भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 12.12

12.12.001

भ्प्_12.12.001।0 सूत उवाच
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान्

12.12.002

एतद् वः कथितं विप्रा विष्णोश् चरितम् अद्भुतम् ।
भवद्भिर् यद् अहं पृष्टो नराणां पुरुषोचितम्

12.12.003

अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरो हरिः ।
नारायणो हृषीकेशो भगवान् सात्वताम् पतिः

12.12.004

अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।
ज्ञानं च तद्-उपाख्यानं प्रोक्तं विज्ञान-संयुतम्

12.12.005

भक्ति-योगः समाख्यातो वैराग्यं च तद्-आश्रयम् ।
पारीक्षितम् उपाख्यानं नारदाख्यानम् एव च

12.12.006

प्रायोपवेशो राजर्षेर् विप्र-शापात् परीक्षितः ।
शुकस्य ब्रह्मर्षभस्य संवादश् च परीक्षितः

12.12.007

योग-धारणयोत्क्रान्तिः संवादो नारदाजयोः ।
अवतारानुगीतं च सर्गः प्राधानिको ऽग्रतः

12.12.008

विदुरोद्धव-संवादः क्षत्तृ-मैत्रेययोस् ततः ।
पुराण-संहिता-प्रश्नो महा-पुरुष-संस्थितिः

12.12.009

ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश् च ये ।
ततो ब्रह्माण्ड-सम्भूतिर् वैराजः पुरुषो यतः

12.12.010

कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः ।
भुव उद्धरणे ऽम्भोधेर् हिरण्याक्ष-वधो यथा

12.12.011

ऊर्ध्व-तिर्यग्-अवाक्-सर्गो रुद्र-सर्गस् तथैव च ।
अर्ध-नारीश्वरस्याथ यतः स्वायम्भुवो मनुः

12.12.012

शतरूपा च या स्त्रीणाम् आद्या प्रकृतिर् उत्तमा ।
सन्तानो धर्म-पत्नीनां कर्दमस्य प्रजापतेः

12.12.013

अवतारो भगवतः कपिलस्य महात्मनः ।
देवहूत्याश् च संवादः कपिलेन च धीमता

12.12.014

नव-ब्रह्म-समुत्पत्तिर् दक्ष-यज्ञ-विनाशनम् ।
ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः

12.12.015

नारदस्य च संवादस् ततः प्रैयव्रतं द्विजाः ।
नाभेस् ततो ऽनुचरितम् ऋषभस्य भरतस्य च

12.12.016

द्वीप-वर्ष-समुद्राणां गिरि-नद्य्-उपवर्णनम् ।
ज्योतिश्-चक्रस्य संस्थानं पाताल-नरक-स्थितिः

12.12.017

दक्ष-जन्म प्रचेतोभ्यस् तत्-पुत्रीणां च सन्ततिः ।
यतो देवासुर-नरास् तिर्यङ्-नग-खगादयः

12.12.018

त्वाष्ट्रस्य जन्म-निधनं पुत्रयोश् च दितेर् द्विजाः ।
दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः

12.12.019

मन्व्-अन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।
मन्व्-अन्तरावताराश् च विष्णोर् हयशिरादयः

12.12.020

कौर्मं मात्स्यं नारसिंहं वामनं च जगत्-पतेः ।
क्षीरोद-मथनं तद्वद् अमृतार्थे दिवौकसाम्

12.12.021

देवासुर-महा-युद्धं राज-वंशानुकीर्तनम् ।
इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः

12.12.022

इलोपाख्यानम् अत्रोक्तं तारोपाख्यानम् एव च ।
सूर्य-वंशानुकथनं शशादाद्या नृगादयः

12.12.023

सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।
खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च

12.12.024

रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।
निमेर् अङ्ग-परित्यागो जनकानां च सम्भवः

12.12.025

रामस्य भार्गवेन्द्रस्य निःक्षतृई-करणं भुवः ।
ऐलस्य सोम-वंशस्य ययातेर् नहुषस्य च

12.12.026

दौष्मन्तेर् भरतस्यापि शान्तनोस् तत्-सुतस्य च ।
ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशो ऽनुकीर्तितः

12.12.027

यत्रावतीऋणो भगवान् कृष्णाख्यो जगद्-ईश्वरः ।
वसुदेव-गृहे जन्म ततो वृद्धिश् च गोकुले

12.12.028

तस्य कर्माण्य् अपाराणि कीर्तितान्य् असुर-द्विषः ।
पूतनासु-पयः-पानं शकटोच्चाटनं शिशोः

12.12.029

तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोः ।
अघासुर-वधो धात्रा वत्स-पालावगूहनम्

12.12.030

धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः ।
गोपानां च परित्राणं दावाग्नेः परिसर्पतः

12.12.031

दमनं कालियस्याहेर् महाहेर् नन्द-मोक्षणम् ।
व्रत-चर्या तु कन्यानां यत्र तुष्टो ऽच्युतो व्रतैः

12.12.032

प्रसादो यज्ञ-पत्नीभ्यो विप्राणां चानुतापनम् ।
गोवर्धनोद्धारणं च शक्रस्य सुरभेर् अथ

12.12.033

यज्ञभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ।
शङ्खचूडस्य दुर्बुद्धेर् वधो ऽरिष्टस्य केशिनः

12.12.034

अक्रूरागमनं पश्चात् प्रस्थानं राम-कृष्णयोः ।
व्रज-स्त्रीणां विलापश् च मथुरालोकनं ततः

12.12.035

गज-मुष्टिक-चाणूर- कंसादीनां तथा वधः ।
मृतस्यानयनं सूनोः पुनः सान्दीपनेर् गुरोः

12.12.036

मथुरायां निवसता यदु-चक्रस्य यत् प्रियम् ।
कृतम् उद्धव-रामाभ्यां युतेन हरिणा द्विजाः

12.12.037

जरासन्ध-समानीत- सैन्यस्य बहुशो वधः ।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम्

12.12.038

आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।
रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः

12.12.039

हरस्य जृम्भणं युद्धे बाणस्य भुज-कृन्तनम् ।
प्राग्ज्योतिष-पतिं हत्वा कन्यानां हरणं च यत्

12.12.040

चैद्य-पौण्ड्रक-शाल्वानां दन्तवक्रस्य दुर्मतेः ।
शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः

12.12.041

माहात्म्यं च वधस् तेषां वाराणस्याश् च दाहनम् ।
भारावतरणं भूमेर् निमित्ती-कृत्य पाण्डवान्

12.12.042

विप्र-शापापदेशेन संहारः स्व-कुलस्य च ।
उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः

12.12.043

यत्रात्म-विद्या ह्य् अखिला प्रोक्ता धर्म-विनिर्णयः ।
ततो मर्त्य-परित्याग आत्म-योगानुभावतः

12.12.044

युग-लक्षण-वृत्तिश् च कलौ नॄणाम् उपप्लवः ।
चतुर्-विधश् च प्रलय उत्पत्तिस् त्रि-विधा तथा

12.12.045

देह-त्यागश् च राजर्षेर् विष्णु-रातस्य धीमतः ।
शाखा-प्रणयनम् ऋषेर् मार्कण्डेयस्य सत्-कथा ।
महा-पुरुष-विन्यासः सूर्यस्य जगद्-आत्मनः

12.12.046

इति चोक्तं द्विज-श्रेष्ठा यत् पृष्टो ऽहम् इहास्मि वः ।
लीलावतार-कर्माणि कीर्तितानीह सर्वशः

12.12.047

पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् ।
हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात्

12.12.048

सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमो ऽर्को ऽभ्रम् इवाति-वातः

12.12.049

मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः ।
तद् एव सत्यं तद् उ हैव मङ्गलं तद् एव पुण्यं भगवद्-गुणोदयम्

12.12.050

तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् ।
तद् एव शोकार्णव-शोषणं नृणां यद् उत्तमःश्लोक-यशो ऽनुगीयते

12.12.052

न यद् वचश् चित्र-पदं हरेर् यशो $ जगत्-पवित्रं प्रगृणीत कर्हिचित् &अम्प्;
तद् ध्वाङ्क्ष-तीऋथं न तु हंस-सेवितं % यत्राच्युतस् तत्र हि साधवो ऽमलाः ॥ भ्प्_12.12.051* ॥
तद् वाग्-विसर्गो जनताघ-सम्प्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि ।
नामान्य् अनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः

12.12.054

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं $ न शोभते ज्ञानम् अलं निरञ्जनम् &अम्प्;
कुतः पुनः शश्वद् अभद्रम् ईश्वरे % न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् ॥ भ्प्_12.12.053* ॥
यशः-श्रियाम् एव परिश्रमः परो वर्णाश्रमाचार-तपः-श्रुतादिषु ।
अविस्मृतिः श्रीधर-पाद-पद्मयोर् गुणानुवाद-श्रवणादरादिभिः

12.12.055

अविस्मृतिः कृष्ण-पदारविन्दयोः क्षिणोत्य् अभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्म-भक्तिं ज्ञानं च विज्ञान-विराग-युक्तम्

12.12.056

यूयं द्विजाग्र्या बत भूरि-भागा यच् छश्वद् आत्मन्य् अखिलात्म-भूतम् ।
नारायणं देवम् अदेवम् ईशम् अजस्र-भावा भजताविवेश्य

12.12.057

अहं च संस्मारित आत्म-तत्त्वं श्रुतं पुरा मे परमर्षि-वक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः सदस्य् ऋषीणां महतां च शृण्वताम्

12.12.058

एतद् वः कथितं विप्राः कथनीयोरु-कर्मणः ।
माहात्म्यं वासुदेवस्य सर्वाशुभ-विनाशनम्

12.12.059

य एतत् श्रावयेन् नित्यं याम-क्षणम् अनन्य-धीः ।
श्लोकम् एकं तद्-अर्धं वा पादं पादार्धम् एव वा ।
श्रद्धावान् यो ऽनुशृणुयात् पुनात्य् आत्मानम् एव सः

12.12.060

द्वादश्याम् एकादश्यां वा शृण्वन्न् आयुष्यवान् भवेत् ।
पठत्य् अनश्नन् प्रयतः पूतो भवति पातकात्

12.12.061

पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् ।
उपोष्य संहिताम् एतां पठित्वा मुच्यते भयात्

12.12.062

देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।
यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात्

12.12.063

ऋचो यजूंषि सामानि द्विजो ऽधीत्यानुविन्दते ।
मधु-कुल्या घृत-कुल्याः पयः-कुल्याश् च तत् फलम्

12.12.064

पुराण-संहिताम् एताम् अधीत्य प्रयतो द्विजः ।
प्रोक्तं भगवता यत् तु तत् पदं परमं व्रजेत्

12.12.065

विप्रो ऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् ।
वैश्यो निधि-पतित्वं च शूद्रः शुध्येत पातकात्

12.12.066

कलि-मल-संहति-कालनो ऽखिलेशो हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् ।
इह तु पुनर् भगवान् अशेष-मूर्तिः परिपठितो ऽनु-पदं कथा-प्रसङ्गैः

12.12.067

तम् अहम् अजम् अनन्तम् आत्म-तत्त्वं जगद्-उदय-स्थिति-संयमात्म-शक्तिम् ।
द्यु-पतिभिर् अज-शक्र-शङ्कराद्यैर् दुरवसित-स्तवम् अच्युतं नतो ऽस्मि

12.12.068

उपचित-नव-शक्तिभिः स्व आत्मन्य् उपरचित-स्थिर-जङ्गमालयाय ।
भगवत उपलब्धि-मात्र-धम्ने सुर-ऋषभाय नमः सनातनाय

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc