भामति · अध्याय 10
नेह तिरोहितमिवास्ति किञ्चित् ।
यत्तु सारूप्याबावान्न चिदात्मनः परिणामः प्रपञ्च इति ।
अद्धा ।
ऽविवर्तस्तु प्रपञ्चो ऽयं ब्रह्मणोपरिणामिनः ।
अनादिवासनोद्भूतो न सारूप्यमपेक्षते
न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति ।
आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् ।
अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते ।
अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति ।
तस्मात् परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया ।
तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात् ऽयत्तदद्रेश्यम्ऽ इत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।
न केवलं लिङ्गादपि तु ऽपरा विद्याऽ इति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याह- #अपिच द्वे विद्ये इति# ।
लिङ्गान्तरमाह #-कस्मिन्नु भवत इति# ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि ।
अवच्छिन्नो हि जीवात्मा बोग्येभ्यो विषयेब्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।
समाख्यान्तरमाह- #अपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति# ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः ।
अत एवादृढाः ।
के ते यज्ञरूपाः ।
रूप्यन्ते ऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः ।
ते तु षोडशर्त्विजः ।
ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः ।
एवं यजमानो ऽपि यज्ञोपाधिरेव ।
एवं पत्नी, ऽपत्युर्नो यज्ञसंयोगेऽ इति स्मरणात् ।
त एते ऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः ।
यदाश्रयो यज्ञ इत्यर्थः ।
तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् ।
अपियन्ति प्राप्नुवन्ति ।
#नहि दृष्टान्तदार्ष्टान्तिक्रयोः#इत्युक्ताभिप्रायम्
#विशेषणभेदव्.यपदेशाभ्यां च नेतरौ# ।
विशेषणं हेतुं व्याचष्टे- #विशिनष्टि हीति# ।
शारीरादित्युपलक्षणम्, प्रधानादित्यपि द्रष्टव्यम् ।
भेदव्यपदेशं व्याचष्टे- #तथा प्रधानादपीति# ।
स्यादेतत् ।
किमागमिकं सांख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आह- #नात्र प्रधानं नाम किञ्चिदिति#
#रूपोपन्यासाच्च# ।
तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टे- #अन्ये पुनर्मन्यन्त इति# ।
पुनःशब्दो ऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति ।
जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्संभवे नाकस्माज्जनकत्वकल्पनं युक्तम् ।
प्रकरणं खल्वेतद्विशष्वयोनेः, संनिधिश्च जायमानानाम् ।
संनिधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत् न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य विग्रहवत्त्वविरोधात् ।
न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम्, श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् ।
सिद्धे च प्रकरणिनासंबन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता ।
तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति सांप्रतम् ।
तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याह- #अस्मिन्पक्ष इति# ।
प्रकरणात्
#वैश्वानरः साधारणशब्दविशेषात्# ।
प्राचीन शालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसां चक्रुः- #को न आत्मा किं ब्रह्मेति# ।
आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति ।
ते च मीमांसमाना निश्चयमनधिगच्छन्तः कैकेयराजं वैश्वनरविद्याविदमुपसेदुः ।
उपसद्य चोचुः- #आत्मनमेवेमं वैश्वानरं संप्रत्यध्येषि#स्मरति #तमेव नो ब्रूहीत्युपक्रम्य द्युसूर्वाय्वाकाशवारिपृथिवीनामिति# ।
अयमर्थः-वैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः ।
चक्षुश्च विश्वरूपः सूर्यः ।
प्राणो वायुः पृथग्वर्त्मात्मा पृथक् वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावे यस्य स पृथग्वर्त्मात्मा ।
संदेहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् ।
बस्तिरेव रयिः
आपः, यतो ऽद्भ्यो ऽन्नमन्नाच्च रयिर्धनं तस्मादापो रयिरुक्तास्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् ।
पादौ पृथिवी तत्र प्रतिष्ठानात् ।
तदेवं वैश्वानरावयवेषु द्युसूर्यानिलाकाशजलावनिषु मूर्धचक्षुःप्राणसंदेहबस्तिपादेष्वेकैककस्मिन वैश्वानरबुद्ध्या विपरीततयोपासकानां प्राचीनशालादीनां मूर्धपातान्धत्वप्राणोत्क्रमणदेहशीर्णताबस्तिभेदपादश्लथीभावदूषणैरुपासनानां निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायते-ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानम्ऽ इति ।
स सर्वेषु लोकेषु द्युपभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहेन्द्रियमनोबुद्धिजीवेष्वन्नमस्ति ।
सर्वसंबन्धिफलमाप्नोतीत्यर्थः ।
अथास्य वैश्वानरस्य भोक्तुर्भोजनस्याग्निहोत्रतासंपिपादयिषयाह श्रुतिः- #उर एव वेदिः#वेदिसारूप्यात् ।
#लोमानि बर्हिः#आस्तीर्णब्रहिःसारूप्यात् ।
#हृदयं गार्हपत्यः# ।
हृदयानन्तरं #मनो ऽन्वाहार्यपचनः ।
आस्यमाहवनीयः# ।
तत्र हि तदन्नं हूयते ।
ननु ऽको न आत्मा किं ब्रह्मऽ इत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते ।
यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमे ऽवैश्वानरं ह वै भगवान् संप्रति वेद तं नो ब्रूहिऽ इत्यत्र नात्मशब्दौ स्तः, तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाजसनेयिवाक्यार्थो निश्चीयत ।
निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यतेष नानिश्चितार्थेन निश्चितार्थम् ।
कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव ।
नच द्युमूर्धत्वादिकं जाञरभूताग्निदेवताजीवात्मनामन्यतमस्यापि संभवति ।
नच सर्वलोकाश्रयफलभागिता ।
नच सर्वपाप्मप्रदाह इति पारिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरित्यमाशङ्का- #शब्दादिभ्यो ऽन्तः प्रतिष्ठानान्नेति चेदिति# ।
उच्यते-तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम् ।
अशक्यौ च वैश्वानराग्निशब्दावन्यथा नेतुमिति शङ्कितुरभिमानः ।
अपि चान्तःप्रतिष्ठतत्वं च प्रादेशमात्रत्वं च न सर्वव्यापिनो ऽपरिमाणस्य च परब्रह्मणः संभवतः ।
नच प्राणहुत्यधिकरणतान्यत्र जाठराग्नेर्युज्यते ।
नच गार्हपत्यादिहृदयादिता ब्रह्मणः संभविनी ।
तस्माद्यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, नतु ब्रह्म ।
तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ ।
मूर्धत्वादयश्च स्तुतिमात्रम् ।
अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात् द्युमूर्धत्वादय उपपद्यन्त इति शह्कितुरभिसंधिः ।
अत्रोत्तरम्- #न# ।
कुतः, #तथा दृष्ट्युपदेशात्# ।
अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति ।
न त्वत्र चरमत्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत्, तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो बारूप इतिवदुपपत्तेः ।
व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिःथ तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।
असंभवादिति सूत्रावयवं व्याचष्टे- #यदि चेह परमेश्वरो न विवक्ष्येतेति# ।
पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे- #यदि च केवल एवेति# ।
न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः ।
न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः ।
अत एष यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते ।
तथासति पुरुषे वैश्वानरदृष्टिपदिश्येत ।
एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदैश्यत इति भाष्यं विरुध्येत ।
श्रुतिविरोधश्च ।
ऽस यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य वैश्वनरत्ववेदनम् ।
तस्मात् ऽस एषो ऽग्निर्वैश्वानरो यत्ऽ इति यदः पूर्वेण संबन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम्
अत एव न देवता भूतं च ।
अत एवैतेब्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसंबन्धसर्वलोकाश्रयफलभागित्वसर्ंवपाप्मप्रदाहात्मब्रह्मब्रह्मपदोक्रमेभ्यो हेतुभ्य इत्यर्थः ।
ऽयो भानुना पृथिवीं द्यामुतेमाम्ऽ इति मन्त्रवर्णो ऽपि न केवलौष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरममीदृशं महिमानमाहग, अपि तु ब्रह्मविकारतया ताद्रूप्येणेति भावः
#साक्षादप्यविरोधं जैमिनिः# ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् संपाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति ।
अत्रावयवसंपत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषे ऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतित्वात्तदवयवानां समुददायिनाम् ।
अत्रैव निदर्शनमाह- #यथा वृक्षे शाखामिति# ।
शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।
समाधानान्तरमाह- #अथवेति# ।
अन्तःप्रतिष्ठत्वं माध्यास्थ्यं तेन साक्षित्वं लक्षयति ।
एतदुक्तं भवति-वैश्वानरःपरमात्मा चराचरसाक्षीति ।
पूर्वपक्षिणो ऽनुशयमुन्मूलयति- #निश्चिते चेति# ।
विश्वात्मकत्वात् वैश्वानरः प्रत्यागात्मा ।
विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य ।
विश्वे नरा जीवा वात्मानो ऽस्य तादात्मेनेति
#अभिव्यक्तेरित्याश्मरथ्यः# ।
साकल्येनोपलम्भासंभवादुपासकानामनुग्रहायानन्तो ऽपि परमेश्वरः प्रादेशमात्रमात्मनमभिव्यनक्तीत्याह- #अतिमात्रस्यापीति# ।
अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।
#उपासकानां कृते# ।
उपासकार्थमिति यावत् ।
व्याख्यान्तरमाह-प्रदेशेषु वेति
#संपत्तेरिति जैमिनिः# ।
मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः ।
तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्संपादयन्प्रादेशमात्रं वैश्वानरं दर्शयति
अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारः- #आमनन्ति चैनमस्मिन्# ।
अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः ।
तस्मिन्प्रतिष्ठितः परमात्मा, तादात्म्यात् ।
अत एव हि श्रुतिः-ऽअनेन जीवेनात्मनाऽ इति ।
अविद्याकल्पितं तु भेदमाश्रित्याधाराधेयभावः ।
वरणा भ्रूः ।
शेषमतिरोहितार्थम्
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0