भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 12.11

12.11.001

भ्प्_12.11.001।0 श्री-शौनक उवाच
अथेमम् अर्थं पृच्छामो भवन्तं बहु-वित्तमम् ।
समस्त-तन्त्र-राद्धान्ते भवान् भागवत तत्त्व-वित्

12.11.002

तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः ।
अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः

12.11.003

तन् नो वर्णय भद्रं ते क्रिया-योगं बुभुत्सताम् ।
येन क्रिया-नैपुणेन मर्त्यो यायाद् अमर्त्यताम्

12.11.004

भ्प्_12.11.004।0 सूत उवाच
नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि ।
याः प्रोक्ता वेद-तन्त्राभ्याम् आचार्यैः पद्मजादिभिः

12.11.005

मायाद्यैर् नवभिस् तत्त्वैः स विकार-मयो विराट् ।
निर्मितो दृश्यते यत्र स-चित्के भुवन-त्रयम्

12.11.006

एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।
नाभिः सूर्यो ऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः

12.11.007

प्रजापतिः प्रजननम् अपानो मृत्युर् ईशितुः ।
तद्-बाहवो लोक-पाला मनश् चन्द्रो भ्रुवौ यमः

12.11.008

लज्जोत्तरो ऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः ।
रोमाणि भूरुहा भूम्नो मेघाः पुरुष-मूर्धजाः

12.11.009

यावान् अयं वै पुरुषो यावत्या संस्थया मितः ।
तावान् असाव् अपि महा- पुरुषो लोक-संस्थया

12.11.010

कौस्तुभ-व्यपदेशेन स्वात्म-ज्योतिर् बिभर्त्य् अजः ।
तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः

12.11.011

स्व-मायां वन-मालाख्यां नाना-गुण-मयीं दधत् ।
वासश् छन्दो-मयं पीतं ब्रह्म-सूत्रं त्रि-वृत् स्वरम्

12.11.012

बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले ।
मौलिं पदं पारमेष्ठ्यं सर्व-लोकाभयङ्-करम्

12.11.013

अव्याकृतम् अनन्ताख्यम् आसनं यद्-अधिष्ठितः ।
धर्म-ज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते

12.11.014

ओजः-सहो-बल-युतं मुख्य-तत्त्वं गदां दधत् ।
अपां तत्त्वं दर-वरं तेजस्-तत्त्वं सुदर्शनम्

12.11.015

नभो-निभं नभस्-तत्त्वम् असिं चर्म तमो-मयम् ।
काल-रूपं धनुः शार्ङ्गं तथा कर्म-मयेषुधिम्

12.11.016

इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् ।
तन्-मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थ-क्रियात्मताम्

12.11.017

मण्डलं देव-यजनं दीक्षा संस्कार आत्मनः ।
परिचर्या भगवत आत्मनो दुरित-क्षयः

12.11.018

भगवान् भग-शब्दार्थं लीला-कमलम् उद्वहन् ।
धर्मं यशश् च भगवांश् चामर-व्यजने ऽभजत्

12.11.019

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतो-भयम् ।
त्रि-वृद् वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम्

12.11.020

अनपायिनी भगवती शृईः साक्षाद् आत्मनो हरेः ।
विष्वक्षेनस् तन्त्र-मूर्तिर् विदितः पार्षदाधिपः ।
नन्दादयो ऽष्टौ द्वाः-स्थाश् च ते ऽणिमाद्या हरेर् गुणाः

12.11.021

वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् ।
अनिरुद्ध इति ब्रह्मन् मूर्ति-व्यूहो ऽभिधीयते

12.11.022

स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः ।
अर्थेन्द्रियाशय-ज्ञानैर् भगवान् परिभाव्यते

12.11.023

अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् ।
बिभर्ति स्म चतुर्-मूर्तिर् भगवान् हरिर् ईश्वरः

12.11.026

द्विज-ऋषभ स एष ब्रह्म-योनिः स्वयं-दृक् $ स्व-महिम-परिपूर्णो मायया च स्वयैतत् &अम्प्;
सृजति हरति पातीत्य् आख्ययानावृताक्षो % विवृत इव निरुक्तस् तत्-परैर् आत्म-लभ्यः ॥ भ्प्_12.11.024* ॥
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- $ राजन्य-वंश-दहनानपवर्ग-वीर्य &
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- $ राजन्य-वंश-दहनानपवर्ग-वीर्य &
गोविन्द गोप-वनिता-व्रज-भृत्य-गीत % तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ भ्प्_12.11.025* ॥
य इदं कल्य उत्थाय महा-पुरुष-लक्षणम् ।
तच्-चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम्

12.11.027

भ्प्_12.11.027।0 श्री-शौनक उवाच
शुको यद् आह भगवान् विष्णु-राताय शृण्वते ।
सौरो गणो मासि मासि नाना वसति सप्तकः

12.11.028

तेषां नामानि कर्माणि नियुक्तानाम् अधीश्वरैः ।
ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः

12.11.029

भ्प्_12.11.029।0 सूत उवाच
अनाद्य्-अविद्यया विष्णोर् आत्मनः सर्व-देहिनाम् ।
निर्मितो लोक-तन्त्रो ऽयं लोकेषु परिवर्तते

12.11.030

एक एव हि लोकानां सूर्य आत्मादि-कृद् धरिः ।
सर्व-वेद-क्रिया-मूलम् ऋषिभिर् बहुधोदितः

12.11.031

कालो देशः क्रिया कर्ता करणं कार्यम् आगमः ।
द्रव्यं फलम् इति ब्रह्मन् नवधोक्तो ऽजया हरिः

12.11.032

मध्व्-आदिषु द्वादशसु भगवान् काल-रूप-धृक् ।
लोक-तन्त्राय चरति पृथग् द्वादशभिर् गणैः

12.11.033

धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने ।
पुलस्त्यस् तुम्बुरुर् इति मधु-मासं नयन्त्य् अमी

12.11.034

अर्यमा पुलहो ऽथौजाः प्रहेतिः पुञ्जिकस्थली ।
नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम्

12.11.035

मित्रो ऽत्रिः पौरुषेयो ऽथ तक्षको मेनका हहाः ।
रथस्वन इति ह्य् एते शुक्र-मासं नयन्त्य् अमी

12.11.036

वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः ।
शुक्रश् चित्रस्वनश् चैव शुचि-मासं नयन्त्य् अमी

12.11.037

इन्द्रो विश्वावसुः श्रोता एलापत्रस् तथाङ्गिराः ।
प्रम्लोचा राक्षसो वर्यो नभो-मासं नयन्त्य् अमी

12.11.038

विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः ।
अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी

12.11.039

पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा ।
घृताची गौतमश् चेति तपो-मासं नयन्त्य् अमी

12.11.040

ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी

12.11.041

अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी ।
विद्युच्छत्रुर् महाशङ्खः सहो-मासं नयन्त्य् अमी

12.11.042

भगः स्फूर्जो ऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः ।
कर्कोटकः पूर्वचित्तिः पुष्य-मासं नयन्त्य् अमी

12.11.043

त्वष्टा ऋचीक-तनयः कम्बलश् च तिलोत्तमा ।
ब्रह्मापेतो ऽथ सतजिद् धृतराष्ट्र इषम्-भराः

12.11.044

विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्ज-मासं नयन्त्य् अमी

12.11.045

एता भगवतो विष्णोर् आदित्यस्य विभूतयः ।
स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने

12.11.046

द्वादशस्व् अपि मासेषु देवो ऽसौ षड्भिर् अस्य वै ।
चरन् समन्तात् तनुते परत्रेह च सन्-मतिम्

12.11.047

सामर्ग्-यजुर्भिस् तल्-लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् ।
गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसो ऽग्रतः

12.11.048

उन्नह्यन्ति रथं नागा ग्रामण्यो रथ-योजकाः ।
चोदयन्ति रथं पृष्ठे नैरृता बल-शालिनः

12.11.049

वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयो ऽमलाः ।
पुरतो ऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम्

12.11.050

एवं ह्य् अनादि-निधनो भगवान् हरिर् ईश्वरः ।
कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc