भामति · अध्याय 8
#अदृश्यत्वादिगुणको धर्मोक्तेः ।
अथ परा यया तदक्षरमधिगम्यते# ।
यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः ।
अग्राह्यं कर्मेन्द्रियागोचरः ।
अगोत्रं कारणरहितम् ।
अवर्णं ब्राह्मणत्वादिहीनम् ।
न कैवलमिन्द्रियामामविषयः ।
इन्द्रियाण्यप्यस्य न सन्तीत्याह- #अचक्षुःक्षोत्रमिति# ।
बुद्धीन्द्रियाण्युपलक्षयति ।
अपाणिपादमिति कर्मेन्द्रियाणि ।
नित्यं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।
स्यादेतत् ।
नित्यं सत्किं परिणामि नित्यं, नेत्याह- #अव्ययम्# ।
कूटस्थनित्यमित्यर्थः ।
परिणामो विवर्तो वा सरूपस्योपलभ्यते ।
चिदात्मना तु सारूप्यं जडानां नोपपद्यते
जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् ।
योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0