भामति · अध्याय 9
परिणाममानसरूपा एव परिणामा दृष्टाः ।
यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः ।
यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः ।
न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति ।
नच हेमपण्डिपरिणामो भवति लूतातन्तुः ।
तत्कस्य हेतोः, अत्यन्तवैरूप्यात्. तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते ।
स्वविकारानश्रुत इति तदक्षरम् ।
ऽयः सर्वज्ञः सर्ववित्ऽ इति चाक्षरात्परात्परस्याख्यानं, ऽअक्षरात्परतः परःऽ इति श्रुतेः ।
नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृते ऽन्यदक्षरं संभवति ।
अतो यः प्रधानात्परः परमात्मा स सर्ववित् ।
भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च सांख्याभिमतमेवास्तु ।
अथ तथाप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रदीयते हि तेन विकाराजितमिति प्रधानं, तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् ।
ननु चिदात्मानिर्वाच्यः, विरूपो हि सः ।
अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।
स्यादेतत् ।
स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतो ऽस्य शङ्केत्यत आह- #अपिच पूर्वत्रादृटत्वादिति# ।
सति बाधके ऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः ।
तेन ऽतदैक्षतऽ इत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताविद्याशक्त्याश्रयत्वेन ।
इह त्वविद्याशक्तेरेव जगद्योनित्वसंभवे न द्वाराद्वारिभावो ययुक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः ।
अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः ।
अत्रोच्यते-ऽअक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरं ।
यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते
तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् ।
अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत्
अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता ।
अश्रुते यत्स्वकार्याणि ततो ऽव्याकृतमक्षरम्
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0