
उचितेषु च कार्येषु वृद्धामात्यानकल्पयत्
***** युधिष्ठिराभिषेकः ॥ 7 ॥ *****
ततः स्तुत्वा हृषीकेशं दुर्योधननिवेशनम् ।
महार्हरत्नरुचिरं ददौ भीमाय धर्मजः
वृतं दासीसहस्रैश्च दुःशासनगृहं नृपः ।
अर्जुनाय ददौ रत्नकाञ्चनोदारमन्दिरम्
अन्येभ्यो ऽपि विलभ्यैवं कौरवावसथावलीम् ।
लब्धप्रशमनं चक्रे चक्रायुधमते स्थितः
ततो विधाय बन्धूनां राजा श्राद्धं यथाविधि ।
प्रपाकूपनिपानाङ्कास्तेभ्यो धर्मानकल्पयत्
अथ प्रभाते भूपालः पूजयित्वाम्बिकासुतम् ।
गान्धरीं स्वां च जननीं प्रणम्य रचिताञ्जलिः
विश्रान्तं पुण्डरीकाक्षं स्तितमर्जुनमन्दिरे ।
सानुगः प्रययौ द्रुष्टुं ब्रह्मणमिव वासवः
तमासाद्य नभःश्यामं व्याप्तं कौस्तुभकान्तिभिः ।
दिनेशकिरणोदारवासरारम्भविभ्रमम्
सुमेरुकूटविकटे निषण्णं कनकासने ।
तत्कान्तिवलयेनेव संवीतं पीतवाससा
ध्यायन्तं किमपि प्रह्वो जगाद जगतीपतिः ।
तद्दर्शनानन्दसुधां दन्तकान्त्या किरन्निव
सुखेन कच्चिद्भगवन्व्यतीता तव शर्वरी ।
त्वद्योगनिद्रासरसीविलास्रमरावली
इत्युक्तः कमलाकान्तः किमपि ध्यानमास्थितः ।
न जगाद यदा किंचित्तदा राजावदत्पुनः
अहो न सर्वभूतात्मन्ध्येयस्त्वं तत्त्वदर्शिनाम् ।
विमलं ध्यानमालम्ब्य विस्मयं विदधासि नः
कुशलं जगतां कच्चिदिति वादिनि भूपतौ ।
ईषदुन्मील्य नयने विश्वरूपी तमभ्यधात्
शरशय्यागतो भीष्मः प्रवृत्तः स्तोतुमद्य माम् ।
तमहं मनसा यातो मान्यं सर्वमनीषिणाम्
स मे बहुमतः श्रीमान्योगिनं चिन्तयामि तम् ।
ये मां स्मरन्ति सततं देहत्यागे स्मरामि तान्
उत्तराशाप्रणयितां यातः प्रायो दिवाकरः ।
देवव्रतस्य काले ऽयं मुमुक्षोर्देहमुक्तये
श्रुत्वैतद्धर्मतनयः प्रणयावर्तिताञ्जलिः ।
उवाच भगवन्भीष्मस्त्वत्संदर्शनमर्हति
तदेहि सर्वे गच्छामस्तं द्रुष्टुं तेजसां निधिम् ।
अशेषसंशयच्छेत्ता स मे ज्ञानं प्रवक्ष्यति
इत्युक्तो धर्मराजेन सहितः फल्गुणेन च ।
भीमसात्यकिमुख्यैश्च प्रतस्थे स्यन्दने हरिः
अस्मिन्नवसरे भीष्मः सर्वैर्मुनिगणैर्वृतः ।
तुष्टाव प्रयतो ध्यात्वा विष्णुं जिष्णुं जगद्धिषाम्
संसारमरुसंतापनिर्वाणसुरशाखिने ।
मोहस्तम्भेरमघटाहरये हरये नमः
स्फुरत्संविन्मणिशिखां चित्तप्राङ्गनचन्द्रिकाम् ।
प्रपद्ये भगवद्भक्तिमानन्दोद्यानवाहिनीम्
फुल्लोल्लसत्समुत्साहशक्तिव्याप्तजगत्त्रयाम् ।
या पूर्वकोटिर्भावानां सत्तां तां वैष्णवीं नमः
पवनाघट्टिताम्भोजवनपर्यन्तलम्बिनाम् ।
जलानामिव जन्तूनां स्थैर्यमेको हरिः स्मृतः
नमः सूर्यात्मने तस्मै संवित्किरणशालिने ।
हृत्कुशेशयकोशश्रीसमुन्मेषविधायिने
नमस्तस्मै यमीक्षन्ते ज्ञानिनो गतमृत्यवः ।
परमं पुरुषं पारे तमसां महसां तथा
यज्ञाय यज्ञहविषे यज्ञसोममयात्मने ।
नमः सरस्वतीवाहहंसायाखिलरूपिणे
सत्याय धर्मनिधये क्षेत्रज्ञायामृतात्मने ।
सांख्ययोगप्रतिष्ठाय नमो मोक्षैकहेतवे
घोराय मायानिधये सहस्रशिरसे नमः ।
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे
नमः सलिलरूपाय कारणाय जगत्स्थितौ ।
दुष्टकालाय वलिने जीवाय पवनात्मने
कालाय धाम्ने वर्णानां सर्वलोकमयात्मने ।
लोकप्राणाय भूतानां नमो विश्वाय वेधसे
तृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ।
वीर्यायानन्तमहसे जगद्भारभृते नमः
संसारकर्त्रे मोहाय ज्ञानाय तिमिरच्छिदे ।
अचित्यधाम्ने गुह्याय रुद्राय जटिने नमः
शान्ताय शान्तकल्लोलकैवल्यपदशायिने ।
सर्वभावातिरिक्ताय नमः सर्वमयात्मने
इन्दीवरवनश्यासमे स्फुरत्किञ्जिल्कविभ्रमे ।
बिभ्राणं वाससी विष्णुं नौमि नेत्ररसायनम्
इत्युक्त्वा निर्भरानन्दः प्रणम्य मनसा हरिम् ।
दध्यौ शान्तनवः सास्त्रैः स्तूयमानो महर्षिभिः
अथ पाण्डुसुतैः सार्धं रथैर्गम्भीरनादिभिः ।
आययौ सात्यकिसखः संजयाद्यैश्च केशवः
आयात्कृष्णः कुरुक्षेत्रं तान्पश्यन्भार्गवह्रदान् ।
युधिष्ठिरायाकथयद्धर्म्यं रामपराक्रमम्
ततः सुरसरित्सूनुं ददर्श शरशायिनम् ।
सानुगः शौरिरभ्येत्य स्वांशुजालैरिवावृतम्
तरुणार्कोपमापात्रं वृद्धं वृद्धेन तेजसा ।
रुद्धं सिंहमिव स्फारशरकाञ्चनपञ्जरे
अवरुह्य रथात्कृष्णः सानुगश्च युधिष्ठिरः ।
प्रणम्योपाविशन्सर्वे प्रशंसन्तः पितामहम्
ततो ऽब्रवीच्छान्तनवं शरश्रेणीवृथाकुलम् ।
सादरं पुण्डरीकाक्षो दृशा निर्वापयन्निवष
कञ्चित्ते विमलं ज्ञानं परमं ब्रह्मदर्शनम् ।
वज्राग्रदारुणशरस्यूतस्य न विलुप्यते
निधानं गुणरत्नानां शेखरं शौर्यशालिनाम् ।
धन्यता मानिनी मन्ये वहति त्वां वसुंधरा
गाढानुशयसंतप्तस्त्वयि वीर शरार्दिते ।
व्यथितो धर्मतनयो न क्वापि लभते धृतिम्
सर्वज्ञ धर्मानखिलान्कथयास्मै गिरा मम ।
प्रसन्नकरणज्ञानपटुर्भव गतव्यथः
क्षीरोदशायी भगवानित्युक्त्वा गरुडध्वजः ।
करामृतकरालुप्तव्यथं चक्रे सुरव्रतम्
अथापतत्पुष्पवृष्टिर्मूर्ध्नि गाङ्गेयकृष्णयोः ।
व्यासनारदमुख्याश्च प्रशशंसुः स्मयेन तौ
श्वो वक्तास्म्यखिलान्धर्मानित्युक्ते ऽथ जनार्दनः ।
जाह्ववीसुतमामन्त्र्य प्रतश्थे पाण्डवैः सह
उषित्वा रजनीं शौरिः पार्थाश्च निजवेश्मनि ।
रथैः शान्तनवं द्रुष्टुं प्रातः सर्वे समाययुः
ते विहाय रथांस्तूर्णं प्रणिपत्य पितामहम् ।
परिवार्योपविविशुः सेव्यमानं महर्षिभिः
ततः पृष्टो हरिर्भीष्मं शान्तव्यथमनामयम् ।
उवाच कथ्यतां दिद्वन्स्वधर्मान्धर्मसूनवे
भवत्प्रसादात्स्वर्थो ऽहं वक्ष्यामि तव शासनात् ।
किं तु पृच्छतु मां राजा धर्मनिष्ठो युधिष्ठिरः
वृत्ते क्षत्रोचिते कार्ये न लज्जा कर्तुमर्हति ।
उक्ते पितामहेनेति कृष्णवाक्याद्युधिष्ठिरः
अभ्येत्य भीष्मचरणौ ववन्दे ह्रीनताननः ।
स तेन मूर्ध्न्युपाघ्राय पृच्छ मामिति चोदितः
प्रजानां पालने धर्मं पूर्वं पप्रच्छ धर्मजः ।
ततो जगाद गाङ्गेयः प्रणम्य मनसा हरिम्
शृणु पुत्र यथा राज्ये विराजन्ते नरेश्वराः ।
परमं संशयस्थानमाधिपत्यं प्रमादिनाम्
अतिकङ्कणकेयूरहारं राज्ञां विभूषणम् ।
नित्यं द्विजातिमान्यत्वं प्रजापालनरञ्जनम्
परमं दैवतं विप्रा निग्रहानुग्रहाय च ।
राज्ञां श्रियो हि तद्वाक्याद्भवन्ति न भवन्ति च
जातं ब्राह्मणतः क्षत्त्रं सलिलाच्च हुताशनः ।
शस्त्रं तथाश्मतो यानि क्षत(य)मेते स्वजन्मसु
राजवृत्तिरियं पूर्वा यन्न तीव्रं न मार्दवम् ।
रूढिर्विषामृतस्फारैर्भीमः सेव्यश्च सागरः
हितैर्मान्यैश्च रक्ष्यन्ते भृत्यैर्नृपतिसंपदः ।
तानेव नाभिमन्यन्ते राजानो हि निरङ्कुशाः
सुनयो राजवृत्तीनां विनयो गुणसंपदाम् ।
लावण्यमिव नारीणां विभूषणमकृत्रिमम्
स नृपः कमलाकेलिधामकर्णाब्जषट्पदः ।
पिशुनैर्नाभिमन्यन्ते यस्मिन्संभृतवृत्तयः
सिद्धये संयतधियां सन्मन्त्रबलशालिनाम् ।
समस्तचित्तग्रहणं योगिनामिव भूभुजाम्
मृदुं बालमिवाधैर्यं विनोदरसिकं सदा ।
राजानं हास्यसंपन्नं मन्यन्ते सेवकास्तृणम्
नर्मसाचिव्यमाप्तास्ते भूपतेर्लघुचेतसः ।
तां तामुत्क्रम्य मर्यादां वर्तन्ते कामचारिणः
राजस्रीसंगमं यान्ति राजतुल्यविभूषणाः ।
सुषिरं कुर्वते राज्यं स्वां स्वनिं मूषिका इव
हयं रथं गजं वासो राजयोग्यं तथासनम् ।
आरुह्य राज्ञा स्पर्धन्ते विस्मरन्ति च भृत्यताम्
बहु दत्तं न मन्यन्ते याचन्ते दुर्लभान्यपि ।
निन्दन्ति स्वाभिचरितं बहिर्मन्त्रं किरन्ति च
राजदेयं हरन्तश्च लज्जन्ते निजकर्मसु ।
प्रथयन्ति च मिथ्यैव लोके भूपालवश्यताम्
स्वामिना केलिसक्तेन शनकैर्मर्मदर्शिनः ।
किमन्यत्पेशलधिया खेलन्ते राजवल्लभाः
मन्त्रैर्भूतानि शाम्यन्ति दानैर्मृत्युर्निवर्तते ।
प्रजानां दलने सक्ता न तु ते राजसंमताः
सुसहायः स्थिरारम्भो गूढमन्त्रः सदोद्यतः ।
प्रजाहितो ऽप्रमत्तश्च राजा राज्ये विराजते
को हि पश्येदिमं लोकं गाढेन तमसा वृतम् ।
राज्ञः शशाङ्कयशसः प्रतापो यदि न स्फुरेत्
अवश्यमेकचरणो धर्मो ऽस्मिन्कलिकर्दमे ।
प्रस्खलेद्भूमिपालानां विना दण्डावलम्बनम्
अराजके पुरा लोके प्रवृत्ते धर्मविप्लवे ।
सुरार्थितेन विधिना नयोपाये प्रवर्तते
चतुर्वर्गफले शास्त्रे भागैरात्ते मुनीश्वरैः ।
असृजन्मानसं जिष्णुं तुमुलं विरजं सुतम्
स नियुक्तो भगवता प्रजानां परिपालने ।
तच्छासनमनादृत्य संन्यासविरतो ऽभवत्
कीर्यामानो ऽपि तत्पुत्रस्तथैव तपसे गतः ।
तत्सुतः कर्दमाख्यश्च विरक्तः काननं ययौ
अनङ्गनाम्नस्तत्सूनोस्तनयो ऽतिबलस्ततः ।
राजाभून्मृत्युतनयां मुनीनां प्राप यः प्रियाम्
वेनं नाम सुतं तस्यां संप्राप्य तपसे ययौ ।
ततः क्रूरो ऽभवद्राजा वेनः कोपविषोल्बणः
मुनयो मन्त्रपूतैस्तं जघ्नुर्वज्रशितैः कुशैः ।
तस्योरुं दक्षिणं मन्त्रैस्ते निर्मथ्य महर्षयः
ह्रस्वं देहं तदुद्भूतं ददृशुर्विकृतं नरम् ।
स तैरुक्तो निषीदेति निषादजनको ऽभवत्
वेनस्य दक्षिणं पाणिं निर्मथ्य मुनयः पुनः ।
अपश्यन्वैन्यमुदितं सायुधं शक्रविक्रमम्
स दण्डनीतिमासाद्य शशास मुनिशासनात् ।
प्राप्तां रत्नप्रदां साक्षात्पृथ्वीं सगिरिसागराम्
तमाविवेश भगवांल्लोकपालसखो हरिः ।
नरदेवा इति ख्यातास्ततः प्रभृति भूमिपाः
राजमानगुणे तस्मिन्राजनि क्ष्मां प्रशासति ।
स्वधर्मनिरतास्तस्थुः सम्यग्दण्डभयात्प्रजाः
तेनेयं विहिता राज्ञां स्थितये दण्डधारता ।
यथा लोकाः प्रकाशन्ते न सूर्येण न चेन्दुना
***** राजोत्पत्तिः ॥ 8 ॥ *****
सम्यग्व्यवसिते त्रातुं राज्ञि धर्मपरे प्रजाः ।
स्थितयो न विलुप्यन्ते चातुर्वर्ण्यविभागजाः
यथाविधिप्रयातानामाश्रमादाश्रमान्तरम् ।
चातुराश्रम्यविहिता सिद्धिर्विघ्नैर्न हन्यते
मांधातुर्नृपतेः पूर्वं यज्ञदर्शनकाङ्क्षिणः ।
शक्ररूपधरो विष्णुर्भगवान्स्वयमाययौ
पृष्टो जिज्ञासया तेन स राजा प्रणिपत्य तम् ।
उवाच सर्वधर्माणां प्रतिष्ठिः राजशान्तये
राजनीत्या प्रवर्तन्ते खकर्मसु सदा प्रजाः ।
श्रुतिस्मृतिसदाचारे कारणं राजवृत्तयः
त्राता धर्मगतस्यास्य यस्मात्किल नरेश्वरः ।
गौरवादात्मतुल्यं तं स्वधर्मस्थममन्यत
पिता प्रजानां नृपतिर्जगत्सीदत्यराजकम् ।
वस्तव्यं म्लेच्छमध्ये ऽपि साधुभिर्न त्वराजके
दुर्बलं घ्नन्ति बलिनः सेवन्ते च परस्त्रियः ।
मांसं मिथश्च खादन्ते राष्ट्रे राजविवर्जिते
अराजकाः प्रजाः पूर्वं निमग्नाः स्थितिविप्लवे ।
चक्रिरे राजभागार्थं मनुं निमग्नाः स्थितिविप्लवे ।
चक्रिरे राजभागार्थं मनुं वैवस्वतं नृपम्
राज्ञा सुमनसा पूर्वं कौसल्येन बृहस्पतिः ।
पृष्टो बभाषे लोकानां दण्डधारं परायणम्
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः ।
न च धर्माः प्रवर्तन्ते न च वर्षति वासवः
कुतो धनं कुतो दाराः शरीरं च कुतो नृणाम् ।
सर्वदेवमयस्त्राता यावन्न वसुधाधिपः
सर्वावलोकने सूर्यः पापानां निग्रहे यमः ।
कुबेरो भरणे राजा प्रायश्चित्तेषु पावकः
आच्छेत्ता राजवित्तानां हन्ता मर्षयितापि वा ।
सर्वे प्रयान्ति नरकं यथा ब्रह्मस्वहरिमः
यज्वनां धर्मशीलानां वैराग्यन्यस्तकर्मणाम् ।
तुल्यमाप्नोति भूपालः फलं लोकानुपालनात्
इति देवगुरोर्वाक्यं निशम्य स महीपतिः ।
चिरं प्रजाः स्वधर्मस्थाः पालयित्वा दिवं ययौ
कोशेदुर्गबलादीनां क्षयं शत्रुषु(ष्व)निर्दिशन् ।
अप्रमत्तः सद राजा कुर्यात्संश्रयमात्मनः
सर्वतो गुप्तमन्त्राणां गूढप्रणिधिचक्षुषाम् ।
स्वस्थप्रकृतिसाराणां राज्ञां लक्ष्मीरनश्वरा
सेवेत धर्मानद्वेषस्त्यजेत्प्रीतिमदारुणः ।
अकर्कशो लभेतार्थान्कामी स्यादमदोद्धतः
प्रियं वदेददैन्यश्च विक्रान्तश्चाविकत्थनः ।
दयादानमकामश्च पटुः स्यादकटुर्गिराम्
मैत्त्रः स्यादखलासङ्गी युध्येत न तु बन्धुभिः ।
विद्ध्येत शत्रुन्नानास्त्रैः कुर्यात्सर्वमहिंसकः
ज्ञानं दिशेन्न चासत्सु गुणाञ्श्लाघेत नात्मनः ।
हरेदर्थान्न साधुम्भः संश्रयेत न दुर्जनम्
दण्डयेन्नाविचारेण मन्त्रसेन्न न संसदि ।
पूरयेन्न कदर्यांस्तु विश्वसेन्न च वैरिषु
रक्षेद्दारान्नहीर्ष्यालुः कलावान्स्यादवञ्चकः ।
भजेन कान्ता नात्यन्तमद्यात्साधु न चाहितम्
सेवेतार्च्यान्न तु स्तब्धो भवेच्छिष्यो न मायया ।
यजेत देवान्नो दम्भादिच्छेद्भूतिमनिन्दिताम्
प्रीतिं भजेन्नातिनयो दक्षश्चारभसो भवेत् ।
आशां सृजेन्न विफलां विभजेत न विष्ठुरम्
प्रहर्ता स्तान्न सर्वत्र हन्याच्छत्रून्नशेषकृत् ।
प्रकुप्येन्न त्वदोषेभ्यः पेशलः स्यान्न शत्रुषु
एतैर्युक्ताः किल गुणैः पार्थिवाः पृथुवंशजाः ।
यशःशुभ्रा प्रयान्त्येव सततं हारतां श्रियः
***** गुणषट्रिंत्रशकाः ॥ 9 ॥ *****
ब्राह्मणाः सर्वदा राज्ञा मूर्ध्नि कार्या बुभूषता ।
ब्राह्मेण तेजसा युक्तं बलं क्षात्रं हि दुःसहम्
ऐडेन भूभुजा पृष्टः पुरा प्रोवाच मारुतः ।
ब्राह्मणानामियं पृथ्वी धनं वा जातु रक्षितम्
अनिवेद्य महीं तस्माद्विप्रेभ्यः पृथिवीपतिः ।
स्वयमप्यर्जितं वीरो न कामाद्भोक्तुमर्हति
पुरोधसा ब्राह्मणेन संयुक्तः श्रेयसां नृपः ।
जेता भवति शत्रूणां सर्वलोकाभयंकरः
मुचुकुन्दः पुरा राजा विजित्य सकला दिशः ।
ययौ वयस्यं रुद्रस्य कुबेरं जेतुमोजसा
ततः प्रवृत्ते समरे गुह्यका बलवत्तराः ।
पृथुना मुचुकुन्दस्य तेजसा च क्षयं ययुः ।
क्षणादलक्ष्यमन्त्रस्य वीरास्ते यक्षराक्षसाः
ततः प्राप्ताः कुबेरेण दत्तां वसुमतीं नृपः ।
त्यक्त्वा पराक्रमेणैव स जग्राह बलोत्कटः
इति राजबलं ब्रह्मबालानुप्राणितं सदा ।
अभग्नप्रणयां धत्ते त्रैलोक्यविजयश्रियम्
***** मुचुकुन्दोपाख्यानम् ॥ 10 ॥ *****
ब्राह्मणान्पुरतः कृत्वा प्रजा धर्मेण पालयेत् ।
चतुर्भागहरो राजा प्रजानां पुण्यपापयोः
तस्य संवृतमन्त्रस्य प्रजाकार्याणि पश्यतः ।
वदान्यस्यानृशंसस्य क्वचिद्धर्मो न लुप्यते
विप्राः पूज्याः सदा राज्ञा यथोक्ताचारवर्तिनः ।
शूद्रवत्क्रूरकर्मार्हा दण्ड्यास्त्वाचारवर्जिताः
पुरा केकयभूपालो गृहीतो रक्षसा वने ।
आश्वासयन्निजं चेतो जगाद धृतिसागरः ।
न भेतव्यं त्वया चित्त राष्ट्रे मे नास्ति विप्लवः
नायज्वा न विकर्मस्थो न पापी न कुलच्युतः ।
विद्यते नगरे कश्चित्क्षत्त्रधर्मे स्थितस्य मे
इति ब्रुवाणं नृपतिं स तत्याज निशाचरः ।
सत्यशीलाः स्वधर्मस्था लभन्ते न पराभवम्
विश्वसेन् च सर्वत्र न च शङ्केत पार्थिवः ।
विश्वासी चातिशङ्की च सर्वथा विपदां पदम्
आप्तेष्वपि न विश्वासः कर्तव्यः किल भूभुजा ।
न शरीराणि चेतांसि स्थिराणि न हि देहिनाम्
तस्मात्कोशश्च मन्त्रश्च रक्षणीयः प्रयत्नतः ।
काले काले स्वयं राज्ञा द्रष्टव्यश्चाप्रमादिना
पुरा बभाषे भगवान्नारदं गरुडध्वजः ।
वृष्णीनामाह्निकं राज्ञां चिन्ताभरमहं सहे
गुणविक्रमसंपन्नाः साभिमाना मता न मे ।
न शृण्वन्ति न मन्यन्ते गिरा मां व्यथयन्निव
एतच्छ्रुत्वा सुरमुनिः केशवं प्रत्यभाषत ।
सत्वसारा वहन्त्येव गणकार्यं महाशयाः
दानेन क्षमया शक्त्या मार्दवेनार्जवेन च ।
वशे तिष्ठन्ति धीराणां गुणबद्धा महागुणाः
आर्जवं न तु कोशेषु प्रशंसन्त्यर्थदर्शिनः ।
श्रुत्वैतन्नारदेनोक्तं तथेति हरिरभ्यधात्
***** हरिनारदसंवादः ॥ 11 ॥ *****
सर्वात्मना विशुद्धेषु सचिवेषु नरेश्वरः ।
चारैः सदा तदाचारं जानन्कार्याणि निक्षिपेत्
कोशाध्यक्षः स्वयं राजा परिरक्ष्यः शुचिः सदा ।
अमात्या न सहन्ते तं गोप्तारं कोशहारिणः
कोसलाधिपतेः पूर्वं नगरे क्षेमदर्शिनः ।
मुनिः कालकवृक्षे(क्षी)यो यदृच्छाभ्यागतो ऽवसत्
पञ्जरे काकमादाय सा राजा सर्वपक्षिणाम् ।
संचरन्बुबुधे सर्वं स्ववृत्तं राजजीविनाम्
मन्त्रश्रावमकार्यं च कोशलोपं च मन्त्रिणाम् ।
स निवेद्य सदा राज्ञे प्रत्यक्षं समदर्शयत्
ते सर्वे कण्टकं मत्वा संहत्य नृपजीविनः ।
सुप्तं तं वायसं रात्रौ जघ्नुर्बाणेन निर्जने
काकं निहतमालोक्य नृपमेत्याब्रवीन्मुनिः ।
स्वस्ति गच्छामि भूपाल भयात्त्वदनुवीविनाम्
स तैर्मे निहतः काकः प्राह यो मां भव द्वितम् ।
काको निपतितो दैवान्मदर्थं प्रेरितः शरः ।
विभेद्य पातयामात्यानित्युक्त्वा विरराम सः
राजापि तद्गिरा काले शोषयित्वा क्रमेण तान् ।
दानेन भेदयित्वा च चक्रे निष्कण्टकां श्रियम्
***** काकपञ्जरिका ॥ 12 ॥ *****
तस्मात्क्रमागतं कुर्याद्द्रष्टारं नृपतिर्हितम् ।
भवन्ति यद्भयात्सर्वे कायस्था भिन्नसंहताः
दासाधिपशतस्यैको भवेदुपरिचिन्तकः ।
तत्सहस्रस्य चाध्यक्षः सर्वं राज्ञो निवेदयेत्
घोषं ग्रामं पुरं राष्ट्रं भक्षयन्त्यधिकारिणः ।
क्रियन्ते यदि न प्राज्ञौरुपर्युपरि चिन्तकाः ।
मलोपदानेनार्हाश्च तीव्रपाकानिवारिणः
शीत्कारकमलोत्कारविपर्यस्तलिपिक्रमैः ।
क एषां भृतभस्त्राणां चौर्यस्योद्भासने क्षमः
तेषां लुण्ठकवृत्तीनां जृम्भारम्भमृजा जुषाम् ।
नगराण्येव चुलकं गलगर्तगलद्गिराम्
तैर्घट्यमानां पृथिवीं रक्षेद्वेतालचेष्टितैः ।
येषां नरकपाकोग्रपर्यन्ते विषमा स्थितिः
यौवनाश्वं नरपतिं प्रागुतथ्यो ऽवदन्मुनिः ।
पृथिवीपालने राजन्कुरु कण्ठकशोधनम्
अनाथान्दुर्बलान्रक्षेत्कृपणांश्चानुलेपयेत् ।
राज्ञां हि कृपणाक्रन्दैर्मूलान्नश्यन्ति संपदः
अर्थो ऽप्यनर्थतां याति भूभुजां जनपीडनात् ।
जनापवादपरशुं सहते श्रीलता कथम्
वदान्यः सभ्यवान्वीरः कृतज्ञः सत्यवाक्पटुः ।
अभिजातो भवत्येव प्रजानां सुकृतैर्नृपः
उतथ्येनेति कथिते मांधाता पृथिवीपतिः ।
तथा शशास यशसा यथा जीवन्निव स्थितः
***** उतथ्यगीताः ॥ 13 ॥ *****
उवाच कोसलाधीशं वामदेवः पुरा मुनिः ।
धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः
सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः ।
धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा
शृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् ।
नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः
नातः परतरं किंचिद्राज्ञः किल्बिषकारणम् ।
प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः
इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः ।
वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः
***** वामदेवगीताः ॥ 14 ॥ *****
विषमस्थैरसंनद्धैः क्षीणसैन्यैर्भयार्दितैः ।
न युध्यते क्षत्रियो यः स धर्मविजयी नृपः
तथा मन्ये न शोच्यः श्वा मृतो विण्मूत्रकर्दमे ।
निहतः स्वजनस्याग्रे क्षत्रियः शयने यथा
परैर्विदारिते सैन्ये हते भृत्यजने पुरः ।
ये स्वयं क्षेमिणो यान्ति धिक्तान्क्षत्रियपांसनान्
यस्य पृष्ठं न पश्यन्ति युध्यमानस्य शत्रवः ।
स हतः स्वर्गमासाद्य शक्रेण स्पर्धते नृपः
***** विजिगीषमाणवृत्तम् ॥ 15 ॥ *****
अम्बरीषः पुरा राजा यज्वा प्राप्य सुरालयम् ।
सुदेवाख्यं चमूनाथं ददर्शाभ्यधिकं श्रिया
उपर्युपरि गच्छन्तं सर्वेषां पुण्यशालिनाम् ।
तं दृष्ट्वा विस्मितः शक्रं पप्राच्छ स महीपतिः
यथाधर्मं यथाशास्त्रं पालयित्वा वसुंधराम् ।
इष्ट्वा दत्वा च तप्त्वा च प्राप्तो ऽहं त्वत्पुरीमिमाम्
मम सेनापतिरयं सुदेवः केन कर्मणा ।
प्रभाभिरभिभूयास्मानुच्चैः सूर्य इव स्थितः
इति राज्ञा सुरपतिः पृष्टस्तं प्रत्यभाषत ।
शृणु येनाधिको राजंस्त्वत्तो ऽयं पृतनापतिः
शस्त्रानले रणमखे रुधिराज्ये धनुःस्रवे ।
कबन्धयूपे कृतिना हुतानेन निजा तनुः
सो ऽयं विराजते वीरस्तेजसा कृतमण्डलः ।
निष्कम्पः समरे कृत्तस्रस्तानामभयप्रदः
श्रुत्वैतद्विस्मितो राजा प्रशंसन्वीरविक्रमान् ।
विस्मितश्च प्रहृष्टश्च मनसा तमपूजयत्
***** शक्राम्बरीषसंवादः ॥ 16* ॥****
पृष्टः पुरा सुरेन्द्रेण राजनीतिं बृहस्पतिः ।
उवाच श्रीर्यथा राज्ञां न करोति तडिद्भ्रमम्
वचसा मधुरेणैव कुर्यान्मूलक्षयं रिपोः ।
घोरेण कलहेनाप्तो जघन्यो हि जयः स्मृतः
संदेहायोद्धृतं शस्त्रं वाग्युद्धं कण्ठशोषणम् ।
शत्रुं हन्यात्प्रियालापैः कुरङ्गमिव लुब्धकः
प्रणमेद्देशकालज्ञो बलिनं रिपुमुद्यतम् ।
तमेवापचिते काले हन्यादेष नयक्रमः
साम्ना सेवेत बलिनं लुब्धं दानेन साधयेत् ।
भेदेन कुपितामात्यं हीनं दण्डेन पातयेत्
प्रमादिनं सहानीकं कोशदुर्गबलोचितम् ।
सर्वोपायविहीनं च तूष्णीं दण्डेन योजयेत्
सदा विबुध्येत निजान्विरक्ताननुजीविनः ।
आत्मनस्तांश्च गूहेत च्छिद्रं यच्चिन्तयेदरेः
न भाषते वेपते च लक्षितः क्ष्मां निरीक्षते ।
न चतुष्पतिदानेन विरक्तहृदयो जनः
गुरुणा कथितं श्रीमान्निशम्यैतत्पुरंदरः ।
आत्मगुप्तः परान्वेषी बभूवावहितः सदा
***** इन्द्रबृहस्पतिसंवादः ॥ 17 ॥ *****
दैवादवाप्तो विपदं न शोचेद्वसुधाधिपः ।
अनिर्वेदेन लभ्यन्ते हारिता अपि संपदः
मुनिः कालकवृक्षीयः क्ष्माभुजा क्षेमदर्शिना ।
विभ्रष्टेन पुरा पृष्टो जगाद नयकोविदः
विद्युद्विलासतरलाः सुराणामपि संपदः ।
राजन्न नित्यमायुश्च यत्कृते श्रियमीहसे
तथापि यदि ते वाञ्छा स्वे राज्ये शत्रुणा हते ।
गत्वा तमेव सेवस्व मौनं कृत्वा कृताञ्जलिः
तावच्च सेवको भूत्वा सर्वथा व्यसनालसम् ।
यावत्कोशे च मित्रे च शनकैरुपचीयसे
प्रविश्य च मनः प्रीत्या प्रियवादी यथा तथा ।
प्रोत्साहानामकार्येषु कुर्वीथा दुस्तेरष्वरेः
ततस्तं संशयापन्नं द्रुतकोशं प्रमादिनम् ।
तैस्तैरुपायैर्द्रव्यैर्वा कुर्वीथाः क्षणसाधनम्
इत्युक्ते मुनिना राजा कुत्सिताचारकूणितः ।
मानी नैतत्करोमीति जगादाभिजनोज्ज्वलः
तस्य सत्यवतो भावमुपलभ्य मुनिस्ततः ।
दूतो भूत्वा स्वयं संधौ तस्य शत्रुमयो ऽजयत्
संधाय मुनिवाक्येन वैदेहः क्षेमदर्शिना ।
विततार सुतां तस्मै विभवं च यथोचितम्
***** कालकवृक्षीयम् ॥ 18 ॥ *****
पालयेत्स्वगणं राजा परेषां भेदयेद्गणम् ।
सम्यग्वृत्तेन सत्येन वर्तन्ते हि गणाः सदा
गणैर्विजयते राजा चिन्तितैः स्वभृतैस्तथा ।
उपेक्षितैः संहतैश्च तैरेवाशु विपद्यते
प्रशाम्यति बहिः कोपो राज्ञां सामादिभिः क्षणात् ।
गूढस्तु वेश्मनीवाग्निर्नान्तः कोपो गणोद्भवः
***** गणवृत्तम् ॥ 19 ॥ *****
दैवतं पितरो यस्य धर्मो यस्य प्रजाहितम् ।
सम्यग्दण्डो व्रतं यस्य स राजा यज्वनां वरः
न सत्यं केवलं सत्यमनृतं न तथानृतम् ।
हितं यत्सर्वलोकस्य तत्सत्यं शेषमन्यथा
अनृतेनानृताचारश्चिकित्स्यः किल भूभुजा ।
सत्येन सत्यशीलश्च सेव्यो विभवमिच्छता
***** सत्यानृतकम् ॥ 20 ॥ *****
याजिनः शुद्धसंकल्पास्त्यागिनः पात्रवर्षिणः ।
त्रातारः सर्वधर्माणं कर्तारः पुण्यकर्मणाम्
श्रोतारः साधुवचसां भेत्तारो धनहारिणाम् ।
तरन्ति घोरदुर्गाणि परत्रेह च भूमिपाः
सदाचारास्तपोयुक्ताः प्रशान्ताः सत्यवादिनः ।
संतरन्ति च दुर्गाणि नारायणपरायणाः
***** दुर्गातितरणम् ॥ 21 ॥ *****
असौम्याः सौम्यचरिता मृदवः क्रूरकारिणः ।
भवन्ति पुरुषा लोके तांश्च बुध्येत भूमिपः
पुरा बभूव भूपालः प्रेरकः पूरिकापतिः ।
दारुमः पुरुषः क्षुद्रः पिशिताशनचेष्टितः
कालेन पञ्चतां यातः स च प्राप्तः शृगालताम् ।
जन्मान्तरकृतैः पुण्यैर्जातं सस्मार दुःखितः
आपन्नः कुत्सितं सर्गं निर्वेदाच्छातमानसः ।
परैरप्याहृतं मांसं नाददे फलभोजनःछ
श्मशाननिलयं कोपात्तं विलोक्य शुचिव्रतम् ।
ऊत्चुर्गोमायवः सर्वे निन्दन्तस्तद्विचेष्टितम्
वसतापि श्मशाने ऽस्मिन्हारितं जडबुद्धिना ।
त्वया मूढव्रतेनेदं स्वादु मांसरसायनम्
विपरीतमिदं सर्वं दुनोति हृदयं सताम् ।
अस्मिन्पितृवने घोरे शृगालो यदमांसभुक्
भुङ्क्ष्वेति तैरभिहितः सो ऽवदद्विमलाशयः ।
न शीलकारणं जातिर्नाश्रमः पुण्यकारणम्
किमाश्रमे प्राणिवधः पातकं न प्रचक्षते ।
मनः शुद्धिकृतं सर्वं प्रमाणं कर्म देहिनाम्
इति ब्रुवाणं तं सर्वे विज्ञाय दृढनिश्चयम् ।
नोचुः किंचिदमर्शेन किंत्वतप्यन्त केवलम्
ततः कदाचित्तद्वृत्तं श्रुत्वा व्याघ्रो ऽभिपत्य तम् ।
उवाच मम साचिव्यं शुद्धात्मा भजतां भवान्
गोमायुरथ तच्छ्रुत्वा बभाषे विनयानतः ।
स्वाच्छन्द्यममृतं त्यक्त्वा कः सेवां विकटां श्रयेत्
संतोषद्रविणं त्यक्त्वा निरायासमनश्वरम् ।
अभ्यर्थयेत कः सेवां दैव्यातङ्ककलङ्किताम्
अथवा यदि निर्बन्धात्तत्करोमि भवद्वचः ।
मयैवेकेन भृत्येन भवितव्यं सदा त्वया
त्वदेकसंश्रयं भक्त्या न च संघातवासिनम् ।
विनाशयन्ति पिशुना न यथा मां तथा कृथाः
एवमुक्त्वा शममयं निष्कामः पूज्यगौरावत् ।
तथेति वादिनस्तस्य व्याघ्रस्यामात्यतां ययौ
तमाश्वास्य भुवं नीतमेकं सर्वाधिपं कृतम् ।
व्याघ्रेण वीक्ष्य दुःखाब्धौ पेतुस्तदनुजीविनः
व्याघ्राय कल्पितं मांसं निन्युर्गोमायुकेतनम् ।
क्व मांसमिति ते पृष्टा व्याघ्रेण क्षुद्रकारिणः ।
ऊचुश्चौर्येण तन्नीतं शुचिना तव मन्त्रिणा
मिथ्याचारं विदित्वा तं दृष्ट्वा मांसं च तद्गृहे ।
क्रोधान्धो हन्तुकामस्तं व्याघ्रः संरम्भमाययौ
तमभ्येत्याब्रवीन्माता व्याघ्री पिशुनशङ्किता ।
शुद्धाय तस्मै भृत्याय विमोहात्पुत्र मा क्रुधः
बहवः संहता धूर्ताः संमतं सचिवं नवम् ।
मिथ्यादोषेण लिम्पन्ति निर्देषं क्षुद्रपण्डिताः
स्वरूपं विकृतो द्वेष्टि शूरं भूरुर्बुधं जडः ।
कुलीनं हीनजन्मा च दुःशीला च पतिव्रताम्
एवं विबोधितो मात्रा तत्त्वमन्विष्य चारतः ।
शुद्धं विज्ञाय तं व्याघ्रः प्रसाद्यसीद्विलज्जितः
तमब्रवीच्छृगालो ऽथ स्वस्ति गच्छाम्यहं विभो ।
विमानितस्त्वया वस्तुं नोत्सहे त्यक्तसंविदा
गुमवानिति संसत्सु यः स्तुतः साधुभिः पुरा ।
सत्यप्रतिज्ञैर्देषे ऽपि न स वाच्यो ऽन्यथा पुनः
भिन्न तथास्मिन्संश्लेषे पुनः प्रीतिः सुदुर्लभा ।
इत्युक्त्वा व्याघ्रमामन्त्र्य गोमायुस्तपसे ययौ
स कालेन निराहारः शान्तसंसारवासनः ।
वने कलेवरं त्यक्त्वा त्रिदिवं प्रययौ कृती
***** व्याघ्रगोमायुसंवादः ॥ 22 ॥ *****
आस्थाय वैतसीं वृत्तिं देशकालौ समीक्ष्य ये ।
न सन्ति तिष्ठन्त्युच्चैर्वा न ते यान्ति पराभवम्
सागरः सरितः सर्वाः पुरा पप्रच्छ कौतुकात् ।
युष्मत्प्रवाहेष्वखिलान्पश्याम्युन्मूलितान्द्रुमान्
एते विशन्ति मां वृक्षा हृता कूलंकषैर्जलैः ।
वेतसं न तु पश्यामि कस्मादत्र तटोद्भवम्
समुद्रेणेति पृष्ठासु नदीषु प्राह जाह्नवी ।
ह्रियमाणः सदाम्भोभिर्विनमत्येव वेतसः
हन्तुं न शक्यास्ते वृक्षा महौघैर्विनमन्ति ये ।
त्रुट्यन्ति त्रासादेवान्ये द्रुमा मूर्खा इवोद्धताः
एतद्गाङ्गं वचः श्रुत्वा तथेत्यूचे सरित्पतिः ।
मेने च वैतसीं वृत्तिं श्रेयसे देशकालयोः
***** सरित्सागरसंवादः ॥ 23 ॥ *****
राज्ञां धनं निजा बुद्धिर्दाक्ष्यं चोत्साहशालिनाम् ।
अलसा बुद्धिहीनाश्च सर्वथा विपदां पदम्
उष्ट्रः परेण तपसा प्रजापतिवरात्पुरा ।
आलस्योपहतो ग्रीवामवाप शतयोजनीम्
आसने चोपविष्टो ऽथ तया पीलुवनेषु सः ।
प्राणयात्रां सदा चक्रे मन्यमानो महत्सुखम्
दुर्दिनाभिहते काले कदाचित्तस्य जम्बुकैः ।
क्षुत्क्षामैर्भक्षिता ग्रीवा दीर्घा सा मण्डलीकृता
***** उष्ट्रग्रीविकम् ॥ 24 ॥ *****
कुलीनान्विदिताचारान्राजा कर्मसु योजयेत् ।
पदे महति विन्यस्ताः संशयायैव दुर्जनाः
उवास श्वा कृपापात्रमाश्रमे कस्यचिन्मुनेः ।
स दृष्ट्वा द्वीपिनं घोरं कदाचिदवदद्भयात् ।
भगवन्नेष मां द्वीपी क्षुधितो हन्तुमागतः
पाहि पाहिति तेनोक्तः स मुनिः करुणानिधिः ।
एतत्तुल्यो भवेत्युक्त्वा तं चक्रे द्वीपिविग्रहम्
सो ऽपि श्वा द्वीपितां प्राप्तस्त्रस्तो व्याघ्रात्पुनर्मुनिम् ।
त्रायस्वेत्यभिधायैव व्याघ्रातां तद्गिरा ययौ
सो ऽपि मत्तगजाद्भीतः कालेन मदमन्थरात् ।
मुनिना कल्पितां प्रीत्या प्राप्तौ मत्तगजेन्द्रताम्
सो ऽपि पञ्चाननाद्भीतः करालात्तालकेसरात् ।
यातस्तच्छासनादेव सहसा मृगराजताम्
अष्टपादं महादंष्ट्रं दृष्ट्वा शरभमागतम् ।
स विषण्णो मुनिगिरा बभूव शरभः क्षणात्
कालेन शरभाकारः सर्वप्राणिभयंकरः ।
स जातदर्पः सहसा तं मुनिं हन्तुमुद्ययौ
अपध्वस्तस्ततस्तेन मुनिना हुंकृतेन सः ।
स बभूव पुनर्दीनः क्षणादशुचिविग्रहः
इत्यविज्ञातशीलेभ्यो हीनेभ्यो वितरञ्श्रियम् ।
कुलाचारमनालोच्य राजा पतति संशये
***** श्वऋषिसंवादः ॥ 25 ॥ *****
नयमेवांविधं ज्ञात्वा राजदण्डेन गामिमाम् ।
सर्वकामदुघां वीरः पालयेन्न तु पीडयेत्
वसुहोमो ऽङ्गनृपतिर्हिमविच्छिखरे पुरा ।
अवदद्यौवनाश्वेन पृष्टो दण्डस्य संभवम्
धृतो वर्शसहस्रं प्राङ्भूर्ध्ना गर्भः प्राजासृजा ।
क्षुतेन सहसो ऽत्सृष्टः स श्रीमान्क्षुप इत्यभूत्
अत्रान्तरे जगत्सर्वमाशासनमयन्त्रणम् ।
निर्मर्यादं विलोक्येदं व्याकुलो ऽभूत्प्रजापतिः
अथास्य वचसा रुद्रः प्रययौ दण्डतां स्वयम् ।
दंष्ट्री चतुर्भुजो दीप्तः श्यामोष्ठचरणो जटी
देवस्तं विष्णवे प्रादाद्विष्णुरङ्गिरसे ददौ ।
सो ऽपि शक्रमरीचिभ्यां मरीचिर्भृगवे ततः
स मुनिभ्यो ददौ ते ऽपि दिक्पतिभ्यो क्षुपाय ते ।
क्षुपश्च मनवे प्रादाद्दण्डं धर्मस्य गुप्तये
तस्मिन्सम्यक्प्रणिहिते रक्षायै पूततेजसि ।
लभन्ते शाश्वतं वीरा यशः स्वर्गं च भूमिपाः
इत्युक्तमङ्गराजेन मांधाता पृथिवीपतिः ।
निशम्योत्फुल्लनयनः सादरं तमपूजयत्
***** वसुहोमोपाख्यानम् ॥ 26 ॥ *****
कामलोभोद्भवं पापं राज्ञो ब्राह्ममसेवया ।
पुनश्चाकरणाद्दानात्कीर्तनाच्च विनश्यति
त्रयी त्राता ततो धर्मं भजते त्यक्तकिल्विषः ।
इत्यरिष्टेन पृष्टः प्राङ्भुनिः कामर्दको ऽब्रवीत्
***** कामन्दारिष्टसंवादः ॥ 27 ॥ *****
शीलमाभरणं राज्ञां सौजन्यं विदुषामिव ।
शीलेन राजते लक्ष्मीर्वसन्तेनेव मञ्जरी
राजसूये श्रियं दृष्ट्वा तव द्वेषविपाकुलः ।
दुर्योधनः पुरा पित्रे द्यूते कामं न्यवेदयत्
धृतराष्ट्रस्तमवदत्पुत्र मा भव विप्लुतः ।
प्रवर्तन्तां तवाप्यन्ते यज्ञा विपुलसंपदः
शीलवान्प्राप्स्यसि सदा लक्ष्मीं पाण्डुसुताधिकः ।
न हि शीलवतः किंचिद्विद्यते भुवि दुर्लभम्
शीलं राज्ञां दिशां चनन्द्रस्तारुण्यं बहरिणीदृशाम् ।
मधुमासश्च वृक्षाणां मनोहार्यं विभूषणम्
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं तु निखिलं धनम्
शीलवित्तोचितं शक्रः प्रदीप्तविभवं पुरा ।
बृहस्पतिपुरः प्रायात्प्रह्लादं ब्राह्मणाकृतिः
श्रेयो वदेति विनयाद्दैत्येन्द्रस्तेन शिष्यवत् ।
पृष्टो बभाषे कालेन प्राजाकार्यैकसक्तधीः
त्रैलोक्यराज्यं संप्राप्तं मया शीलवता सदा ।
शृणोति विद्या विदुषां कवीनां संशये वचः
अनिर्णीतमसंस्पृष्टमनाख्यातमचिन्तितम् ।
सहसा न भजेत्किंचिदपि स्वादु विचारधीः
एतदेव हितं विप्र सर्वेषामपि देहिनाम् ।
वरं गृहाण तुष्टो ऽहं तव प्रणयसेवया
इत्युक्तो दानवेन्द्रेण तुष्टः प्रोवाच वृत्रहा ।
सर्वं देहि निजं मह्यां शीलं शीलवतां वर
श्रुत्वैतत्सत्यवाग्दैत्यो ददानीति तमब्रवीत् ।
शक्रो ऽपि तद्गिरा प्राप्य प्रययौ द्विजवेशभृत्
गते तस्मिन्महोत्साहे छायारूपो वराकृतिः ।
प्रह्लादविग्रहात्तूर्णं निर्ययौ पुरुषो बहिः
को ऽसीति पृष्टस्तेनाथ सो ऽवदद्दैत्यभूपतिम् ।
वितीर्णो ऽद्य त्वया कामादहं शीलाभिधो गुणः
उक्त्वेति शक्रं याते ऽस्मिन्नपरो निरगात्ततः ।
सो ऽपि पृष्टो ऽवदद्दैत्यं धर्मो ऽहं शीलमार्गगः
विनिःसृतस्तृतीयो ऽपि सत्यमरमीत्युवाच ताम् ।
अवदद्वित्तमस्मीति चतुर्थो ऽप्यथ निर्गतः ।
अहं बलमिति क्षिप्रं निर्यातः पञ्चमो ऽवदत्
ततः कमलपर्यङ्कस्थिता कमललोचना ।
प्रह्लादवक्रान्निर्गत्य जगाद कमला स्वयम्
व्रजाम्यहं हसस्राक्षं यस्ते शिष्यो ऽभवद्द्विजः ।
तस्मै त्वया वितीर्णं हि शीलं शीलविभूषण
शीलादनुगतो धर्मः सत्यं तदनुयायि च ।
यातं वित्तं च तन्मूलं बलं चैतन्निबन्धनम्
एतेषु सुरराजस्य प्रविष्टेषु क्रमाद्वपुः ।
शीलाश्रयां श्रियं विद्धि मामपि प्रस्थितां विभो
इत्युक्त्वा शक्रसदनं ययौ लक्ष्मीर्विहाय तम् ।
एवं शीलोद्भवाः सर्वा दुर्योधनविभूतयः
इत्युक्तो ऽप्याम्बिकेयेन न शशाम सुयोधनः ।
पूज्येषु विमुखा मोहात्सर्वथा हि मुमूर्षवः
***** शीलवर्णनम् ॥ 28 ॥ *****
एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् ।
स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः
आशा ममाभूद्विपुला सततं धृतराष्ट्रजे ।
यथा वननिवृत्तेषु सा मास्मासु विधास्यति
सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने ।
आशा विफलतां नीता सा तेन मम संवृता
तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः ।
निवर्तन्ते कथं नाम कथ्यतां मे पितामह
पृष्टो युधिष्ठिरेणेति पुनः शान्तनवो ऽब्रवीत् ।
आशा सुमहती पार्थ दशा जीवितहारिणी
हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने ।
जवादनुससारैकं कुरङ्गं वेगवत्तरम्
समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च ।
मृगानुसारी सुचिरात्स धन्वी क्लममाययौ
ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसंतप्तो मुनीनामविशत्सभाम्
स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे सस्मिताननः ।
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम्
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् ।
विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ
ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसंतप्तो मुनीनामविशत्सभाम्
स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे स स्मिताननः
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ।
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम्
तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः ।
दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव
न विद्यते जनः कश्चिदाशया यो न हीयते ।
न च पश्यामि तं लोके याचकं यो ऽभिमन्यते
कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च ।
आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः
धिक्तां कृशतरामाशां कायशोषविधायिनीम् ।
प्रतिश्रुतमसंप्राप्य हृदयात्परिवर्तते
पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा ।
आशा दहति गात्राणि सा कृशापि महीयसी
वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः ।
स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः
भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा ।
हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम्
इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः ।
अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः
***** ऋषभगीताः ॥ 29 ॥ *****
आशापाशान्परित्यज्य योगीव विजितेन्द्रियः ।
पातुर्महसि कौन्तेय पृथ्वीं पृथुरिवापरः
कोशमूलं बलं राज्ञां तस्मिन्क्षीणे यथा तथा ।
अब्राह्मणधनैः कार्यात्तद्वृद्धिर्धर्मसंपदे
***** राजधर्माः ॥ 30 ॥ *****
वक्तारं सर्वधर्माणां सिद्धसिन्धुसुतं नृपः ।
क्षीणकोशसहायानां वृत्तिं पप्रच्छ भूभुजाम्
बलिभिर्विजितो राजा भिन्नमन्त्रो निराश्रयः ।
निरुत्साहतया भ्रष्टः किं श्रेयः संश्रयेदिति
भीष्मो ऽवदन्नरपतिः क्षीणः संधाय वैरिभिः ।
शनैः कोशबलादीनां यत्नात्कुर्याद्विवर्धनम्
तूर्णं वर्तेत साम्ना वा त्यक्तात्मा वारणं व्रजेत् ।
उभयोरन्तरे तिष्ठन्दीर्घसूत्रो विनश्यति
विपदानां मूलघाती यो ऽयं कोशापरिक्षयः ।
उत्थानोपहतास्तेन प्रभवन्ति न ताः किल
गृध्राः प्रयान्त्येव शवं दग्धमङ्गारकाष्ठकम् ।
न तु दारिद्र्यसंस्पष्टं कश्चित्स्पृशति पूरुषम्
अपि क्लिन्नसिराजालं पूतिर्युषितं शवम् ।
न तथा वर्जयन्त्याराद्धनहीनं यथा जनम्
विलुप्तविभवोद्भ्रान्तचेतसां विषमे पदे ।
अनश्वरमनाक्रम्यं मर्यादा मानिनां धनम्
अप्यनुत्सृष्टमर्यादो दस्युः स्यान्न विशृङ्खलः ।
मर्यादा संपदां धाम मूढता विपदामिव
पुरा दस्युपतिर्वीरः कोपव्यो गुरुपूजकः ।
अपरित्यक्तमर्यादः प्राप सिद्धिमनुत्तमाम्
रक्षिता न्यस्तशस्त्राणां द्विजानां योषितां तथा ।
निःशेषदानवसखः स लेभे विपुलं यशः
***** कोपव्यचरितम् ॥ 31 ॥ *****
न तज्जगति नामास्ति यदनाक्रम्यमापदाम् ।
शरीररक्षा प्रथमं तासां बुद्धिश्च भेषजम्
प्राप्तज्ञो दीर्घदर्शी च दीर्घसूक्षत्रश्च सानुगाः ।
बहुपुत्राः पुरा मत्स्या न्यवसन्सलिलाशये
स्राव्यमाणो जले तत्र धीर्वरैस्तज्जिघृक्षया ।
दीर्घदर्शी परानूचे गच्छामो मानसान्तरम्
इत्यर्थितौ तेन यदा तौ विमोहान्न जग्मतुः ।
दीर्घदर्शी तदा पूर्वं स्वयं प्रायात्सरः परम्
ततः स्रुतजले दाशैः कृष्टे मत्स्यकदम्बके ।
ललम्बे कृतकं धाम्नि प्राप्तज्ञो मृतवत्स्वयम्
सो ऽफालानखिलान्मत्स्यान्हत्वा प्रोतानथापरान् ।
जलान्तरे क्षालंनाय विक्षिपुर्जालजीविनः
न्यस्तेषु तेषु निःशङ्खैर्नदीष्वम्भसि धीवरैः ।
अलक्षितो ययौ तूर्णं प्राप्तज्ञो धीमतां वरः
अर्धजीवस्तु विचलन्दीर्घसूत्रो महाकृतिः ।
व्यपाद्यत निषादेन लगुडैर्जर्जरीकृतः
***** दीर्घदर्शीयम् ॥ 32 ॥ *****
बहुनां गोचरं यातो वैरिणां विषमे स्थितः ।
कुर्याद्बलाधिकं तेभ्यो मित्रं किंत्वतिशङ्कितः
न्यग्रोधमूलनिलयः प्रलयो मूषिकः पुराः ।
लोमशं नाम मार्जारं जालबद्धं व्यलोकयत्
बद्धे तस्मिन्गताशङ्कः स जिघ्रंश्चपलाननः ।
भक्ष्यं निशि चचाराखुर्विलिखन्नखरैर्महीम्
हरितं नाम सो ऽपश्यन्नकुलं लोहिताननम् ।
चन्द्रकाख्यमुलूकं च कूजन्तं घोरलोचनम्
तौ दृष्ट्वा बलिनौ भीतः संप्राप्ते प्राणसंशये ।
मूषिकः कलयन्सर्वा दिशः क्षणमचिन्तयत्
नकुलोलूकभीतो ऽहं मार्जारं बलिनां वरम् ।
संशये विषमस्थानां संधिस्त्राणं हि शत्रुणा
स निश्चित्येति तत्पाशच्छेदायोद्यतमानसः ।
मार्जारमवदन्नीलकाचकाचरलोचनम्
अमित्रो मित्त्रतां याति मित्त्रमायात्यमित्रताम् ।
कालेन तस्माच्छेत्स्यामि पाशं ते मित्त्रतां गतः
श्रुत्वैतन्मधुरं हृष्टो मार्जारः सुहृदं व्यधात् ।
गाढमङ्के परिष्वज्य मूषिकं विपदि स्थितः
तद्दृष्ट्वा नकुलोलूकौ निराशावाश्वभक्षणे ।
बभूवतुर्भुग्नमुखौ बलवत्प्रीतिशङ्कितौ
शनैः शनैर्मुषिको ऽथ चिच्छेद स्नायुबन्धनम् ।
तं तूर्णं तूर्णमित्यूचे मार्जारश्चिरकारिणम्
स्वार्थमुद्दिश्य लम्बन्ते ये क्षणं प्रीतितन्तुभिः ।
धूर्तांस्तान्कार्यशेषेण यापयेत्कार्ययाचकान्
एतद्ध्यात्वा धियैवाखुर्लुब्धकागमनावनधि ।
एकपाशांशशेषं तं चकार नयकोविदः
प्रातर्घोरतरे प्राप्ते चण्डाले परिघाभिधे ।
जालनिक्षिप्तनयने सशस्त्रे पाशजीविनि
पाशशेषं चकर्ताखुश्छित्वा च बिलमाविशत् ।
यातो व्याधो निराशश्च मार्जारे विद्रुते द्रुतम्
तस्मान्म्हाभयान्मुक्तः कालेनाभ्येत्य मूषिकम् ।
अन्तःस्थितं बिलद्वारान्मार्जारः प्रणतो ऽवदत्
अहं स ते परं मित्त्रमुपकारवशीकृतः ।
भृशमुत्कण्ठितां प्राप्तः सखे निर्गम्यतामितः
इति ब्रुवाणं मार्जारं दृष्ट्वा भक्षणदीक्षितम् ।
शुक्लतीक्ष्णाद्रदशनं श्मश्रुसूचीचिताननम्
जिघ्रान्तं मुषिकामोदमर्धोन्मीलितलोचनम् ।
उच्चैकपादनिभृतं तमभाषत मूषिकः
सौहार्देनोपयुक्तः प्राक्तव चाहं भावंश्च मे ।
गम्यतां स गतः कालो न भूमिर्वञ्चनेष्वहम्
यद्भवान्मधुरं वक्ति तन्मह्यं नाद्य रोचते ।
याचकः कार्यकालो ऽसावधुना नास्ति संगतम्
निजप्रयोजनापेक्षापेशलप्रियभाषणण् ।
दुर्बलः क्रूरमनसं धीरः दूरादेवार्यचेतसम् ।
न श्रेयो ऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः
कृतज्ञ भवसे मित्त्रं दूरादेवार्यचेतसम् ।
न श्रेयो ऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः
निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषिकः ।
बिलं तत्याजा कालेन दृष्टं धूर्तेन शत्रुणा
***** मार्जारमूषिकसंवादः ॥ 33 ॥ *****
एवमेष नयः प्राज्ञैर्ज्ञातव्यः शत्रुसंधिषु ।
न विश्वसेत्प्रियगिरां विशेषेण कृतागसाम्
काम्पिल्ये नगरे पूर्वं ब्रह्मदत्तस्य भूपतेः ।
उवास पूतना नाम विहगी जीवजीविका
सा राजभवने जातविस्रम्भाजीजनत्सुतम् ।
तत्पुत्रतुल्यजन्मा च पुत्रो ऽभूत्तस्य भूभुजः
वितीर्य सागरद्वीपसंजातं सा फलद्वयम् ।
स्वपुत्रं राजुपत्रं च बाल्ये ऽपि बलिनौ व्यधात्
ततः कदाचिद्विहगं शिशुं राजसुतो बली ।
आदाय केलिसंसक्तं चकार गतजीवितम्
विलोक्य निहतं पुत्रं समभ्येत्याथ पूतना ।
तुण्डेन राजपुत्रस्य क्रुद्धा नेत्रे व्यदारयत् ।
प्रतिकृत्य निकारेण दुःखिता गन्तुमुद्ययौ
व्रजन्तीं ब्रह्मदत्तस्तां हर्म्यादालोक्य संभ्रमात् ।
विदारिताक्षं पुत्रं च जगादाच्छाद्य विक्रियाम्
अपकारे प्रतिकृते वैरं वैरेण पातितम् ।
कोपः साम्यादपक्रान्तो मा गमः पुत्रि पूतने
तच्छ्रुत्वोवाच विहगी नेदानीमस्ति संगतम् ।
कृतप्रतिकृतं वैरमभ्यासाद्द्विगुणं भवेत्
श्रुत्वा च गुरुवृद्धेभ्यः पुराणमपि विस्मृतम् ।
सहसा नवतां याति वैरं कोटरवह्निवत्
कृतापकारे विश्वासं मोहाद्यो याति बालिशः ।
स विस्मृतात्मा सहसा याति कालविधेयताम्
गीतेनेव कुरङ्गाणमामिषेणेव पक्षिणाम् ।
बडिशेनेव मत्स्यानां विश्वासनव्यथा नृणाम्
प्रियवाद्यैर्विभिन्नानां संश्लेषः किल दुर्लभः ।
मुक्ताफलानां भग्नानां जतुलेशैर्न संधयः
धिक्तं कुदेशः यत्रात्मा न शेते ऽशाङ्कितः सुखम् ।
प्रवादः किल सत्यो ऽयं यदात्मार्थे महीं त्यजेत्
इति ब्रुवाणा सा राज्ञा प्रार्थितापि पुनः पुनः ।
अविश्वासभयात्प्रायात्त्यक्त्वा प्रणयगौरवम्
***** ब्रह्मदत्तपूतनासंवादः ॥ 34 ॥ *****
आपत्काले घृणां त्यक्त्वा कृतस्नेहेषु गौरवैः ।
प्रतिकूलेषु वर्तेत प्रतिकूलतरं धिया
राज्ञा शत्रुन्तपाख्येन वृत्तिं नीतिं च भूभुजाम् ।
कणिङ्कनामा नीतिज्ञः पुरा पृष्टो ऽब्रवीन्मुनिः
मूलच्छेदं रिपोः कुर्यादथवा न प्रकोपयेत् ।
अन्यथासौ विनाशाय पादस्पृष्ट इवोरगः
जनं विश्वसयेद्वाचा शौचं दम्भेन दर्शयेत् ।
प्रगाणैः शपथैः शास्त्रैः शत्रुं सेवेत शम्बरैः
अतीतशान्तये स्नेहै समं जडमनागतैः ।
प्रत्यक्षैरुपपत्रैश्च पिण्डितैः फलवर्जितैः
तूलवत्सहसा क्षिप्रं ज्वलेदवसरे क्वचित् ।
मन्दप्रतापो धूमाङ्को न भवेद्द्रुमवह्निवत्
प्रयोजनार्थिनः कुर्यादाशाबन्धान्सदा मदा ।
न हि कश्चित्कृते कार्ये कर्तारमनुमन्यते
लोकापवादादुद्वेगो मार्दवं चिरकारितम् ।
असंवृत्तिः स्वमन्त्रे वा मूलच्छेदोर्ऽथसंपदाम्
प्रसुप्तो बधिरो ऽन्धो वा काले स्यात्स्वार्थसिद्धये ।
प्रपातमधुवत्तिष्टेद्दुर्लभः सर्वदेहिनाम्
दारुणः स्यान्मुखे स्वादुर्गुडलिप्त इवोपलः ।
विशेदन्तश्च शत्रूणां मधुदिग्ध इव क्षुरः
दीर्घमाशामिषं दातुं चिन्तयेज्ज्ञानसंग्रहम् ।
आशां निघ्नैर्नमित्तैश्च हेतुभिश्च तथा वदेत्
न यथा रतिमायाति संवत्सरशतैरपि ।
अतृप्तिजनका प्रीतिर्दद्यात्स्वस्यान्तरं नृणाम्
काकवत्परिशङ्केन नाशयेन्मृगमुग्धताम् ।
चारैर्भवेच्च सर्वज्ञः प्रहरेद्व्यसने रिपौ
पूर्वं मायाभिघाती स्याद्धतं शोचेत्स्वबन्धुवत् ।
न कुर्यान्निष्फलं वैरं न हरेदप्यपुष्कलम्
दन्तानां शातनं मिथ्या शुष्कास्थिपरिचर्वणम् ।
शृणवद्व्याधिवच्छेषं न शत्रोः परिवर्जयेत्
अपि पुत्रं स्वयं हन्यादर्थविघ्नविधायिनम् ।
गृध्रवद्दीर्घदर्शी स्याद्बकवत्कपटव्रतः
शार्दूलवन्महोत्साहः कुटिलश्च भुजङ्गवत् ।
भेदनाय सदा कुर्यात्परेषां पौरसान्त्वनम्
गणांश्चोपजपेत्पूर्वं धनैराकृष्य वल्लभान् ।
पण्डितैर्वैरमुत्पाद्य न निःशङ्कः सुखं चरेत्
एतद्बुद्ध्वैव निखिल ननु सेवेत सज्जनम् ।
सुवेरराजः श्रुत्वैतद्भारद्वाजेन भाषितम् ।
कणिङ्कख्येन मुनिना बभूव नयकोविदः
***** कणिङ्कोपाख्यानम् ॥ 35 ॥ *****
आपदं कालदौरात्म्याद्देवदोषेण वा बुधः ।
संप्राप्तो दैवदिष्टाद्वा धिया वर्तेत संकटे
अयमेव सदोपायो भावि कल्याणसंपदाम् ।
त्रिवर्गसाधनं देहं रक्षेदापत्सु यद्बुधः
अनावृष्टिहते काले पुरा द्वादशवार्षिके ।
कथाशेषेषु तोयेषु दुर्भिक्षक्षपिते जने
उत्सन्ने धर्मसंताने शवाकीर्णे महीतले ।
त्यक्त्वाग्निदैवताः सर्वे मुनयो लुप्तसंयमाः
बभ्रमुर्नष्टसंकेता निर्दग्धाश्रमकाननाः ।
विश्वामित्रो ऽथ विचरन्नवाप श्वपचालयम्
कृत्तप्राणिवसाविस्रं शुष्कमांसास्थिभालिकम् ।
आयासनियमावासं श्वचर्मास्तीर्णपक्कणम्
शोणितापूर्णपिठरं सरमासङ्गसंकुलम् ।
स्नायुप्रलम्बसंबाधं कङ्कालशकलाकुलम्
क्षुत्क्षामकुक्षिस्तत्रापि मुनिर्भिक्षामयाचत ।
अर्थमानो ऽपि स यदा ततो लोभेन किंचन
तदा कृच्छ्रां दशां यातः पपात भुवि मूर्छितः ।
सो ऽचिन्तयदहो कष्टमियमापदुपस्थिता
श्वमांसलेशमथवा हरामि निशि चौरवत् ।
प्राणार्थी सर्वमादद्यात्सर्वतः स्थितिविप्लवे
आपदि प्राणरक्षा हि धर्मस्य प्रथमाङ्कुरः ।
एतच्चिन्तयतस्तस्य कृष्णरात्रिः प्रवर्तिता
श्वपाकवञ्चितानेककाकपक्षैरिवावृता ।
स सक्तिकां स्नायुतत्त्रीं लम्बमानां विचिन्त्य सः
कुटीद्वारं शनैः प्राप्य सकम्पो हर्तुमुद्ययौ ।
अन्तः प्रसुप्तो निर्निद्रः श्लेष्मव्यालग्नलोचनः
वृद्धः श्वजीवी प्रोवाच तं कासोद्धर्घरस्वरः ।
स्नायुराकृष्यते केन नास्मि निद्रावशं गतः
एष शस्त्रेण सहसा हन्यते यो ऽत्र लम्बते ।
विश्वामित्रो निशम्यैतत्तमूचे दुर्बलस्वरः
कौशिको ऽहं मुनिः प्राणरक्षायै चौरतां गतः ।
अलब्धभैक्षः क्षुत्क्षामो हराम्येनां श्वजाघनीम्
अधर्मो नातुरस्यास्ति घोरं कृच्छ्रं गतस्य च ।
मूलं च जीवो धर्मस्य तस्मिन्नापत्सु रक्ष्यते
प्रवर्तन्ते पुनः सर्वाः सदाचारोचिताः क्रियाः ।
इत्युक्तो मुनिना वृद्धः समुत्थाय जगाद सः
अहो नु भगवन्प्राणलोभात्पापं प्रशंससि ।
युष्माभिरेव विहितो भक्ष्याभक्ष्येषु निर्णयः
स कथं जीवितभ्रंशभयात्पापे प्रवर्तसे ।
न वारयामि ते मांसं वितरामि न ते स्वयम्
वक्तासि सर्वधर्माणां मोहान्मा निरयं गमः ।
एतत्स मुनिनाकर्ण्य जगाद प्रस्खलन्मुहुः
यस्मिंस्तपश्च सत्यं च स्वज्ञान च प्रतिष्ठितम् ।
शरीरे रक्षिते तस्मिन्सर्वं भवति रक्षितम्
अभक्ष्यं भक्षयित्वापि विमुक्तः प्राणसंशयात् ।
व्रततीर्थेषु पुण्येन क्षपयिष्यामि पातकम्
इत्युक्त्वा तां समादाय ययौ तूर्णं श्वजाघनीम् ।
अस्मिन्नवसरे मेघा ववर्षुः सस्यसंपदः
इत्येवं प्राणरक्षायै मुनिनाप्यतिगर्हिते ।
श्वमांसे विहिता बुद्धिस्तस्मात्त्रायेत जीवितम्
***** विश्वामित्रश्वपचसंवादः ॥ 36 ॥ *****
धर्मसूनुर्निशम्यैतद्भीष्मं पप्रच्छ विस्मितः ।
पितामह गतिं ब्रूहि शरणागतरक्षिणाम्
एतत्पृष्टो नृपतिना प्राह शन्तनुनन्दनः ।
पृष्टः पूर्वं जगादेदं मुचुकुन्देन भार्गवः
विपुले दुर्दिनायासे लुब्धकः कानने पुरा ।
शीतसंपिण्डितो रात्रौ मूले सुष्वाप शाखिनः
स्कन्दे विटपिनस्तस्य कपोतः कृतसंश्रयः ।
वासरान्ते ऽपि नायातां स्मृत्वा भार्यामतप्यत
विललाप स संतप्तः प्रियाविरहकातरः ।
कपोती तच्च शुश्राव बद्धा व्याधेन पञ्जरे
सा तमूचे सुकृतिनो न प्रयान्ति विषण्णताम् ।
प्रथमं सुकृतमेतच्छरणागतरक्षणम्
लुब्धको वृक्षमूले ऽस्मिन्सुप्तो ह्यस्मै यथोचितम् ।
पूजां विधत्स्व शीतार्तः शरणं ह्येष वाञ्छति
प्रयस्या वचनं श्रुत्वा लुब्धकं विहगो ऽब्रवीत् ।
भद्र मद्गृहमाप्तो ऽसि वितरामि तवेप्सितम्
शीतार्दितस्तदाकर्ण्य लुब्धकस्तमयाचत ।
वह्निं सो ऽपि खगस्तूर्णं मानिनाय दिवो ऽन्तिकम्
तृणपर्णसुसिद्धे ऽग्नौ ज्वलिते लुब्धकस्ततः ।
विनष्टशीतः क्षुत्क्षामस्तमयाचत भोजनम्
मां भक्षयेति कारुण्यान्निगद्य विहगः स्वयम् ।
विवेश वह्निं तदद्दृष्ट्वा व्याधो ऽप्यनुशयं ययौ
स त्यक्त्वा कूटयन्त्राणि समुत्पाट्य च पञ्जरम् ।
विरक्तः काननं प्रायाद्विहितानशनव्रतः
कपोते त्रिदिवं याते विमानेनार्कवर्चसा ।
भर्तारमनुशोचन्ती कपोती वह्निमाविशत्
तस्यां निवसमानायां भर्त्रा सह सुरालये ।
दावानले तनुं त्यक्त्वा लुब्धको ऽपि दिवं ययौ
***** लुब्धककपोतीयम् ॥ 37 ॥ *****
पापमर्जितमज्ञानात्कथं नश्यति देहिनाम् ।
पृष्टो युधिष्ठिरेणेति पुनः शान्तनवो ऽब्रवीत्
इन्दोताख्यं मुनिवरं राजा पारिक्षितिः पुरा ।
ब्रह्महत्याकुलः प्रायाद्विश्वस्तः शरणं वने
मुहुस्तेन निरस्तो ऽपि पापसंसर्गभीरुणा ।
निनाय करुणैर्वाक्यैस्तं राजा करुणार्द्रताम्
तस्य कीर्तयतः पापं तप्तस्यानुशयाग्निना ।
तीर्थाप्लुतस्य शनकैः स मुनिर्याजको ऽभवत्
अश्वमेधेन विधिवत्पूतात्मा सो ऽथ भूपतिः ।
तारितः किल्बिषाद्धोरादिन्दोतेन कृपालुना
***** इन्दोतपारिक्षितीयम् ॥ 38 ॥ *****
व्ययसायेन बुद्ध्या च निश्चयेन च देहिनः ।
तरन्ति नरकं बालं शुशुचुर्बान्धवाः पुरा
तान्समेत्याब्रवीद्गृध्रो गम्यतां त्यज्यतां शिशुः ।
इमामवस्थां पर्यन्ते को नाम न गमिष्यति
मा तिष्ठत चिरं घोरे श्मशाने प्रेतबान्धवाः ।
इह मर्त्यसहस्राणि ययुर्यास्यन्ति च क्षयम्
श्रुत्वैतद्बालकं त्यक्त्वा शनैस्तान्गन्तुमुद्यताम् ।
उवाच जम्बुको ऽभ्येत्य धिग्युष्मान्निर्घृणाशयान्
अहो नु दारुणा यूयं त्यक्त्वा गच्छन्ति ये सुतम् ।
गतासवो ऽपि जीवन्ति कदाचित्सुप्तभौतिकाः
किंत वो भयं श्मशाने ऽस्मिन्यातो ऽस्तं न दिवाकरः ।
तिरश्चामपि बाले ऽस्मिञ्जायते करुणाकणः
शृगालेनेति गदिते पुनः शवभृतश्च तान् ।
गृध्रो जगाद चित्रं वो जम्बुकस्य गिरा भ्रमः
जीवरत्नभृतो यूयं काष्ठलोष्ठोपमाकृतेः ।
स्नेहेन पातजीवस्य शिशोः किं यात मूढताम्
वनं व्रजत वैराग्यात्तपः कुरुत वा महत् ।
वियोगसारे संसारे सत्यान्नान्यत्परायणम्
अन्येन वर्त्मना पुत्रः पिता चान्येन गच्छति ।
स्वकर्मभिः परे लोके त्यजत स्नेहविक्रियाम्
यान्त्येव वृद्धास्तरुणा बाला गर्भगतास्तथा ।
क्रियते किं विचारो ऽस्ति न कालस्य प्रमाथिनः
बन्धूनामिदमानृण्यं स्थितिज्ञानं प्रचक्षते ।
मृतः प्रलापं बाष्पं च न शृणोति न पश्यति
वत्सराणां सहस्रं मे साग्रं जातस्य वर्तते ।
निर्गतासुर्मया दृष्टः प्रलापैर्नोत्थितः क्वचित्
इत्युक्त्वा विरते गृध्रे गोमायुः पुनरब्रवीत् ।
दयां कुरुत कान्ते ऽस्मिन्बाले कमललोचने
शम्बुकस्य वधात्पूर्वं मृतो ऽपि ब्राह्मणात्मजः ।
दशकण्ठद्विषो राज्ये जीवितं प्राप दुर्लभम्
कराभ्यां शिशुनानेन वितीर्णं सलिलाञ्जलिम् ।
कदाचित्पास्यति पिता सुकृती परलोकगः
भाषिते जम्बुकेनेति गृध्रः पुनरुवाच तान् ।
सन्तः शोकामये नॄणां न प्रशंसन्ति भेषजम्
दिनान्ते दारुणतरा भवत्येषा श्मशानभूः ।
कङ्कालमालाकलितैर्भूतवेतालमण्डलैः
क्षणेन हि न गीर्यन्ते सहस्राणि भवादृशाम् ।
मा कुरुध्वं प्रयासे ऽस्मिन्व्यसने कलहे मतिम् ।
वपुषां जीवितानां च गतानामगमः कुतः
इति गृध्रस्य वचसा निवृत्तान्वीक्ष्य बान्धवान् ।
उवाचाभ्येत्य गोमायुः पुनः स्वार्थैकपण्डितः
अबान्धवे ऽस्मिन्नधुना न संसारे मतिर्मम ।
गच्छन्ति काष्ठवत्त्यक्त्वा पुत्रकं यत्र मानुषाः
वृद्धः प्रयात्यात्मभयाद्विजने त्यज्यते शिशुः ।
को ऽस्मिन्प्रत्ययमाधत्तां जनः स्वार्थपरे जने
इत्यूचतुस्तौ भक्ष्यार्थं क्षुत्क्षामौ गृध्रजम्बुकौ ।
दिवा गृध्रस्य भोज्यं यद्रात्रौ गोमायुकस्य तत्
अत्रान्तरे समभ्येत्य भगवानम्बिकासुतः ।
स्वेच्छाविहारी वरदस्तं बालकमजीवयत्
शतायुषं स्कन्दवरात्ते ययुः प्राप्य तं सुतम् ।
प्रापतुश्चेश्वरदृशा कुशलं गृध्रजम्बुकौ
इत्यनिर्वेदशीलानां धीमतां व्यवसायिनाम् ।
अभीप्सितानि सहसा सिध्यन्तीश्वरशासनात्
***** गृध्रगोमायुसंवादः ॥ 39 ॥ *****
न कुर्याद्बलिना वैरं दुर्बलो दर्पमाश्रितः ।
विनष्टः स्पर्धया वायोर्महाञ्शल्मलिपादपः
विस्तीर्णशाखाविपुलः संतप्ताध्वन्यसंश्रयः ।
बभूव हिमवत्प्रस्थे शल्मलिश्चुम्बिताम्बरः
पप्रच्छ नारदः प्रीत्या तं यदृच्छागतो मुनिः ।
अहो नु तव नीरन्ध्राः पत्त्रपुष्पफलश्रियः
मन्ये तव परं मित्त्रं वायुर्येनासि रक्ष्यसे ।
तरवस्तद्बलाक्रान्ता विशीर्यन्ते पतन्ति च
श्रुत्वैतदूचे दर्पान्धः शल्मलिः स्कन्दबन्धुरः ।
चित्त्रं मुने न जानीषे बले तुल्यो न मे ऽनिलः
कत्थनेनेत्यभिहिते बहुशस्तेन शाखिना ।
तदेव नारदो गत्वा पवनाय न्यवेदयत्
तद्गिरा क्रोधविधुरः स्फारः प्रलयमारुतः ।
श्वो द्रष्टासीति तं वृक्षं समभ्येत्य तदाब्रवीत्
रजन्यामथ संत्रासात्स संचिन्त्यैव शल्मलिः ।
प्रभञ्जनं महावेगं धीमान्खयमशीर्यत
ततः प्रातः शकलिताशेषशाखासमाकुलम् ।
अपश्यद्वायुरभ्येत्य विशीर्णं शल्मलिं स्वयम्
अहो नु धन्यमन्त्रो ऽसि बुद्ध्या त्वं रक्षितस्तरो ।
इत्युक्त्वा विगतक्रोधो वायुः प्रायाद्यथागतम्
***** नारदशल्मलिसंवादः ॥ 40 ॥ *****
लोभे एव महत्पापं ज्ञानमेव परं महः ।
दम एव परा शान्तिस्तप एव परं पदम्
सत्यमेव परं पुण्यं श्रेयः क्रोधाभिनिग्रहः ।
आनृशंस्यं परो धर्मः सारो ऽयं धर्मवादिनाम्
***** अध्यायः ॥ 41 ॥ *****
श्रुतिस्मृतिकृतैस्तैस्तैः प्रायश्चित्तैः शरीरिणाम् ।
कीर्तनात्तीर्थसेवाभिः पापं दानैश्च नश्यति
ब्रह्महा द्वादश समाः कपालाङ्को व्रतं चरेत् ।
संमुखः खड्गलितो भ्रूणहा मुच्यते युधि
ब्राह्मणार्थे हताः पापं तरन्ति गुरुतल्पगाः ।
मुच्यन्ते सर्वपापेभ्यो हयमेधेन भूमिपाः
***** प्रायाश्चित्तविधिः ॥ 42 ॥ *****
धर्मात्मजोपदेशेषु नकुलेन कथान्तरे ।
अथ पृष्टो ऽब्रवीद्भीष्मः करवालस्य संभवम्
असुराभिहते काले हिमवच्छिखरे पुरा ।
स्वयंभूर्भगवान्खङ्गो धात्रा ध्यातः समाययौ
प्रांशुर्नीलोत्पलश्यामो भुवनानि विलोकयन् ।
स बभूव त्रिनेत्रस्य ब्रह्मवाक्यात्कराग्रगः
तेन निष्कण्टकं कृत्वा रुद्रो रौद्रेण कतेजसा ।
जगच्छिवाकृतिः पश्चाद्बभूव शशिभूषणः
तं खड्गं लेभिरे भूपा मनुप्रभृतयः क्रमात् ।
यस्य धारानिपातेन पुनर्जन्म न देहिनाम्
***** खड्गोत्पत्तिः ॥ 43 ॥ *****
श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् ।
विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना
तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः ।
शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः
***** षड्गीताः ॥ 44 ॥ *****
समभ्येत्याथ पप्रच्छ पुनर्भीष्मं युधिष्ठिरः ।
सौहार्दं केन न चलेदिति पृष्टो ऽब्रवीच्च सः
कृतज्ञैः साधुभिः सभ्यैः कुलीनैरनपायिभिः ।
सतां न नश्यति प्रीतिर्गुणादानैकतत्परैः
मित्रद्रुहः कृतघ्नांश्च वर्जयेत्कुटिलाशयान् ।
कृतघ्नतासमं राजन्न हि पश्यामि पातकम्
दर्पवान्मलिनाचारो वेदाध्यापनवर्जितः ।
मध्यदेश्यो ऽसिततनुः शीलाचारपराङ्मुखः
गौतमो नाम कलुषो ब्रह्मबन्धुरभूत्पुरा ।
स वसञ्शबरीसक्तः पर्यन्तेषु धनार्थिताम् ।
बिभ्रद्भ्रान्त्वा वसुमतीं सार्थभ्रष्टो ऽविशद्वनम्
तस्मिन्स्निग्धतरुच्छाये प्रसन्नहरिकुञ्जरे ।
न्यग्रोधपादपस्याग्रे छायार्थी समुपाविशत्
नाडीजङ्घाभिधस्तूर्णं बकः सुगतसद्व्रतः ।
विलोक्य तं कृपाविष्टो दुर्गतं विनतो ऽब्रवीत्
ब्रह्मन्दारिद्र्यमुन्निद्रं तवैतत्प्रदहाम्यहम् ।
सुहृदं मे विरूपाक्षं राक्षसेन्द्रमितो व्रज
कार्तिक्यां स हि दातॄणां धुर्यो दास्यति ते धनम् ।
मदीयमिति तच्छ्रुत्वा स गत्वा करुणाकुलात्
तस्मात्कनकमासाद्य बहुलं तूर्णमागतः ।
बकं विलोक्य तत्रैव धनतुष्टो व्यचिन्तयत्
न ह्येतद्भक्ष्यते हेम वने विगतविक्रिये ।
सांप्रतं बकमेवाद्य पातयामि सुपीवरम्
इति संचिन्त्य सुचिरं पाथेयार्थी द्विजाधमः ।
हेमभारनतः सुप्तं जघान सरलाशयम्
अदर्शनेन तस्याथ खिन्नो राक्षसभूपतिः ।
शङ्काकुलश्चारचक्रं विसृज्य प्राप तं द्विजम्
हतं तेन बकं ज्ञात्वा निजग्राह तमुत्कटम् ।
आकाशधुनिफेनैश्च जीवितं प्राप खेचरः
अपराधहतं दृष्ट्वा नाडीजङ्घो ऽपि गौतमम् ।
अजीवयद्दुराचारं न मन्युरधमे सताम्
एवं कृघ्नचरितो गौतमः सुगतव्रतम् ।
जघान पापे पापानां निःशङ्कं रमते मनः
न्यासापहारिणो धेनुस्त्रीगुरुब्राह्मणान्तकाः ।
धर्मिष्ठा इव यस्याग्रे स कृतघ्नो विचार्यताम्
***** आपद्धर्माः ॥ 45 ॥ *****
अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् ।
कथं समाश्रयेद्धर्मं विनष्टधनबान्धवः
स तेन पृष्टः प्रोवाच शृणु सेनजितं नृपम् ।
पुत्रशोकाकुलं कश्चिज्ज्ञात्वाभ्येत्यावदद्द्विजः
अभावायैव जायन्ते भवे ऽस्मिन्सर्वजन्तवः ।
शोच्यस्त्वमपि कालेन कथं शोचसि पार्थिव
यदृच्छया संगतश्चेत्प्रतियातो यदृच्छया ।
संसाराध्वनि तत्को ऽयं वियोगे मोहविभ्रमः
जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् ।
ममायमिति मुग्धानां न स तेषां न तस्य ते
शोचन्त्यलुब्धं वाञ्छन्तः प्राप्तं शोचन्ति दुर्भगम् ।
नष्टं शोचन्ति दुःखार्ता जन्तवः सुखिनः कदा
धनपुत्रकलत्रेषु न स्निह्यन्ति विपश्चितः ।
अवश्यं विप्रयोगो हि तैः परैश्च नृणां सदा
को नाम प्रियसंयोगान्न मन्येतामृतोपमान् ।
मर्मच्छिदो वियोगेषु यदि न स्युर्विषोत्कटाः
पिङ्गला दत्तसंकेतं कान्तं वाराङ्गना पुरा ।
अनागतं चिरं ध्यात्वा स्वयमेकाब्रवीन्निशि
आगतेनापि किं तेन वियोगे दुःखदायिना ।
भजे कान्तमिहान्तस्थामनश्वरमशोचकम्
इति संतोषपीयूषशान्ता शापापवेदना ।
प्रतिबुद्ध्वैव सुष्वाप परमे धाम्नि पिङ्गला
***** सेनजिद्गीताः ॥ 46 ॥ *****
अस्मिन्प्रवाहवद्याति नृणामायुषि किं सुखम् ।
पृष्टो युधिष्ठिरेणेति पुनरूचे पितामहः
मेधाविना पुरा पृष्टः पुत्रेणैतद्द्विजः पिता ।
उवाचाध्ययनं कृत्वा ब्रह्मचारी ततो गृही
पुत्रैः पितॄणामनुणो भूत्वा पीत्वानिलान्वने ।
मुनिस्तुल्यसुहृद्द्वेष्यः प्रयाति परमं पदम्
तच्छ्रुत्वोवाच तनयः सर्वमेतदनिन्दितम् ।
श्लाघ्याय श्रेयसे कर्म यदि कालः प्रतीक्षते
असमाप्तस्वकार्याणामायुः स्वल्पममुद्रितम् ।
अहोरात्रगणैरेव स्रवयेतदलक्षितम्
मुहूर्तमपि जन्तूनां कालो ऽयं कलिताखिलः ।
सार्थः सुदूरगामीव नार्थितो ऽपि विलम्बते
क्षणार्धमपि कार्येषु न विलम्बेत पण्डितः ।
न जानीमः कदा कस्मिन्कृतान्तो निपतिष्यति
न वात्सल्यान्न कारुण्यान्नोपयोगान्न गौरवात् ।
प्रतीक्षां क्षमते कालः कार्यशेषेषु देहिनाम्
मृत्युना यस्य सौहार्दं यो न वेत्त्यायुषो ऽवधिम् ।
श्वः कर्तास्मीदमित्येषा वाणी तस्यैव शोभते
अहो नु मोहमुग्धस्य लोकस्येयं प्रमादिता ।
यद्बालं मृतमालोक्य वृद्धस्तिष्ठति निर्भयः
नवे वयसि भोगार्हे नवेषु विभवेषु च ।
नवोढेषु च दारेषु ह्रियते मृत्युना जनः
तस्मात्कुशलमेवादौ कार्यं संसारशान्तये ।
तरत्तरङ्गलोलो हि देहिदेहसमागमः
***** पितापुत्रसंवादः ॥ 47 ॥ *****
धनिनां निर्धनानां च विभागं सुखदुःखयोः ।
पृष्टो ऽथ धर्मराजेन पुनः शान्तनवो ऽब्रवीत्
शम्पाको नामवान्विप्रः पुरा धीमानभाषत ।
वितृष्णयातिपीड्यन्ते संतोषो ऽमृतनिर्झरः
भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः ।
निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः
सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते ।
संतोषवान्निरायासो निरपायो निरामयः
धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः ।
कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः
चौरो भूपालभीतस्य वृद्ध्यार्थं पापकारिणः ।
अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः
लोभशुष्ककलत्रस्य दुःखैकफलभागिनः ।
स्पर्धाकथैव का नित्यमाकिंचन्यामृताशिभिः
मन्यते तावदात्मानं शक्रवैश्रवणोपमम् ।
गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः
धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् ।
निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका
***** शम्पाकगीताः ॥ 48 ॥ *****
याते वैफल्यमारम्भे किं कुर्याद्द्रविणोत्सुकः ।
एतत्पृष्टः क्षितिभुजा ध्यात्वा शान्तनवो ऽवदत् ।
श्रूयतां यद्विनष्टार्थसमये दुःखभेषजम्
मङ्किर्नाम द्विजः पूर्वमीहमानो ऽसकृद्धनम् ।
प्रयत्नैरपि न प्राप विधिवैमुख्यहेलाय
क्षीणार्थः सोर्ऽथशेषेण क्रीत्वा चाथ वृषद्वयम् ।
स्वयमुत्कर्षणं चक्रे क्षेत्रे विपुलवाहकः
अत्रान्तरे पृथुग्रीवो निद्राभङ्गात्समुत्थितः ।
जहारोष्ट्रो महाकायस्तौ वृषौ स्कन्धलम्बिनौ
युगोत्क्षेपाल्लम्ब्यमानौ तौ तेन बलशालिना ।
वृषौ विलोक्य शोकार्तो विललाप द्विजात्मजः
अहो नु चित्रवर्णाङ्कौ मम वत्सतरौ प्रियौ ।
कर्षन्विभाति करभो रत्नाढ्याविव भूषणौ
इत्युक्त्वा जातनिर्वेदगाढवैराग्यवासनः ।
तृष्णां निनिन्द सहसा प्रशान्तानुशयज्वरः
दुःखाय बत जन्तूनां तृष्णा परिभवास्पदम् ।
विप्रलब्धो जनः सर्वो यया शोचत्यहर्निशम्
अलब्धं वाञ्छतां वित्तं लब्धं च परिरक्षताम् ।
नष्टं च शोचतां पुंसां कदा दुःखं निवर्तते
कामोर्ऽथेषु विपन्मूलं संतोषः परमं सुखम् ।
निष्कामश्च सकामश्च मतौ मे स्वस्थरोगिणौ
सधनश्चिन्त्यते राज्ञा दस्युना स्वजनेन च ।
विकलश्चेति लोकेन निर्धनश्च न गण्यते
तस्मात्संत्यक्तकामानां संतोषधनशालिनाम् ।
क्षयोदयव्ययायासैर्न चेतः परिभूयते
इदं लब्धमिदं नष्टमिदं लप्स्ये पुनर्धिया ।
इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम्
अधुना लोभमुन्मूल्य स्पृहां दूरे निरस्य च ।
वीतमोहो भवाम्येष मुनिस्तुल्यप्रियाप्रियः
त्यागो हि हन्ति व्यसनं तथा हि जनकः पुरा ।
दह्यमाने ऽपि नगरे नाभजद्दुःखविक्रियाम्
इति ध्यात्वा चिरं मङ्किर्निर्वेदाच्छान्तमानसः ।
आशापाशं परित्यज्य परं पदमवाप्तवान्
***** मङ्किगीताः ॥ 49 ॥ *****
एतद्धर्मसुतः श्रुत्वा पुनः शन्तनुनन्दनम् ।
समभ्यधात्कथं जन्तुर्वीतशोकश्चरेदिति
सो ऽब्रवीच्छृणु भूपाल प्रह्लादो दानवाधिपः ।
नित्यानन्दं पुरा विप्रमूचे स्वच्छन्दचारिणाम्
सुखदुःखशतावर्ते विपुले ऽस्मिन्धनार्णवे ।
अविलुप्तः कथं ब्रह्मन्नित्यतुष्टो ऽभिलक्ष्यसे
केयं श्लाध्यतरा वृत्तिः को वायं विभवो धियः ।
क्रीडाविहारी लोके ऽस्मिन्यदसक्तो न लिप्यसे
इति पृष्टो द्विजस्तेन बभाषे विपुलाशयः ।
तटस्थः सर्वभावेषु नित्यतृप्तश्चराम्यहम्
मायाविलसितं सर्वं जानन्संसारविभ्रमम् ।
क्षयोदयेषु भूतानां न दुःखं न सुखं भजे
आयुषां विभवानां च भावानां च स्वभावतः ।
पश्यन्नसारतामेतान्नानुशोचामि निर्व्यथः
भुञ्जानो विविधान्भोगान्निराहारो ऽथवा क्वचित् ।
नग्नश्चीराम्बरो वापि महार्हवसनो ऽपि वा
भुजोपधानः क्ष्माशायी पर्यङ्कशयनो ऽपि वा ।
समः शमदमाभ्यां च धराम्याजगरं व्रतम्
परावरज्ञो भावानां कूटस्थो विगतस्पृहः ।
त्यक्तमोहभयद्वेषश्चराम्याजगरं व्रतम्
पाप्तं गिरत्यजगरः कुरङ्गं महिषं गजम् ।
असंप्राप्तेष्वनुद्वेगं विधत्ते निश्चलस्थितिः
एतामाजगरीं वृत्तिमाश्रित्य विमलाशयः ।
न चिन्तयामि सत्त्वस्थो लाभालाभौ सुखासुखे
ब्राह्मणेनेति कथितं श्रुत्वा विस्मितमानसः ।
जीवन्मुक्तदशां तस्य प्रह्लादः प्रशशंस ताम्
***** प्रह्लादब्राह्मणसंवादः ॥ 50 ॥ *****
एतत्पाण्डुसुतः श्रुत्वा पुनर्भीष्ममभाषत ।
कुलकर्मार्थबुद्धीनां पितामह किमुत्तमम्
इति पृष्टो नृपतिना बभाषे जाह्नवीसुतः ।
अतिक्रम्य गुणान्सर्वान्प्रज्ञैवोपरि वर्तते
वैश्यौ धनमदाध्मातः स्यन्दनेन पुरा व्रजन् ।
अपातयत्कृशतरं मुनिं वर्त्मनि कश्यपम्
ललत्कुण्डलगण्डेन स तेन भुवि पातितः ।
शोचन्दरिद्रमात्मानं निश्चयं निधने व्यधात्
तं पांसुशायिनं दीनं प्राणत्यागकृतव्रतम् ।
शक्रः शृगालरूपेण कृपया वक्तुमाययौ
सो ऽवदद्बत संतोषः संसारे नास्ति कस्यचित् ।
मुने यदुज्ज्वलाचारो नात्मानं बहु मन्यसे
धन्या मनुष्याः संसारे यैः स्वहस्तेन भुज्यते ।
कण्डूर्निवार्यते कीटकण्टकादिर्विकृष्यते
अहो सुकृतिनां राजा त्वं यन्मानुषयोनिजः ।
ब्राह्मणश्च तपस्वी च स्पृहणीयो ऽसि कश्यप
अहो धन्यो ऽसि यन्नास्वुर्न मण्डूको न कुक्कुटः ।
न पुक्कसो न चाण्डालो न कुष्टी न जडो ऽसि वा
दृश्यन्ते दीर्घरोगार्ता दुःखाद्दुःखतरं श्रिताः ।
शोचन्तस्तामसीं योनीं प्रपन्नास्तान्विलोकय
मनुष्यः परिपूर्णाङ्गो व्याधिव्यसनवर्जितः ।
ब्राह्मणश्च त्वमुदितस्त्वत्तो धन्यतरो ऽस्ति कः
असंतोषे मतिं मोहान्मा कृथा विभवाशया ।
प्राप्येन्द्रतामपि जनस्ततो ऽप्याधिक्यमीहते
तृष्णेयं सतताभ्यासाद्वर्धमाना शरीरिणाम् ।
अन्त्रस्नायुमयी तन्त्री कृष्टेवायाति दीर्घताम्
तस्मात्स्वधर्मनिरतः स्पृहणीयः कुलोद्गतः ।
परस्य विभवं दृष्ट्वा न कामान्मर्तुमर्हसि
अहं कुतार्किको भूत्वा धूमाग्निप्रायवादभृत् ।
वेदद्वेषी नास्तिकश्च पापयोनिमिमां श्रितः
अस्मिञ्शरीरे बहुशो निर्विण्णो ऽपि भयादहम् ।
न त्यजामि तनुं पाप योनयः सन्त्यतो ऽधिकाः
इति बुद्ध्या सुरपतिर्वीतशोकं विधाय तम् ।
रूपं च दर्शयित्वास्मै प्रययौ त्रिदशालयम्
***** इन्द्रकश्यपसंवादः ॥ 51 ॥ *****
श्रुत्वैतदूचे कौन्तेयः केन सृष्टमिदं जगत् ।
जीवश्च कीदृशो देहे स च यातः क्व तिष्ठति
भीष्मो ऽब्रवीदेतदेव पुरा कैलासशेखरे ।
भारद्वाजेन मुनिना पृष्टो भृगुरभाषत
पृथिवीपद्मसंस्थस्य मानसस्य प्रजापतेः ।
आकाशः पूर्वसर्गो ऽयं विष्णोर्व्यक्ताकृतिस्पृशः ।
वृक्षाणां मानुषाणां च समानं पाञ्चभौतिकम्
तेनैवास्मिन्महासर्गे चित्राश्च व्यक्तयः कृताः ।
प्राणापानादिरूपेण वायुना सहितो ऽनलः
उत्तरे हिमवत्पार्श्वे फलभूमिर्निरामया ।
तां पुण्यकारिणो यान्ति विपरीता विपर्ययम्
इहापि लोके दृश्येते सुखहर्षधनादिभिः ।
दारिद्र्यक्लेशदुःखैश्च जन्तूनां शुभदुष्कृते
***** भृगुभरद्वाजसंवादः ॥ 52 ॥ *****
अथाब्रवीत्सदाचारो राज्ञा पृष्टः पितामहः ।
प्रातः प्रबुद्धो विजने मलं त्यक्त्वा शुचिः सदा
देवपूजारतो होता दाता मोनी च भोजने ।
ऋतुकालाभिगामी च ज्येष्ठानां प्रणतः क्षमी ।
यो नरः स सदाचारः प्राप्नोति पदमुत्तमम्
***** आचारविधिः ॥ 53 ॥ *****
पुनः क्षितिभुजा पृष्टः किमध्यात्मेति सर्ववित् ।
ऊचे शान्तनवस्तत्त्वं ध्यात्वा हृदि सनातनम्
क्षेत्रज्ञस्त्रिगुणः क्षेत्रे रश्मिवत्प्रसृतेन्द्रियः ।
असक्तः सक्तवद्भाति च्छन्नो व्यवहितैरपि
निवातदीपनिष्कम्पमानसः शान्तधीः समः ।
अयत्नात्तेन्द्रियो मौनी स्थाणुभूतस्तमीक्षते
ब्राह्यवृत्तिनिरोधेन मनसो नियमेन च ।
रागशोकभयद्वेषत्यागात्सद्भिः स दृश्यते
तडित्तरङ्गतरलं चरत्यारतचञ्चलम् ।
चित्तं वातवदुद्भ्रान्तं भवत्येवासमर्थिनाम्
अभ्यासेन समीभूते निस्तरङ्ग इवोदधौ ।
चेतस्यचलतां याते प्रशान्ताशेषविप्लवे
प्रकाशतमसोः पारे पुरुषं शाश्वतं शिवम् ।
ध्यानेनात्यन्तसुखदं परं पश्यन्ति योगिनः
***** अध्यात्मसंकीर्तनम् ॥ 54 ॥ *****
एतदाकर्ण्य कौन्तेयः पितामहमभाषत ।
पातकानां फलावाप्तिः कीदृशी गतयश्च काः
इति पृष्टः क्षितिभुजा गाङ्गेयः पुनरब्रवीत् ।
अभिध्यासदृशी पुंसां फलावाप्तिरपायिनी
अहंकारप्रवृत्तानां भौगैश्वर्यसुखार्थिनाम् ।
निरयेष्वेव निलयः कामिनां कामसंनिभः
पारिजातलतालोला मन्दारोदारसौरभाः ।
हेमाब्जसरसी रम्या नाकनायकसेविताः
वेल्लद्विमानसुलभास्तास्तास्त्रिदशभूमयः ।
नियतावधयः सर्वा निरयः संप्रचक्षते
अनादिनिधनं धाम गुणत्रयविवर्जितम् ।
अस्पृष्टं कालकलया निष्कामेनैव लभ्यते
प्रयतः संहिताजापी कामरागोञ्झितः पुरा ।
उवास ब्राह्मणः कश्चित्पादे तुहिनभूभृतः
तस्य पर्षसहस्रान्ते दिव्यज्ञानस्य जापिनः ।
जपवृद्धिं ददौ तुष्टा सावित्री स्वयमागता
अथ कालेन भगवान्धर्मो ऽभ्येत्य तमब्रवीत् ।
त्यक्त्वा शरीरमागच्छ दिव्यं दिव्यवपुः पदम्
तच्छ्रुत्वा सो ऽवदन्नैतां त्यजे ऽहं सहजां तनुम् ।
स्वर्गस्पृहा न मे काचिद्द्यौर्मही च समे मम
न वाञ्छा न च मे द्वेषः स्वर्गे ऽप्यस्त्यवशं मया ।
सर्वथा यदि गन्तव्यं तत्सदेहेन नान्यथा
इत्युक्ते तेन भगवान्यमो मृत्युश्च तां भुवम् ।
कालश्चाभ्येत्य जगदुर्विप्रं धर्मो यदुक्तवान्
अस्मिन्नवसरे श्रीमानिक्ष्वाकुः पृथिवीपतिः ।
तीर्थयात्राप्रसङ्गेन तमाश्रममुपाययौ
स तं जापकमभ्येत्य बभाषे तेजसां निधिम् ।
गृहण मे धनं विप्र पात्रं त्वत्सदृशो ऽस्ति कः
तच्छ्रुत्वा जापको ऽवादीन्निवृत्तो ऽहं महीपते ।
प्रवृत्तधर्मनिरता विप्राः पात्रं प्रतिग्रहे
समीहितमहं तुभ्यं ददान्येवाविलम्बितम् ।
ब्राह्मणेनेति कथिते जगाद पृथिवीपतिः
जपस्यास्य फलं देहि यत्त्वया समुपार्जितम् ।
इत्युक्तो भूभुजा विप्रो गृहाणेति तमभ्यधात्
राजावदद्वचोयुद्धैरजेयः सत्त्ववान्भवान् ।
न ममैतज्जपफलं त्वद्दत्तमुपयुज्यते
इति ब्रुवाणो विप्रोणाभ्यर्थितो ऽपि सकृन्नृपः ।
न तज्जग्राह दाताहं भूभृदित्यभिमानवान्
अत्रान्तरे तमभ्येत्य कामक्रोधौ विवादिनौ ।
विरूपौ विकृताकारौ न्यायं पप्रच्छतुर्मुदा
एको ऽवदद्धेनुफलं देयमस्मै ददाम्यहम् ।
दत्तं मया पुनर्ग्राह्यं नेत्युवाच तथा परः
राजा विचार्य सुचिरं तयोर्विवदमानयोः ।
उवाच दीयमानं यो न गृह्णासि जितो ऽथ सः
अथाब्रवीन्नृपं विप्रस्त्वं न गृह्णासि किं मम ।
परोपदेशेष्वथवा सर्वो भवति पण्डितः
जापकेनेति गदिते कामक्रोधौ विलोक्य तौ ।
सह भोक्तव्यमित्युक्त्वा जग्राह नृपतिः फलम्
ततः स्वर्गे स विबुधे प्राप्ते स ब्रह्मणि स्वयम् ।
विवेश जापकस्त्यागसमाधिं भूभुजा सह
प्राणे मनः समावेश्य पश्यन्नासापुटद्वयम् ।
आपूर्य व्योम षट्कोशं प्रकाशेनान्तरं नभः
भ्रूमध्यनिहितज्योतिरुद्धाट्य ब्रह्मसंपुटचम् ।
क्षिप्रमुत्क्रान्तसूर्यो ऽभूदतिसूर्यानलद्युतिः
तालुरन्ध्रसमुत्थं तत्तेजो द्विजमहीभुजोः ।
ब्रह्माणमविशत्साक्षात्प्रादेशपुरुषाकृति
***** जापकोपाख्यानम् ॥ 55 ॥ *****
ज्ञानयोग्यस्य वेदानां नियमस्य च भूभुजा ।
फलं स्वर्गं च भूतानां भीष्मः पृष्टो ऽब्रवीत्पुनः
प्रजापतिर्मनुः पूर्वमेतदूचे बृहस्पतिम् ।
सुखदुःखादिकं कर्म हेयोपादेयलक्षणम्
सुखमस्त्यसुखं यस्मात्प्रवृत्तिरिति कर्मणः ।
सुखदुःखोज्झितं ज्ञातं कामरागविवर्जितम्
श्रौतं कर्म सुखायैव विरुद्धमसुखाय च ।
शुद्धाः समाधिनियमैर्भान्ति दानादिकाः क्रियाः
नराः कर्मफलैस्तैस्तैस्तत्तदाकारभेदतः ।
सुखदुःखेषु सीदन्ति रागमोहवशीकृताः
मायेयं जगदुत्पत्तिस्थितिसंहारकारिणी ।
कृता महाभूतमयी छायेवाकाशदर्शिनी
दृष्ट्वा शरीरान्तरगो मोहाद्यैर्न विलोक्यते ।
स्रधूम इव काष्ठान्तः सदा संनिहितो ऽनलः
हेम्नीव कटकादित्वं काष्ठे वा सालभञ्जिका ।
आत्मन्येवाखिलं भाति सदप्यसदिव स्थितम्
ज्ञानेन गृह्यते ज्ञानं गजेनेव वने गजः ।
तदेवास्य गतिं वेत्ति सर्पपादानिवोरगः
***** मनुबृहस्पतिसंवादः ॥ 56 ॥ *****
स्वरूपं वैष्णवं पृष्टः पार्थेनाथ पितामहः ।
उवाच ज्ञाननयनैः कथितं नारदादिभिः
भगवान्पुण्डरीकाक्षः केशवो नाभिपङ्कजात् ।
सृष्ट्वा चतुर्मुखं चक्रे जगन्निखिलमीश्वरः
हत्वा मधुमुखान्दैत्यान्विदधे शाश्वतीं स्थितिम् ।
संकर्षणः सर्वहरः प्रलये याति रुद्रताम्
सर्गस्थितिविनाशानामित्येष किल कारणम् ।
मृणालीलीलया येन वराहेणोद्धृता मही
वासुदेवः परं धाम शाश्वतं ध्रुवमव्ययम् ।
निवृत्तधर्माय गुरुः शिष्यायेति न्यवेदयत्
विचित्रमायया विष्णोर्मोहिताः किल जन्तवः ।
रागद्वेषमदग्रस्ताः पुनरायान्ति यान्ति च
शुक्रशोणितसंभूता यान्ति संसारिणस्ततः ।
तान्मोहयन्ति ललना विपाकविषमभ्रमाः
स्त्रियो हि नाम संसारकारामन्दिरशृङ्खलाः ।
रादद्वेषविषादानां संगतिग्रन्थिरज्जवः
स्नेहाद्वा क्षयमायान्ति स्वाङ्गजैः कृमिभिः सुतैः ।
जन्तवः संततिमयाः क्लिन्नचर्मलवा इव
यतेन्द्रियेच्छा मुच्यन्ते संसाराद्ब्रह्मचारिणः ।
मूलबीजपरिप्लोषा येषु कामो न जायते
संकल्पजं वहन्त्येताः सिराः श्वभ्रं मनोवहाः ।
तच्छ्रुष्यति विरागेण येषां ते परमं गताः
तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् ।
सहजो ऽन्तःस्थितो हन्तुं निःशेषं च न शक्यते
समैर्युक्तसमाचारैर्विशुद्धगगनप्रभम् ।
हृदि नारायणं दृष्ट्वा शान्तिः शान्तैरवाप्यते
***** वैष्णवाध्यात्म ॥ 57 ॥ *****
मोक्षं प्रयातो जनकः कथमित्यथ भूभुजा ।
देवव्रतो ऽवदत्पुष्टो मिथिलाधिपतेः कथाम्
जनकस्याभवत्पूर्वमाचार्यशतसेविनः ।
गुरुः पञ्चशिखो नाम कपिलो ब्रह्मनैष्ठिकः
स राजानमुवाचेदमाचार्यशतसंनिधौ ।
स्फुरन्निःसारसंसारविकारपरिहारधीः
स गलज्जातिनिर्बन्धः कर्मबद्धो ऽप्यवासनः ।
विशरारुसमाहारसर्वग्रहपरिग्रहः
अहंकारविकारेषु मूलच्छेदविधायिनाम् ।
अवधानलवादेव भिद्यते भवविभ्रमः
मयि सर्वमिदं भाति सर्वत्राहमवस्थितः ।
इत्यसंसारिणामेव सतां वृत्तिर्महीयसी
सत्यं संक्षयनिष्ठानां जरामरणधर्मिणाम् ।
क्रमेणेन्द्रियवैकल्याच्छरीरं याति पञ्चधा
एते शब्दादयः पञ्च येषु तत्त्वार्थनिश्चयः ।
अव्ययं परमं चक्रं बुद्धिश्चेति परं महत्
असम्यग्दर्शिनामेषां दुःखतत्परमन्यथा ।
त्यागा एवं परं तत्त्वं मुक्तानां न्यस्तकर्मणाम् ।
मिथ्याप्रयातचित्तानां फलन्ति हृदयभ्रमाः
द्रव्यत्यागः कर्म हन्ति भोगत्यागो व्रतक्रियाम् ।
सुखत्यागस्तपोयोगं सर्वत्यागप्तु शान्तये
गुणत्रयविमुक्तो ऽसौ क्षेत्रज्ञः शाश्वतो ऽव्ययः ।
यैर्दृष्टस्ते न लिप्यन्ते पङ्के शशिकरा इव
नष्टे फले तोषजुषि क्षीणयोः पुण्यपापयोः ।
अव्यङ्गा गगनाकारा महत्पश्यन्ति सूरयः
चरन्मृगः शृङ्गमिव त्वचं वृद्धं इवोरगः ।
पक्षीवोन्मथितं सालं बन्धं मुञ्चति सात्त्विकः
इत्याकर्ण्य वचो राजा जनको मिथिलां पुरा ।
दग्धामदग्धां नाज्ञासीत्तृष्णारागविवर्जितः
***** जनकराजानं प्रति पञ्चशिखाचार्योपदेशः ॥ 58 ॥ *****
सुखं किमिति पारथेन भीष्मः पृष्टो ऽब्रवीत्पुनः ।
इहामुत्र च दान्तानां सुखं संतोषशालिनाम्
दमो धृतिर्दमस्तेजो जमः कीर्तिर्दमो रतिः ।
पुंसां दमप्रसक्तानां शत्रुर्नाम न विद्यते
***** दान्ताध्यायः ॥ 59 ॥ *****
किं तपो वा न वेत्येतदुपवासादिकं व्रतम् ।
पृष्टः प्रोवाच कौन्तेयं पुनः शन्तनुनन्दनः
भुञ्जानो ऽप्युपवासी स्याद्युक्ताहारो नरः सदा ।
उपवासो हि मूर्खाणां केवलं प्राणशषणम्
सदा रतः स्वदारेषु ब्रह्मचारी भवेन्नरः ।
यज्ञोपयुक्तमांसाशी भवेन्मांसविवर्जकः
अतिथिद्विजभृत्यानां शेषमश्नाति यः सदा ।
अमृताशी स विज्ञेयः सुरा नाम्नामृताशिनः
***** अमृतप्राशिका ॥ 60 ॥ *****
नरः कर्मफले कर्ता किं न वेत्ति क्षमाभुजा ।
भीष्मः पृष्टो ऽब्रवीच्छक्रः पुरा प्रह्लादमब्रवीत्
स्थानाच्च्युतस्त्वं दैत्येन्द्र हतास्ते बान्धवा मया ।
शोकस्थानं कथं स्वस्थो निराकुल इवेक्ष्यसे
श्रुत्वेति दैत्यस्तं प्राह शक्र किं कत्थसे वृथा ।
भावाः स्वभावचपलाः पुरुषार्थो निरर्थकः
मूर्खो बुद्धिमतां धुर्यः सुरूपो रूपवर्जितः ।
प्रमत्ता नयसंपन्ना यान्त्येते हेतुरत्र कः
न हि शोकः सुखभ्रंशे कर्तव्यो वृद्धसेविभिः ।
भवेदभावः सद्भावे भावा भ्रूभङ्गभङ्गुराः
इति श्रुत्वा ययौ शक्रस्तत्प्रज्ञानोपदेशतः ।
प्रहृष्टा बुद्धिसाराणामद्वेष्टारो हि साधवः
***** शक्रप्रह्लादसंवादः ॥ 61 ॥ *****
अकालवह्निना दग्धे राज्ञामैश्वर्यकानने ।
किं धैर्यमिति पृष्टो ऽथ पार्थेनाह पितामहः
भ्रष्टराज्येषु दैत्येषु प्राप्तैश्वर्यः शतक्रतुः ।
पप्रच्छ गत्वा ब्रह्माणं नष्टे वैरोचनं पुरा
विभवं लोकपालानामभिभूय निजश्रिया ।
यो बभूव जगन्नाथः स बडिः(लिः) क्वाद्य वर्तते
इति पृष्टः सुरेन्द्रेण जगाद कमलोद्भवः ।
शून्यागारे खरो भूत्वा भ्रष्टैश्वर्यो बडिः(लिः) स्थितः
श्रुत्वैतन्मुदितः शक्रस्तूर्ण तं द्रष्टुमाययौ ।
ऐरावणं समारुह्य कैलासमिव जङ्गमम्
स गत्वा शून्यनिलये ददर्श खररूपिणम् ।
तुषाशिनं बलिं को वा विपद्भिर्नैव पीड्यते
दृष्ट्वा तमूचे त्रैलोक्यनाथो भूत्वैशासनः ।
त्वमिमां गतिमापन्नः कथं शोच्यां न शोचसि
लक्ष्मीविलासहासाच्छं क्व तच्छत्रं क्व चामरम् ।
तालव्यालोलवलयं गीतमप्सरासं क्व तत्
ब्रह्मदत्ता क्व सा हेममाला मौलिमतस्तव ।
क्षपास्वपि यया दिक्षु बभुर्बालातपश्रियः ।
अथवा यान्ति चेतांसि महतां सह भूतिभिः
अपि स्मरसि किं दैत्य भास्वतस्तव शासनात् ।
अकृष्टपच्या पृथिवी यदभूद्भूरियाजिनः
यश्चातपत्रे यात्रायां शीतांशुधवले तव ।
गन्धर्वाणां सहस्राणि ननृतुर्हेममालिनाम्
ऐरावणगतस्येति श्रुत्वा शक्रस्य भाषितम् ।
अवुलुप्तमनाः प्राह बडि(लिर्)वामनवञ्चितः
तरङ्गतरला लक्ष्मीर्यद्यायाति च याति च ।
कृतमस्माभिरिति कि तत्प्रनृत्यन्ति शत्रवः
न शोचामि स्वसत्वस्थो निस्तरङ्ग इवोदधिः ।
दृष्ट्वा कालेन महता कथाशेषीकृताः श्रियः
अवश्यं विधिदौरात्म्याद्विपदन्ता हि संपदः ।
लक्ष्मीं विनश्वरः शोचेत्कः कालकवलीकृताम्
अनतिक्रमणीयो ऽयं कालः सर्वत्र जृम्भते ।
तुषैः कल्पितवृत्तिर्यत्प्रयातः स्वरतामहम्
विकोशाशापलाशे ऽस्मिन्संसारोरुसरोरुहे ।
कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा
जगद्ग्रासगरिष्ठस्य तस्य कालस्य शासनात् ।
स्मृतिशेषदशां शक्र समेष्यति भवानपि
किं न विप्लवायन्त्येता हरिण्यः शीघ्रगाः क्षणम् ।
स्फीतफेनसितच्छत्त्रास्तरङ्गिण्यो विभूतयः
प्रयाति तरला लक्ष्मीः स्रवत्यायुरलक्षितम् ।
इति वस्तुस्वभावे ऽस्मिन्को नु शोचति मद्विधः
आयुः केनाक्षयं लब्धं वियोगः कस्य वा प्रियः ।
कस्मिन्वा चपला लक्ष्मीर्निषण्णा चरवीक्षिता
अलीकलीलाचटुलैः संगमैर्दृष्टनष्टया ।
अनया सर्वगामिन्या कियन्तो न विडम्बिताः
ऐश्वर्यसौरभभरान्गुणभृङ्गसङ्गान्कान्तालतावलयितानभिमानवृक्षान् ।
उत्फुल्लकीर्तिकुसुमान्फलपूरिताशान्सर्वकषो हरति कालमहाप्रवाहः
तस्यैतद्वदतः कार्याल्ललनं ललिताकृतिम् ।
ददर्शनिर्गतां शक्रो दृष्ट्वापृच्छच्च विस्मितः
लीलाशिखण्डाभरणा का त्वं हरिणलोचने ।
किमर्थमसि निष्क्रान्ता दैत्याधिपतिविग्रहात्
सा तच्छ्रुत्वावदच्छक्रं त्वामहं समुपस्थिता ।
त्यक्त्वैनं विस्मृताचारमुच्छिष्टस्पृष्टसर्पिषम्
अहं सुभटखड्गाग्रधाराजलनिवासिनी ।
कमलापूतमह्गल्या कमलाकरवासिनी
एतदुक्त्वा चुर्भिः श्रीर्भूम्यम्भोवह्निवायुषु ।
पादैः संनिधिमादाय सहस्राक्षमुपाययौ
***** श्रीसंनिधानम् ॥ 62 ॥ *****
श्रीविहीनं पुरा शक्रो नमुचिं नाम दानवम् ।
पप्रच्छ शोककाले ऽस्मिन्किं न शोचसि दानव
इति पृष्टो ऽवद्दैत्यो निःस्यन्दोदधिधैर्यभूः ।
नष्टाः शोकेन नश्यन्ति द्विषदानन्ददायिनः
शोकदग्धशरीराणां प्ररोहः क्व पुनः श्रियः ।
शोकेन नश्यति प्रज्ञा प्रज्ञानाशो विपत्तये
शोकेन स्पृष्टचित्तानां नष्टानामुद्भवः कुतः ।
स्वकृतं भुज्यते कर्म परिपाके शुभाशुभम् ।
सतामम्लानवक्त्राणां नान्तरज्ञास्तु शत्रवः
***** शक्रनमुचिसंवादः ॥ 63 ॥ *****
भूतिमासाद्य शक्रेण बडिः(लिः) स्वपदविच्युतः ।
पुनरेवावदत्पृष्टो व्यसने ऽप्यविलुप्तधीः
अवश्यमेव शूराणां स्थितौ जयपराजयौ ।
कर्मायत्तौ न कर्ता त्वं कालप्राप्तमिदं भज
कालो न याति यास्यन्ति सहस्राणि भवादृशाम् ।
गन्ता त्वमपि कालेन किं धैर्येण विकत्थसे
न तल्लोकेषु पश्यामि विचिन्वानो ऽपि सूक्ष्मधीः ।
दुष्प्रापं यदयत्नेन न लीढं कालजिह्वया
कथावशेषविभवाः कालेन भुवनाधिपाः ।
श्रूयन्ते विहितास्ते ते किं वृथा शक्र माद्यसि
शक्तो ऽस्मि जेतुं त्वामेकः सानुगं दर्पमोहितम् ।
किंतु न क्षमते कालो वेलेवाब्धेर्बलं मम
कालेनायान्ति विपदः कालेनायान्ति संपदः ।
पुंसां स्वकर्ममुद्राणां शोकस्यावसरो ऽत्र कः
निशम्यैतत्सहस्राक्षो विरतो ऽमर्षसाहसात् ।
स तमूचे कालवशं त्वं यथात्थ तथैव तत्
यदा लोका भविषअयन्ति निर्मर्यादाः कलिस्पृशः ।
तदा त्वं दारुणैः पाशैर्मुक्तः स्वास्थ्यां गमिष्यसि
***** बडि(लि)वासवसंवादः ॥ 64 ॥ *****
शुभाशुभस्य पृष्टो ऽथ पूर्वं रूपं महीभुजा ।
जगाद भीष्मो जन्तूनां विनाशोदयलक्षणम्
आकाशतटिनीतीरे पुरा शक्रः सनारदः ।
विलोक्य लक्ष्मीं पप्रच्छ विकासिकमलाननाम्
देवि शंस यथा तत्त्वमिहागमनकारणम् ।
इति पृष्टा महेन्द्रेण सावदत्कमलेक्षणा
त्यक्त्वा दैत्यानहं शक्र नष्टाचारान्विशृङ्खलान् ।
सुराणां सद्म साधूनां संप्राप्ता तव चान्तिकम्
असुराः पूर्वमभवन्सदाचारविभूषणाः ।
स्नाता हुताग्नयश्चासन्निजिताः स्त्रीभिरर्चिताः
दातारो निःस्पृहाः क्षान्ताः प्रभाते घृतदर्शिनः ।
न निशीथे न चोत्सङ्गे दधिसक्तुभुजो ऽभवन्
अवन्ध्यरतिसर्गाश्च तेनाहं तानभूषयम् ।
अद्य तूत्सन्नमर्यादास्त्यक्तास्ते दुर्मदा मया
आयत्ताः पतयः स्त्रीणां शण्टीनामद्य तत्परे ।
प्रत्युत्थानादिकं तांश्च कुर्वन्त्युच्चैर्वदन्ति च
तरुणा धूर्तसचिवा वृद्धानां वचनं वयः ।
विडम्बयन्ति दर्पान्धा हेलोल्लोलितकुन्तलाः
अशौचोच्छिष्टसूदैश्च विहितं भक्षयन्ति ते ।
गुप्तोद्यानेषु देवार्थिभृत्यस्वजनवर्जिताः
धान्यं पयोन्नं विवृतं स्वोच्छिष्टस्पृष्टसर्पिषम् ।
गृहे तेषां न वीक्षन्ते हासकेलिरताः स्त्रियः
स्त्रीयोग्यं पुरुषो धत्ते केशांशुकविभूषणम् ।
आचारगतिसंलापं पौरुषं स्त्री बिभर्ति च
इत्थं तेषां मदान्धानां वसतिं पापिनामहम् ।
त्यक्त्वान्तिकमवाप्ता त्वां सत्यशीले मम् स्थितिः
आशा श्रद्धा धृतिः क्षान्तिः कान्तिर्वृत्तिर्जितिर्मतिः ।
युष्मानेव समायाता देव्यो ऽष्टौ मत्पुरःसराः
इति ब्रुवाणां तां शक्रः प्राप्य प्रायात्त्रिविष्टपम् ।
निमित्तमेतत्प्रथमं सुभाशुभफलं नृणाम्
***** श्रीवासवसंवादः ॥ 65 ॥ *****
राज्ञा ब्रह्मपदं पृष्टः पुनरूचे पितामहः ।
असितो देवलः पूर्वं जैगीषव्यमभाषत
वन्दितो निन्दितश्चासि समस्तुल्यप्रियाप्रियः ।
त्यक्तरागभयद्वेषो लक्ष्यसे केन हेतुना
इति पृष्टो मुनीन्द्रेण जैगीषव्यः स्वतन्त्रवित् ।
उवाच शान्तमनसः सत्यं जातमिदं मम
विद्यानलसमुद्भूतविवेकव्यस्तविप्लवाः ।
न हृष्यन्ति न शोचन्ति सन्तः संतोषनिर्भराः
मानावमानयोस्तुल्या न स्निग्धा न च वैरिणः ।
ममायमिति नो येषामहमस्येति वा क्वचित्
मात्सर्यमनुरागो वा निरपायसुखस्पृशाम् ।
सर्वबन्धविनिर्मुक्ता निर्भयाः संचरन्ति ये ।
प्रबुद्धाः स्वप्नमायासु लभन्ते ब्रह्मणः पदम्
***** जैगीषव्यसंवादः ॥ 66 ॥ *****
प्रियः सर्वत्र पूज्यश्च को ऽस्तीति जगतीभुजा ।
भीष्मः पृष्टो ऽवदत्कृष्णो यदाहान्धकभूपतिम्
एक एवास्ति निखिलप्रियः पूज्यश्च नारदः ।
स्वच्छन्दचारी सुखितः सोद्योगो विजितेन्द्रियः
असंनिरुद्धप्रसरो निःसङ्गो बहुसंगतः ।
क्रीडारतिर्जगद्द्रष्टा कामक्रोधविवर्जितः
श्रुत्वेति पृष्टः पार्थेन भूतानां प्रभवो ऽप्ययम् ।
कालस्य च गतिं भीष्मो बभाषे विश्वतत्त्ववित्
पुरा शुकेन भगवान्व्यासः पृष्टो ऽब्रवीदिदम् ।
सर्गास्थितिं च कालं च यच्च कृत्यं द्विजन्मनाम्
सहस्रयुगपर्यन्तेष्वव्यक्तो व्यक्ततां गतः ।
ब्रह्म सृजति शब्दात्तु व्योमादिक्ष्मान्तपञ्चकम्
तदुद्भुते पुनः सर्गे कालेनाकाशशेषताम् ।
गते व्योमादि विलयं प्रयात्यव्यक्तसंज्ञके
इत्ययं सर्गसंक्षेपः शृणु कृत्यं द्विजन्मनाम् ।
संस्कृतो जातकर्माद्यैर्ब्रह्मचारी भवेद्गृही
आत्मानमात्मना पश्यन्वानप्रस्थस्ततो यतिः ।
ब्राह्मं कर्मेति कथितं ज्ञानिनां वृत्तिरुच्यते
अनादरविरक्तेच्छो विद्युत्तरलमात्मना ।
पश्यन्नन्तः परं ज्योतिः सर्वव्यापी समीरवत्
शून्यस्थानैकनिलयः समो ब्रह्मणि लीयते ।
कर्मणा याति संसारं निःसंसारस्तु विद्यया
निजोद्भवविलीनेच्छः संविद्विकचमानसः ।
सततं स्वान्तविश्रान्तः परमामृतमश्नुते
***** व्यासशुकसंवादः ॥ 67 ॥ *****
श्रुत्वेति भीष्मं पप्रच्छ य एते पृथिवीश्वराः ।
याता मृत्युवशं तेषां को मृत्युरिति पाण्डवः
भीष्मो ऽब्रवीत्पुरा प्राह राजानमनुकम्पकम् ।
नारदः पुत्रशोकार्तं शत्रूणां वशमागतम्
सर्वमेतद्विधिः सृष्ट्वा प्रजा विपुलतां गताः ।
आवर्तमाने भुवने दृष्ट्वा क्रोधं समाययौ
तत्क्रोधाद्दीप्तशिखिना दह्यमानेषु जन्तुषु ।
कृपावांरुयम्बको देवश्चतुर्मुखमयाचत ।
शंभुनाभ्यर्थितो धाता कोपाग्निं संजहार तम्
संहृतात्क्रोधदहनात्कन्या कमललोचना ।
उदतिष्ठन्नभःश्यामा रक्ताम्बरविभूषणा
उवाच तां ततो ब्रह्मा त्वं शनैः संहर प्रजाः ।
अप्सु प्रतिष्ठिता ह्येषा भूमिर्भारेण मज्जति
तच्छ्रुत्वा दारुणं धातुः कृपया नेत्रजं जलम् ।
निजं जग्राह पाणिभ्यां निन्दन्ती जन्म दुःखिता
कथं तव सुता देव घोरे कर्मणि मद्विधा ।
योग्या बन्धुवियुक्तानां न सहे दुःखिनां गिरः
इत्युक्त्वा विपुलं चक्रे दुष्करं विविधं तपः ।
सा मृत्युः सर्वसंहारभीता कारुण्यशालिनी
तस्यै वरं ददौ धाता व्याधयस्ते ऽश्रुबिन्दवः ।
भविष्यन्ति जनान्ताय त्वां न ज्ञास्यन्ति मोहिताः
इति मृत्युः पुरा सृष्ट्वा ब्रह्मणा सर्वसंहृतिः ।
मा शुचः पृथिवीपाल सा हि कं नोपसर्पति
***** मृत्युप्रजापतिसंवादः ॥ 68 ॥ *****
धर्मतत्त्वं पुनः पृष्टो धर्मजेन पितामहः ।
शशंस सारं धर्मस्य सत्यं परहितं तथा
गतिर्धर्मस्य विविधा सूक्ष्मा ज्ञातुं न शक्यते ।
विपरीतविचाराणामधर्मो याति धर्मताम्
अन्तर्जलतपाः पूर्वमभवज्जाजलिर्मुनिः ।
जटासु यस्य विश्वासात्कुलायाः पक्षिभिः कृताः
स दृष्ट्वा पक्षिणां मूर्ध्नि निर्वृत्ताञ्शावकाञ्शनैः ।
बभूव धर्मसंमत्तस्तमूचुरथ राक्षसाः
तुलाधरस्य समातामनासाद्यैव किं मुने ।
माद्यसि स्फारतपसां व्ययं कर्तुमिहोद्यतः
इति श्रुत्वा समन्विष्य गत्वा वाराणसीं मुनिः ।
तुलाधरं ददर्शाथ मांसविक्रयजीवितम्
ज्ञानदृष्ट्या स्वयं ज्ञात्वा तस्यागमनकारणण् ।
तुलाधरो ऽब्रवीद्ब्रह्मन्धर्मो हि गगनात्मकः
अभीतैः सर्वभूतेभ्यो भूतानामभयप्रदैः ।
असक्तैः कर्मनिपुणैर्धर्मस्यासाद्यते गतिः
अहिंसा परमो यज्ञः पुण्यैर्यष्टुं स शक्यते ।
पश्य पापं कृशाप्राप्यं गोपशुप्राणपीडनात्
आत्मयज्ञाप्तपुण्यानामात्मतीर्थैकसेविनाम् ।
त्यक्ताभिमानस्पर्धानां नैव शोचन्ति बान्धवाः
इति मानमहामोहं जाजलेः स तुलाधरः ।
निवार्यासक्तकर्मस्थः प्रययौ परमां गतिम्
***** तुलाधरजाजलिसंवादः ॥ 69 ॥ *****
गीतं विचरव्नुना पूर्वं धर्मऽस्मिन्नेव भूभुजा ।
अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः
पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः ।
मांसमत्स्यमधुप्रआयं धूर्तैर्भोगाय कल्पितम्
लोलुपैर्दम्भगुरुभिः पशुयागो ऽधिगम्यते ।
पूज्यो हि भगवान्विष्णुः सो ऽद्भिः पुष्पैश्च तुष्यति
रलानिं शरीरं नायाति यथा न मरणं भवेत् ।
तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम्
***** विचरव्नुगीताः ॥ 70 ॥ *****
कार्याकार्यविमर्शाय राज्ञा पृष्टः पितामहः ।
उवाच चिरकारीति बभूवाङ्गिरसो मुनिः
चिरं विचार्य कर्मामि स करोति यदा तदा ।
अलसो दीर्घदर्शी च मूर्खैरिति विडम्ब्यते
स कदाचित्स्वयं पित्रा प्रेरितो जननीवधे ।
चिरं निदध्यौ संदेहदोलाविश्लथमानसः
अविलङ्घ्यं गुरुवचो दुःसहो जननीवधः ।
इत्यभूद्दुःखकलुषः पतितो धर्मसंशये
तावच्चिन्तापरः सो ऽभूद्यावत्तस्य पिता स्वयम् ।
पश्चात्तापमनुप्राप्तो निजामाज्ञामवारयत्
चिरकारी विमर्शेन ररक्षेति स्वयं मुनिः ।
मातरं गुरुवाक्यं च विमर्शो हि शुभास्पदम्
***** चिरकारिचरितम् ॥ 71 ॥ *****
राजा रक्षेत्सदाचारं कथं लोकानपीडयन् ।
इति पृष्टो नरेन्द्रेण पुनः शान्तनवो ऽब्रवीत्
द्युमत्सेन पुरा पुत्रं साल्वराजो महामतिः ।
बभाषे सत्यवान्नाम वध्यान्वीक्ष्यातिपीडितान्
राजन्धर्मगतिः सूक्ष्मा किमेते दस्यवस्त्वया ।
असामर्थ्येन विप्राणां निगृह्यन्ते यथा तथा
एकस्य हि वधेनैव ते भार्यापुत्रबान्धवाः ।
हता भवन्ति बहवस्तस्माद्दण्डो विवेच्यते
द्युमत्सेनो निशम्येति प्राह दण्ड्यानदण्डयन् ।
राजा क्षिपत्यगाधे ऽस्मिन्प्रजा भयमहावटे
लघुदण्डाः पुराभूवन्मृदवो ऽल्पद्रुहो जनाः ।
अद्य कालविपर्यासाद्वध्यदण्डे ऽप्यसंयताः
इत्यासीद्राजपुत्रस्य राज्ञश्च परिभाषणम् ।
निवृत्ते च प्रवृत्ते च धर्मे धर्मविदां वर
***** द्युमत्सेनोपाख्यानम् ॥ 72 ॥ *****
निवृत्तं च प्रवृत्तं च धर्मं पृष्टो ऽथ भूभुजा ।
व्याजहारोभयोस्तत्त्वं द्रष्टा शन्तनुनन्दनः
नहुषस्य पुरा सौरे सत्त्रे गां यूपसंगताम् ।
स्वेच्छाचारो द्विजो योगी विलोक्य कपिलो ऽब्रवीत्
अहो नु हिंसा दुर्वृत्तैर्धर्माय परिकल्पिता ।
परोपघाते नन्दन्ति लुब्धाः कामफलेप्सवः
इत्याकर्ण्य द्विजस्तत्र स्यूमरश्मिः प्रविश्य गाम् ।
अवदद्वेदवचनप्रामाण्यं नेष्यते त्वया
यजेत दद्यादित्येषा न श्रुता किं श्रुतिः स्मृतिः ।
गार्हस्थ्यलक्षणो धर्मो यज्ञाङ्गो ह्यखिलाश्रयः
श्रुत्वेति कपिलः प्राह शुद्धज्ञानमयः क्रतुः ।
तारयत्येव तमसो द्रव्ययागो हि बन्धनम्
स्यूमरश्मिर्निशम्यैतत्प्रोवाच क्रियया पुनः ।
विशुद्धे ऽचिर्मणौ ज्ञानं प्रतिमामाश्रयेदिति
***** गौकापिलीयम् ॥ 73 ॥ *****
वरं धर्मार्थेकामानां किमिति क्ष्माभुजा पुनः ।
पृष्टो ऽब्रवीच्छान्तनवस्त्रिवर्गगतिकोविदः
धनार्थी ब्राह्मणः कश्चिद्देवानाराध्य निष्फलः ।
सिषेवे कुण्डधाराख्यं भक्त्या ज्ञानधरं चिरम्
तुष्टे तस्मिन्ददर्शाथ स्वप्ने वैश्रवणालये ।
मणिभद्रं धनचयान्वितरन्तं यथोचितम्
कुण्डधारस्तमभ्येत्य ब्राह्मणार्थमयाचत ।
कुण्डधारस्य योगेन ब्राह्मणो हितकारिणा
वरान्निर्वेदमापन्नो धर्मवांस्तपसे ययौ ।
नभश्चरो दिव्यदृष्टिः सो ऽभवत्तपसा कृती
एवं सारस्त्रिवर्गस्य धर्मः शुभफलप्रदः ।
अर्थकामप्रसक्तानां नृपाणां नरके स्थितिम् ।
निशम्य कुर्यात्को नाम न धर्मोपार्जने मतिम्
***** कुण्डधारोपाख्यानम् ॥ 74 ॥ *****
अहिंसा परमो धर्मो निर्वेदो ज्ञानदेशकः ।
सर्वत्यागः परा शान्तिः कामिनां त्वन्यथाखिलम्
असितो देवलः पृष्टो नारदेनाब्रवीत्पुरा ।
अष्टादशात्मकः सोष्मा संगतः पाञ्चभौतिकः
क्षेत्रज्ञेन पुनर्याति संगमं वृक्षपक्षिवत् ।
अक्षीणवासनातन्तुर्भिन्नो ऽपि न विमुच्यते
विच्छिन्नकर्मा निर्द्वन्द्वः पुण्यपापविवर्जितः ।
देही देहवियोगे स्वं ब्रह्म गच्छति निर्गुणः
***** नारदासितसंवादः ॥ 75 ॥ *****
प्रक्षीणवासनाजालो माण्डव्यं जनको ऽब्रवीत् ।
धुर्यो ऽहमस्मि सुखिनामेक एवार्थवर्जितः ।
दह्यमाने ऽपि नगरे यस्य किंचिन्न दह्यते
संसारमरुतप्तानां तृष्णामूर्च्छितचेतसाम् ।
भेषजं परमं नाम संतोषामृतवारिदः
धनेन वर्धने तृष्णा लावणेनेव वारिणा ।
शोको विवृद्धतृष्णाया गोः शृङ्गमिव वर्धते
तां त्यक्त्वा गतसंसर्गो निर्दुःखपदमाश्रितः ।
कूर्माङ्गवत्संहृतेच्छः स्वेच्छाचारी विमुच्यते
जनकस्येति वचसा माम्डव्यः स्रस्तसंसृतिः ।
ब्रह्मप्रकाशमविशद्ध्रुवं शान्तमनामयम्
***** माण्डव्यजनकसंवादः ॥ 76 ॥ *****
यतेन्द्रियेच्छः संन्यासी निर्भयो जनिताभयः ।
अवज्ञातो ऽवधूतश्च शून्याचारो ऽप्यनाश्रयः
अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते ।
बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः
***** हारीतगीताः ॥ 77 ॥ *****
भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत ।
जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके ।
पर्यायेण भवन्त्येव संपदो विपदस्तथा
निःस्पृहो ऽस्मि न शोचामि भजे साम्यमनश्वरम् ।
न यास्याम्यधुना रागमवर्णो वर्णसंगमात्
इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः ।
सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम्
स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् ।
सो ऽयं नारायणः कृष्णः संबन्धी तव पाण्डव
***** वृत्रगीताः ॥ 78 ॥ *****
राज्ञा वृत्रकथां पृष्टः पुनः प्राह पितामहः ।
पुरा वृत्रेण विजितो रणे जम्भनिसूदनः
स बोधितो वसिष्ठेन गर्वज्वरविमोहितम् ।
विष्णुतेजो दधद्वज्रं तं जघान महाकृतिम्
हतस्य कायाद्वृत्रस्य ब्रह्महत्या विनिर्गता ।
मुक्तकेशी कृशा घोरा मलदिग्धा कपालिनी
सा विद्रुतं सहस्राक्षां चिरमन्विष्य सर्वतः ।
विलोक्य कण्ठे जग्राह निश्चलाभयकम्पितम्
तं तया गूढमाक्रान्तं चिराय चतुराननः ।
विलोक्य कृपया हत्यां ययाचे शक्रमुक्तये
विरता ब्रह्मणो वाक्याद्ब्रह्महत्या सुरेश्वरम् ।
तत्याज स्थितिमासाद्य चतुर्धा घोरदर्शना
यो ऽग्नौ प्रज्वलिते यत्नान्न बीजादिकमर्पयेत् ।
यः पर्वकाले विटपिच्छेत्ता यश्च रजस्वलाम्
कामयेच्च जले यश्च क्षिपेच्छ्लेष्ममलादिकम् ।
स पदं ब्रह्महत्यायाः स्वयंभूरित्यभाषत
***** वृत्रवधः ॥ 79 ॥ *****
ज्वरोत्पत्तिं पुनः पृष्टो भीष्मः पार्थमभाषत ।
सुमेरुशृङ्गे भगवान्स्थितो गौरीवपतिः पुरा ।
शुश्राव यज्ञं दक्षस्य देवाकीर्णं प्रजापतेः
अभागार्हे ऽसि किं यज्ञेष्विति गौरीगिरा हरः ।
अनाहूतश्चकाराथ दक्षयज्ञक्षये मतिम्
क्रुद्धस्य तस्य लालाटस्वेदवारिकणात्क्षणात् ।
समुद्ययौ ज्वरो दीप्तस्त्रिशिरास्ताम्रलोचनः
ब्रह्मणा दुःसह सो ऽथ विन्यस्तः किल भागशः ।
तेषु तेषूत्कटो यत्नादेकः को नु सहेत तम्
संतापं गजकुम्भेषु पर्वतेषु शिलाजतु ।
निर्मोकपट्टं सर्पेषु नीलिकां सलिलेषु च
गोषु खोरकनिःश्वासमूषिरं क्षेत्रभूमिषु ।
पादरोगं तथाश्वेषु नेत्ररोगं पिकेषु च
मेषेषु पित्तभेदं च हिक्काश्वासं शुकेषु च ।
शिखाभेदं मयूरेषु श्रमं पञ्चाननेषु च
जन्मन्यन्ते विवाहे च मनुष्येषु ज्वरं तथा ।
बहुधावस्थितं घोरं सततं च प्रचक्षते
रुद्रो ऽथ वीरभद्राख्यं ससर्ज गणमुत्कटम् ।
भद्रकालीं तथा देवीं कालानलशिखोपमाम्
तौ गत्वा चक्रतुर्यज्ञं बहुद्रव्यं प्रजापतेः ।
भिन्नभिन्नापविद्धाङ्गं निहत्य मृगरूपिणम्
ततः प्रजापतिः पूर्वं देवाहितविनाशकम् ।
विरूपाक्षमनेकाक्षं त्र्यक्षं यक्षपतिप्रियम्
सर्वात्मना सर्वगतं सर्वाकारमनामयम् ।
तुष्टाव शंकरं दक्षो गूढार्थैर्दिव्यनामभिः
नमो यज्ञाय विज्ञेयतत्त्वानुभवशालिने ।
सर्ववेदमयोङ्कारवाच्याय वृषकेतवे
अनवच्चिन्नरूपाय व्यापिने विश्वमूर्तये ।
सर्वतः पाणिशिरसे नमः सर्वान्तरात्मने
उग्रायोदग्रमहसे शर्वायागर्वशालिने ।
रुद्रायोदग्रयशसे वन्द्यायेन्दुभृते नमः
ततस्तुष्टे भगवति त्र्यम्बके त्रिपुरान्तके ।
फलं यज्ञसहस्रस्य दक्षो ऽलभत तद्वरात्
***** दक्षयज्ञध्वंसः ॥ 80 ॥ *****
कथं विजितलोकानां भयं मृत्योर्निवर्तते ।
इति प्रृष्टो नरेन्द्रेण व्याजहार पितामहः
नारदेन पुरा पृष्टः समङ्गः सर्वतत्त्ववित् ।
प्राणेन्द्रियजयान्नूनं शोको मृत्युश्च नश्यति
पञ्चेन्द्रियहितं तुष्ट्यै तुष्टिरुत्सेककारिणी ।
उत्सेको विनिपाताय संसारसरणौ सदा
अरागमोहो हृष्टात्मा चराम्यनुपलक्षितः ।
अशोकश्चामृतश्चाहं तेन नारद पश्य माम्
***** समङ्गनारदसंवादः ॥ 81 ॥ *****
शास्त्रनिःसंशयं श्रेयो राज्ञा पृष्टो ऽब्रवीत्पुनः ।
भीष्मो यद्गालवं प्राह नारदः सर्वदर्शिनम्
हिते वर्तेत भूतानामहंकारं परित्यजेत् ।
प्रख्यापयेन्न संसत्सु स्वोत्कर्षं परनिन्दया
पैशुन्यं लौल्यमालस्यं रात्रिचर्यां च वर्जयेत् ।
न दर्पाद्बहुभाषी स्यान्नेन्द्रियाणां हितं चरेत्
नानुशोचेत्सुखभ्रंशे कामयेत न दुर्लभम् ।
जानन्नपि न कुर्वीत कौटिल्यं न च विश्वसेत्
सतां सङ्गे मतिं कुर्यात्सदाचारपुरे वसेत् ।
सहसा संत्यजेत्पापं न कुर्यादनुतापदम्
***** नारदगालवसंवादः ॥ 82 ॥ *****
मुक्तिः शनैः कथमिति भीष्मः पृष्टो ऽब्रवीत्पुनः ।
अरिष्टनेमिः सगरं यद्बभाषे विमुक्तये
आशालतावलयितं बद्धमूलमविद्यया ।
न हि पातयितुं शक्तः सुखेन भवपादपम्
को हि जन्मसहस्रोक्तां वासनाभ्यासजां निजाम् ।
प्रीतितं वारयितुं शक्तो ललनाधनबन्धुषु
समारूढः श्रियं कान्तां ललनाम्भोजषटूपदः ।
त्यजेति विषसंकाशं को नाम वचनं पिबेत्
धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो ।
अवसन्ना विनश्यन्ति क्षुद्राः क्षौद्ररसेष्विव
शिशूनं वृत्तिमालोक्य व्यस्तां देवेन कल्पिताम् ।
को हि तद्वर्तनादानैरात्मानमवसादयेत्
परिच्छिन्नाशिनः किं ते कोटिभिर्भूमिसंचयैः ।
न पश्यसि मृतः किंचित्को ऽयं सर्वग्रहस्तव
काञ्चने लोष्टशकले पर्यङ्के पांसुसंस्तरे ।
चीनांशुके वल्कले च समानः किल मुच्यते
अन्तवत्कलयन्सर्वं निर्वेदं परमं गतः ।
तटस्थः सर्वभावेषु भवत्येवाभवो नरः
गणयन्दुर्दशामन्ते समानः काञ्चनाश्मनोः ।
अविद्याग्रन्थिभेदेन मुच्यते निर्ममः सुखम्
***** सगरारिष्टनेमिसंवादः ॥ 83 ॥ *****
अथ शुक्रकथां पृष्टो राज्ञा प्राह सुरव्रतः ।
पुरा योगीश्वरः शुक्रो भृगुसूनुर्धनप्रभोः ।
गुह्यकाधिपतेर्देहं प्रविश्याक्रम्य सर्वतः
धनं भूरि जहाराशु तच्च दुःखाद्धनाधिपः ।
पिनाकिने दस्युवृत्तं वयस्याय न्यवेदयत्
कुपितस्त्रिपुरारातिरादाय भृगुनन्दनम् ।
पपौ स चोदरे शंभोर्बभ्राम विपुले चिरम्
स रुद्रधारणावह्निदह्यमानो ऽन्तरस्थितः ।
रुद्धेषु सर्वस्रोतःसु तस्य तुष्टाव वल्लभाम्
ततः स शुक्रद्वारेण निर्गतः शुक्रतां ययौ ।
सतीसंरक्षितो लेभे न च वै पूर्ववत्स्थितिम्
***** शुक्रोत्पत्तिः ॥ 84 ॥ *****
श्रेयः किमिति पृष्टो ऽथ पुनराह पितामहः ।
पुरा विदेहाधिपतिं यदुवाच पराशरः
मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः ।
न चरत्यवटे तस्य कर्मणो ऽपि सुखं सदा
रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् ।
तमसे दुःखमेवैषां बन्धाय महते तमः
सतां भोगवियोगेषु निर्वेदो नाम जायते ।
निर्वेदस्तपसे तेषां तपः संसारशान्तये
सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् ।
स्वकर्मसक्तमनसां स्वयमायान्ति संपदः
***** पराशरगीताः ॥ 85 ॥ *****
प्रजापतिर्हंसरूपी राज्ञा पृष्टो ऽब्रवीत्पुरा ।
क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः
दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च ।
जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः
***** हंसगीताः ॥ 86 ॥ *****
पृष्टः किमक्षरमिति प्राह भीष्मो नरेश्वरम् ।
भगवाञ्जनकं पूर्वं वसिष्ठो यदभाषत
चतुर्दशविधः सर्गो गुणाः कर्माणि चोदनाः ।
सर्वमेतत्क्षरं विद्यादक्षरं परमं पदम्
अक्षरक्षरसङ्गो ऽयं देहिदेहसमागमः ।
देहताम्रकलादाहे हेमवद्दृश्यते ऽभरम्
***** वसिष्ठजनकसंवादः ॥ 87 ॥ *****
पुनः पृष्टो ऽवदद्भीष्मो याज्ञवल्क्यो गुरुः पुरा ।
प्रोवाच शिष्यं जनकं परमाक्षरनिर्णयम्
अध्यात्मचिन्तागन्तव्यमधिभूते च कारणम् ।
गुणत्रयविनिर्मुक्तमक्षरं वेद्यवर्जितम्
सांख्ययोगोदितं शान्तं शाश्वतं ध्रुवमव्ययम् ।
निस्तरङ्गोदधिनिभि युक्ताः पश्यन्ति निर्भयाः
सूर्यप्रसादाद्वदनं प्रविष्टा मे सरस्वती ।
तयास्मि वेदकृद्भूत्वा सारमेव पदं श्रितः
षङ्विशो मुच्यते व्यक्तं प्रलीनं पञ्चविंशके ।
इति गन्धर्वभूपालो विश्वावसुमबोधयत्
***** याज्ञवल्क्यजनकसंवादः ॥ 88 ॥ *****
तिष्ठन्गृहे को नु मुक्तः पार्थेनेति सुरव्रतः ।
पृष्टो बभाषे सुलभा यदूचे जनकं पुरा
त्रिदण्डधारिणी मुक्ता सुलभा नाम भिक्षुकी ।
मिथिलां जनकं द्रष्टुं पुरा प्रायाद्विहायसा
यौवनाभरणं रूपं दधती सा सुमध्यमा ।
ददर्श जनकं कान्ता लावण्यललिताकृतिः
तां विलोक्य सुधासारसिक्ताङ्ग इव मैथिलः ।
चक्रे समुचितां पूजां तस्मै पापासनादिभिः
ततः सुखोषिता तत्र मुक्तात्तरमुपेत्य सा ।
सभायां जनकं चक्रे रश्मिभिः स्वीकृतान्तरम्
नेत्राभ्यां चारुनयना विशन्ती तमलक्षिता ।
अन्तरङ्गा क्षणमभूत्सा सुप्तेव सुधानदी
तद्भावस्पृष्टभावो ऽथ बभाषे दन्तकान्तिभिः ।
जनको निर्गुणां कुर्वन्विमुक्तां हारवल्लरीम्
अयि चित्तसुधासिन्धुचन्द्रिका कासि कस्य वा ।
कुतस्त्वमनवद्याङ्गि नयनामृतवर्षिणी
शिष्यः पञ्चशिखस्याहं सांख्यवेदविदो मुनिः ।
विवेकास्त्रविदां श्रेष्ठो मोक्षं प्राप्तो जनाधिपः
किरीटी कङ्कणधरश्छत्त्रव्यजनवाहनः ।
मुण्डितेच्छः शमारण्यो मनः कर्मप्रसादनः
स्वान्तबोधकपाले ऽस्मिन्प्लुष्टं पञ्चशिखेन मे ।
ज्ञानबीजस्य सामर्थ्याद्विषयेषु न जायते
नैकान्तवासिता शान्त्यै न गेहं बन्धनाय च ।
सर्वत्र विहिता नाम मुक्तिर्निर्लेपचेतसाम्
अन्तःप्रवेशः किमयं त्वया मे योगतः कृतः ।
वर्णगोत्राश्रमादीनां विभेदादेष संकरः
जेतुमिच्छसि चेदस्मान्सिद्धो मानस्तदेष ते ।
अयं स्वशास्त्रदोषश्च तव स्पृशसि यत्परान्
सर्वाङ्गसङ्गं कुरुषे सती भूत्वा न लज्जसे ।
कारणं ब्रूहि सुभगे न मिथ्या वक्तुमर्हसि
इति पृष्टातिपरुषं न धैर्यात्संचचाल सा ।
ईषदुन्नमितैकभ्रूर्हासपल्लविताधरा
सा बभाषे प्रविष्टापि च्छायेव पुरतः स्थिता ।
पूर्वापरहितं वाक्यं नदन्सज्जनसंसदि ।
मुक्तश्च भेदवक्ता चेत्यहो राजन्न राजसे
कासि कस्य कुतो वा त्वं यदेवमभिधीयते ।
तत्र किं न श्रुतं काष्ठजन्तुवद्गुणभौतिकम्
त्रिंशद्गुणकलाकारो व्यक्तो व्यक्तत्वमागतः ।
संघातस्तत्त्वचक्रस्य सो ऽयं कस्य न कस्य वा
शुक्रसेकाद्यवस्थास्ता न लक्ष्यन्ते जरावधि ।
दीपस्येवार्चिषो याता यस्य सो ऽयं कुतः कथम्
स्वाङ्गैरपि न संबन्धः संबन्धो जगतामिव ।
किमुतात्मनि नात्मानं मुक्तः पश्यसि बिम्बवत्
विकल्पं पृच्छतो नैषा मुक्तता तव शोभते ।
समरारावभग्नस्य जयमालेव दन्तिनः
इदं राज्यमपर्यन्तं तिष्ठतस्ते विमुक्तता ।
न मन्ये ऽहं मरुतटे तप्तस्येव वितृष्णता
चामरैर्लोलयन्त्येव च्छत्त्रैराच्छादयन्ति च ।
विवेकं मदकल्लोलैर्हरन्ति च नृणां श्रियः
हताः सेनाः पुनर्युद्धे राजपुत्रो निपातितः ।
इति साधारणैर्देषैर्भूभुजामेव दुःखिता
धनं कोशे गजाः शाले स्वगृहेषु च मन्त्रिणः ।
शय्याविभागे महिषी त्रियामायां त्वमेककः
अकङ्कणमहारं च शय्यायां वर्तते वपुः ।
उच्छ्वासशेषो विमुखः स्वप्ने धावसि चान्यतः
भिक्षुकी शून्यनिलया शून्ये ऽस्मिंस्तव विग्रहे ।
निवसामि क्षपामेकां का नु ते नृपते क्षतिः
अस्पृशन्ती वपुस्ते ऽहं प्रविष्टा यदि योगतः ।
तत्कथं नृपते मुक्तः स्पर्शं वेत्सि सरागवत्
वर्णसंकरभीरोस्ते कथं पञ्चशिखो गुरुः ।
वृथा तदधुना जातं यत्त्वयोक्तं नरेश्वर
नैवाङ्कुरसमर्थं मे ज्ञानबीजं प्ररोहति ।
विषयेष्विति तद्राजन्स्वयमुक्तं न पश्यसि
अविभिन्ना वयं सर्वे समाश्रयिसमाश्रयात् ।
तरौ लता तत्र पुष्पं तस्मिन्षट्चरणा इव
सर्वात्मना पृथक्त्वं चेदिति भागं विपश्यसि ।
तदेकान्तविभिन्नस्य कस्य केनात्र संकरः
स त्वं प्रवृत्तिविमुखो न च प्राप्तो निवृत्तताम् ।
त्रिशङ्कुरिव मध्यस्थो न दिवं न भुवं श्रितः
सर्वमेतन्मम न वा यत्सर्वमहमेव वा ।
निष्ठामेतामनासाद्य कथं मुक्तो ऽसि पार्थिव
इत्यवाप्तोपदेशार्थः सुलभावचसा नृपः ।
न हृष्टो नापहृष्टश्च तूष्णीं नभ इवाभवत्
***** सुलभाजनकसंवादः ॥ 89 ॥ *****
राज्ञा शुकस्य वैराग्यं भीष्मः पृष्टो ऽब्रवीत्पुनः ।
यदुवाच शुकं पुत्रं पराशरसुतो मुनिः
पुत्र संसारमरणौ सरतामविवेकिनाम् ।
पश्य शीतातपव्याधिमरणावधिदुःस्थितिम्
अस्मिन्शरीरकुसुमे भृङ्गवज्जीविते स्थिते ।
चपलेषु च बावेषु ताटस्थ्यं पुत्र नोचितम्
यथा लिखितमेवायुः क्षणरात्रिं दिवं ततः ।
कोटिभिः प्राप्तकालानां मुहूर्तमपि दुर्लभम्
वासनाक्षौद्रपटले नानाभावरसाहृते ।
स्वयमुत्पादिते मग्नः क्षुद्रः को नाम मुच्यते
अपर्याप्तमनःस्वेच्छास्त्यक्त्वा दारान्धनं सुतान् ।
कालव्यालसमाकृष्टा हन्त गच्छन्ति जन्तवः
असिपत्त्रवनं घोरं तप्ता वैतरणी नदी ।
परत्रोष्णकटाहाश्च सन्ति गेहं न बान्धवाः
न यावदेतत्तारुण्यं गलत्यनुपलक्षितम् ।
न यासि यावत्संकोचं जरया तप्तचर्मवत्
हिक्काश्वासविपर्यस्तो यावत्स्वप्नविलोचनः ।
कुलालचक्रवद्भ्रान्तो न पश्यसि दिशो दश
हिरण्यवर्णां वसुधां यावद्वीक्ष्य विशृङ्खलम् ।
न गच्छसि तमो दीर्घं सूच्यभेद्यमबान्धवः
यावच्छुभाशुभाक्रान्तो न हृष्यसि विरौषि वा ।
तावत्समाधिविबुधो विनिवृत्तभवो भव
श्रुत्वेत्यवाप्तनिर्वेदः शुकस्त्यक्त्वा स्वमाश्रयम् ।
आमन्त्र्य पितरौ योगी ययौ श्रेयःसमाधये
***** यावत्कम् ॥ 90 ॥ *****
कर्ममूलं निशम्याथ नृणां सुकृतदुष्कृतम् ।
राज्ञा शुककथां पष्टः पुनराह पितामहः
कर्णिकारवने मेरोः पुरा शीतांशुशेखरः ।
विजहार हरो हारफणिरत्नांशुपिञ्जरः
तत्रोग्रतपसा युक्तो व्यासः सत्यवतीसुतः ।
पुत्रकामो वरं प्राप दास्यमीति महेश्वरात्
ततः कालेन स मुनिर्वह्न्यर्थमरणीं स्वयम् ।
ममन्थाप्सरसं पश्यन्धृताचीमग्रचारिणीम्
तस्य शुक्रं पपाताशु शुकीभूतां विलोक्य ताम् ।
अरण्यामरतस्यापि तत्रास्य तनयो ऽभवत्
अरण्या गर्भसंभूतः सो ऽभूद्व्याससुतः शुकः ।
शुक्रः कमण्डलुं यस्मै द्यौश्च दण्डाजिनं ददौ
वेदानधीत्य साकारानवाप्य च बृहस्पतेः ।
तपसा ब्रह्मचर्येण मान्यो ऽभूत्स दिवौकसाम्
उपदेशं पितुः प्राप्य तद्गिरा जनकं ययौ ।
मोक्षधर्मार्थनिपुणं द्रष्टुं पद्भ्यां नभश्चरः
मेरुवर्षानतिक्रम्य मिथिलां प्रविवेश सः ।
निवार्यमाणो ऽप्यक्रोधो द्वाःस्थैः परुषवादिभिः
परं जनकराजस्य कक्ष्याद्वयमतीत्य सः ।
मन्त्रिप्रवेशितस्तस्थौ पूजितो ऽन्तःपुरे मुनिः
ततः पर्यचरन्कान्तास्तमुत्पलविलोचनाः ।
यासां स्मितामृतैः कामः शिवदग्धो ऽपि जीवति
वराहर्(ह)शयने तत्र योगी ध्यानपरायणः ।
निनाय रात्रिं प्रातश्च नृपो द्रष्टुं तमाययौ
गुरोर्व्यासस्य तनयो जनकेन स पूजितः ।
रत्नासनोपविष्टो ऽथ पप्राच्छ मिथिलेश्वरम्
विसृष्टो ऽहं भगवता पित्रा व्यासेन ते ऽन्तिकम् ।
गुरूपदेशसंबन्धं वद ज्ञानमनामयम्
जनकः प्राह शनकैः क्रियासोपानपङ्क्तिभिः ।
आरुह्योच्चैः परं धाम विसुद्धं शुद्धचेतसा
ज्ञानानिलहृताशेषविकल्पघनडम्बरः ।
द्वन्द्वत्रियामाविरतौ दृश्यते बोधभास्करः
सर्वमात्मनि सर्वत्र तमात्मानं विलोकयन् ।
गुणत्रयविनिर्मुक्तो मुनिश्चरति निर्ममः
तस्योत्सृष्टकलङ्कस्य प्रसन्नासक्तचेतसः ।
सर्वत्र विजितो मोक्षः सर्वकर्तृपदस्पृशः
स्पृहाग्रन्थिं पुरो मुक्त्वा ततो रागं ततः शुचम् ।
अहंकारपरित्यागाद्योगी ब्रह्ममयो भवेत्
सर्वान्तरात्मतां यातः सर्वज्ञपदमास्थितः ।
युक्तो विमिश्रतां याति शैलेषु सलिलेषु च
अहमित्येव संसारो नाहमित्येव तत्क्षयः ।
देहमानविरामे च प्राणमानं समाश्रयेत्
भावस्नेहं परित्यज्य देहमानं समाश्रयेत् ।
देहमानविरामे च प्राणमानं समाश्रयेत्
निरस्य प्राणमानं च विश्वाहंकारमाश्रयेत् ।
शून्यतां चिन्तयेत्पश्चाद्यया ब्रह्मणि लीयते
इत्यादि मिथिलेन्द्रस्य निशम्य विशदं वचः ।
तमामन्त्र्य कृती प्रायाच्छुकस्तुहिनभूधरम्
अत्रान्तरे सुरमुनिर्नारदो द्रष्टुमाययौ ।
हिमाचलं लतालास्यविलासमणिमन्दिरम्
विद्याधरघटाजुष्टनिर्झरोदारकन्दरम् ।
हेमपङ्कजिनीकुञ्जकूजन्मञ्जुविहङ्गमम्
शुको ऽथ तत्र पितरं शिष्यान्विनयशालिनः ।
अध्यापयन्तमभ्येत्य स्ववृत्तान्त न्यवेदयत्
सुमन्तुः पैलसहितो वैशम्पायनजैमिनी ।
ते व्यासशिष्याः प्रमदात्परिषस्वजिरे शुकम्
कदाचिदथ यातेषु कृष्णद्वैपायनं गुरुम् ।
वैशंपायनमुख्येषु समामन्त्र्य महीतलम्
एक एव शुकस्तस्थौ तत्र ध्यानपरायणः ।
अधीयानः परं ब्रह्म व्यस्तं व्यासेन धीमता
अथ प्रवाति पवने कृते चाध्ययने शुकः ।
समीरणगतीस्तास्ताः शुश्राव गुरुणोदिताः
दिव्यो वायुः समानाख्यस्तस्योदानः सुतो बली ।
व्यानश्च तस्य तनयः ख्यातो ऽपानश्च तत्सुतः
तत्संभवः प्राणनामा तेषां सप्त गतिक्रमाः ।
कर्म चैषां बहुविधं नाम्ना सदृशमुच्यते
प्रवहो नाम तद्रूपो धूमाभ्रप्रेरको ऽनिलः ।
आवहो नाम पवनस्तडिद्विभ्रमकृन्मुनेः
जलं वहति मेघेषु यश्चोदीरयति ग्रहान् ।
उद्वहो नाम स ज्ञेयः सर्वसागरघस्मरः
विमानवाही देवानां संगर्जः संवहाभिधः ।
व्योमगङ्गाम्बुधर्ता च निवहः पञ्चमो ऽनिलः
पूरयत्यमृतेनेन्दुं षष्ठः परिवहः स्मृतः ।
अन्त्यो ऽन्तकृच्च भूतानां घोरो वायुः परावहः
स एव वायुर्निःश्वासो वहत्स्वेतेषु नो पते(ठे)त् ।
एतदुक्त्वा नभोगङ्गां कृष्णद्वैपायने गते
शुक्रमेकाकिनं प्रीत्या नारदः समुपाययौ ।
आदराद्व्यासतनयस्तं प्रणम्य सुखस्थितम्
अपृच्छदैहिकं श्रेयः पृष्टस्तेन स चाब्रवीत् ।
विद्याचक्षुस्तपः सत्यं त्यागरागौ सुखासुखे
क्रोधश्च मृत्युरित्येतद्यो वेत्ति न स शोचति ।
अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा
सङ्गत्यागः पदं मुक्तेर्भोगाभ्यासो गृहं शुचः ।
विप्रयोगे महाञ्शोषस्तापकृद्यैः प्रजायते
आपातरमणीयांस्तान्भावान्साधुर्न चिन्तयेत् ।
बहु मन्येन न धनं संतोषं शममास्थितः
संसारसारवैचित्र्यं गणयन्बहुबाधकम् ।
न विस्मयं न संतापं वानुरागं भजेत च
अलसा दीर्घसूत्राश्च दृश्यन्ते विभवैर्युताः ।
ईहमानाश्च दक्षाश्च न क्वचिद्धनभागिनः
अनिच्छतां संततिं च जायन्ते बहवः सुताः ।
लभन्ते पुत्रकामाश्च पातं वा नैव वा सुतम्
दुर्जराः सहसा यस्मिञ्जीर्यन्ते क्षिप्रमास्थिताः ।
तस्मिन्नेवोदरे गर्भो मासान्दश विवर्धते
व्याधिदग्धा विपद्यन्ते नरा वैद्यशतैर्वृताः ।
रोगानतितरन्त्यन्ये रथ्याकर्दमशायिनः
रूपबुद्धिविहीनानां दासाः स्वाकृतयो बुधाः ।
शोचन्त्यन्यत्र विधवा गतभार्यास्तथा क्वचित्
इत्येवं विविधां मायां कलयन्नखिलां धिया ।
भवस्वभाववैरी स्यान्न तु सज्जेत पण्डितः
नारदेनेति कथितं निशम्य व्यासनन्दनः ।
ध्यायन्संसारसरणिं निर्वेदान्न धृतिं ययौ
सर्वत्यागधृतोद्योगः स समामन्त्र्य नारदम् ।
व्यासमेत्य सरित्तीरे ववन्दे हर्षनिर्भः
तस्मै निवेद्य विनयान्निर्वेदं गतवासनः ।
प्रदक्षिणीकृत्य गुरुं गन्तुमभ्युद्ययौ शुकः
क्षणं पुत्र प्रतीक्षख यावत्त्वद्दर्शनामृतैः ।
प्रीणामि निर्भरं चेतस्तमित्यूचे पिता ततः
निरक्षेपः स गत्वाथ समारुह्य गिरेः शिरः ।
निःशब्दः स समे देशे सर्वज्ञः समुपाविशत्
उल्लङ्घनाक्रमेणैव ग्रन्थिबन्धान्विमुच्य सः ।
तेजस्येकरसे तेजो धृत्वा हेम्नीव काञ्चनम्
रविं वायुं जलं भूमिं प्रविश्य गगनं तथा ।
विश्वाविष्कारकलया शून्याशून्यसमाश्रयः
विहस्योत्पत्य सहसा सशरीरो ऽप्यदेहवत् ।
समीरवदसक्ताङ्गः खे ययौ वैनतेयवत्
तं प्राप्तं परमां सिद्धिं देवगन्धर्वयोषितः ।
अवाकिरन्पुष्पवर्षैः सर्वे च व्योमचारिणः
सो ऽब्रवीद्देवताः सर्वा विचिन्वानस्य मां पितुः ।
प्रलापिनः प्रतिवचो देयं सर्वाभिराश्रमे
इत्युक्त्वा स समुल्लङ्घ्य क्षिप्रमष्टविधं तमः ।
त्यक्त्वा रजः सप्तविधं सत्त्वं चोत्सृज्य केवलम्
उल्कापातैः स दिग्दाहैः कम्पिते भुवनत्रये ।
निर्व्यञ्जनं निर्गुणं च ब्राह्मं तेजः समाविशत्
स व्रजन्विपुलायामं द्विशृङ्गं दिव्यभूधरम् ।
द्विधा व्यधादलग्नाङ्गस्ततो देवाः स्वयं ययुः
अथ मन्दाकिनीतीरे कचत्काञ्चनपङ्कजे ।
उत्फुल्लोदारमन्दारपारिजातमनोहरे
स्नानकेलीरता लोलदृशस्त्रिदशयोषितः ।
हेमकुम्भोपमकुचाः पीनोरुश्रोणिमण्डलाः
श्यामरोमलताकान्ततनुमध्या विवाससः ।
वीतरागं शुकं दृष्ट्वा तस्थुर्विस्मयनिश्चलाः
तं कामकञ्चुकोत्तीर्णं ताः समुन्मुक्तकञ्चुकाः ।
कान्तं ददृशुरेकाग्रमसंकोचकुञ्चिताः
वातस्कन्धानतिक्रम्य याते तस्मिन्सुतप्रियः ।
तमन्वेष्टुं समभ्यायाद्व्यासस्तूर्णं विहायसा
हा पुत्रेति पितुर्वाचं श्रुत्वा सर्वान्तरात्मताम् ।
अवाप्तः शुद्धचिन्मात्रो भोःशब्दमकरोच्छुकः
शून्याकारस्य शब्देन तस्य प्रतिरवं नगाः ।
चक्रुः सैव स्थितिरभूत्प्रतिश्रुत्वा स भूभृताम्
लीने ततः परे धाम्नि शुके तनयवत्सलः ।
व्यासो न्यषीदद्द्युसरित्तीरे हेमशिलातले
तं दृष्ट्वाप्सरसो वारिक्रीडासक्ताः परस्परम् ।
गात्रे निधाय वासांसि ह्रिया संकोचमाययुः
ततः शोकसमाक्रान्तं तमपि ज्ञानभास्करम् ।
समेत्याश्वास्य विदधे वीतशोकं शिवः स्वयम्
***** शुकातिपातनम् ॥ 91 ॥ *****
एक एव परो देवः को वेद्य इति भूभुजा ।
पृष्टो ऽब्रवीच्छान्तनवो ध्यात्वा नारायणं हृदि
नारदेन पुराभ्येत्य बदर्याश्रममीश्वरः ।
नारायणो दर्शनाय प्रार्थितस्तमभाषत
विष्णोरव्यक्तरूपस्य चतुर्धा व्यक्तरूपिणः ।
इच्छामात्रसमुन्मेषो नरश्चाहं च नारद
एकायनैरेकदेवैरकव्रतधरैः सदा ।
स विभुर्दृश्यते युक्तैर्ज्ञाननिर्धूतकल्मषैः
श्वेतद्वीपमितो गत्वा विष्णुरूपाननामयान् ।
विष्णुध्यानपराञ्शुभ्रान्पश्य श्रीवत्सलक्षणान्
इति श्रुत्वा मुनिरभूत्तच्चित्तस्तत्परायणः ।
प्रययौ च परं द्रष्टुं कारणं विष्णुमव्ययम्
एकतेन द्वितेनापि त्रितेन च तपस्विना ।
वस्त्रयज्ञसदस्यैर्यः श्वेतद्वीपे पुरा स्तुतः
श्वेतद्वीपं समासाद्य नारदो रुचिरान्नरान् ।
ददर्श शशिकर्पूरतुषाररजताप्रभान्
तान्प्राणम्य स सत्त्वस्थैर्मनसा तैश्च वन्दितः ।
दिव्यैर्मन्त्रपदैर्विष्णुं तुष्टाव रचिताञ्जलिः
ओं जय अजित अव्यय अप्रमेय अनन्त अच्युत अपरिमित अचल अचिन्त्य अप्रतिहत अभव महाविभव निरतिशय निरञ्जन निर्लेप निष्प्रपञ्च निरुपम निर्विकार निर्गुण नित्योदित विश्व विश्वरूप विश्वेश्वर विश्वसमुद्धरण शुद्धसूक्ष्म ध्रुनव शाश्वत शान्त संवित्स्वरूप परमानन्दमन्दिर भक्तिमन्दाकिनीमराल स्वेच्छाशक्तिव्यक्तीकृतनिजप्रसार लक्ष्मीलतावसन्त मधुवधूगण्डपाण्डिताखण्डल कौस्तुभप्रभारचितकमलाकुचकुङ्कुमभङ्ग अपरिष्वङ्गसङ्गमाकुलीकृतस्वर्भानुभामिनीलोक दंष्ट्रेन्दुकलालेखायितवसुधाभिराममहावराह हिरण्यकशिपुकाननदवानल वामनलीलासंपदवामनीकृतसुरैश्वर्य चरणनखमयूखायितस्वर्वाहिनीप्रवाह क्षत्रक्षयाध्वरोद्दीपितकुठारानल दशवदनवदनकन्दुकविनोदानन्दित कालियकुलकमलिनीकुञ्जर रुक्मिणीकपोलदन्तपत्त्रीकृतपाञ्चजन्यप्रभापुर विद्रुमद्रुमायितकैटभरुधिरारुणोरुस्तम्भ ब्रह्मपद्मपद्माकरतुरगमुखखलीनखनखनायमानसामवेदोच्चार ।
इत्यादिभिः स्तुतिशतैर्दिव्यैर्गुह्यैश्च नामभिः ।
नानावर्णं ततो ऽपश्यज्जयोतीरूपं सनातनम्
जितन्ताद्येन मन्त्रेण स्तूयमानं सितैर्नरैः ।
तं विश्वव्यापिनं दृष्ट्वा कृतकृत्यो ययौ मुनिः
इत्येवं नारदादन्यो न ददर्श तमीश्वरम् ।
सो ऽव्यक्तः परमो विष्णुर्भूतानां प्रभवो ऽव्ययः ।
अनादिनिधनः शुद्धो वेद्यः सूक्ष्मो निरञ्जनः
***** नारायणीयम् ॥ 92 ॥ *****
निवृत्तधर्ममाकर्ण्य शान्तये धर्मजन्मना ।
पुनराश्रमिणां धर्मं पृष्टः प्राह सुरव्रतः
गङ्गातीरे द्विजः कश्चिदतिथिं गृहमागतम् ।
किमग्र्यं सर्वधर्माणामित्यपृच्छदुदारधीः
पद्मो नाम महान्नागो नैमिषे गोमतीतटे ।
स जानातीति विप्रेण स पृष्टो ऽतिथिरब्रवीत्
ततस्तद्वचसा गत्वा गोमतीतीरमग्र्यजः ।
वारेण सूर्यरथगं न ददर्श भुजङ्गमम्
स्थित्वा तत्र निराहारो दिनानि कतिचिद्द्विजः ।
नागं ददर्श तं प्राप्तं दृष्ट्वा पप्रच्छ कौतुकम्
ब्रूहि तावदिदं नाग त्वया रविरथस्थितौ ।
दिवि दृष्टं किमाश्चर्यं पश्चाद्धर्म प्रवक्ष्यसि
इत्याकर्ण्याब्रवीन्नागो दृष्टं मार्तण्डवर्त्मनि ।
रथस्य चक्रं वारेण बलेन वहता मया
अंशुशाखासहस्रेषु रवेः शकुनयो यथा ।
तिष्ठन्ति देवाः सिद्धाश्च मुनयश्चेति कौतुकम्
करैर्गृहीत्वा त्यजति पयो भूमौ प्रविश्य च ।
पश्यत्यलक्षितः सर्वं भगवानिति कौतुकम्
स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् ।
तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः ।
पृष्टः को ऽयमिति श्रीमान्हर्षपूर्णो ऽब्रवीद्रविः
स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् ।
तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः ।
पृष्टः को ऽयमिति श्रीमान्हर्,पूर्णो ऽब्रवीद्रविः
उञ्छवृत्तिरयं सिद्धः कापोतीं वृत्तिमाश्रितः ।
मदीयं धाम यातो ऽसावित्येतदपि कौतुकम्
श्रुत्वेति नागाद्विप्रो ऽभूत्प्रहर्षविकचाननः ।
अवान्तरकथावाप्तस्वाभिधेयोपदेशवाक्
आमन्त्र्य पन्नगं विप्रो विधाय च्यवनं गुरुम् ।
उञ्छव्रतो ययौ सिद्धिं गीयमानः सुरैर्दिवि
च्यवनान्नारदेनैतत्तस्माज्जम्भलद्विषा ।
शक्राच्च वसुभिस्तेभ्यो मया मत्तस्त्वया श्रुतम्
***** मोक्षधर्माः ॥ 93 ॥ *****
शमं विविधमाकर्ण्य धर्मराजः पितामहम् ।
बभाषे शोकविवशश्चिन्तयन्बान्धवक्षयम्
अहो बताहं संसारे धुर्यः किल्बिषकारिणाम् ।
सर्वस्वजनसंहारे नीतो दैवेन हेतुताम्
जायेत मादृशः को ऽन्यः सदृशो मम दुष्कृती ।
पितामह शरैर्यस्त्वां घातयित्वा निरीक्षते
धन्यः सुयोधनस्तात धिङ् मां पुण्यैर्निराकृतम् ।
बनधूनां त्वत्प्रधानानां यः क्षये साक्षितां गतः
शैशवे क्षौमवसनं यस्याङ्के लडता मया ।
म्लापितं राज्यलुब्धेन स एव निहतो भवान्
श्रुत्वा युधिष्ठिरेणैतद्वक्तुं शन्तनुनन्दनः ।
तमूचे मा कृथाः पुत्र मिथ्यैवानुशयव्यथाम्
परतन्त्रमिदं सर्वं जगत्स्वयमनीश्वरम् ।
स्वकर्ममुद्रितो लोकः प्राप्नोत्येव भवाभवम्
ब्राह्मणी गौतमी नाम पुत्रकं पुत्रवत्सला ।
दष्टं ददर्श सर्पेण गतासुं कानने पुरा
तां दृष्ट्वा पुत्रशोकार्तां लुब्धकोर्ऽजुनकाभिधः ।
बद्ध्वा तं सर्पमादाय जगादाभ्येत्य गौतमीम्
अयं पुत्रस्य ते हन्ता मया बद्धो भुजङ्गमः ।
ब्रूहि यावत्क्षिपाम्येनं वह्नौ शस्त्रेण हन्मि वा
श्रुत्वैतल्लुब्धकवचो विविग्ना प्राह गौतमी ।
वराकः पन्नगो नायमज्ञानाद्वधर्महति
अन्तवन्त्येव भूतानि नियतावधि मुद्रया ।
उपयान्ति स्वयं मृत्युं हन्ता कश्चिन्न कस्यचित्
तस्मादस्मिन्न कोपो मे कुतः कोपे ऽपि निग्रहः ।
जड व्याध विमुञ्चैनं हतः कालेन मे सुतः
इत्युक्तो ऽप्यसकृद्व्याधस्तया सर्पवधे मतिम् ।
न तत्याज यदा कोपात्तदा दीनो ऽवदत्फणी
हतो ऽयं मृत्युना बालो यो मां प्रेरितवान्स्वयम् ।
अस्वतन्त्रस्य का शक्तिस्तदा ज्ञातिक्रमान्मम
पन्नगेनेत्यभिहिते लुब्धकः पुनरब्रवीत् ।
कारणेन त्वया सर्प नीतो ऽयं मृत्युना शिशुः
न हि नाम स्वयं कश्चित्करेणाकृष्य मृत्युना ।
नीतो भवद्विधा यावद्याताः सर्प न हेतुताम् ।
वध्यो ऽसि सर्वथा तस्माद्विनाशे कारणं शिशोः
इति ब्रुवाणे बहुशः कोपाद्व्याधे भुजङ्गमम् ।
स्वयमनिग्रहान्मृत्युरभ्येत्य तमभाषत
नाहमस्य शिशोर्हन्ता न चायं भुजगो जड ।
प्रेरको भगवान्कालः सर्वं क्षयति संक्षये
कालेन कलितास्ते ते भावास्त्रैलोक्यवर्तिनः ।
स्पृशन्त्यभावपदवीं भवन्ति च पुनः पुनः
इत्युक्ते मृत्युना कालः स्वयमेत्य तमभ्यधात् ।
नाहं न मृत्युर्नो सर्पः प्रभुर्बालनिपातने
स्वकर्मभिरयं लोको लभते निधनोदयौ ।
कर्मसूत्रैर्विचेष्टन्ते नरा यन्त्रमया इव
जायते वर्धते भुङ्क्ते प्रसूते मोदते पुनः ।
जीर्यते क्षीयते वापि न जन्तुः कर्मणा विना
इति कालेन कथिते सर्पं तत्याज लुब्धकः ।
पृथग्ययुश्च ते सर्वे नष्टशोका च गैंतमी
इत्येवं स्वकृतैरेव क्षीयन्ते कर्मभिर्जनाः ।
कर्मणा निधनं यातान्मा शुचः पृथिवीधरान्
***** गौतमीसर्पमृत्युलुब्धकसंवादः ॥ 94 ॥ *****
गृहाश्रमे केन मृत्युर्वर्तमानेन धर्मतः ।
जितः पाण्डुसुतेनेति पृष्टः शान्तनवो ऽब्रवीत्
इक्ष्वाकुवंशजो राजा माहिष्मत्यामभूत्पुरा ।
श्रीमान्सुयोधनो नाम स्मरेन्द्रधनदोपमः
तं नर्मदा नदी दृष्ट्वा स्नातं कमललोचनम् ।
अकामयत कामार्ता विलासललिताकृतिम्
तस्यामजीजनत्कन्यां राजा राजीवलोचनाम् ।
कान्तां सुदर्शनां नाम नयनानन्दिदर्शनाम्
तां यौवनवतीं काले भगवान्वीक्ष्य पावकः ।
स्मराकुलो नरपति ययाचे ब्राह्मणाकृतिः
निर्धनावज्ञया तस्मै तां यदा न ददौ नृपः ।
तदा तस्य स यज्ञे ऽग्निः प्रायात्कोपाददर्शनम्
ऋत्विग्भिरथ सप्तार्चिर्नियमेन प्रसादितः ।
स्वप्ने जगाद तं मह्यं कन्यैषा दीयतामिति
ततः प्रत्यक्षवपुषे तस्मै राजा सुदर्शनात् ।
प्रहृष्टस्तनयां प्रादात्प्राप्य तत्संनिधिं मखे
राज्ञा तेनार्थितो ऽद्यापि माहिष्मत्यां हुताशनः ।
आस्ते सदा संनिहितः क्षपयन्सर्वविप्लवान्
सुदर्शनायां नयो बभूवाथ विभावसोः ।
कान्तः सुदर्शनो नाम गुणरत्नमहोदधिः
सुता मोघवतो राज्ञः कान्तां मोघवतीं युवा ।
स लेभे क्षीणावाणस्य नवा शक्तिं मनोभुवः
तया सह कुरुक्षेत्रे गृही धर्मपदे स्थितः ।
चक्रे मृत्युजये यत्नं सो ऽर्थिकल्पद्रुमस्तदा
अभग्नप्रणयाः कार्याः सर्वथार्थिमनोरथाः ।
इत्यूचे स सदा जायां धर्मसब्रह्मचारिणीम्
धर्मादच्यवतस्तस्य च्छिद्रपेक्षी सदाभवत् ।
प्रच्छन्नः सर्वतो मृत्युर्न चान्तरमवाप्तवान्
ततः कदाचिदिध्मार्थं स्वयं याते सुदर्शने ।
अतिथिः कश्चिदभ्येत्य तद्भार्यां ब्राह्मणो ऽब्रवीत्
आतिथ्यं क्रियतां सुभ्रु राजपुत्रि मम त्वया ।
यदि धर्मः प्रमाणं ते तन्मां भज सुलोचने
इति ब्रुवाणः स तया वारितो ऽप्यपैरर्वरैः ।
त्वां निना नार्थये किंचिदित्युवाचासकृद्द्विजः
धर्म्यं ततः सा वचनं स्मृत्वा भर्तुः पतिव्रता ।
तथेत्युक्त्वाकरोत्सर्वं ब्राह्मणस्य समीहितम्
अस्मिन्नवसरे गेहद्वारमेत्य सुदर्शनः ।
एहीत्याहूय दयितां सोत्कण्ठो ऽपि व्यलम्बत
सा भर्त्रा सहसाहूता न च प्राप्ता द्विजान्तिकम् ।
दोलाविलोलहृदया तस्थौ लज्जाकुला क्षणम्
ततो गृहान्तराद्विप्रः सुदर्शनमभाषत ।
इयं मया तव वधूरर्थितातिथिना रतम्
प्राप्ता नाद्यापि शयनं प्राप्तश्च त्वं गृहाधिपः ।
किमत्र मन्यसे युक्तमित्युक्त्वा विरराम सः
अत्रान्तरे छन्नवपुर्मृत्युरादाय मुद्गरम् ।
लब्धो ऽवकाश इत्युक्त्वा बभूवानन्दनिर्भरः
ततः सुदर्शनो विप्रमुवाचाविकृताशयः ।
निःशङ्को मद्गिरा ब्रह्मन्रमस्व मम भार्यया
इत्युक्ते वह्निपुत्रेण गगनात्साधु साध्विति ।
शब्दो बभूव विपुलः सहसा त्रिदिवौकसाम्
अतिथिर्विप्ररूपं स परित्यज्य महाकृतिः ।
उवाच महसां राशिः प्रीत्याभ्येत्य सुदर्शनम्
धर्मो ऽहं दम्पती प्राप्तो युवां जिज्ञासुराश्रमे ।
अंखण्डितं च युवयोर्दृष्टं सत्त्वमिदं मया
अधृष्ट तेजसा चेयं त्वद्भार्या केन लङ्घ्यते ।
द्विधात्मानं विभज्यैषा योगेनौघवती नदी ।
भविष्यति क्षितौ पुण्या नित्यं त्वां चानुयास्यति
इत्युक्त्वान्तर्दधे धर्मो मृत्युश्च विमुखो ययौ ।
स च वीरो दिवं प्राप सभार्यश्च सुदर्शनः
***** सुदर्शनोपाख्यानम् ॥ 95 ॥ *****
विश्वामित्रेण संप्राप्तं ब्राह्मण्यं दुर्लभं कथम् ।
पृष्टो युधिष्ठिरेणेति गाङ्गेयः पुनरब्रवीत्
कुशिकस्य पुरा राज्ञः श्रीमान्गाधिः सुतो ऽभवत् ।
पुत्री सत्यवती नाम तस्याभून्मृगलोचना
ऋचीकस्तां मुनिवरः शुल्कलभ्यामवाप्तवान् ।
हयानां श्यामकर्णानां सहस्रेणेन्दुवर्चसाम्
स तया शीलशालिन्या यत्नदाराधितो मुनिः ।
याचितस्तु वरं तुष्टः पुत्रं मातुस्तथात्मनः
त्वमश्वत्थं समालिङ्ग्य तव माताप्युदुम्बरम् ।
चरुं च प्राप्य मद्दत्तं पुत्रिणीत्यवदन्मुनिः
वरमेवं समासाद्य हृष्टा मात्रे न्यवेदयत् ।
तद्गिरा व्यत्ययं चक्रे वृक्षयोः पायसे तथा
तच्च ज्ञात्वा मुनिर्जायामुवाच ज्ञानलोचनः ।
त्वन्मातुर्ब्राह्मणः पुत्रः क्षत्रात्मा ते भविष्यति
तच्छ्रुत्वा दुःखसंतप्ता ययाचे सा मुनिं पुनः ।
क्षत्राचारस्तु मे पौत्रो मा पुत्र इति मूर्छिता
एवमस्त्विति तेनोक्ते लेभे सत्यवती सुतम् ।
जमदग्निं सुतश्चास्य रामो ऽभूत्क्षत्रियोचितः
गाधिपत्नी च कालेन विश्वामित्रमजीजनत् ।
वृक्षपायसयोर्यो ऽभूद्व्यत्ययाद्ब्राह्मणाग्रणीः
***** विश्वामित्रोत्पत्तिः ॥ 96 ॥ *****
आनृशंस्यगुणं राज्ञा पुनः पृष्टः सुरव्रतः ।
उवाच कानने पूर्वं घनच्छायो ऽभवद्द्रुमः
स विद्धो विषदग्धेन शरेम मृगगामिना ।
लुब्धकेन ययौ शोषं स्पृष्टो दावानलैरिव
तं परित्यज्य यातेषु निष्फलं सर्वपत्रिषु ।
एक एव शुकस्तश्थौ सातं प्रीतिरचञ्चला
निदाघप्लोषपरुषे फलपुम्पविवर्जिते ।
स्थितं तत्र शुकं वीक्ष्य शक्रो ऽभ्येत्य तमब्रवीत्
स्वच्छच्छायाफलाद्येषु वृक्षेषु विगतद्युतिः ।
किं त्वयायं श्रितः शाखी त्यक्त्वैनः चर निर्वृतः
अथोवाच शुकः शक्रं नेदं सदृशमुच्यते ।
समाना सुखदुःखेषु सज्जनैः सह संगतिः
यत्रोषितं च भुक्तं च विहृतं च यथासुखम् ।
तस्मिन्कालहतैश्वर्ये पलायन्ते न साधवः
मघवानेतदाकर्ण्य तोषाद्वृक्षं सुधाकणैः ।
चकार सहसोद्दीर्णपत्रपुष्पफलाकुलम्
आनृशंस्यात्स च शुकः प्रययौ परमां गतिम् ।
एवं दाक्षिण्यसदृशो नापरो विद्यते गुणः
***** शुकशक्रसंवादः ॥ 97 ॥ *****
दैवं सपौरुषं राज्ञा भीष्मः पृष्टो ऽब्रवीत्पुनः ।
उभयोः संगमः सिद्ध्यै वियोगो निष्फलो ऽनयोः
अनुप्तबीजे कृष्टे ऽपि दैवं क्षेत्रे करोति किम् ।
पौरुषं कर्म पुरुषैर्यथा यत्र यदा कृतम् ।
तथा तत्र तदाभ्येत्य विसंवादो न दृश्यते
दातॄणां पुण्यशीलानां व्रतिनां सत्यवादिनाम् ।
दृश्यन्ते धन्यतास्तास्ता राज्यस्वर्गतिभूतिभिः
***** दैवपुरुकारीयम् ॥ 98 ॥ *****
के पूज्या इति पार्थेन पृष्टो ऽवादीत्सुरव्रतः ।
सदा द्विजातयः पूज्यास्ते सर्वत्र परायणम्
नरौ जन्मान्तरे पूर्वं कपिजम्बुकतां गतौ ।
जातिस्मरौ ददृशतुः श्मशानं सुहृदौ मिथः
तत्रोचे वानरः प्रेम्णा शृगालं स्विन्नमानसः ।
कर्मणा केन यातो ऽसि शवमांसाशितामिति
प्रतिश्रुत्य मया पूर्वं न वितीर्णं द्विजन्मने ।
सार्गालीं योनिमापन्नस्तेनाहमिति सो ऽब्रवीत्
एतदेव शृगालेन पृष्ट प्रोवाच वानरः ।
ब्राह्मणानवमन्याहं प्रयान्तः कपितामिति
ब्राह्मणातिक्रमेणैव भजन्ते तामसीं दशाम् ।
तस्मात्सर्वात्मना विप्राः पूज्याः कुशलमिच्छता
***** ब्राह्मणमाहात्म्यम् ॥ 99 ॥ *****
असवर्णोपदेष्टारः किं न स्युः श्रेयसां पदम् ।
विप्रा इति पुनः पृष्टो राज्ञा शान्तनवो ऽब्रवीत्
पुरा वने शूद्रमुनेर्ब्रह्मर्षिरभवत्सखा ।
कदाचित्सो ऽर्थितः श्राद्धे शूद्रेणागात्तदाश्रमम्
पितृकर्मणि तस्यासौ हव्यकव्योपदेशकृत् ।
पूर्वं शेषां वृसीमेतां कुरुष्वेत्यवदन्मुनिः
ततः कालेन महता क्षपयित्वा कलेवरम् ।
कर्मशेषोपभोगाय तौ जन्मान्तरमापतुः
स सूद्रो ऽभूत्क्षितिपतिः स ब्रह्मर्षिः पुरोहितः ।
तस्य राज्ञो ऽभवल्लप्तज्ञानो नष्टाखिलस्मृतिः
स्वस्तिपुण्याहवादेषु नृपो जातिस्मरः सताम् ।
सदा जहास तच्चासौ नृपं पप्रच्छ लज्जितः
पृष्टः शपथदानेन भूपतिर्हासकारणम् ।
पुरोहितं रहः प्राह शूद्रो ऽहमभवं पुरा
ब्रह्मर्षिश्च भवान्मह्यमुपदेशं व्यधात्सकृत् ।
तेनाद्य सुरवन्द्यो ऽपि प्राप्तो ऽस्यनुचितां दशाम्
श्रुत्वैतत्सहसा स्मृत्वा तपसे स ययौ मुनिः ।
एवं नैवोपदेष्टा स्यादवराणां द्विजोत्तमः
***** गुरूपदिष्टम् ॥ 100 ॥ *****
कः श्रियो भाजनमिति क्ष्माभुजा जाह्नवीसुतः ।
पृष्टः प्राह हरेरग्रे रुक्मिणीं श्रीः पुराभ्यधात्
सुभगेषु प्रगल्भेषु दक्षेषूज्ज्वलकर्मसु ।
जितेन्द्रियेषु वीरेषु प्रीत्या मे शाश्वती स्थितिः
उत्सेकलोभसंत्रासदैन्यक्रोधविनाकृताः ।
कृतज्ञाः केलिसदनं सदाचाराः सदा मम
पतिव्रतामकलहामलौल्यामकुतूहलाम् ।
अविप्रकीर्णभाण्डां च गतनिद्रां भजे स्त्रियम्
मत्तेषु कुञ्जरेन्द्रेषु हयेषु वृषभेषु च ।
फुल्लारविन्दवृन्देषु शरच्चन्द्रकरेषु च
नदीषु हंसहासासु राजद्राजरणेषु च ।
वनेषु मुनिपुण्येषु यज्ञेषु च वसाम्यहम्
एतच्छ्रुत्वा पुनर्भीष्ममपृच्छत्पाण्डुनन्दनः ।
स्पर्शाधिक्यं किमु स्त्रीणां नृणां वा संगमेष्विति
सो ऽब्रवीदभवद्यज्वा भृङ्गाश्वो नाम भूपतिः ।
यशः कुसुमवल्लीषु यो ऽभूत्संततमाधवः
प्रतिकूलं स शक्तस्य यज्ञमग्निष्टुतं पुनः ।
आजहार जगामास्य शत्रुतां येन वासवः
स कदाचिन्मृगप्रेप्सुर्वाजिना विपिने व्रजन् ।
इन्द्रेण मोहितो वत्स नाज्ञासीत्तृष्णयार्दितः
सो ऽपश्यदग्रे विपुलं सरः स्फटिकनिर्मलम् ।
लोलकल्लोलदोलाङ्कं केलिवेश्म हिमत्विषः
तस्मिन्स सहसा स्नातः पाययित्वा तुरङ्गमम् ।
अभवल्ललनारूपः पीनश्रोणिपयोधरः
स लज्जादुःखविवशो गत्वाश्वेन निजां पुरीम् ।
निवेद्य निजवृत्तान्तं राज्ये पुत्रशतं व्यधात्
स्त्रीरूपः सो ऽथ विजनं त्यक्तराज्यस्तपोवनम् ।
प्रययौ कलयन्नन्तर्विधेरुत्साहवामताम्
तत्र तं कामिनीरूपमकामयत तापसः ।
पतन्ति षट्पदास्तत्र यत्र यत्र सरोजिनी
तस्मादसूत पुत्राणां स शतं बलशालिनाम् ।
कान्तावपुरभून्नित्यं तेषु चात्यन्तवत्सलः
पूर्वपुत्रानथाभ्येत्य पुंस्त्वजातानुवाच सः ।
स्त्रीत्वजातैः सुतैस्तैस्तैर्वसुधा सह भुज्यताम्
तद्गिरा मिश्रतां यातं ततः पुत्रशतद्वयम् ।
बुभुजे भुवमम्लानयशोविक्रमशासनाम्
अत्रान्तरे समभ्येत्य विप्ररूपी शतक्रतुः ।
भेदेन राजपुत्राणां विदधे कलहोदयम्
ततस्ते युधि संनद्धा राज्यहेतोः परस्परम् ।
कृत्वा सैन्यक्षयं घोरं निःशेषाः प्रलयं ययुः
भेदात्प्रयाते निधनं युधि पुत्रशतद्वये ।
भृङ्गाश्वो ललनारूपः शुशोच करुमस्वनम्
तमिन्द्रो ब्राह्मणवपुर्दृष्ट्वा श्रुत्वा च तत्कथाम् ।
प्रलीनमन्युः कारुण्यादुवाच विहसन्मुहुः
शक्रो ऽहं तव पुत्रास्ते मया विप्रियकारिणः ।
भेदिता नाधुना वैरमापन्ने त्वयि मे नृप
पुत्राणां शतमेकं ते मद्वरादद्य जीवतु ।
यत्त्वमिच्छसि जातं प्राक् पुंसः स्त्रीवपुषो ऽथवा
इत्युक्ते देवराजेन भृङ्गाश्वस्तमयाचत ।
जीवितं स्त्रीत्वजातानां पुत्राणां प्रणताननः
तमब्रवीत्सुरपतिः पुंस्त्वजातान्कथं सुतान् ।
त्यक्त्वा स्त्रीत्वप्रजातेषु पुत्रेषु स्निह्यति भवान्
इति पृष्टो मघवता बभाषे स्त्रीवपुर्नृपः ।
स्नेहवात्सल्यरागाणां ललना एव मन्दिरम्
श्रुत्वैतदवदच्छक्रः सर्वे जीवन्तु ते सुताः ।
स्त्रीरूपं तु परित्यज्य पुरुषो भव मद्वरात्
इत्युक्तो पार्थिवो ऽवादीत्स्त्रीत्वं नैव त्यजाम्यहम् ।
स्त्रीणां स्पर्शेषु या प्रीतिः सा पुंभिर्लभ्यते कुतः
दैवात्समनुभूयेदं सुचिरं प्रकृतिद्वयम् ।
एतावदेव जाने ऽहं यत्प्रीतेर्भाजनं स्त्रियः
कामस्य सारं सुरतं रतस्य स्पर्शामृतं तच्च सुलोचनानाम् ।
सर्वात्मना निर्वृतिजीवशून्यं भवे भवे जीवितमेव कान्ताः
यथार्थमिति तेनोक्तं निशम्य विबुधाधिपः ।
जगाम जीवयित्वास्य प्रीतः पुत्रशतद्वयम्
***** भृङ्गाश्वोपाख्यानम् ॥ 101 ॥ *****
श्रुत्वैतद्धर्मतनयः पुनर्गाङ्गेयमब्रवीत् ।
माहात्म्यं श्रोतुमिच्छामि देवस्य त्रिपुरद्विषः
इति पृष्टो नरेन्द्रेण व्याजहार पितामहः ।
माहात्म्यं देवदेवस्य वक्तुमर्हति केशवः
हरिरेव हरं वेत्ति हरो वेत्ति तथा हरिम् ।
एकैव मूर्तिरनयोः कारणाद्द्वैतमाश्रिता
इति देवव्रतेनोक्ते मुरारिर्ध्रमजन्मना ।
पृष्टः शशाङ्कचूडस्य प्रभावं प्रयतो ऽवदत्
पुत्रार्थिनी जाम्बवती प्रिया प्रोवाच मां पुरा ।
प्रद्युम्नसदृशं देव त्वत्तः पुत्रगुणोचितम् ।
प्राप्तुमिच्छामि संकल्पः पूर्यतामेष मे त्वया
इत्युक्तो ऽहं दयितया तया बालमृगीदृशा ।
ध्यात्वा मुहूर्तं पुत्रार्थी प्रयातमुपसेवनम्
अथारुह्य गिरेः शङ्के पुरा मुनितपोवनम् ।
अपश्यं तेजसां राशिमुपमन्युं निजाश्रमे
प्रहृष्टं ज्येष्ठवयसं पिनाकिवरभूषितम् ।
दीप्तं तपोभिर्विविधैः पूर्णलावण्यविग्रहम्
प्रशान्तरमणीयेन सत्वेनानन्ददायिना ।
किरन्तं मधुरोदारनिर्वाणामृतवाहिनीम्
तं विलोक्य प्रणम्याहं पूजामादाय तत्कृताम् ।
तत्संभाषणसंजातपरानन्दमयो ऽभवम्
स मामुवाच प्रणतं प्रीत्या ज्ञानविलोचनः ।
देवं गिरिशमाराध्य तुल्यं पुत्रमवाप्स्यसि
ते ते त्रैलोक्यजयिनः सुकेशिप्रमुकाः पुरा ।
श्रूयन्ते शंकरवरात्प्राप्ताः शक्राधिकं पदम्
पुरास्मिन्व्याघ्रपादस्य महर्षेः पितुराश्रमे ।
सकृदास्वाद्य गोक्षीरं याचिता जननी मया
पयसो ऽसंभवान्मात्रा दत्तं पिष्टरसं ततः ।
पीत्वाहं विरसं दुःखादभवं साश्रुलोचनः
अथाब्रवीन्मां जननी वने पुत्र पयः कुतः ।
श्रीकण्ठं न ह्यनाराध्य लभ्यते ऽभिमतं क्वचित्
इति मातुर्वचः श्रुत्वा प्रयातो ऽस्मि तपोवने ।
यत्नादकरवं तीव्रं तपो वार्षसहस्रिकम्
नान्यतः प्रार्थये शक्रवरं प्राप्तमपि स्वयम् ।
पीयूषकिरणोत्तंसाद्देवादन्यत्र धूर्जटेः
तेनालं सुरराज्येन किं मोक्षेणापि तेन मे ।
निर्व्याजभक्तिदयितो दाता यस्मिन्न शंकरः
इत्युक्तो बहुशः शक्रो मया भर्गानुरागिणा ।
रूपमैन्द्रं परित्यज्य बभूव वृषभध्वजः
शूलिनं जटिनं देवं वीक्ष्य चन्द्रकलाधरम् ।
अभवं निर्भरानन्दप्रसरद्बाष्पनिर्झरः
ततः स्तुतो मया शंभुर्मह्यं क्षीरोदधिं ददौ ।
आदधे चाश्रमे तस्मिन्संकल्पान्मम संनिधिम्
तं त्वमाराध्य वरदं तपसा पार्वतीपतिम् ।
लभख तनयं कृष्ण तस्यात्मा त्वं स वा तव
उक्त्वैवमुपमन्युर्मां दीक्षितं शिवशासने ।
आदिदेश तपोयोगे रहस्यं गृह्यतामिति
मन्त्रेण तद्वितीर्णेन तपसा च समाहितः ।
ततो ऽपश्यमहं काले देवं चन्द्रार्धशेखरम्
मेघजालसमारूढं व्योम्नि सोमशतोज्ज्वलम् ।
तं विलोक्याभिनन्द्याहं स्तुत्वा हर्षपरो ऽभवम्
ततो यथेप्सितान्दत्त्वा वरान्मह्यं महेश्वरः ।
अन्तर्दधे सुधापूरैरापूर्येव दिशो दशा
अथोपमन्युर्मामेत्य प्रकृष्टं हृष्टमब्रवीत् ।
तण्डिप्रोक्तानि नामानि शृणु माधव धूर्जटेः
तण्डिर्नाम मुनिः पूर्वं गुह्यैर्गीतैः स्वयंभुवा ।
त्रिनेत्रं प्रयतं नाम्नां तुष्टाव दशभिः शतैः
स्थाणो स्थिरस्थिते शंभो शर्व भानो वरप्रद ।
हर रुद्र स्मराराते विश्व विश्वेश्वरेश्वर
भव भर्ग शिवाश्वास भवानीवल्लभ प्रभो ।
शशाङ्कशकलोत्तंस शिव शान्त महेश्वर
नमस्तुभ्यं जगत्सर्गास्थितिसंहारकारिणे ।
ब्रह्मोपेन्द्रेन्द्रवपुषे त्रिगुणाय त्रिमूर्तये
इति स्तुतिपदैर्दिव्यैर्वेदप्रोक्तैश्च नामभिः ।
सहस्रसंख्यैः स मुनिस्तुष्टाव शशिशेखरम्
एवमीश्वरसंबद्धाः कृत्वाहं मुनिना कथा ।
अगमं गरुडारूढो द्वारकं हर्षनिर्भरः
जाम्बवत्यास्ततः श्रीमान्वंशमुक्तामणिः सुतः ।
साम्बो ऽभवद्गुणान्यस्य जानीषे धर्मनन्दन
इति कृष्णेन कथितं श्रुत्वा भीष्मसभासदः ।
मुनयो मनसा देवं नीलकण्ठं ववन्दिरे
***** मेघवाहनपर्व ॥ 102 ॥ *****
चपलाः सहचारिण्यः कथं जाया नृणामिति ।
पुनः पृष्टः क्षितिभुजा बभाषे जाह्निवीसुतः
अष्टावक्रो मुनिः पूर्वं विवाहार्थी सुलोचनाम् ।
अपश्यत्सुप्रभां नाम वदन्यस्य मुनेः सुताम्
इन्दुकुन्दाङ्कुराकारसुकुमारतराकृतिम् ।
स तामालोक्य सुमुखीं ययाचे सोत्सुको मुनिम्
तं वदन्यो ऽवदद्गच्छ विशालां दिशमुत्तराम् ।
अतिक्रम्य कुबेरस्य भवनं भवसेवितम्
ततः प्रतिनिवृत्ताय तुभ्यं दास्यामि सुप्रभाम् ।
इत्युक्तः स वदन्येन प्रतश्ते तां दिशं शनैः
ततो हिमाद्रिमुल्लङ्ख्य बाहुदां च महानदीम् ।
अशोके विमले स्नात्वा रुद्राणी कूपमाप्तवान्
स कैलासतटं प्राप्य ददर्श धनदालयम् ।
हेमपङ्कजिनीतीरलसत्कल्पलतावनम्
सादरं पूजितस्तेन राज्ञा वैश्रवणेन सः ।
उवास वत्सरं साग्रं विलासमणिवेश्मसु
चिरमप्सरसां नृत्तैर्गीतैर्गन्धर्वयोषिताम् ।
प्रीतिमासाद्य विपुलामामन्त्र्य धनदं ययौ
तो गिरीन्द्रानुल्लङ्घ्य समां मणिमयीं भुवम् ।
अवतीर्य घनच्छायं पाप रत्नलतावनम्
हेमपुष्करिणीशीते स तस्मिन्दिव्यकानने ।
मणिमौक्तिकजालाङ्गं ददर्शोदारमन्दिरम्
सो ऽथ द्वाराग्रमभ्येत्य तस्य वैडूर्यवेश्मनः ।
प्राप्तो ऽहमतिथिर्दूरादित्यूचे संश्रयाशया
ततः सप्त विनिर्गत्य कन्याः कमललोचनाः ।
दिव्यभूषणसंपन्नास्तस्यातिथ्यं प्रचक्रिरे
गृहं प्रवेशितस्ताभिर्हेमरत्नासनोज्ज्वलम् ।
ददर्श मणिपर्यङ्के वृद्धां भास्वरभूषणाम्
तया मधुरवादिन्या प्राप्य निर्दिष्टमासनम् ।
गतक्लमः क्षणं तस्थौ मुनिर्विस्मयनिश्चलः
दिनान्ते सो ऽथ ताः प्राह यान्तु सर्वाः स्वमालयम् ।
एकैव शान्तहृदया परिचर्यां करोतु मे
इत्युक्ते मुनिना सर्वाः प्रययुस्ताः सुलोचनाः ।
एकैव जरती तत्र स्थौ शशिसितांशुका
अष्टावक्रो ऽथ सुष्वाप शयने स्पर्शशालिनि ।
वितानालम्बिमन्दारदाम्नि स्वच्छोत्तरच्छदे
द्वितीयशयनाद्वृद्धा समुत्थाय ततः शनैः ।
मुनेः शय्यान्तिकं पायान्निभृता ब्रह्मचारिणः
कम्पमानतनुः साथ शय्यामारुह्य विक्लवा ।
मुनिं शीतापदेशेन निबिडं परिषस्वजे
आलिङ्ग्यमानः स तया तस्थौ काष्ठमिवाचलः ।
परदारपरिष्वङ्गशङ्कासक्तचिताशयः
साथ तं स्पर्शविमुखं प्रणयान्मञ्जुवादिनी ।
उवाच भोगसंकल्पभङ्गं मा मे कृथाः प्रभो
इदं मे रत्नभवनं चारुरत्नलतावनम् ।
त्वदधीनमकस्मान्मे चेतो हि रमते त्वयि
न ते दोषो ऽस्ति मत्सङ्गे त्याज्या नैव तु योषितः ।
दुर्गमं नाभिजानन्ति गणयन्ति न च श्रमम्
प्रयान्ति पुरुषानेव रागवागुरया स्त्रियः ।
नैताः कुलानुरोधेन निवर्तन्ते न चेर्ष्यया
रामास्वरुद्धप्रसरः सर्वथा मकरध्वजः ।
स्त्री सतीति प्रवादो ऽयमेकसक्तेति का कथा
नरान्तरं प्रयान्त्येता निम्नाम्नमिवापगाः ।
मन्मथप्रेरिता नारी विमर्षं भजते कथम्
यासां प्राणपणेनापि वल्लभं सुरतामृतम् ।
इत्यर्थमानो ऽपि तया नाब्यनन्दत्स तां मुनिः
अन्येद्युरपि सा रात्रौ तथैव तमभाषत ।
भजस्व स्वयमायातां दुःसहो मे स्मरज्वरः
निषेधो रतिवाञ्छासु निधनं किल योषिताम् ।
इत्युक्त्वा निर्विकारं तं सा दृष्ट्वा पुनरब्ररवीत्
मामुत्तरां दिशं विद्धि स्त्रीवृत्तान्तं प्रदर्शितम् ।
अधुना तां वदन्यस्य गत्वा प्राप्नुहि कन्यकाम्
एतदाकर्ण्य स मुनिस्तामामन्त्र्य सविस्मयः ।
शनैः प्रतिययौ ज्ञानस्त्रीवृत्तो निजमाश्रमम्
ततो वदन्यमभ्येत्य स्त्रीवृत्तान्तं निवेद्य तम् ।
अवापोद्वाहविधिना वितीर्णां तेन सुप्रभाम्
***** अष्टावक्रदिक्संवादः ॥ 103 ॥ *****
अथ विध्यनुगं श्राद्धं पात्रापात्रक्रमं तथा ।
राज्ञा गतिं च तीर्थं च पृष्टः शान्तनवो ऽब्रवीत्
यजेत देवान्पूर्वाह्णे शुचिः शुक्लो जितेन्द्रियः ।
मङ्गलालंकृतं स्रग्वी भोगौः सुद्धैर्मनोरमैः
वित्र्यं कर्मापराह्णे तु कुर्यात्प्रयतमानसः ।
तेषु तेषु च कालेषु देशेषु च यताविधि
देशकालादिरहितं श्वावलीढं रसच्युतम् ।
कीटकोशास्थिसंस्पृष्टं श्राद्धमश्नन्ति राक्षसाः
उन्मत्ताः कृपणाः काणाः कुष्ठिनो वृषलीवराः ।
चिकित्सका वार्धुषिका गीतनृत्यादिजीविनः
हीनाधिकाङ्गा गुरवो ब्रह्मविक्रयिणो ऽनृताः ।
अनग्नयः सत्त्रभुजः क्षत्त्रियाः क्षेत्रजीविनः
पिशुना व्रतहीनाश्च वेदविद्याविवर्जिताः ।
परिहार्याः सदा विपाः श्राद्धाघ्ना हैतुकास्तथा
परस्वहारिणां पुंसां परदाराभिगामिनाम् ।
भग्नव्रतानां लुब्धानां निषिद्धक्रय्यजीविनाम्
वृत्तिच्छेदं सुहृच्छेदं भर्तृच्छेदं च कुर्वताम् ।
विहिताचारहीनानां निरयो निलयो ऽक्षयः
करुणापूर्णमनसां त्यागिनां पात्रवर्षिणाम् ।
क्षमावतामाश्रमिणां प्रपाकूपसभाकृताम्
याजिनां तीर्थपूतानां विदुषां सत्यवादिनाम् ।
मद्यमांसविरक्तानां स्वर्गमार्गो निरर्गलः
गौतमेन पुरा पृष्टः सर्वविन्मुनिरङ्गिराः ।
उवाच पुण्यं तीर्थानां तपोयोगेन सस्मितम्
चन्द्रभागा वितस्ता च कश्मीरसरितस्तथा ।
मुनितुल्यां गतिं पुंसां प्रयच्छन्त्येव सेविताः
भागीरथीं कौशिकीं च रामणीं नर्मदां तथा ।
प्रयागं नन्दिकुण्डं च विपाशं मानसं सरः
पुण्यतीर्थानि चान्यानि नरः प्राप्य जितेन्द्रियः ।
सर्वतीर्थफलं दाता लभते प्रागुपोषितः
गङ्गा तु सर्वतीर्थानां प्रवरं तीर्थमुच्यते ।
अस्थिमात्रे यया स्पृष्टे नृणां स्वर्गतिरक्षया
न ते देशा न ते शैला न ते जनपदाः क्षितौ ।
पताका यस्य पुण्यस्य जाह्नवी न विभाव्यते
किमपायमयैर्यज्ञैः किं तपोभिः श्रमप्रदैः ।
जह्नुकन्यापयःपूतं यदि पुण्यवतां वपुः
व्योमश्रीमौक्तिकलता श्रीकण्ठोत्तंसमालिका ।
याता स्मृतिपदं येषां भङ्गायैवाखिलैनसाम्
गङ्गाजलेन स्पृष्टानां फलमल्पं सुरालयः ।
शिलोञ्छवृत्तिना पूर्वं सिद्धः पृष्टो ऽब्रवीदिति
एतदङ्गिरसा प्रोक्तं निशम्य किल गौतमः ।
स्मृत्वा ववन्दे सानन्दः पुण्यां मन्दाकिनीं मुनिः
***** आङ्गिरसीयम् ॥ 104 ॥ *****
कथं प्राप्यं मनुष्येण ब्राह्मण्यमिति भूभुजा ।
पृष्टो देवव्रतः प्राह ब्राह्मण्यं दुर्लभं नृप
पितुर्नियोगाद्यज्ञार्थं मतङ्गख्यो द्विजन्मनः ।
व्रजन्वाहं प्रतोदेन खरं गाढमताडयत्
गर्दभी व्यथितं दृष्ट्वा पुत्रं दुःखादुवाच तम् ।
ब्राह्मण्यं नास्य तेनैष जातश्चण्डालचेष्टितः ।
वहैनमिति तच्छ्रुत्वा प्रियः पप्रच्छ तां पुनः
तया निवेदितां जातिं निजां ज्ञात्वा स दुःखितः ।
मेरोः शृङ्गादिव श्वभ्रे पतितो विललाप सः
पित्रे निवेद्य तत्पापं मातुः स तपसे वनम् ।
गत्वा ब्राह्मण्यकामो ऽभूत्स्थाणुभूतः शतं समाः
शक्रादपि स्वयं प्राप्तान्नैव ब्राह्मण्यमाप्तवान् ।
ततो गत्वा गयां चक्रे सहस्राब्दं परंतपः
पुनः पुनः स तपसा धूमायितजगत्त्रयः ।
इन्द्रादवाप देवत्वं न तु ब्राह्मण्यमुत्तमम्
छन्दोदेव इति ख्यातः स मतङ्गाभिधः पुरा ।
खेचरो ऽभून्मृगाक्षीणां पूज्यः परमवल्लभः
***** इन्द्रमातङ्गम् ॥ 105 ॥ *****
वीतहव्यस्य नृपतेर्ब्राह्मण्यं श्रूयते किल ।
तद्वदेति पुनः पृष्टो राज्ञा प्राह पितामहः
वीतहव्यसुतैः पूर्वं हेहयैर्बलवत्तरैः ।
हर्यश्वो नाम समरे काशिराजो निपातितः
कालेन तस्य पुत्रो ऽपि पुनस्तैरेव संगरे ।
स देवः काशिनगरे लब्धलक्ष्यैर्निपातितः
तत्सुतो ऽपि दिवोदासस्तैरेव युधि निर्जितः ।
भरद्वाजप्रसादात्स लेभे पुत्रं प्रतर्दनम्
स वीतहव्यतनयान्सर्वानभ्येत्य संगरे ।
जघान परमास्त्रज्ञो भरद्वाजवरो ऽर्जितः
वीतहव्यो हतसुतः प्रनष्टबलवाहनः ।
प्रतर्दनेनानुसृतः प्रययौ शरणं भृगुम्
भृगोराश्रममासाद्य वीतहव्यवधोद्यतः ।
प्रतर्दनो मुनिं प्राह मुञ्चैनमिति दुर्मदः
तच्छ्रुत्वा क्षत्रियो नेह कश्चित्सर्वे द्विजा वयम् ।
इत्युवाच भृगुर्भीतस्ततो ऽसत्यादकम्पत
क्षत्त्राभिधानात्प्रभ्रष्टं शत्रुं ज्ञात्वा प्रतर्दने ।
याते भृगुर्वीतहव्यं सत्यवाग्ब्राह्मणं व्यधात्
***** वीतहव्योपाख्यानम् ॥ 106 ॥ *****
के प्रणम्या इति पनः पृष्टः शान्तनवो ऽब्रवीत् ।
स्वकर्मधर्मनिरता हंसारागविवर्जिताः
प्रणम्या ब्राह्मणा एव पवित्रचरितव्रताः ।
यैषां कोपप्रसादाभ्यां शोषः पोषश्च भूभुजाम्
भूमिदेवाः सदा पूज्या यत्प्रसादाद्धुताशनः ।
हव्यं कव्यं च वहति कृष्णमित्याह नारदः
जेय बलं भये रक्षा भेषजं व्यसनामये ।
परलोके ऽस्तु वो विप्राः शक्रमित्याह शम्बरः
***** ब्राह्मणप्रशंसा ॥ 107 ॥ *****
स्त्रीणां निसर्गलोलानां स्वभावं पाण्डुसूनुना ।
पृष्टो दुर्लक्ष्यचित्तानां व्याजहार पितामहः
स्त्रीस्वभावं पुरा पृष्टा नारदेन सुराङ्गना ।
जगाद पञ्चचूलाख्या यथार्थं शापकम्पिता
स्त्री सती स्त्रीस्वभावं च मादृशी वक्तुमर्हति ।
शासनात्तव भीताहं किंतु वक्ष्यामि तत्त्वतः
संघर्षक्षोभकारिण्यः सोद्वेगाः कलुषाशयाः ।
मत्ता हरन्त्येव वपुर्निम्नगा इव निम्नगाः
अप्यन्विष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
वासना इव संसारे मोहनैकरताः स्त्रियः
प्रहसन्ति विषादिन्यो हृष्टाः शोचन्ति हेलया ।
रागिण्यो ऽपि प्रियं घ्नन्ति को हि तां वेत्ति योषितम्
न कुलेन न मानेन न धनेन न सेवया ।
मर्यादामनुवर्तन्ते ललनाश्चपलाशयाः
सुवेशं सुभगं कान्तं त्यक्त्वा परिचितं चिरम् ।
निन्द्येनादृष्टपूर्वेण रमन्ते स्वेच्छया स्त्रियः
संभाषिताश्चेन्मधुरं सस्मितं चेद्विलोकिताः ।
यन्त्रिताः स्वजनेनापि तदा साध्या न योषितः
अर्थिनामप्यलाभेन दुःखदैन्यश्रमेण वा ।
अकस्मादेव नारीणां सतीत्वं जायते क्वचित्
नानापुरुषसंवासहासोल्लासविलासिनीम् ।
वेश्यायोषां निरीक्षन्ते सस्पृहं कुलयोषितः
निषेधादेव नारीणमभिलाषो विवर्धते ।
परसङ्गेष्वपथ्येषु बालानामिव रोगिणाम्
अच्छिन्नप्रसरः कामो नैवासां क्षमते धृतिम् ।
मिथो यावत्प्रवर्तन्ते पुरुषासंभवे स्त्रियः
क्रूंराणां क्षणरागाणां संध्यानामिव योषिताम् ।
सततासन्नदोषाणां धीमान्को नाम विश्वसेत्
सर्वथा न भवत्येव कारुण्यमिव पापिनाम् ।
अनुत्सेक इवाढ्यानामार्जवं हरिणीदृशाम्
उपरोधैर्बहुविधैरपि साध्व्यो नियन्त्रिताः ।
कान्तं पुरुषमालोक्य यान्त्येव सहसार्द्रताम्
सुरशङ्कास्पदमभूत्पुरा वन्द्यो वधूजनः ।
ततः सुरार्थितो धाता कृत्यासर्गाद्व्यधात्स्त्रियः
लज्जां लभन्ते ललनाः पुंसां कौतुकवृद्धये ।
पत्युर्विश्वासनोपायं कृतकं च सतीव्रतम्
नृत्यन्ति शोचन्ति पतन्ति यान्ति हसन्ति गायन्ति वदन्ति यच्च ।
तद्योषितः स्वप्नसमानचेष्टं मायामयं सर्वमसत्यमेव
***** नारदपञ्चचूडासंवादः ॥ 108 ॥ *****
ताः स्त्रियो लोलमतयः कथं रक्ष्या नरैरिति ।
पृष्टो युधिष्ठिरेणाह पुनस्त्रिपथगासुतः
देवशर्मां मुनिः पूर्वं यज्ञार्थं गन्तुमुद्यतः ।
शशास शिष्यं विपुलं बहुमायं शतक्रतुम्
ज्ञात्वा रुचिं शरीरान्तः प्रविश त्वं समीरवत् ।
गात्रैर्गात्राण्यवष्टभ्य तस्यास्तस्थौ स यत्नवान्
अत्रान्तरं समासाद्य सहस्राक्षः समाययौ ।
स ददर्श रुचिं चारुलोचनामचलां पुनः
हेमस्तनोरुजघनां काञ्चनीमिव पुत्रिकाम् ।
आखण्डलमथासाद्य सा संजातमनोभवा
वक्तुं विपुलसंरुद्धा न शशाक सुलोचना ।
आकीर्णहासकुसुमा विलोलालकषटूपदम् ।
लतामिव निवातस्थां सकम्पकरपल्लवाम्
दृष्ट्वा तां विस्मितः शक्रः प्रायाद्विपुलतर्जितः ।
अभ्येत्य देवशर्माथ सर्वं तद्बुबुधे मुनिः
तस्मादवाप्य विपुलस्ततस्तुष्टाद्गुरोर्वरान् ।
चचार कृतकृत्यः क्ष्मां पूज्यमानो नृपैर्द्विजैः
अत्रान्तरे स्वसुर्भर्त्रा रुचिरङ्गमहीभुजा ।
निमन्त्रिता गृहे ऽपश्यद्भगिनीं पुष्पभूषिताम्
विसृष्टस्तद्गिरा शिष्यः पुष्पार्थं देवशर्मणा ।
ददर्श मिथुनं षट् च देविनः कितवान्पथि
तेषां विवादे शुश्राव शपथं विपुलार्जितान् ।
स लोकानाप्नुयाद्यश्च प्रचलेत्संविदमिति
तच्छ्रुत्वा दुःखितो ऽभ्येत्य गुरवे स न्यवेदयत् ।
शङ्कमानो गुरुवधूगात्रसंस्पर्शपातकम्
गुरुस्तमूचे मिथुनमहोरात्रं तदुच्यते ।
ऋतवः षट् च कितवास्ते नृणां कर्मसाक्षिणः
न शक्या रक्षितुं नार्यो रक्षिता च त्वया रुचिः ।
असत्येन तवोदीर्णं तस्मान्नश्यतु पातकम्
इत्येवं रक्षैता पूर्वं विपुलेन गुरोः प्रिया ।
न त्वेता रक्षितुं शक्तः कश्चिल्लोलविलोचनाः
***** विपुलोपाख्यानम् ॥ 109 ॥ *****
विवाहधर्मं पृष्टो ऽथ राज्ञा भीष्णो ऽब्रवीत्पुनः ।
कन्या गुणवते देया कुलीनायातिरूपिणे
शूद्रायेव श्रुतिः कन्या हीनाय प्रतिपादिता ।
कुलद्वयं दहत्येव तस्मात्पात्रं विचारयेत्
अशास्त्रोक्तैः परिणयैर्जायते वर्णसंकरः ।
संयोगैर्विषमैः पुंसां पतति व्यसने कुलम्
***** विवाहधर्माः ॥ 110 ॥ *****
दर्शने सहवासे च सतां पृष्टो महीभुजा ।
माहात्म्यं च गवां बीष्मः सर्वज्ञः पुनरब्रवीत्
गङ्गायमुनयोर्मध्ये च्यवनो ऽन्तर्जलव्रतः ।
तस्थौ मुनीन्द्रः सुचिरं स्थाणुभूतो महातपाः
आघ्राय पुण्यमामोदं तस्य कारुण्यशालिनः ।
आलीय तस्थुर्गात्रेषु मत्स्या वलयलीलया
ततः कालेन महता जालेनाकृष्य धीवराः ।
विपुलं मत्स्यसंघातं तन्मध्ये ददृशुर्मुनिम्
शैवालनालवलितं शङ्खिकङ्कणमालितम् ।
हरिश्मश्रुजटापिङ्गं तेजसामिव संचयम्
तं वीक्ष्य कम्पिताः सर्वे सहसा जालजीविनः ।
निमीलिताक्षं जगदुः प्रसीद भगवन्निति
ततः स करुमाविष्टो मत्स्येषु सहवासिषु ।
निषादानवदत्पश्यन्दृशानुग्रहवाञ्छया
विक्रीय मां विमुच्यन्तां युष्माभिः सलिलौकसः ।
दयिताः सहवासान्मे मत्स्या यूयं च दर्शनात्
इत्युक्ते मुनिना दाशास्तूर्णं गत्वा महीभुजे ।
वेपमानाः स्ववृत्तान्तं नहुषाय न्यवेदयन्
ततः स्वयं स नृपतिः पूजामादाय सत्वरः ।
पुरोहितं पुरस्कृत्य च्यवनं द्रष्टुमाययौ
कृतप्रणामं नहुषं मुनिर्वीक्ष्य कृताञ्जलिम् ।
यथोचितेन मूल्येन मां गृहाणेत्यचोदयत्
धीवरेभ्यः सहस्राणि कोटिकोटिशतानि च ।
राज्यार्धमथवा राज्यं ददानीत्यब्रवीन्नृपः
नैतन्ममोचितं मूल्यं चिन्त्यतां मुनिभिः सह ।
नृपं दाशेषु कारुण्यादित्युवाचासकृन्मुनिः
ततो विषण्णं नहुषं शापभीतमधोमुखम् ।
गवि जातो द्विजवरो बभाषे धीमतां वरः
मूल्यं मुनीश्वरस्यास्य तुल्यं गौरेव यत्परम् ।
तस्मादेनं गवा राजन्गृहाण भव निर्वृतः
ब्राह्मणेनेत्यभिहिते प्रहृष्टः पृथिवीपतिः ।
मुक्तये मत्स्यसंघानां गवा जग्राह भार्गवम्
ततो दर्शनवात्सल्याच्च्यवनः करुणानिधिः ।
दाशेभ्यः प्रतिजग्राह धेनुं तत्कुशले स्थितः
मुनीन्द्रेण गृहीतायां विधिवद्गवि धीवराः ।
तद्दृष्टिपातान्मत्स्याश्च सशरीरा दिवं गताः
अमृतायतनं गावः पवित्रा रुद्रमातरः ।
स्मृतिमात्रेण मुष्णन्ति किल्बिषं किल देहिनाम्
***** च्यवनोपाख्यानम् ॥ 111 ॥ *****
कुशिकस्य क्षितिपतेर्जातो विप्रः कथं कुले ।
भृगोर्नृपश्चेति राज्ञा पृष्टो ऽवादीत्सुरव्रतः
पुरा
भाविकथाभिज्ञश्च्यवनस्तेजसां निधिः ।
मन्दिरे पूजितस्तस्थौ कुशिकस्य महीपतेः
स भूभुजा सभार्येण परिचर्याव्रते धृते ।
भुक्त्वा सुष्वाप निश्चेष्टः सप्तरात्रत्रयं मुनिः
पादसंवाहनं तस्य निराहारो वधूसखः ।
राजा चकार निभृतो निद्राभङ्गभयाकुलः
ततो मुनिः समुत्थाय मौनी गत्वा मनोजवः ।
अन्तर्दधे सभार्येण नृपेणानुसृतः पथि
तस्मिन्नन्तर्हिते राजा निराहारो ऽतिमूर्च्छितः ।
पतितः क्षणमाश्वास्य विवेश स्वगृहं पुनः
तौ दम्पती ददृशतुर्मूकं काष्ठमिवाचलम् ।
एकपार्श्वेन सुप्तस्य क्षपास्तस्यैकविंशतिम् ।
तस्थतुस्तौ निराहारौ पादसंवाहने पुनः
प्रतिबुद्धो ऽथ तैलेन शतपातेन भुभुजा ।
भक्त्या निर्वर्तितस्नानो भेजे सिंहासनं मुनिः
ततो नानाविधं भोज्यं राजयोग्यं स्वयं कृतम् ।
दत्तं राज्ञा सभार्येण ददाह भृगुनन्दनः
पुनरन्तर्हितो भूत्वा पुनः कृत्वास्य संनिधिम् ।
निर्विकारं सभार्यं तं दृष्ट्वाभूद्विस्मितो मुनिः
अविक्रियं निराहारं स राजानं वधूसखम् ।
रथेन सांयुगीनेन वह मामित्यचोदयत्
इत्युक्त्वा दम्पती धृत्वा तौ रथे विचचार सः ।
त्रिकण्ठककषाघातसंजातकृतजोक्षितौ
अदर्शयत्ततश्चित्रहेमवल्लीमनोहरम् ।
स्वर्गं सनन्दनोद्यानं मुनिस्तौ मोहयन्मुहुः
दृष्टनष्टैर्बहुविधैर्मायाचटुलविभ्रमैः ।
मुनिना विहितैर्मोहं दम्पती तौ न जग्मतुः
वेपमानौ निराहारौ दूराध्वश्रमकर्षितौ ।
तुष्टश्चिरानमुनिवरो रथान्मुक्त्वा जगाद तौ
प्रीतो ऽहं युवयोर्भक्त्या गृह्णीतमधुना वरम् ।
पौत्रस्ते ब्राह्मणो राजन्भविष्यति महातपाः
तद्वंशजैर्विरोधो ऽयं भार्गवानामुपस्थितः ।
तस्मात्क्षत्रियविच्छेदधिया त्वं पीडितो मया
गतक्लमो निवृत्तश्च पीयूषैरिव पूरितः ।
भव मद्वचसा धन्यः सभार्यः पृथिवीपते
इत्युक्त्वान्तर्हिते तस्मिंस्तस्य कालेन भूपतेः ।
अजायत कुले श्रीमान्विनश्वामित्रस्तपोनिधिः
भार्गवश्च यथा जातो रामः क्षत्रक्षयो ऽर्जितः ।
ऋचीकस्य प्रभावेण तन्मया कथितं पुरा
***** च्यवनकुशिकसंवादः ॥ 112 ॥ *****
श्रुत्वैतद्भूभुजा पृथ्वीक्षयपातकशङ्किना ।
पुनः पृष्टो ऽवदद्भीष्णो दानानां फलमुत्तमम्
तपसा लभ्यते सर्वमाचारेण दमेन च ।
आनृशंस्येन सत्येन दानेन च समीहितम्
दत्त्वा विभूषितां धेनुं कपिलां कांस्यदोहनीम् ।
पृथिवीदानसदृशं फलं प्राप्नोति मानवः
प्रयाति वसुलोकं च तिलधेनुप्रदो नरः ।
कन्याभूमिप्रदः शक्रलोकमासाद्य मोदते
भूताभयप्रदानं तु दानानां प्रवरं स्मृतम् ।
निजाभिमतदानं च सर्वकामफलप्रदम् ।
सुवर्णदानेन नृणां क्षीयते किल पातकम्
सर्वं सूते वसुमती धत्ते च निखिलं जगत् ।
ज्ञेयः सर्वप्रदस्तस्माद्दातॄणां भूमिदो वरः
अन्नं शरीरिणां प्राणास्तस्मात्प्राणप्रदो ऽन्नदः ।
अन्नदानसमं लोके नास्तीति प्राह नारदः
पानीयदानममृतं प्राणिनां संप्रचक्षते ।
विच्छायतापज्वलिताः परलोके हि भूमयः
तिलप्रदानं शंसन्ति क्षयाय निखिलैनसाम् ।
तुष्टो यमः पुरा विप्रं तिलान्देहीत्यचोदयत्
ब्रह्मस्ववर्जं सर्वस्वं दत्त्वा दुर्गाणि संतरेत् ।
ब्रह्मस्वशल्यं हि नृणां तीव्रपातं प्रचक्षते
द्वारवत्यां महाकूपे पुरा गुल्मतृणावृते ।
कृकलासं महाकायं ददृशुः सर्ववृष्णयः
स तैः पृष्टः समुद्धर्तुमशक्तैरवदच्छनैः ।
नृगो ऽहं नृपतिर्ब्रह्मशापाद्यातो दशामिमाम्
विप्रेभ्यो गृहमेधिभ्यो निखर्वाणि पुरा गवाम् ।
हेमकोटिप्रदो दत्त्वा यातो ऽहं निर्वृतिं पराम्
ततः कदाचिन्मद्दत्तधेनुं विप्रस्य मन्दिरे ।
निजां चौरहृतां दृष्ट्वा जग्राह ब्राह्मणो ऽपरः
राज्ञा ममेयं प्राग्दत्ता हृतेयं दस्युना परः ।
एवं विवदमानौ तौ मत्सभामभिजग्मतुः
तद्वृत्तान्तमहं श्रुत्वा प्रार्थना बहुशस्तयोः ।
धनैर्गोभिर्नरैरश्वैर्यत्नादकरवं पृथक्
तथाप्येको न तत्याज गां प्रतिग्रहपालनात् ।
द्वितीयश्च गृहे जातां तां स्नेहभयकातरः
अथ कालेन यातो ऽहं धर्मराजनिकेतनम् ।
बहुदानार्जितांल्लोकान्दिव्यानश्रौषमात्मनः
किंतु ब्रह्मस्वविभ्रंशान्ममेमां कृकलासताम् ।
शौरिदर्शनपर्यन्तामादिदेश स्वयं यमः
इति ब्रुवाणः कृष्णस्य दशा विध्वस्तपातकः ।
नृगो जगाम त्रिदिवं त्यक्त्वा तां कृकलासताम्
***** नृगोपाख्यानम् ॥ 113 ॥ *****
उद्दालकस्य ब्रह्मर्षेः पितुः कोपान्महामुनिः ।
नासिकेताभिधः प्राणांस्तत्याजाभिहतो दृशा
पुत्रं निपतितं दृष्ट्वा शान्तक्रोधो मुनिः शनैः ।
अजीवयन्मन्त्रनिधिः कारुण्यात्साश्रुलोचनः
ततः स्वप्नोत्थित इव प्राप्तजीवो मुनेः सुतः ।
पित्रा पृष्टो ऽवदत्सर्वं दृष्टं यद्यममन्दिरे
रत्नस्तम्भशतोदारे पितृराजसभातले ।
अवापं विपुलां पूजां पाद्यमर्ध्यं तथासनम्
तत्रापश्यं विमानेषु सूर्येन्दुद्युतिकान्तिषु ।
भास्वराभरणस्मेरान्नरान्सुकृतशालिनः
घृतक्षीरामृतजला दृष्टास्तत्र मयापगाः ।
हेमाब्जपुञ्जकुञ्जाग्रकूजन्मणिविहङ्गमाः
दिव्यान्भोगान्मया दृष्ट्वा पृष्टो वैवस्वतः स्मयात् ।
एताः पीयूषवाहिन्यः केषां स्वेच्छापरिग्रहाः
यमो ऽब्रवीद्गोप्रदानामेताः क्षीरघृतापगाः ।
नादत्त्वा पुरुषो धेनुं परमामृतमश्नुते
असंभवे गवां यावत्सलिलेन तिलेन च ।
घृतेन वा कल्पयित्वा धेनुं दद्यात्सुधाशया
गोदानसदृशं लोके दानमन्यन्न विद्यते ।
सादरं मां पुतृपतिर्जगादेति पुनः पुनः
इत्युक्ते नासिकेतेन मुनिर्मुनिशतैर्वृतः ।
गोप्रदानं महत्पुण्यं प्रशशंस मुहुर्मुहुः
***** नासिकेतोपाख्यानम् ॥ 114 ॥ *****
सर्वलोकानतिक्रम्य गवां लोकः प्रकशते ।
यत्सत्यं निरयायन्ते तत्र स्वर्गसुखश्रियः
गोप्रदा एव गोलोकं प्रायन्ति सुकृतोज्ज्वलाः ।
इत्युवाच पुरा पृष्टः शक्रेण कमलासनः
वसिष्ठाद्य मुनिवरा नृपा दशरथादयः ।
सुराश्च शक्रप्रमुखा गोतुल्यं न प्रचक्षते
निवासार्थं पुरा गावः प्रार्थिता बहुशः श्रिया ।
निगद्य चपलासीति प्रददुर्न प्रतिश्रयम्
अभाषत ततो लक्ष्मीर्भवतीभिरनादरात् ।
त्यक्ता निन्द्या भविष्यामि तस्माद्याचे पुनः पुनः
अथादिष्टा श्रियो गोभिर्हेलया गोमये स्थितिः ।
तस्मादेताः परं पुण्यं पवित्रं नास्त्यतः परम्
***** गोप्रदानम् ॥ 115 ॥ *****
हेमदानं दहत्येवं सर्वपापानि देहिनाम् ।
तेजो हि परमं पुत्र काञ्चनं जातवेदसः
पुराहं जाह्नवीकूले श्राद्धे पिण्डप्रद पितुः ।
अपश्यं शन्तनोः पाणिमुत्थितं रत्नकङ्कणम्
पिण्डो मया कुशेष्वेव तं विलोक्य समर्पितः ।
तुष्टस्तदा मे जनकं स्वप्ने प्रोवाच मामिदम्
शास्त्रानुवर्तिना पुत्र त्वया धन्यो ऽस्मि सूनुना ।
कनकं देहि विप्रेभ्यो दानानामुत्तमं हि तत्
जामदग्न्यः पुरा रामः कृत्वा निःक्षत्रियं जगत् ।
मुनिभिर्दापितो हेम तस्मात्पापादमुच्यत
तारकोषप्लुता देवाः पुरा शीतांशुशेखरम् ।
स्कन्दोत्पत्तिमयाचन्त कथां विज्ञाय भाविनीम्
ततो गौरीपतिवीर्यं वदने जातवेदसः ।
रतिविघ्नकृतो देवस्तत्याज परमं महः
वह्निनाथ धृतो गर्भः श्रीमान्संवत्सरायुतम् ।
गङ्गायां निहितः सापि निदधे तं गिरेस्तटे
स कार्तिकेयो भगवाञ्जातः शरवने शिशुः ।
सुराणां शक्तिमानासीत्सेनानीस्तारकान्तकः
तस्य जन्मनि यत्पूर्वं संजातं जातवेदसः ।
मही वसुमती येन तत्सुवर्णं प्रचक्षते
***** सुवर्णोत्पत्तिः ॥ 116 ॥ *****
अथ श्राद्धविधिं पृष्टो राज्ञा शान्तनवो ऽब्रवीत् ।
तिलप्रदानं विज्ञेयं श्राद्धं मधुघृताप्लुतम्
माषमत्स्यैडशशकच्छागवाराहशाकुनैः ।
पार्षतन्यङ्गुगवयमाहिषैर्वै नवैरपि
मांसैर्विवृद्ध्या मासानां क्रमात्संवत्सरं सदा ।
तृप्तिं पितॄणां श्राद्धेषु वदन्ति श्रुतिकोविदाः
वाघ्रीणसस्य मांसेन द्वादशाब्दमुशन्ति च ।
खङ्गमांसैर्लोहपृष्ठैः कालशाकैस्तथा क्षयम्
न तेषां पितरः शोच्यास्त्रयोदश्यां मधासु च ।
वर्षासु विहितं श्राद्धं पायसे न ससर्पिषा
गायकूपे वटतले छायायां कुञ्जरस्य वा ।
अनन्तं कलयन्त्येव श्राद्धं पुण्यदिनेषु च
विधिनक्षत्रयोगेषु काम्यं श्राद्धं विनिर्दिशेत् ।
सदाचारोर्ऽहति श्राद्धं विप्रो निर्देषविग्रहः
वैश्वदेवेन विधिना संस्कृतेनन च वह्निना ।
रक्ष्यते ब्राह्मणैः श्राद्धं विष्णुपूजापुरःसरैः
श्राद्धे निषिद्धं सततं सगुडं लवणत्रयम् ।
अजाजीहिङ्गुसौवीरपलाण्डुलशुनानि च
***** श्राद्धविधिः ॥ 117 ॥ *****
दातृप्रतिग्रहीतॄणां विशेषं जगतीभुजा ।
पृष्टः सुरसरित्सूनुर्ध्यात्वा पुनरभाषत
अनावृष्टिहते काले पुरा निर्दग्धपादपे ।
अरुन्धतीसखाश्चेरुः शान्ताः सप्तर्षयः क्षितौ
दासः पशुसखो नाम दासी चण्डा च तद्वधूः ।
तानेवानुप्रययतुः क्षुत्तृष्णापरिपीडितौ
राज्ये सुराज्ञः शैब्यस्य गतासुं तनयं ततः ।
मुनयस्ते क्षुधाक्रान्ताः स्थाल्यां पक्तुं समुद्ययुः
अथ राजा वृषादर्भिर्दृष्ट्वा वैश्रवणोपमः ।
व्यग्रान्मुनीन्विषण्णात्मा तानुवाच कृताञ्जलिः
यथेच्छं गृह्यतां मत्तः सर्वं वा विविधं वसु ।
जुगुप्सा जननी वृत्तिर्भवद्भिस्त्यज्यतामियम्
इत्युक्ते भूमिपालेन प्रत्यूचुर्मुनिपुंगवाः ।
तपःक्षयकरो राजन्घोरो राजप्रतिग्रहः
प्रतिग्रहाग्निग्धानां सकृद्ब्राह्मणशाखिनाम् ।
किल्बिषाज्ञानशेषाणां पुनः पुण्यफलं कुतः
एतदुक्त्वा परित्यज्य स्तालीं ते काननं ययुः ।
प्राणपीडापणेनापि प्रतिग्रहपराङ्भुखाः
वने तेषां वृषादर्भिः फलान्यौदुम्बराण्यथ ।
मन्त्रिभिर्हेमगर्भाणि कारयित्वाक्षिपत्पुरः
तान्यपि ज्वलितान्येव भीतास्त्यक्त्वा मुनीश्वराः ।
ययुर्मिथः प्रशंसन्तः पुण्यसंतोषशीलताम्
तत्प्रकोपाद्वृषादर्भिर्हुत्वा सपदि पावकम् ।
कृत्यामुत्पाद्य भयदामादिदेश मुनिक्षये
अत्रान्तरे ते मुनयश्चरन्तः कानने सुखम ।
ददृशुः पीवराकारं परिव्राजं शुनःसखम्
विलोक्य तमरुन्धत्या पृष्टास्तत्पुष्टिकारणम् ।
ऊचुर्मुनिवरा नायं क्रियाव्यग्रो यथा वयम्
अग्निहोत्रं न वेदाश्च शास्त्रकन्था न दुःसहा ।
नानेन्धनप्रयत्नश्च न कलत्रं न याचकाः
शुनःसखस्य स्वच्छन्दचारिणः सुखशालिनः ।
शरीरं पीवरमिदं चिन्ताशून्यस्य वर्धते
इत्युक्त्वा तेन संजातसौहार्दा मुनयो वने ।
ददृशुर्नलिनीं फुल्लकमलोत्पलशालिनीम्
वृषादर्भिप्रयुक्ता सा यातुधानीभि(वि)सार्थिनः ।
तत्र तानवदद्धोरा रक्षामि नलिनीमिमाम्
निवेद्य निजनामानि गृह्यन्तां तु मृणालिकाः ।
अज्ञातनामधेयानां नेह मत्संनिधौ गतिः
एतदत्रिप्रभृतयः श्रुत्वा ते मुनयः क्रमात् ।
गूढनिर्वचनैस्तैस्तैर्नामान्यस्यै न्यवेदयन्
तुल्याक्षरपदक्षोभं नाम तेषां निरुक्ततः ।
श्रुत्वा निष्प्रतिभा कृत्याभि(वि)सरक्ष्यामवारयत्
शुनःसखोदितं नाम पुनः पप्रच्छ सा यदा ।
तदा क्रुद्धास्तु दण्डेन विदधुस्तां च भस्मसात्
ततः शशिकराकाराः समुद्धृत्य मृणालिकाः ।
तीरे निक्षिप्य मुनयः स्नात्वा चक्रुर्जलक्रियाम्
अथोत्थाय विसाहारसादरास्ते श्रमाकुलाः ।
विसानि तानि नापश्यन्न्यस्तानि नलिनीतटे
परस्परं शङ्किताश्च चक्रिरे शपथं क्रमात् ।
सहसाभिमतोच्छेदो महतामपि दुःसहः
वृथापाको वृथाचारः कूटसाक्षी निषिद्धकृत् ।
दृशंसः कामचरितश्चौरो वेदविवर्जितः
पदा स्पृशतु गां वह्निमप्सु श्लेष्माभियच्छतु ।
परदाराभिगामी च गरदः सोमविक्रयी ।
पिशुनश्चास्त्वसौ येन हृतं नो विसभोजनम्
इत्युक्ते मुनिभिः पश्चात्तानुवाच शुनःसखः ।
याजिने छन्दसां धाम्ने शुद्धाय ब्रह्मचारिणे
देयात्स कन्यकां येन हतान्यत्र भि(वि)सानि नः ।
श्रुत्वैतदूचुर्मुनयस्त्वया भाषितमीप्सितम्
त्वयैव हृतमस्माकं सर्वथाभि(वि)सभोजनम् ।
इति तेषु ब्रुवाणेषु हसन्प्राह शुनःसखः
मयैवेह विसस्तैन्यं कृतं वो हितकारिणा ।
सा च कृत्या हता घोरो देवो ऽहं त्रिदशेश्वरः
इत्युक्त्वा निजमास्थाय रूपं सप्तर्षिभिः सह ।
वेल्लद्विमानमालाङ्कं नाकं नाकपतिर्ययौ
प्रतिग्रहनिवृत्तानामेवमुज्ज्वलचेतसाम् ।
विभात्यलौल्याभरणा वृत्तिः संतोषशालिनाम्
***** विसस्तैन्यम् ॥ 118 ॥ *****
मुनयः कश्यपमुखा नृपाश्च नहुषादयः ।
शतक्रतुं पुरस्कृत्य तीर्थानि प्रययुः पुरा
ते स्नात्वा पुण्यतीर्थेषु पुष्कराहरिणीं ययुः ।
तत्रागस्त्यमुनिर्न्यस्तं नापश्यन्निजपुष्करम्
ततस्ते शपथं चक्रुः क्रमेण गुरुपातकम् ।
इन्द्रस्तु प्राह धन्यो ऽस्तु स हृतं येन पुष्करम्
***** पुष्करस्तैन्यम् ॥ 119 ॥ *****
छत्त्रोपानत्प्रधा(दा)नं च भीष्मः पृष्टो महीभुजा ।
उवाचेह परं पुण्यं परत्र त्राणमिष्यते
जमदग्निः पुरा धन्वी लक्ष्याभ्यासरतो वने ।
ससर्ज सायकश्रेणीं रश्मिमालामिवांशुमान्
विसृष्टान्विशिखान्भर्त्रा रेणुका तत्र तद्गिरा ।
आनिनायेन्दुवदना सुकुमारा पुनः पुनः
तां चण्डकिरणस्फारसंतापायासमूर्च्छिताम् ।
स जायां वीक्ष्य मध्याह्ने क्रुद्धः सूर्यमुदैक्षत
ततो दिव्यास्त्रविकटं खे प्रहर्तुं समुद्यतम् ।
रविः प्रसादयामास भयादेत्य कृताञ्जलिः
गतक्रोधस्य तस्याथ छत्त्रमातपवारणम् ।
उपानहौ च प्रददौ प्रीतये वासरेश्वरः
छत्त्रोपानत्प्रधा(दा)नं तद्दानानामुत्तमं स्मृतम् ।
संतापशमनं नॄणामस्मिंल्लोके परत्र च
***** छत्त्रोत्पत्तिः ॥ 120 ॥ *****
तडाककूपदानं च पुण्यं शर्म शरीरिणाम् ।
परत्र मरुसंतप्ते पानीयं किल दुर्लभम्
अपारतिमिरे घोरे परलोके निराश्रये ।
आलोकदुर्लभस्तस्माद्दीपं दद्यान्नरः सदा
प्रीणाति सकलांल्लोकान्सुमनोवलिधूपदः ।
असुरेन्द्रमिति प्राह पुरा शुक्रः कथान्तरे
पुष्पधूपप्रदः स्वर्गे दुर्धर्षो नहुषो ऽभवत् ।
आखण्डलस्यासनं च प्रापाखण्डितशासनः
यदा पस्पर्श पादेन सर्पेति मुनिपुंगवम् ।
दृप्तो ऽगस्त्यं समाविश्य भृगुणा पातितस्तदा
भीमबाहुग्रहकृतो घोराजगररूपिणः ।
अरण्ये भवता यस्य शापमोक्षः पुरा कृतः
***** पुष्पादिदानम् ॥ 121 ॥ *****
पुनः पृष्टो नृपतिना गतिं ब्रह्मस्वहारिणाम् ।
ऊचे शान्तनवो राजन्ब्रह्मस्वं विषमं विषम्
जातिस्मरः पुरा कश्चिद्राजपुत्रः सकौतुकः ।
कुजातिहेतुं पप्राच्छ चण्डालं सो ऽप्यभाषत
श्रूयतां कारणं येन प्राप्तश्चण्डालतामहम् ।
ब्राह्मणस्य पुरा गावो हृताः प्रबलदस्युभिः
तासां रजो यज्ञभूमौ सोममध्ये ऽपतत्क्वचित् ।
तत्पीत्वा नरकं विप्रा दीक्षितेन सहाययुः
भिक्षापात्रे निपतितं तद्रेणु ब्रह्मचारिणः ।
तद्रेणु तत्स्थितं चान्नं मोहान्मे भक्ष्यतां ययौ
ब्राह्मणः श्रोत्रियश्चाहं ब्रह्मचारी जितेन्द्रियः ।
तेनावस्तामिमां प्राप्तः पश्य ब्रह्मस्वगौरवम्
इत्युक्त्वा क्षत्रियगिरा ब्राह्मणार्थे रणानले ।
हुत्वा शरीरं चण्डालः प्राप पुण्यं पुनर्गतिम्
***** राजन्यचण्डालसंवादः ॥ 122 ॥ *****
नाना गतीः पुण्यकृतां भीष्मः पृष्टो महीभुजा ।
उवाच कर्मवैचित्र्यात्ते ते लोकाः शरीरिणाम्
गौतमेनाश्रमे पूर्वं शिशुर्हस्ती विवर्धितः ।
होमावशेषपयसा नीवारप्रसवेन च
ततो मदजलश्यामकपोलालीनषट्पदः ।
लीलालसः स कालेन बभूवाचलसंनिभः
इध्मदर्भफलाहारी निर्जराश्रमपालकः ।
मुनेः पुत्र इव प्रीत्या स बभूव महागजः
तं प्रवृद्धं तथा नागं स्वयमेत्य शतक्रतुः ।
जहार रूपमास्थाय धृतराष्ट्रस्य भूपतेः
पुनः पुनर्याच्यमानो मुनिना स यदा नृपः ।
न तत्याज गजं दर्पात्तदा तं गौतमो ऽवदत्
गत्वा यत्र शरीरान्ते नराः कालवशीकृताः ।
नन्दन्ति शोचन्त्यथवा तत्र दास्यसि मे गजम्
पापात्मानो विशस्यन्ते यत्र तैर्भ्रकुटीमुखैः ।
वैवस्वतसमादिष्टैस्तत्र दास्यसि मे गजम्
समाना भीरवः शूरा दुर्बला बलिनस्तथा ।
यत्र मुग्धा विदग्धाश्च तत्र दास्यति मे गजम्
धनदस्य पुरे रम्ये मेरौ वा नन्दने वने ।
धाम्नि शीतमयूखस्य सहस्रकिरणस्य वा
वरुणास्य सुरेन्द्रस्य सुरभीणां स्वयंभुवः ।
लोके वा दास्यसि गजं न तत्र बलवानसि
एतच्छ्रुत्वावदद्राजा नरकं यान्ति नास्तिकाः ।
नरा व्यामिश्रकर्माणः प्रयान्ति यममन्दिरम्
धनदस्य पुरं यान्ति व्रतिनो ऽतिथिपूजकाः ।
यष्टारो नन्दनं यान्ति दातारः सोममण्डलम्
खाध्यायिनः सूर्यलोकं नियतास्तीर्थसेविनः ।
यान्ति प्रशान्ताः संसारात्परं धाम स्वयंभुवः ।
नाहं क्वचिद्गमिष्यामि क्व नु दास्यामि ते गजम्
इत्युक्त्वा कुञ्जरं तस्मै दत्त्वा दिव्यां तथा गतिम् ।
स्वं वपुर्दर्शयित्वा च हसन्निन्द्रो ययौ दिवम्
***** हस्तिकूटीयम् ॥ 123 ॥ *****
सशरीरः पुरा राजा ब्रह्मलोकं भगीरथः ।
ययौ महीगोवृषदः कन्याग्रामपुरप्रदः
सदाचाराः सत्यवन्तो ज्येष्ठशुश्रूषवो नराः ।
गुरुपूजारताः क्षान्ता भवन्तीह शतायुषः
उपवासव्रतजुषां तिथिनक्षत्रयोगतः ।
नियमा दिव्यफलदा जगादेत्यङ्गिराः पुरा
श्रुत्वेति धर्मतनये देहि देहगतिं पुनः ।
प्रष्टुं समुद्यते साक्षाद्बृहस्पतिरथाययौ
स पूजितो मुनिवरैर्भीष्मेण विदुरेण च ।
धृताराष्ट्रेण कृष्णेन भेजे रत्नोज्ज्वलासनम्
युधिष्ठिरोर्ऽचयित्वा तं प्रयातो भीष्मशासनात् ।
पप्रच्छाचारसंसारमरणं देहदेहिनोः
ततो ऽब्रवीत्सुरगुरुः शरीरं पाञ्चभौतिकम् ।
पञ्चधा यातमुत्सृज्य स्वप्नवच्चेष्टते नरः
देहभङ्गे निरालोकं गत्वा देशमबान्दवम् ।
देही वासनया विद्धस्तत्तद्वेत्ति शुभाशुभम्
त्यक्त्वा कलेवरं जन्तुर्निर्मोकमिव पन्नगः ।
धर्माधर्मयुतो याति सामोद इव मारुतः
तत्तद्भुक्त्वा निराकारः कर्मपुर्यष्टकाशश्रयः ।
भूतैः समागमं याति पुनः शुक्रमुखाच्च्युतः
कर्मभिः शवलैस्तत्र मधुवल्लिप्यते पुनः ।
चक्रवत्पशुकोटीनां लिप्तो भ्राम्यति योनिषु
दत्त्वा च विपुलं दानं मोदते पुण्यवान्सुखी ।
अहिंसया याति दिवं तृष्णया कष्टमश्नुते
गृहीत्वा पतितो विप्रश्चिरं भवति गर्दभः ।
सूकरः कृकवाकुश्च जम्बुकः श्व स जायते
गुरोर्निकारं कृत्वा च भवति श्वा ततो वृकः ।
ततश्च रासभो घोरो नरकावर्तनिर्गतः
पित्रोः कृतापकारश्च श्वा कूर्मः शल्यकस्तथा ।
व्याडो दासश्च भवति क्रमात्कर्मक्षयावधि
भर्तृद्वेषी कपिर्भूत्वा मूषिकः श्वापि जायते ।
निक्षेपहर्ता दुःखाय भ्रान्त्वा योनिशतं शनैः
अमेध्यावर्तकलिले जायते कुत्सितः क्रिमी ।
परनिन्दारतः शार्ङ्गो मत्स्यो विश्वस्तगातकः
मृगश्छागो ऽथ कीटश्च क्रमाद्भवति दुष्कृती ।
सस्यहर्ता भवत्याखुः क्रोडः कौलेयकस्तथा
क्रव्यादजातिं विविधां भजते पारजायिकः ।
शूद्रो विप्रवधूं गत्वा क्रिमिराखुश्च जायते
कृतघ्नः कालपुरुषैर्नरकेष्वाहतो भृशम् ।
कृमिर्भूत्वा ततो गर्भशतेष्वन्तर्विपद्यते
कृमिस्त्रिःसप्तकृत्वश्च भवति भ्रूणहा नरः ।
मक्षिका भोजनहरो मूषिकश्च यवान्नहृत्
चीरी च ललनस्तेनो दधिहर्ता तथा बकः ।
वर्ही वर्णहरो रक्तवस्त्रहृज्जीवजीवकः
पिप्लस्तैलहरणात्फलस्तैन्यात्पिपीलकः ।
मिष्टान्नचौर्याद्धूकश्च वस्त्रचौर्यात्कपोतकः ।
छच्छुन्दरिर्गन्धहरी मत्स्यो भवति निह्नवी
एवं बहुविधैस्तैस्तैश्चित्रपाकैः कुकर्मभिः ।
तां तां तमोमयीं योनिं संसरन्ति शरीरिणः
***** संसारचक्रम् ॥ 124 ॥ *****
एवंविधानि पापानि प्रायाश्चित्तैर्विना नृणाम् ।
दानेन किल शाम्यन्ति दानं हि परमा गतिः
अन्नमेव परं प्राणा भूतानाममृतोद्गतिः ।
अन्नदानं महत्तस्मात्पात्रं यत्र न गण्यते
अन्नप्रदः सुधावर्षी जायते धनवान्सदा ।
श्रीमान्पुनर्ददान्यन्नं प्राक्संस्कारधियैव सः
लभते पुनरैश्वर्यमित्येव चक्रलीलया ।
परिवर्तिनि काले ऽस्मिन्पुण्यवान्नापचीयते
***** कालचक्रम् ॥ 125 ॥ *****
इत्युक्त्वा भगवान्साक्षात्पूज्यमानो महर्षिभिः ।
तेजोरञ्जितदिक्चक्रो दिवमाचक्रमे गुरुः
अहिंसालक्षणं धर्मं सर्वभूताभयप्रदम् ।
अजातशत्रुण पृष्टः पुनः शान्तनवो ऽब्रवीत्
अमांसभक्षणं नॄणामश्वमेधशतैः समम् ।
मांसं हि जायते घोरान्नान्यत्र वधपातकात्
मांसादेव समुत्पन्नं मांसं मांसमयो नरः ।
तुल्यव्यथे ऽस्मिन्संसारे भुञ्जानः किं न लज्जते
कण्टकेनापि संस्पृष्टा यान्ति कामपि विक्रियाम् ।
ते ऽपि शस्त्रनिकृत्तस्य पशोरश्नन्ति विग्रहम्
भयमाकम्पनं तीव्रं देहिनां देहसंक्षये ।
दृष्ट्वा को नाम मांसेभ्यः स्पृहां कुर्यादराक्षसः
अमांसाशी जगद्बन्धुः प्राणिनामभयप्रदः ।
प्रयाति निर्भयं धाम पुण्यकारुण्यसागरः
क्रतुर्निर्विघ्नसंभारस्तीर्थमध्वश्रमोञ्झितम् ।
अहिंसा नाम परमं व्रतमत्यक्तभोजनम्
***** अमांसभक्षणम् ॥ 126 ॥ *****
प्राणाः प्रियतराः पुंसां यैर्हुतास्ते रणानले ।
तद्गतिं कथयेत्युक्तो राज्ञा भीष्मो ऽवदत्पुनः
एवमेतत्प्रियाः प्राणा दुःखिनामपि देहिनाम् ।
शक्नोति कस्तान्सहसा त्युक्तं सत्त्ववतो विना
सर्वथा जीविताभ्रंशे भीरवो भयविक्लवाः ।
तृणाञ्चिते ऽपि नयने मीलयन्त्येव कातराः
पुरा शकटसंत्रासाद्विद्रुतं पथि कीटकम् ।
व्यासो विलोक्य पप्रच्छ सस्मितं ज्ञानलोचनः
अस्मिन्नपि शरीरे ते रक्षार्थं को ऽयमाग्रहः ।
तत्सर्वं मरणं मन्ये तव कुत्सितजीविनः
एतच्छ्रुत्वा मुनिवचस्तं कीटः प्रत्यभाषत ।
नास्ति कायसमं किंचिद्देहिनां वल्लभं विभो
कीटिकाप्रेमबद्धस्य सूक्ष्मकीटकपुत्रिणः ।
विवरान्तरगेहे मे शक्रस्येव सुखं दिवि
स्नेहस्यायतनं प्राणाः कः स्वयं त्यक्तुमीश्वरः ।
मुहूर्तमपि लभ्यन्ते नैते मेरुशतैरपि
शूद्रो ऽहं बहुभिः पापैः कीटयोनिमिमां श्रितः ।
पित्रोः शुश्रूषया किंतु मुने जातिं स्मराम्यहम्
तच्छ्रुत्वा करुणाम्भोधिर्भगवान्भूतभावनः ।
तस्मै नृपपदं व्यासो ददौ जन्मान्तरे क्रमात्
विप्रो ऽथ तद्गिरा भूत्वा स ययौ परमां गतिम् ।
आपत्सु महतामेव दर्शनं कल्पपादपः
तस्मादतिप्रियाः प्राणा यैस्त्यक्ताः संमुखैर्युधि ।
धैर्याब्धयस्ते त्रिदिवे स्पर्धन्ते विबुधाधिपम्
***** कीटकोपाख्यानम् ॥ 127 ॥ *****
विद्यायास्तपसो वापि दानाद्वा किं विशिष्यते ।
इति पृष्टः क्षितिभुजा बभाषे जाहनवीसुतः
वाराणस्यां पुरा व्यासो मैत्रेयेण निमन्त्रितः ।
भुक्त्वा प्रहृष्टः प्रोवाच कथान्ते तपसां निधिः
तेजः परं तपो नाम दिव्यमेव बलं तपः ।
पश्यन्ति सन्तस्तपसा ज्ञानं हि तपसः फलम्
अस्मिन्भवमहामोहतप्तो व्याप्ते जगत्त्रये ।
विद्यैव परमं चक्षुरक्षुण्णा लोककारणम्
किंतु सर्वमतीत्यैतद्दानमेव विशिष्यते ।
दानात्परं न संसारे देहिनां शर्म विद्यते
अन्नदानैः सुकृतिनः प्रयाताः परमं पदम् ।
मुनिप्राप्यमनायासलीलया सत्त्वशालिनः
अन्नं हविः सुधा पाणास्तद्दाता जीवितप्रदः ।
इत्युक्त्वा मुनिमामन्त्र्य जगाम मुनिपुंगवः
***** मैत्रेयभिक्षा ॥ 128 ॥ *****
पृष्टो ऽथ योषितां राज्ञा सदाचारः पितामहः ।
उवाच सततं स्त्रीणां सदाचारः सतीव्रतम्
कैकेयी सुमना नाम सुरलोकस्थितां पुरा ।
पप्रच्छ शाण्डिलीं दीप्ततेजःपुञ्जजितामराम्
सुभगे केन तपसा दानेन चरितेन वा ।
भासि दिव्यविमाने ऽस्मिन्ममूर्तेवांशुमतः प्रभा
कुतूहलेनेति तया पृष्टा प्रोवाच शाण्डिली ।
नाहं व्रतैर्न संन्यासैर्न दानेन दिवं श्रिता
पूजितः सततं भक्त्या मया दैवतवत्पतिः ।
न हि सन्तः प्रशंसन्ति तपः स्त्रीणामतः परम्
निष्कुटे द्वारि हर्म्ये वा राजमार्गावलोकिनी ।
नाभवं प्रोषिते वापि पत्यौ व्रतविवर्जिता
छायेवानपगा(नुगता) भर्तुः कोपे भीता हितैषिणी ।
भूत्वाहं त्रिदिवं प्राप्ता मनोवाक्कर्मभिः सती
इत्युक्त्वा शाण्डिली प्रायात्ततो निषधमुन्नतम् ।
तस्मात्सतीव्रतादन्यन्नारीणां न परायणम्
***** शाण्डिलीसुमनासंवादः ॥ 129 ॥ *****
अधिकं प्रीयते किंस्वित्साम्ना दानेन वा जनः ।
पृष्टो युधिष्ठिरेणेति पुनर्देवव्रतो ऽब्रवीत्
पुरा वने द्विजः कश्चिद्गृहीतो रक्षसा बलात् ।
सर्वोपायविहीनत्वात्साम्ना मुक्तिमचिन्तयत्
निशाचरस्तमवद्वञ्चनाय वधोद्यतः ।
पाण्डुरो दुर्बलश्चाहं केनैत्कथ्यतामिति
विप्रस्तमूचे नूनं ते दूरीभूतः सुहृज्जनः ।
निःसहायेन चाप्ता श्रीस्त्वया तेनासि पाण्डुरः
आराध्यमानो यत्नेन ते व्यक्तमनिमित्ततः ।
विरक्तः स्वजनो यासि तेन वा परिशुष्यसि
त्वत्तो हीनगुणानन्यान्व्यक्ते पश्यसि पूजितान् ।
ऐश्वर्यमानसुभगांस्तेन वा दुर्बलो भवान्
व्यक्तं त्यागी दरिद्रो ऽसि गुणैर्नूनं न पूज्यसे ।
प्राज्ञस्य ते न शृण्वन्ति साधुर्वा वञ्च्यसे खलैः
मूर्खो वा शास्त्ररसिको मानी हीनकुलो ऽसि वा ।
दुःखं स्वपिषि मन्ये ऽहं चिन्तया हरिणः कृशः
श्रुत्वैतदाशयग्राही ब्राह्मणोक्तं निशाचरः ।
प्रीतस्तत्याज तं साम्ना को हि सान्त्वैर्न तुष्यति
***** हरिमकृशीयम् ॥ 130 ॥ *****
कृष्णप्रभावं पृष्टो ऽत राज्ञा शान्तनवो ऽब्रवीत् ।
पुरा तपःस्थितं शौरिं मुनयो द्रष्टुमाययुः
ददृशुस्ते ततस्तत्र विष्णुवक्त्रोत्थिताग्निना ।
दग्धं वनं महत्पश्चात्तेनैवाप्यायितं दृशा
तद्दृष्ट्वा नारदमुखाद्दिव्यं बुबुधिरे परम् ।
तद्गिरा वैष्णवं धाम विप्लुष्टाचलशेखरम्
ततो नानाकथाख्यानकोविदः कैटभत्विषा ।
कथान्ते नारदः पृष्टः प्रस्तावोचितमभ्यधात्
पुरा हिमगिरौ गौरी धूर्जटेः किल लीलया ।
नेत्रे कराभ्यां पिदधे स तेनाभूत्त्रिलोचनः
तृतीयनयनोद्भूतवह्निना सो ऽभवद्गिरिः ।
प्लुष्यत्साललताजालज्वालावलयिताम्बरः
ततो गौरीगिरा चक्रे पुनर्गौरीगुरुं गिरिम् ।
स्मेरपुष्पलतावृक्षं दृशा शीतांशुशेखरः
तत्र पृष्टो बहुविधाः कथाः प्रणयलालसः ।
देव्या कथान्ते भगवानूचे धर्मार्थनिर्णयम्
प्रवृत्तानां सदाचारं वर्णाश्रमविभागजम् ।
निवृत्तानां च निःसङ्गक्रियानिर्वाणजं फलम्
ततः शशाङ्कचूडेन पृष्टा देवी मृगीदृशाम् ।
शशंस पुण्यं चरितं वराराधनदैवतम्
अथाब्रवीन्नीलकण्ठः पृष्टः सर्वैर्मुनीश्वरैः ।
कारणं परमं विष्णुं भूतानां प्रभवाप्यये
वसुदेवस्य तनयो भविष्यति हरिः क्षितौ ।
अंशावतीर्णो विबुधारातिसंहारतत्परः
स सूर्यः स च शीतांशु सो ऽहं स च चतुर्मुखः ।
सर्वदेवमयः शौरिः कंसकेशिनिषूदनः ।
उमापतेरपि पुरः श्रुतमस्माभिरीश्वरात्
एतच्छ्रुत्वा मुनिवचो द्वारकामेत्य केशवः ।
अवाप पुत्रं रुक्मिण्यां स्वेच्छासृष्टजगत्त्रयः
धन्यो ऽसि यस्य ते राजन्कमलावल्लभो विभुः ।
विश्वरक्षामणिः सो ऽयं गोप्ता गरुडलाञ्छनः
***** उमामहेश्वरसंवादः ॥ 131 ॥ *****
कथयित्वेति गाङ्गेये मुहूर्तं मौनमास्थिते ।
ऊचे मुनिसभामध्ये शनकैर्धर्मनन्दनः
दैवतं परमं शर्म किमेकं सर्वदेहिनाम् ।
कस्मिन्प्रतिष्ठितं विश्वं स्तुत्या मुक्तिप्रदश्च कः
इत्युक्ते धर्मपुत्रेण बभाषे जाह्नवीसुतः ।
मनसा पुण्डरीकाक्षं नत्वा विष्णुमनामयम्
अनन्तो भगवान्विष्णुर्देवदेवो जगत्प्रभुः ।
स्तुतो नामसहस्रेण मोक्षदो गरुडध्वजः
जगत्प्रतिष्ठितं तस्मिन्दैवतं परमं च सः ।
नाम्नां सहस्रं मुनयो यस्य गायन्ति मुक्तये
विश्वं विष्णुर्वषट्कारो भूतभव्यभवात्मनः ।
प्रभोर्भूतभृतो भूतभावनस्य भवच्छिदः
पत्युः पुंसः पुराणस्य क्षेत्रत्रेत्रज्ञसाक्षिणः ।
भुवः स्वयंभुवः शंभोर्विधातुर्वेधसो विधेः
हरेर्हिरण्यगर्भस्य श्रीपतोर्विश्वकर्मणः ।
वृषाकपेरमोघस्य सहस्राक्षस्य गोपतेः
सहस्रशिरसो विष्णोर्व्यापिनः प्रणवात्मनः ।
स्तोत्रं नामसहस्राङ्कं मन्त्रराजं प्रचक्षते
इत्युक्त्वा वैदिकैर्दिव्यैर्गौणमुख्यैश्च नामभिः ।
सहस्रसंख्यैस्तुष्टाव देव भीष्मः सनातनम्
श्रुत्वैतत्प्रयतः कृष्णं वन्दित्वा धर्मनन्दनः ।
प्रभावं भूमिदेवानां पप्रच्छ द्युनदीसुतम्
सो ऽवदद्ब्रह्मनिष्ठानां ब्राह्मणानां भयात्किल ।
उदेति सोमः सूर्यश्च प्रयाति च समीरणः
दत्तात्रेयवरावाप्तसहस्रभुजमुन्मदम् ।
कार्तवीर्यं पुरा प्राह वायुर्जितगत्त्रयम्
ब्राह्मणेभ्यः परो नास्ति राजेन्द्र बलवत्तरः ।
भवादृशा दृशा येषां भवन्ति न भवन्ति च
सोमपुत्र्या वृतः पूर्वमुत्तस्थे यादसां प्रभुम् ।
तत्काममपिबत्कोपाद्दयितामाजहार च
निर्जिताखिलगीर्वाणगन्धर्वा दानवाः पुरा ।
सृष्टो ऽत्रिणा शीतकरः शक्रं च च्यवनो ऽजयत्
सुराणां दैत्यसमरे रक्षिता तिमिरे पुरा ।
सृष्टो ऽत्रिणा शीतकरः शक्रं च च्यवनो ऽजयत्
इति ब्राह्मणमाहात्म्यं श्रुत्वा हैहयभूपतिः ।
अर्जुनो ऽपुजयन्नित्यं भूमिदेवानानन्यधीः
***** पवनार्जुनसंवादः ॥ 132 ॥ *****
अतः परं ब्राह्मणानां प्रभावं केशवो विभुः ।
जानाति नाभिनलिनस्वेच्छासृष्टचतुर्मुखः
इति भीष्मेण कथिते हृषीकेशं युधिष्ठिरः ।
पप्रच्छ विप्रमाहात्म्यं स च पृष्टस्तमभ्यधात्
पुराहं रौक्मिणेयेन पृष्टः शक्तिं द्विजन्मनाम् ।
अवदं तपसा येषां कम्पन्ते दैवतान्यपि
पुत्र सर्वप्रयत्नेन पूजय ब्राह्मणान्सदा ।
एते क्रोधप्रसादाभ्यां जीवयन्ति दहन्ति च
प्रतिश्रायर्थी दुर्वासाः पुरा दीप्ताक्षिमूर्धजः ।
उवास मद्गृहे तैस्तैः सेव्यमानः प्रियैर्मया
स भुक्त्वा पायसं तप्तमुच्छिष्टेन रुषा ज्वलन् ।
लिम्पाङ्गानीति मामाह तच्चास्म्यकरवं भयात्
रुक्मिणीं स रथे कृत्वा बभ्राम बहुयोजनम् ।
निर्विकारं च मां दृष्टाव तुतोष परुषाश्रयः
स मामूचे तवोच्छिष्टलिप्तं वज्रमयं वपुः ।
भविष्यति विना पादौ तौ निलिप्तौ यतस्त्वया
***** दुर्वाससो भिक्षा ॥ 133 ॥ *****
एतत्कृष्णवचः श्रुत्वा पार्थः शान्तनवात्पुनः ।
शुश्राव देवराजर्षिवंशान्कल्मषनाशनान्
कण्वैरभ्यवक्रीतवसिष्ठभृगुकश्यपान् ।
दुःष्यन्तरामनहुषालर्कश्वेतभगीरथान्
कथयित्वा क्षणं स्थित्वा तूष्णीं निःशब्दस ।
पुरं व्यासाज्ञया पार्थं विससर्ज सुरव्रतः
कृष्णेन सह कौन्तेयो भ्रातृभिश्च सहानुगैः ।
धृतराष्ट्रं पुरस्कृत्य प्रययौ हस्तिनापुरम्
पूज्यमानः सुरैर्दाता स्थित्वा तत्र युधिष्ठिरः ।
दृष्ट्वोत्तरं स संप्राप्तं पुनरायात्पितामहम्
सानुगः स समभ्येत्य गाङ्गेयं शरशायिनम् ।
प्रणम्य पाण्डवो ऽस्मीति निगद्य समुपाविशत्
मुनीन्द्रजुष्टे सदसि ब्रह्मलोक इवापरे ।
जाते निःशब्दसंचारे भीष्मवक्त्रावलोकिनि
शनैरुन्मील्य नयने पाण्डवान्वीक्ष्य सानुगान् ।
वाग्गमी गम्भीरमवदद्गाङ्गेयः पाण्डवाग्रजम्
काले दिष्ट्या भवान्प्राप्तः परिवृत्ते दिवाकरः ।
मासद्वयमतीतं मे निशातशरशायिनः ।
त्वामामन्त्र्य व्रजाम्येष पुत्र लोकान्सनातनान्
इत्युक्त्वा सत्यदुग्धाब्धिः किंचिदावृत्तकंधरः ।
उवाच विदुरस्याग्रे धृतराष्ट्रं पितामहः
राजन्विद्यामयं चक्षुरक्षुण्णां तव लक्ष्यते ।
मा गमः पुत्रशोकार्त्या मोहं कालो हि दुर्जयः
पुत्रवत्पश्य भूपालमनृशंसं युधिष्ठिरम् ।
प्रयातु शेषः काले ऽयं तव संतोषशालिनः
एतदुक्त्वा हृषीकेशं स्तुत्वा मूर्ध्ना प्रणम्य च ।
बभाषे भगवन्गन्तुमनुजानीहि मामिति
अथ कृष्णाभ्यनुज्ञातो निस्तरङ्ग इवोदधिः ।
मुहूर्तमभवद्भीष्मो दधानः प्राणधारणाम्
अन्तः स्पर्शरसात्तस्य गात्राणि त्यजतो बहिः ।
विशल्यानि शनैः सर्वे ददृशुर्विस्मयाकुलाः
स गलितसकलान्तःस्वान्तविश्रान्तिमूलोद्गतनिजबलशक्तिस्फोटिताशेषचक्रम् ।
वितततरलतारस्फारतेजःप्रकारप्रसृतमरुदुदञ्चन्मध्यनाडिक्रमेण
ललितदलसरोजप्रोच्चटज्जीवहंसो दृशमतिशशिसूर्यां भ्रूविभागे निवेश्य ।
गलितकरणवृत्तिग्रामनिःस्यनादलक्ष्यः सपदि किमपि भीष्मश्चिन्तयन्संबभूव
***** भीष्मोत्क्रान्तिः ॥ 134 ॥ *****
अथ ज्योतिस्तडित्पुञ्जरांशुशताचितम् ।
भित्त्वा भीष्मस्य मूर्धानं विवेश विमलं नभः
ततो ऽस्य रत्नाभरणैर्वासोभिः कुसुमैस्तथा ।
धर्मराजः सविदुरश्चक्रे वैमानिकं स्वयम्
छेत्त्रं तस्य यशः शुभ्रं युयुत्सुस्तूर्णमग्रहीत् ।
चामरे सत्त्वधवले भीमसेनार्जुनावपि
सबाष्पं भरतस्त्रीभिस्तालवृन्तानिलेन सः ।
वीज्यमानश्चितां प्राप श्रीखण्डागुरुकल्पिताम्
सजीव इव संलीने गाङ्गेये स्फारतेजसि ।
युधिष्ठिरमुखाश्चक्रुः साश्रुनेत्रा जलक्रियाम्
तत्र मन्दाकिनीतीरे विषण्णो राज्ञि सानुगे ।
जलमध्यात्समुत्तस्थौ जाह्नवी साश्रुलोचना
सा विह्वला शोकवती विषण्णैः परमर्षिभिः ।
व्यासनारदकण्वाद्यैर्मुहुरालोकितावदत्
हा पुत्र त्रिपुरारातिशिष्यस्य क्षत्रियद्विषः ।
जेता तस्यापि रामस्य निहतो ऽसि कथं परैः
अहो नु त्वयि कालेन याते ऽस्तं यशसां निधौ ।
शोच्येयं पृथिवी शून्या वीररत्नविना कृता
का नाम जननी पापा मद्विधान्या भविष्यति ।
निहतं त्वादृशं पुत्रं या श्रुत्वापि न दीर्यते
अहो बत वराकेण हतो भीष्मः शिखण्डिना ।
कुपितः कुञ्जरारातिर्जम्बुकेन निपातितः
इति प्रलापमुखरां जह्नुकन्यां जनार्दनः ।
शनैराश्वासयन्नूचे मेघगम्भीरनिःस्वनः
विज्ञातपरमार्थापि वसुशापे ऽपि साक्षिणी ।
सामान्यजननीव त्वं कथं देवि विमुह्यसे
न हि शान्तनवं भीष्मं त्रिपुरारिपराक्रमम् ।
हन्तुं शिखण्डिनः शक्तिर्विना कालाद्बलीयसः
स यातः परमं धाम स्वच्छन्दनिधनः स्वयम् ।
अशोच्यं मा शुचः पुत्रं को ऽन्यो जायेत तद्विधः
इति व्यासादिभिः सार्धं कृष्णेनाश्वासिता शनैः ।
निःस्यन्दमीनमकरा क्षणं मन्दाकिनी बभौ
ततो युधिष्ठिरमुखास्तां समामन्त्र्य सानुगाः ।
दुःखाकुला न्यवर्तन्त याते ऽस्तं वासरेश्वरे
मूल पाठ: Bhāratamañjarī 6-19 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0