भागवत पुराण · अध्याय 12.13
स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावो $ ऽप्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् &अम्प्;
व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं % तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतो ऽस्मि ॥ भ्प्_12.12.069*
0 सूत उवाच
यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् $ वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः &
यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् $ वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः &
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो % यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ भ्प्_12.13.001* ॥
पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् $ निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः &
पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् $ निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः &
यत्-संस्कार-कलानुवर्तन-वशाद् वेला-निभेनाम्भसां % यातायातम् अतन्द्रितं जल-निधेर् नाद्यापि विश्राम्यति ॥ भ्प्_12.13.002* ॥
पुराण-सङ्ख्या-सम्भूतिम् अस्य वाच्य-प्रयोजने ।
दानं दानस्य माहात्म्यं पाठादेश् च निबोधत
ब्राह्मं दश सहस्राणि पाद्मं पञ्चोन-षष्टि च ।
श्री-वैष्णवं त्रयो-विंशच् चतुर्-विंशति शैवकम्
दशाष्टौ श्री-भागवतं नारदं पञ्च-विंशति ।
मार्कण्डं नव वाह्नं च दश-पञ्च चतुः-शतम्
चतुर्-दश भविष्यं स्यात् तथा पञ्च-शतानि च ।
दशाष्टौ ब्रह्म-वैवर्तं लैङ्गम् एकादशैव तु
चतुर्-विंशति वाराहम् एकाशीति-सहस्रकम् ।
स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम्
कौर्मं सप्त-दशाख्यातं मात्स्यं तत् तु चतुर्-दश ।
एकोन-विंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु
एवं पुराण-सन्दोहश् चतुर्-लक्ष उदाहृतः ।
तत्राष्टदश-साहस्रं श्री-भागवतं इष्यते
इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे ।
स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम्
आदि-मध्यावसानेषु वैराग्याख्यान-संयुतम् ।
हरि-लीला-कथा-व्राता- मृतानन्दित-सत्-सुरम्
सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् ।
वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम्
प्रौष्ठपद्यां पौर्णमास्यां हेम-सिंह-समन्वितम् ।
ददाति यो भागवतं स याति परमां गतिम्
राजन्ते तावद् अन्यानि पुराणानि सतां गणे ।
यावद् भागवतं नैव श्रूयते ऽमृत-सागरम्
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित्
निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा ।
वैष्णवानां यथा शम्भुः पुराणानाम् इदम् तथा
क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा ।
तथा पुराण-व्रातानां श्रीमद्-भागवतं द्विजाः
श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं $ यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते &अम्प्;
तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविस्कृतं % तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥ भ्प्_12.13.018* ॥
कस्मै येन विभासितो ऽयम् अतुलो ज्ञान-प्रदीपः पुरा $ तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा &
कस्मै येन विभासितो ऽयम् अतुलो ज्ञान-प्रदीपः पुरा $ तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा &
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् % तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ भ्प्_12.13.019* ॥
नमस् तस्मै भगवते वासुदेवाय साक्षिणे ।
य इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे
योगीन्द्राय नमस् तस्मै शुकाय ब्रह्म-रूपिणे ।
संसार-सर्प-दष्टं यो विष्णु-रातम् अमूमुचत्
भवे भवे यथा भक्तिः पादयोस् तव जायते ।
तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो
नाम-सङ्कीर्तनं यस्य सर्व-पाप प्रणाशनम् ।
प्रणामो दुःख-शमनस् तं नमामि हरिं परम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0