भागवत पुराण · अध्याय 12.10
भ्प्_12.10.001।0 सूत उवाच
स एवम् अनुभूयेदं नारायण-विनिर्मितम् ।
वैभवं योग-मायायास् तम् एव शरणं ययौ
भ्प्_12.10.002।0 श्री-मार्कण्डेय उवाच
प्रपन्नो ऽस्म्य् अङ्घ्रि-मूलं ते प्रपन्नाभय-दं हरे ।
यन्-माययापि विबुधा मुह्यन्ति ज्ञान-काशया
भ्प्_12.10.003।0 सूत उवाच
तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् ।
रुद्राण्या भगवान् रुद्रो ददर्श स्व-गणैर् वृतः
अथोमा तम् ऋषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम्
निभृतोद-झष-व्रातो वातापाये यथार्णवः ।
कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धि-दो भवान्
भ्प्_12.10.006।0 श्री-भगवान् उवाच
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये
अथापि संवदिष्यामो भवान्य् एतेन साधुना ।
अयं हि परमो लाभो नृणां साधु-समागमः
भ्प्_12.10.008।0 सूत उवाच
इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः ।
ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम्
तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः ।
न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च
भगवांस् तद् अभिज्ञाय गिरिशो योग-मायया ।
आविशत् तद्-गुहाकाशं वायुश् छिद्रम् इवेश्वरः
आत्मन्य् अपि शिवं प्राप्तं तडित्-पिङ्ग-जटा-धरम् ।
त्र्य्-अक्षं दश-भुजं प्रांशुम् उद्यन्तम् इव भास्करम्
व्याघ्र-चर्माम्बरं शूल- धनुर्-इष्व्-असि-चर्मभिः ।
अक्ष-माला-डमरुक- कपालं परशुं सह
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः ।
किम् इदं कुत एवेति समाधेर् विरतो मुनिः
नेत्रे उन्मील्य ददृशे स-गणं सोमयागतम् ।
रुद्रं त्रि-लोकैक-गुरुं ननाम शिरसा मुनिः
तस्मै सपर्यां व्यदधात् स-गणाय सहोमया ।
स्वागतासन-पाद्यार्घ्य- गन्ध-स्रग्-धूप-दीपकैः
आह त्व् आत्मानुभावेन पूर्ण-कामस्य ते विभो ।
करवाम किम् ईशान येनेदं निर्वृतं जगत्
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।
रजो-जुषे ऽथ घोराय नमस् तुभ्यं तमो-जुषे
भ्प्_12.10.018।0 सूत उवाच
एवं स्तुतः स भगवान् आदि-देवः सतां गतिः ।
परितुष्टः प्रसन्नात्मा प्रहसंस् तम् अभाषत
भ्प्_12.10.019।0 श्री-भगवान् उवाच
वरं वृणीष्व नः कामं वर-देशा वयं त्रयः ।
अमोघं दर्शनं येषां मर्त्यो यद् विन्दते ऽमृतम्
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः ।
एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः
स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः
न ते मय्य् अच्युते ऽजे च भिदाम् अण्व् अपि चक्षते ।
नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि
न ह्य् अम्-मयानि तीर्थानि न देवाश् चेतनोज्झिताः ।
ते पुनन्त्य् उरु-कालेन यूयं दर्शन-मात्रतः
ब्राह्मणेभ्यो नमस्यामो ये ऽस्मद्-रूपं त्रयी-मयम् ।
बिभ्रत्य् आत्म-समाधान- तपः-स्वाध्याय-संयमैः
श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः ।
शुध्येरन्न् अन्त्य-जाश् चापि किम् उ सम्भाषणादिभिः
भ्प्_12.10.026।0 सूत उवाच
इति चन्द्र-ललामस्य धर्म-गह्योपबृंहितम् ।
वचो ऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन्
स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् ।
शिव-वाग्-अमृत-ध्वस्त- क्लेश-पुञ्जस् तम् अब्रवीत्
भ्प्_12.10.028।0 श्री-मार्कण्डेय उवाच
अहो ईश्वर-लीलेयं दुर्विभाव्या शरीरिणाम् ।
यन् नमन्तीशितव्यानि स्तुवन्ति जगद्-ईश्वराः
धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् ।
आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च
नैतावता भगवतः स्व-माया-मय-वृत्तिभिः ।
न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा
सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः ।
गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्न-दृग् यथा
तस्मै नमो भगवते त्रि-गुणाय गुणात्मने ।
केवलायाद्वितीयाय गुरवे ब्रह्म-मूर्तये
कं वृणे नु परं भूमन् वरं त्वद् वर-दर्शनात् ।
यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत्
वरम् एकं वृणे ऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि
भ्प्_12.10.035।0 सूत उवाच
इत्य् अर्चितो ऽभिष्टुतश् च मुनिना सूक्तया गिरा ।
तम् आह भगवाञ् छर्वः शर्वया चाभिनन्दितः
कामो महर्षे सर्वो ऽयं भक्तिमांस् त्वम् अधोक्षजे ।
आ-कल्पान्ताद् यशः पुण्यम् अजरामरता तथा
ज्ञानं त्रै-कालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।
ब्रह्म-वर्चस्विनो भूयात् पुराणाचार्यतास्तु ते
भ्प्_12.10.038।0 सूत उवाच
एवं वरान् स मुनये दत्त्वागात् त्र्य्-अक्ष ईश्वरः ।
देव्यै तत्-कर्म कथयन्न् अनुभूतं पुरामुना
सो ऽप्य् अवाप्त-महा-योग- महिमा भार्गवोत्तमः ।
विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः
अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः ।
अनुभूतं भगवतो माया-वैभवम् अद्भुतम्
एतत् केचिद् अविद्वांसो माया-संसृतिर् आत्मनः ।
अनाद्य्-आवर्तितं नॄणां कादाचित्कं प्रचक्षते
य एवम् एतद् भृगु-वर्य वर्णितं रथाङ्ग-पाणेर् अनुभाव-भावितम् ।
संश्रावयेत् संशृणुयाद् उ ताव् उभौ तयोर् न कर्माशय-संसृतिर् भवेत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0